Digital Sanskrit Buddhist Canon

विंशतितमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Viṁśatitamaparivartaḥ


 



विंशतितमपरिवर्तः।



 



निष्पादितबुद्धक्षेत्रविशुद्धिनोपायकौशलेन सम्भारं परिपूर्य पश्चाद्यथाभव्यतया बुद्धकृत्यं स्वबुद्धक्षेत्रे करणीयमित्युपायकौशलं वक्तव्यम्। तत्रास्य विषयं प्रतिपादयितुं प्रश्नयन्नाह। प्रज्ञापारमितायामित्यादि। परिहारार्थमाह। इह सुभूत इत्यादि। रूपमिति तां धर्मतां धर्मतयेति तां शून्यतां धर्मतया शून्यतया रूपं वस्त्विति प्रत्यवेक्षमाणो यथा न समनुपश्येच्छून्यतां शून्यतास्वभावेनास्तीति यथा नोपलभते तथा प्रत्यवेक्षितव्यमिति यावत्। एतदुक्तम्। मायोपमः शून्यतादिरुपायकौशलविषय इति। कथं पुनरभ्यासेऽपि नाधिगच्छतीत्याह। यद्भगवन्नित्यादि। अस्य परिहारेणोपायकौशलप्रयोगं निर्दिशन्नाह। यतः सुभूत इत्यादि। सर्वाकारवरोपेतामिति दानाद्यविकलाम्। असमाहित एवेति। प्रज्ञापारमिता च महोपायकौशलात्मिका मया परिगृहीता भविष्यति। न च शून्यता साक्षात्कृतेत्यभिप्रायादेतन्निष्ठ एव शून्यतासमाधौ चित्तं धारयति। अत्र च मध्ये जिनजननीसामर्थ्यान्न परिहीयते बोधिपक्षैर्धर्मैः,न चाश्रवक्षयं कामभवाश्रवप्रहाणं सञ्चिन्त्य सत्त्वार्थं प्रतिजन्मप्रतिग्रहात् करोति शून्यतासमाध्यालम्बनादाश्रवक्षये च परिजयं करोतीत्यर्थः। एतदेव स्पष्टयन्नाह। यस्मिन् समय इत्यादि। कथमभ्यासेऽपि न साक्षात्कर्तव्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। एवमारूढकुशलेत्यादि। भूतकोटिं न साक्षात्करोतीति। एतदुक्तम्। सर्वाकारभावनापरिजयप्रत्यवेक्षासाक्षात्करणकालाकालज्ञानप्रयोगसामर्थ्यात्तस्मिन् समाधौ स्थितोऽपि न शून्यतामधिगच्छेदिति। उपायः पुनर्दशविधो भवति। तत्र तावत् प्रतिबन्धसमतिक्रमणेनान्तरायिकधर्मसमतिक्रमणोपायार्थमाह। तद्यथापि नामेत्यादि। तत्र शौर्यरूपगुणैर्मृदुमध्याधिमात्रैः यथाक्रममुपेतत्वात्परमशूरश्च भवेदित्यादि नवपदानि वाच्यानि। ग्रन्थार्थग्रहणसमर्थत्वान्मेधावी। करणपाटवाद्वचनसमर्थः। प्रश्नपरिहारात् प्रतिवचनसमर्थः। स्तम्भितत्वाभावात्प्रतिभानसम्पन्नः। स्वीकारार्थसम्पादनात्प्रतिपत्तिसम्पन्नः। हेयोपादेयत्वेन कालादीनां परिज्ञानात्कालदेशज्ञः,स्थानज्ञः। मुख्यतो धनुषि सुशिक्षितत्वादिष्ठस्त्रेषु परमगतिं गतः। बहूनां दृढानाञ्च प्रहरणानां निवारकत्वाद्बहुप्रहरणावरणो दृढप्रहरणावरणः। परावर्जनकराः कायादिविकाराः कलाः। चित्रकर्मादीनिशिल्पस्थानानि। स्मृतिमानित्यादि। सुगमम्। निर्वर्तनसामर्थ्यान्निस्तरणसमर्थः। केनचिदेव कारणसामग्रीयोगेनामित्राद्युपनिपातेन। चित्तवाक्कायविकारापादनाद्यथाक्रमं महाप्रतिभयं भीषणं रोमहर्षणम्। सर्वोपद्रवरहितत्वेन शान्त्या क्षेमेणापक्रमयिष्यामि। शरीरसौस्थित्यात्पुष्ट्या स्वस्तिना परिमोचयिष्यामि। एकद्रव्याभिलाषाद्वैरानुबन्धेन प्रत्यर्थिकाः। अमित्रपक्षपतिताः प्रत्यमित्राः। दयालुत्वादतिस्निग्धः। दाक्षिण्ययोगात्सानुक्रोशः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि भगवन्नित्यादि। कायचित्तपीडारहितत्वादक्षतोऽनुपहतः। दृष्टान्तमेवं निर्दिश्य दार्ष्टान्तिकार्थमाह। एवमेव सुभूते बोधिसत्त्व इत्यादि। तत्र सत्त्वेषु सुखसंयोगदुःखवियोगसुखाविश्लेषहितकरणाशयसमृद्धौ सपरिवाराः समाधयो यथाक्रमं मैत्रीकरणामुदितोपेक्षाः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा ह्यस्येत्यादि। एतदेव स्पष्टयन्नाह। यस्मिन् समय इत्यादि। मारपक्षं चातिक्रम्येत्यनेनान्तरायिकधर्मसमतिक्रमणोपायः सूचितः स्यात्। उपसंहरन्नाह। यस्मिन्नित्यादि। विभावितसर्वसमत्वेनाप्रतिष्ठितविहारोपायं कथयन्नाह। तद्यथापि नाम सुभूते पक्षीत्यादि। न च तत्रापि निश्रितो न च प्रतिष्ठित इति। आकाशस्यासत्त्वान्न तत्र बुद्ध्या निश्रितो नापि कायेन स्थितोऽथ च तस्मिन्नेव विहरतीत्यप्रतिष्ठितविहारोपायो ज्ञापितः स्यात्। दार्ष्टान्तिकार्थमाह। एवमेव सुभूते बोधिसत्त्व इत्यादि। प्रणिधानसमृद्ध्या पूर्वप्रणिधानानुवृत्त्युपायं निर्दिशन्नाह। तद्यथापि नाम सुभूते बलवानित्यादि। यावन्नाकांक्षेदित्यनेन प्रणिधानावेधमुपादायानुवृत्तिर्ज्ञापिता। प्रकृतार्थं बोधिसत्त्वे नियोजयन्नाह। एवमेव सुभूत इत्यादि। भावनाविशेषमार्गाभ्यां यथाक्रमं परिपक्वानि सुपरिपक्वानि। उपसंहरन्नाह। तस्मात्तर्हि सुभूत इत्यादि। स्वभ्यस्तसर्वदुष्करत्वेनासाधारणोपायं प्रतिपादयन्नाह। दुष्करकारको भगवन्नित्यादि । श्रुतचिन्ताभावनाभिर्यथाक्रमं शून्यतायां चरतीत्यादि योज्यम्। साधूक्तत्वेनानुवदन्नाह। एवमेतदित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। अमुमेवार्थं समर्थयन्नाह। यदा बोधिसत्त्व इत्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। तथा ह्यस्येत्यादि। न साक्षात्करोतीति। सर्वसत्त्वापरित्यागाशयसामर्थ्येन भूतकोटेरनधिगमादसाधारणोपायो ज्ञापितः स्यात्। सर्वधर्मानुपलम्भादसक्तोपायं वक्तुमाह। पुनरपरं सुभूते यदा बोधिसत्त्व इत्यादि। सत्त्वसंज्ञयेति। भावाभिनिवेशेन। न च परिहीयत इति। आस्वादनोपलम्भेन परिहाणिसम्भवान्मैत्र्यादिसर्वकुशलधर्मापरिहाणिवचनादनास्वादनोपायः सूचितः स्यात्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। उपायकौशल्यपरिगृहीतो हीत्यादि। शून्यताविमोक्षमुखत्वेनानुपलम्भोपायार्थमाह। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति। दीर्घरात्रममी सत्त्वा उपलम्भे चरन्तीत्यादि। शून्यतासमाधिविमोक्षसुखं समापद्यत इत्यादि। शून्यतासमाधिविमोक्षमुखभावनापरिपूरिगमनादनुपलम्भोपायः परिदीपितः। निमित्तानुपलम्भादनिमित्तोपायार्थमाह। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति। दीर्घरात्रममी सत्त्वा निमित्तसंज्ञयेत्यादि। अनिमित्तं समाधिविमोक्षमुखं समापद्यत इति। अनिमित्तसमाधिविमोक्षमुखभावनापरिपूरिगमनेनानिमित्तोपायो गदितः। प्रणिधानानुपलम्भेनाप्रणिधानोपायार्थमाह। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति। दीर्घरात्रममी सत्त्वा नित्यसञ्ज्ञयेत्यादि। अप्रणिहितं समाधिविमोक्षमिति। अप्रणिहितसमाधिविमोक्षमुखभावनापरिपूरिगमनेनाप्रणिधानोपायः सूचितः। शून्यतादीनां श्रावकादिसाधारणत्वेऽपि तदुपायविशेषणार्थमाह। यो हि कश्चित् सुभूते बोधिसत्त्व इत्यादि। तत्र शून्यतादित्रिविमोक्षमुखविपर्ययेणोपलम्भे चरिताविन इत्यादि त्रिधोक्तं तस्यैव च व्याख्यानं पिण्डसंज्ञायामित्यादिना यथाक्रमं कृतम्। शून्यतात इत्यादावाद्यादित्वेन सप्तम्यन्तात्तसिः। एतदुक्तम्। कृपादियोगादेवं ज्ञानधर्मसमन्वागतो बोधिसत्त्वः शून्यतादौ यतेदित्यस्थानमेतदिति। प्रश्नपूर्वकावैवर्तिकधर्मकथनेनावैवर्तिकलिङ्गोपायार्थं प्रश्नं कर्तुं शिक्षयन्नाह। एवं हि बोधिसत्त्व इत्यादि। व्यतिरेकमुखेन निर्दिशन्नाह। सचेदित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। यो ह्यसावित्यादि। तत्रावेणिको धर्मः सर्वसत्त्वापरित्यागस्तं श्रुतचिन्ताभावनामयज्ञानोत्पादनार्थं यथाक्रमं न सूचयति,न प्रभावयति,नोपदर्शयति,यतो न प्रजानाति परिपृष्टो न व्याकरोति न विसर्जयतीति यथासंख्यं योज्यम्। तां भूमिमित्युपायकौशल्यम्। अन्वयमुखेन प्रतिपादयितुं काक्वा प्रश्नयन्नाह। स्यात्पुनर्भगवन्नित्यादि। तथैव परिहरन्नाह। स्यात्सुभूते इत्यादि। एवं प्रतिपद्येतेत्यादि। उपायकौशल्यं सर्वसत्त्वापरित्यागश्चाभ्यसनीय इत्यवगच्छेत्। एवं विसर्जयेदिति। परैः पृष्टस्यावैवर्तिकाधिगमानुरूपव्याकरणाव्याकरणाभ्यामवैवर्तिकानवैवर्तिकभावधारणेनावैवर्तिकलिङ्गोपायः सूचितः स्यात्। सर्वविषयज्ञानत्वेनाप्रमाणविषयोपायार्थं चाह। तेन हि भगवन्नित्यादि। असंहार्यां इति। तेषां बोधिसत्त्वानामसंहार्यत्वेनोपायस्य विषयाप्रमाणता ज्ञापिता भवेत्। तदेवं विषयप्रयोगाभ्यां समन्वागतं यथोक्तमेव दशविधमुपायकौशलं ग्राह्यम्। तथा चोक्तम्।



 



विषयोऽस्य प्रयोगश्च शात्रवाणामतिक्रमः।



अप्रतिष्ठो यथावेधमसाधारणलक्षणः॥६२॥



असक्तोऽनुपलम्भश्च निमित्तप्रणिधिक्षतः।



तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम्॥६३॥ इति



 



कः पुनस्त्रिसर्वज्ञायाः सर्वाकाराभिसम्बोधस्य च विशेषः। प्रतिनियताकारविषयास्तिस्रः सर्वज्ञता यथोक्तेनाकारप्रतिनियमेन,समस्ताकारविषयस्तु सर्वाकाराभिसम्बोध इति केचित्। लाक्षणिकं त्रिसर्वज्ञताव्यवस्थानं प्रायोगिकस्तु सर्वाकाराभिसम्बोध इत्यन्ये। विपक्षप्रतिपक्षव्यवस्थानप्रभावितः सर्वाकाराभिसम्बोधस्त्रिसर्वज्ञतास्तु न चैवं प्रकृतिशान्ताकारत्वादित्यपरे। समाप्तः सर्वाकाराभिसंबोधः॥



 



प्राप्तसर्वाकाराभिसम्बोधस्येदानीं प्रकर्षपर्यन्तोऽधिगम इति मूर्धाभिसमयो वक्तव्यस्तत्र लिङ्गं तावदस्याभिधानीयं येनासौ लिङ्न्यते। ततः स्वप्नावस्थायामप्यत्यभ्यासात्स्वप्नसदृशसर्वधर्मे क्षणं प्रथमं लिङ्गं वक्तुमाह। सचेत्पुनः सुभुते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपीत्यादि। एतदुक्तम्। एवं प्रज्ञोपायपरिगृहीता बोधिसत्त्वस्य योगधर्मभावनामूर्धप्राप्ता यत् स्वप्नान्तरेऽप्यस्य योगविदर्शनामनस्कारास्तथाभूतधर्मा साक्षात्करणेन सत्त्वधातुसापेक्षा एव प्रवर्तन्त इति। द्वितीयश्रावकादिभूमिस्पृहाचित्तानुत्पादनलिङ्गार्थमाह। पुनरपरं सुभूत इत्यादि। तत्रापूर्वप्राप्त्यभिलाषः स्पृहा। प्राप्तावियोगेच्छा अनुशंसा चित्तम्। तृतीयतथागतादिदर्शनलिङ्गार्थमाह। अनेकशतायाः पर्षद इत्यादि। चतुर्थबुद्धर्द्धिविकुर्वितोपलब्धिलिङ्गार्थमाह। वैहायसमभ्युद्गम्येत्यादि। पञ्चमस्वप्नोपमधर्मदेशनाचित्तोत्पादलिङ्गार्थमाह। बोधिसत्त्वो महासत्त्वो नोत्रस्यतीत्यादि। षष्ठबुद्धक्षेत्रोपायप्रहाणानुस्मरणलिङ्गार्थमाह। नैरयिकान् सत्त्वानित्यादि। किमिदमपायविशुद्धिर्लक्षणं नामेति प्रश्नयन्नाह। तत्र सुभूते कथमित्यादि। परिहरन्नाह। सचेत्सुभूते बोधिसत्त्व इत्यादि। सप्तमनगरादिदाहप्रशमनसत्याधिष्ठानसमृद्धिलिङ्गार्थमन्वयमुखेनाह। नगरदाहे वेत्यादि। मृदुमध्याधिमात्रभेदेनापगमाद्यथाक्रममुपशाम्यतु शीतीभवतु अस्तं गच्छत्विति योज्यम्। व्यतिरेकमुखेनापि कथयन्नाह। सचेन्नोपशाम्यतीत्यादि। उभयथापि निर्दिशन्नाह। सचेत्पुनरित्यादि। कर्म विपच्यत इति। सद्धर्मप्रत्याख्यानम्। दृष्टधर्मसंवर्तनीयमेव कर्म सत्याधिष्ठानानिष्पत्तेर्दौर्मनस्यादि नानुभूयते। तत एवेति। जन्मान्तरसङ्गृहीतात्। अष्टमयक्षाद्यमनुष्यापगमसत्यवाक्यनिष्पत्तिलिङ्गार्थं व्यतिरेकमुखेनाह। पुनरपरं सुभूते यैराकारैरित्यादि। तत्र स्वयं प्रवेशाद्गृहीतः सामर्थ्याधानेन कायादिविकारापादनादाविष्टः। सर्वाकारज्ञतादिपञ्चविधाभिसमयेन सर्वपदार्थावगमाद्यथाक्रममज्ञातमित्यादीनि पञ्चपदानि नेति पूर्वेण योज्यानि। अन्वयमुखेनापि कथयन्नाह। सचेत्पुनः सुभूत इत्यादि।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project