Digital Sanskrit Buddhist Canon

ऊनविंशपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Ūnaviṁśaparivartaḥ


 



ऊनविंशपरिवर्तः



 



संवृत्याप्यर्थक्रियाविशिष्टार्थप्रतिभासिचित्तजननद्वारेण न घटत इत्याशङ्कयन्नाह। किं पुनर्भगवन्नित्यादि। एकैकस्मिंश्चित्ते पूर्वापरीभूते बुद्धबोधिनिष्पादकसर्वाकारज्ञतादिसमस्तार्थाप्रतिभासनान्नैवैकैकेन प्रथमेन चित्तोत्पादेन पश्चिमेन वा बोधिमभिसंबुध्यते बोधिसत्त्व इत्यर्थः। एकविज्ञानसन्ततयः सत्त्वा इति वचनादसम्भवित्वेन किं युगपदुत्पन्नसमीहितार्थनिष्पादकधर्मप्रतिभासेनानेकचित्तक्षणेन बोधिमभिसम्बुध्यत इति पक्षो नाशंकितः। विदितानुत्तरबुद्धबोधिनिष्पादकधर्मस्वरूपेण क्रमोत्पत्त्युपपन्नपूर्वापरीभूतानेकचित्तक्षणेन बोधिमभिसम्बुध्यत इत्ययमपि पक्षो न संगच्छत इत्याह। पौर्वको भगवन्नित्यादि। असमवहित इति। पश्चिमप्रथमयोर्यथाक्रमं निरन्वयोदयविनाशेन परस्परमसम्बन्धादसंश्लिष्टः। कथमिति। सम्बन्धाभावाद्विशिष्टार्थप्रतिभासिचित्तानुत्पादान्नैव कुशलमूलानामुपचयो भवति। ततो नानुत्तरा सम्यक्संबोधिरिति भावः। पूर्वोक्तपक्षस्यानभिमतत्वात् पश्चिमपक्षे प्रसिद्धदीपदृष्टान्तयोगेन परिहारार्थमाह। तत् किं मन्यस इत्यादि। तैलप्रद्योतस्येति। प्रदीपस्य। प्रथमाभिनिपातेनेति। प्रथमक्षणमीलितेन। नो हीदमिति प्रत्येकमसामर्थ्यादुक्तम्। तदेव स्पष्टयन्नाह। नहि भगवन्नित्यादि। प्रथमे ज्वालावर्त्योर्मीलनक्षणे द्वितीयक्षणमन्तरेण स्वकारणपरम्पराक्रमायातसमानकालसंहतोत्पत्त्यविशिष्टत्वात्। कार्यकारणलक्षणदाह्यदाहकभावानुपपत्तौ नार्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा। पश्चिमेनैव दीपक्षणेन तर्हि दग्धेति चेदाह। न च प्रथमाभिनिपातमनागम्यार्चिषा सा वर्तिर्दग्धेति। अपि तु प्रथमं दीपक्षणमपेक्ष्यार्चिषा पश्चिमेन सा वर्तिर्दग्धा। प्रथमक्षणमन्तरेण पश्चिमक्षणासम्भवात्। प्रथमक्षणवत्पश्चिमक्षणस्यापि नय इत्याह। न च भगवन्नित्यादि। द्वितीयेऽपि विशिष्टज्वालावर्त्योरुत्पत्तिक्षणे प्रथमक्षणमन्तरेण नित्यसत्त्वादिप्रसङ्गतया संवृत्युत्पादाभावात्कार्यकारणलक्षणदाह्यदाहकभावविरहे पश्चिमाभिनिपातेनार्चिषा न सा वर्तिर्दग्धा। प्रथमेनैव तर्हि दीपक्षणेन दग्धेति चेदाह। न च पश्चिमेत्यादि। अपि तु पश्चिमं दीपक्षणमपेक्ष्यार्चिषा पूर्वेण वर्तिर्दग्धा। पश्चिमक्षणमन्तरेण प्रथमक्षणस्य दाहेऽसामर्थ्यात्। प्रत्येकमसामर्थ्येऽर्थादुभयोरभ्युपगतसामर्थ्यस्याहत्यप्रतिपादनार्थं पुनरपि प्रश्नयन्नाह। तत्किं मन्यसे सुभूतेऽपि नु सा वर्त्तिर्दग्धेति। अभ्युपगतार्थस्यान्यथाकर्तुमशक्यत्वादाह। दग्धा भगवन्नित्यादि। यदि नाम पूर्वोत्तरक्षणयोर्यथाक्रमं तुल्यकालनिरन्वयविनाशोदयात् परस्परासंसृष्टत्वं,तथापि यदा संहतविशिष्टोत्पन्नं प्रथमदीपवर्तिक्षणमिदं प्रत्ययतात्मकप्रतीत्यसमुत्पादधर्मतया समपेक्ष्याविचारैकरम्यत्वेन हेतुफलसम्बन्धबलात्तदाहितसामर्थ्यातिशय एव विशिष्टो द्वितीयदीपवर्तिक्षणः स्यात्,तदा निर्हेतुकविनाशेऽपि कार्यकारणलक्षणदाह्यदाहकभावसद्भावात् प्रथमपश्चिमक्षणाभ्यां वर्तिर्दग्धेत्यर्थः। अनन्तरमर्थं प्रकृतार्थेन योजयन्नाह। एवमेवसुभूत इत्यादि। सुबोधम्। पूर्वापरीभूताभ्यां प्रत्येकमनभिसम्बोधिर्युगपदुत्पन्नैस्तर्ह्यभिसम्बुध्यत इति चेदाह। न च तैश्चित्तोत्पादैरिति। युगपदुत्पन्नैरपि बहुभिश्चित्तक्षणैर्नाभिसम्बुध्यते। एकविज्ञानसन्ततयः सत्त्वा इति वचनादसंभवित्वेनेति भावः। अन्यथा तर्हि बुध्यत इति चेदाह। न चान्यत्र तेभ्यश्चित्तोत्पादेभ्योऽभिसंबुध्यत इति। यथोक्तचित्तव्यतिरेकेण चित्तान्तरेण नाभिसम्बुध्यते,असंभवात् सर्वथा तर्हि बोध्यसम्भवः स्यादित्याह। अभिसम्बुध्यते चेत्यादि। पूर्वापरीभूतक्षणयोरेकविषयोपयोगज्ञापनपरेण दीपदृष्टान्तन्यायेन बोधिनिष्पादककतिपयपदार्थप्रतिभासि प्रथमविज्ञानं पूर्ववत्प्रतीत्य तत्प्रतिभासाभ्यधिकविशिष्टार्थप्रतिभासिपश्चिमविज्ञानोदयादाभ्यां चित्तोत्पादाभ्यामभिसम्बुध्यते। बोधिसत्त्वोऽनुत्तरां बोधिमित्यर्थः। यथोक्तेनैव च दीपदृष्टान्तेनाष्टप्रकारा गम्भीरधर्मता प्रतिसर्तव्या। तथा चोक्तम्।



 



पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा।



दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा॥५८॥ इति।



 



प्रसङ्गागतं निर्दिश्येदानीं भावनामार्गस्थबोधिसत्त्वानामवैवर्तिकलक्षणकथनाय यस्मिन् विषयेऽष्टविधगाम्भीर्यं तद्वक्तव्यमित्युत्पादगाम्भीर्यं तावत्कथयन्नाह। गम्भीरोऽयं भगवन्नित्यादि। अभिसंबुध्यते चेत्यादिना संवृत्या क्षणद्वयेन बोध्यधिगमोऽभ्युपगतः। सोऽपि न युक्त इत्याह। तत्किं मन्यस इत्यादि। यच्चित्तं प्रथमक्षणवर्ति निरुद्धमपि नु तत्किं द्वितीयक्षणे संवृत्या पुनरुत्पत्स्यते,यतः क्षणद्वयेन बोधिर्युक्ता स्यात्। निरवयवविनष्टस्य पुनरुत्पादासम्भवादाह। नो हीदमिति। हेतुमन्तरेण फलासम्भवात् पश्चिमक्षणव्यापारेऽपि पारम्पर्येण प्रथमक्षणव्यापारोपचारात् क्षणद्वयेन बोधिर्युक्ता न तु संवृत्यापि प्रथमक्षणस्य मुख्यतो व्यापार इत्यर्थः। ततश्चेदमुक्तं स्यात्। न पूर्वापरक्षणाभ्यां न च भावनागम्य विशिष्टार्थोत्पादनमिदमुत्पादगाम्भीर्यमिति। निरोधागाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूते यच्चित्तमुत्पन्नमपि नु तन्निरोधधर्मीति। तत्रोत्पन्नमतीतं विनष्टसत्ताकमिति यावत्। तत्त्वेन निरोधरूपत्वादाह। निरोधधर्मीति। निरोधः शून्यता स एव धर्मोऽस्य विद्यत इति निरोधधर्मि। तथतात्मकमित्यर्थः। तस्य किं द्वितीये क्षणे निरोध इत्याह। तत् किं मन्यसे यन्निरोधधर्मि अपि नु तन्निरोत्स्यत इति। उत्पन्नमात्रमेव तन्निरोधग्रासतां गतं तत्प्रकृतित्वात् किं पुनर्निरोत्स्यत इत्यभिप्रायादाह। नो हीदं भगवन्निति। अनागतं किं निरोधधर्मोपेतमित्याह। तत्किं मन्यसे सुभूते यच्चित्तमनुत्पन्नमपि नु तन्निरोधधर्मीति। नो हीदमिति। भावनिवृत्तिस्वभावत्वाद्विनाशस्य नैवानुत्पन्नं निरोधधर्मि। तस्य किं निरोधोऽस्ति क्षणान्तर इत्याह। तत् किं मन्यसे सुभूते यन्निरोधधर्मि अपि नु तन्निरोत्स्यत इति। नो हीदमिति। प्रथमक्षणाभावेन द्वितीयक्षणनिरोधविरहान्नैव क्षणान्तरे निरोत्स्यते। वर्तमानस्य तर्हि निरोध इति चेदाह। तत्किं मन्यसे सुभूते यच्चित्तमनुत्पादानिरोधधर्मि अपि नु तन्निरोत्स्यत इति। वर्तमानमपरोत्पादवैयर्थ्यादनुत्पादधर्मि। सत्ताकाले विनाशाभावादनिरोधधर्मि। नो हीदमिति। एकानेकस्वभाववैधुर्यादिति मतिः। यद्येवमभावस्तर्हि निरुध्यत इत्याह। तत् किं मन्यसे सुभूते। यो धर्मः प्रकृत्या स्वभावनिरुद्ध एव स धर्मो निरोत्स्यत इति। स्वरूपेण स्वभावनिरुद्धो रूपादिस्वभावरहितो यो धर्मोऽभावसञ्ज्ञकः स एव धर्मः किं निरोत्स्यते। नो हीदमिति। अनन्तरं त्रैयध्विकवस्तुनिरोधनिराकरणादविद्यमानत्वेनाभावो नैव निरुध्यते। मायोपमता तर्हि निरुध्यत इत्याह। तत् किं मन्यसे सुभूते या धर्माणां धर्मता सा निरोत्स्यत इति। नो हीदं भगवन्निति। धर्मताऽविचारैक रम्यताऽलीकरूपत्वात्तत्वेन नैव निरुध्यते। किन्तु सर्वस्यैवोत्पन्नस्य वस्तुनः प्रकृत्या मायोपमस्य संवृत्या निरोधान्निरोधगाम्भीर्यमित्युच्यते। तथतागाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूते तथैव स्थास्यति यथा तथतेति। बोधिसत्त्व इति शेषः। अविकल्पज्ञानविषयोपेतत्वादाह। तथैव भगवन् स्थास्यति यथा तथतेति। त्रैयध्विकबोधिसत्त्वानां तथतावदवस्थानेऽनित्या तथता स्यादिति चेदाह। तत् किं मन्यसे सुभूते यदि तथैव स्थास्यति यथा तथता तदा मा कूटस्थाभूदिति। अकारप्रश्लेषादकूटस्थाऽनित्यामाभूत्,अपि तु नित्या कूटस्था स्यादिति किं मन्यसे।



 



यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।



 



इति वचनात् सांवृतक्षणिकपदार्थस्वभावत्वादाह। नो हीदमिति। पदार्थरूपत्वान्नैव तर्हि गम्भीरेति चेदाह। तत् किं मन्यसे सुभूते गम्भीरा तथतेति। गम्भीरा भगवन्निति। रूपादिपदार्थावगमेऽपि तदव्यतिरिक्ता साक्षात्कर्तुमशक्यत्वात्तथता गम्भीरा दुर्बोधेति यावत्। ज्ञेयगाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूते तथतायाञ्चित्तमिति। तथतायामाधारभावस्याविद्यमानत्वादाह। नो हीदमिति। तथताऽव्यतिरिक्तं तर्हि चित्तं स्यादित्याह। तत् किं मन्यसे सुभूते चित्तं तथतेति। नो हीदमिति। संवृतिपरमार्थयोः परस्परपरिहाराच्चित्तं तथता नैव। अर्थादन्यचित्तं तथतायाः सकाशादिति चेदाह। तत् किं मन्यसे सुभूतेऽन्यत्तथतायाश्चित्तमिति।



 



धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।



 



इत्यभिप्रायवानाह। नो हीदमिति। एतदुक्तम्। तथतातो न व्यतिरिक्तं नाप्यव्यतिरिक्तं चित्तमात्रमिदं सर्वं वस्तु ज्ञेयगाम्भीर्यमिति। ज्ञानगाम्भीर्यार्थमाह। समनुपश्यसि त्वं सुभूते तथतामिति। नो हीदमिति। तथतास्वभावत्वात्तथतां तत्त्वतो न पश्यामि। अतोऽदर्शनमेव दर्शनं ज्ञानगाम्भीर्यमिति मतिः। चर्यागाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूते य एवं चरति स गम्भीरे चरतीति। एवमिति। तथतारूपेण। तत्त्वेन नैव क्वचिच्चरतीत्याह। यो भगवन्नेवं चरति स न क्वचिच्चरतीति। एतदेव स्पष्टयन् तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। एतदुक्तम्। यस्मात्तथतायां स्थितस्य तेऽनुस्थानविशेषाः समुदाचारास्तात्त्विकहेतुफलाभावाद्यथाक्रमं न प्रवर्तन्ते,न समुदाचरन्ति,तस्माद्धर्मतया सर्वत्राचरणमेव चरणमिदं चर्यागाम्भीर्यमिति। अद्वयगाम्भीर्यार्थमाह। यः सुभूते बोधिसत्त्व इत्यादि। क्व चरतीति कस्मिन् विषयेऽनुतिष्ठति। परमार्थ इति। निमित्तानिमित्तद्वयसमुदाचाराभावाद्धर्मधातौ चरत्येवमद्वयगाम्भीर्यं स्यादिति भावः। तदेव स्पष्टयन्नाह। तत् किं मन्यसे सुभूते यो बोधिसत्त्वो महासत्त्व परमार्थे चरति स निमिते चरति। नो हीदमिति। निमित्तानिमित्तसञ्ज्ञाप्रतिषेधाद्भावाभावाभिनिवेशलक्षणे निमिते नैव चरति। उपायकौशलगाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूतेऽपि नु तस्य निमित्तमविभावितमिति। अविभावितमप्रहीणमत्यक्तमिति यावत्। नो हीदमिति। सर्वधर्मानुपलम्भबलान्नैव निमित्तमविनष्टमस्ति। यद्येवं तर्हि निमित्तं प्रहीणमिति चेदाह। तत् किं मन्यसे सुभूतेऽपि नु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो निमित्तं विभावितं भवतीति। प्रहाणे यत्नाभावान्नैव निमित्त प्रहीणमित्याह। न स भगवन्नित्यादि। बोधिसत्त्वचर्यां चरन्निहैव प्रत्युत्पन्ने जन्मनि कथमहं निमित्तप्रहाणमनुप्राप्नुयामिति नैवं बोधिसत्त्वो घटते व्यायच्छत इति यावत्। तत्प्रहाणे च को दोष इत्याह। सचेत्पुनरित्यादि। कथमेकस्य प्रहाणाप्रहाणे चेत्याह। एतद्भगवन्नित्यादि। एतद्रूपं संवृत्या मायोपमं यल्लक्षणं यत्स्वरूपं यन्निमित्तं यद्धेतुकं रूपादि जानाति। तत्त्वतोऽनुत्पन्नत्वादानिमित्ते च धर्मधातौ परिजयं करोत्येवं परमार्थेन प्रहाणं संवृत्या चाप्रहाणमिदमुपायकौशलगाम्भीर्यमिति। तदेवमचिन्त्यविमोक्षमुखलाभात्,परस्परविरुद्धार्थानुष्ठानेनोत्पादाद्यष्टविधगाम्भीर्यमधिगमानुरूपव्यवहारप्रवर्तनात्,षोडशक्षणवत् भावनामार्गस्थावैवर्तिकलक्षणं ग्राह्यम्।



 



तथा चोक्तम्।



उत्पादे च निरोधे च तथतयां गभीरता।



ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले॥५९॥ इति



 



अवैवर्तिकलक्षणकथनेन शैक्षो बोधिसत्त्वसङ्घोऽभिहितः तदनु संक्लेशव्यवदानविकल्पप्रहाणेन तदुभयसमताधिगमादशैक्षो भवति,परेण शिक्षितव्याभावात् अतोऽशैक्षसङ्घलक्षणपरिदीपनाय संसारनिर्वाणसमता वक्तव्येत्याह। य आयुष्मन् सुभूते बोधिसत्त्व इत्यादि। अपिनुशब्दः किंशब्दार्थे प्रश्ने वर्तते। किं प्रज्ञापारमिता विवर्धते। वृद्धिमुपयातीत्यर्थः। नैव विवर्धत इत्याह। सचेदित्यादि। अत्र संसारव्यवदानाविकल्पज्ञानं यथाक्रमं स्वप्नादिवसाभिसन्धिनोक्तम्। अभिप्रायस्त्वेवं लक्ष्यते। यदि विपक्षप्रतिपक्षविकल्पप्रहाणमधिकृत्य तदुभयसमतावगमाद्यथा दिवसगतस्य भावनावृद्धिः,तदा तथा स्वप्नान्तरगतस्यापि विवर्धेत यावता यथा दिवसे न विवर्धेत तथा स्वप्नेऽपीति। एतदेव स्पष्टयितुं तत्कस्य हेतोरित्याशङ्क्याह। अविकल्प्यो हीत्यादि। यदि दिवसे चरतः प्रज्ञापारमिता विवर्धेत तदाभ्याससामर्थ्यात् स्वप्नेऽपि विपुलता स्याद्यावता नैव,यस्मात्सांसारिक-वैयवदानिकधर्माणां प्रतिभासमात्रस्वभावस्वप्नसदृशत्वेनावगमात्संसारनिर्वाणयोः स्वप्नदिवसस्वभावयोर्नानात्वेन विपक्षप्रतिपक्षविकल्पाभ्यां विकल्पयितुमशक्यत्वात् स्वप्नश्च दिवसश्चाविकल्पः समतात्मक इत्युक्तो भगवतेति यावत्। तथा चोक्तम्।



 



स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना। इति



 



ननु सर्वधर्माणां स्वप्नसदृशत्वे सति दशकुशलादीनामभावः स्वप्नावस्थायामिव जाग्रद्दशायामपि स्यादित्याह।यत्पुनरायुष्मन् सुभूते स्त्री वेत्यादि। किमिति क्षेपाभिधायित्वान्नैवेत्यर्थः। स्वरूपोपचयादाचयः। कार्यजननसामर्थ्यादुपचयः। तद्वत्स्वप्नतुल्यत्वेन प्रयोगादीनामभावाद्दिवसेऽपि शुभाशुभकर्मणोऽभावः स्यादिति भावः। परमार्थतो नैवाचयोपचयावित्याह। यथा स्वप्नोपमा इत्यादि। संवृत्या तु कर्मफलसम्बन्धस्याभीष्टत्वात् मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलमिति दृष्टान्तासिद्धिः स्यादित्याह। अथ पुनरायुष्मन्नित्यादि। तस्य कर्मण इति स्वप्नावस्थाभाविनः। एतदेव स्पष्टयन्नाह। कथञ्चेत्यादि। तत्र प्रयोगादिनिष्पादनात् कयवाक्चित्तोपघाताद्वाऽहोहतः साधु हतः सुष्ठु हतः सर्वत्रात्मव्यापारोपलम्भान्मया हत इत्यर्थभेदो वाच्यः। एतदुक्तम्। यथा बाह्यार्थनये क्षणिकतया निर्हेतुकविनाशे कर्मजं लोकवैचित्र्यमिति सिद्धान्ताच परमार्थतो न कश्चिन्न केनचिद्धतो नापि कस्यचिद्द्रव्यं केनचिद्गृहीतमित्याद्युपगमे प्रवृत्तसन्ताननिरुद्धपदार्थोत्पादनात्मारणाद्यध्यवसायद्वारेणायोनिशोमनस्कारादिमतोऽकुशलादिवत् प्राणातिपातादयो दिवसे व्यवस्थाप्यन्ते,तथा स्वप्नेऽप्युपचितकुशलाकुशलस्य प्रबुद्धा वस्थायामहो हत इत्यादिविकल्पेन प्रयोगावस्थाद्यभिनिवेशपरिपुष्ट्या परिपोषप्राप्तेर्वहिरर्थनयेनापि स्वप्नावस्थायामिवेति दृष्टान्तासिद्धिः। अतो मध्यमकनयेन जाग्रदवस्थायामपि स्वप्नसदृशे वस्तुनि तदनुरूपार्थे भावाद्यभिनिवेशेनाखण्डितसकलविपर्यासम्बन्धनानां कुशलादयो व्यवस्थाप्यन्ते। किन्तु मिद्धादिकभ्रान्तिकारणत्वेनास्पष्टाकुशलप्रतिपत्त्या स्वप्ने न्यूनं फलं जाग्रदवस्थायां तु मिद्धादिकभ्रान्तिकारणविगमात्स्पष्टानाकुलप्रतिभासत्वेनाधिकंफलम्। स्वप्नावस्थायामपि कर्मफलसद्भावस्याभिमतत्वादभिक्षुत्वादिदोषो नोद्भावनीयः। शिक्षादत्तकवत् संवरासंवरत्वस्य भगवत्प्रज्ञप्तिवशादेवावस्थाप्यमानत्वादिति। विकल्पबलाद्यदि कर्मणः परिपोषस्तदा प्रतिपक्षविरोधेऽपि विकल्पानुवृत्त्या तथागतस्यापि स्यादित्याह। सचेदायुष्मन् सुभूत इत्यादि। विकल्पयन् क्षयसंज्ञामुत्पादयति क्षीणा मे संसारिणः स्कन्धा इत्यादि क्षयसंज्ञां करोति। तस्यापि कर्मण इति क्लेशप्रहाणकारिणोमनस्कारस्य कर्मणः स्वरूपोपचयादाचयः। कार्यजननसामर्थ्यादुपचयः स्यात्। ततश्चोपचितस्य कर्मणः प्राप्तव्यफलविशेषसद्भावादपरिनिष्पन्न एव तथागतः स्यादिति भावः। विनेयानुरोधेन तथागतस्य क्षीणा मे जातिरित्यादिविकल्पो व्यवस्थापितो न तु तत्त्वत इत्याह। नो हीदमिति। एतदेव समर्थयितुं तत्कस्य हेतोरित्याशङ्क्याह। सर्वकल्पविकल्पेत्यादि। सर्वकल्पा रूपादयः स्वसामान्यलक्षणात्मका निर्विकल्पसविकल्पज्ञानालम्बनस्थानीयास्तेषु विकल्पस्तदुपलम्भस्तेन प्रहीणो रहितो निर्विकल्पधर्मताधिगमादित्यर्थः। आलम्बनोपलम्भमन्तरेण मानसं कर्म चित्तं चान्येषां कस्मान्न प्रवर्तत इति चेदाह। एवमेवेत्यादि। धर्मतैषा प्रतीत्यसमुत्पादधर्मतया यस्मादनालम्बनं कर्म चित्तं च नोत्पद्यते,तस्मात्सालम्बनमेवोत्पद्यत इति। एतदेव स्पष्टयन्नाह। दृष्टश्रुतेत्यादि। तत्र,



 



तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः।



 



इति न्यायेन काचिद्बुद्धिः संक्लेशालम्बना संक्लेशं परिगृह्णाति। काचिद्बुद्धिर्व्यवदानालम्बना व्यवदानं परिगृह्णाति। चेतनेति बुद्धिरित्येके। चेतना मानसं कर्मेति वचनात् कर्मैव पर्यायेणोक्तमित्यपरे। उपसंहरन्नाह। तस्मात्तर्ह्यायुष्मन्नित्यादि। अतीतानागतस्यासत्त्वेनालम्बनभावानुपपत्तेर्वर्तमानस्य चार्थस्य साकारज्ञानादिभिर्ग्रहीतुमशक्यत्वेन सर्वालम्बनशून्यत्वे सालम्बनापि चेतना कथमुत्पद्यत इत्याह। यदायुष्मन् सुभूत इत्यादि। विविक्तानीति। आलम्बनभावरहितत्वेन शून्यानि। संवृत्याऽभूतपरिकल्पालम्बनादुत्पद्यत इत्याह। निमित्तीकृत्येत्यादि। रूपादिगतमसाधारणं चिह्नं तत्त्वेनानिमित्तमपि यथादर्शनं निमित्तीकृत्यारोप्येति यावत्। यावदित्यनेन विज्ञानप्रत्ययं नामरूपमित्यादिपरिग्रहः। लोकव्यवहारमुपादायेति संवृतिमधिकृत्योत्पद्यत इत्यनन्तरं उच्यत इति शेषः । स्वप्नेऽपि कर्मफलसम्बन्धास्तित्वे प्रतिपादिते पुनरौपलम्भिकजनानुरोधेनाशङ्कयन्नाह। यदायुष्मन् सुभूत इत्यादि। परिहृतेऽप्यर्थे पुनराशङ्कायामानन्त्येन कः सचेताः परिहरतीत्यभिप्रायादाह। अयमायुष्मन् शारिपुत्र मैत्रेय इत्यादि। कायसाक्षीति। अर्हत्त्वप्रतिपन्नकोऽनागामी निरोधलाभी कायसाक्षी। तद्वद्वुद्धत्वप्रतिपन्नकत्वेनार्यमैत्रेयः कायसाक्षी। एतमर्थमिति स्वप्ने परिणामितम्। किन्तद्दानमिति प्रश्नम्। सुभूतिवचनादेवार्यमैत्रेयमामन्त्रयन्नाह। अथ खल्वायुष्मन्नित्यादि। प्रतिपादितेऽप्यर्थे प्रत्येकविनेयभेदेन पुनः पुनराशङ्कायां भूयो भूयः परिहाराभिधानेऽपि न सर्वेषामेकबुद्धोत्पादकाल एव विपर्यासापनयनं शक्यं कर्तुं भव्यानामेवार्थकरणादित्येतत्प्रश्नविसर्जनाधिकारेणैवानागतबुद्धपरम्परोत्पतिरित्यपरिसमाप्तिनिर्देशोऽयं प्रश्नस्तत्परिसमाप्तौ सत्यां कर्तव्याभावादनागतबुद्धोत्पादवैयर्थ्यप्रसङ्गश्चेत्यभिप्रायवान् परिहर्तुकामत्वेनाह। यदायुष्मान् सुभूतिरेवमाहेत्यादि। सम्भवमधिकृत्य विकल्पयन्नाह। किं पुनरायुष्मन् सुभूते यदेतन्नामधेयमित्यादि। तत्र तावन्न शून्यता विसर्जयतीत्याह। या खलु पुनरित्यादि। न सा प्रतिबलेति। अविद्यमानत्वान्न सा समर्था। रूपादयोऽपि न शक्ता इत्याह। तमप्यहमित्यादि। कर्तृकर्मक्रियानुपलम्भभेदेन यो धर्मो विसर्जयेत्,यो धर्मो विसर्जयितव्यः,येन धर्मेण विसर्जयेदित्युपादानम्। आत्मानं विषयीकृत्योक्तम्। यो धर्मो व्याकृत इति। सर्वधर्मानुपलम्भो न घटत इत्याह। कच्चित् पुनरित्यादि। कच्चिदिति यदि। एतदुक्तम्। यदि त्वया एते रूपादयो धर्मा एवं साक्षात्कृता यथैनान् धर्मान् वाचा भाषसे,तदा विकल्पार्थोपलम्भवदधिगतार्थोपलम्भसद्भावे विसर्जकभावेन कथं सर्वधर्मानुपलम्भ इति। नैवमधिगत इत्याह। न मयायुष्मन्नित्यादि। प्रयोगाद्यवस्थासु न वेद्मीत्यादि योज्यम् कथं तर्हीत्याह। अपि तु खलु पुनरित्यादि। एतदुक्तम्। सर्वधर्मानुपलम्भलक्षणनिर्विकल्पकज्ञानेनैवं स्वभावाः सर्वधर्मा मायोपमत्वेन स्वभावत्वात् साक्षात्कृता यथाधिगमावस्थायां विकल्पासमुदाचारान्न कायेन स्पृश्येत,न वाचा भाष्येत,न मनसा समन्वाह्रियेत। यस्माद्विकल्पानुगमे विपर्याससमुद्भवादधिगमो न स्यात्ततश्चाधिगमोत्तरकालमुद्भावनासंवृत्या व्यवहार इति। श्रावकागोचरो निर्विकल्पकज्ञानाधिगम इत्याह। गम्भीरप्रज्ञ इत्यादि। श्रावकाणामीदृश एवाधिगम इत्याह। कुतस्ते शारिपुत्रेत्यादि। निर्विकल्पज्ञानमात्रेणाधिगमस्य तुल्यत्वाद्गम्भीरप्रज्ञोऽयमिति। नैवञ्चित्तमुत्पादनीयमित्यर्थः। तुल्यत्वमेव कथयन्नाह। समनुपश्यसि त्वमित्यादि। तं धर्मक्षयानुत्पादज्ञानलक्षणमर्हत्वं विकल्पज्ञानेनाधिगमकाले किं त्वं पश्यस्युपलभस इति यावत्। विपर्यस्तत्वेनाधिगमविरोधित्वानैवेत्याह। नो हीदमिति। बोधिसत्त्वानामीदृश एवाधिगमकाले न्याय इत्याह। एवमेव शारिपुत्रेत्यादि। तदेवं कर्माभावादिचोद्यानां यथोक्ता एव प्रतिसमाधयो ग्राह्याः। तथा चोक्तम्।



 



कर्माभावादिचोद्यानां परिहारा यथोदिताः॥६०॥ इति



 



संसारनिर्वाणसमतामुपसंहर्तुं तद्देशनायास्तादात्विकं प्रयोजनमधिकृत्याह। स चरन्नोत्रस्यतीत्यादि। अनुपलम्भचर्यया लब्धशक्तित्वान्नाहं नाभिसम्भोत्स्येऽपितु नियतमभिसंभोत्स्य इत्येवायं योगमापद्यते। विभावितोभयसमतो बुद्धो भवति। स्वबुद्धक्षेत्र इत्यनन्तरं सत्त्वभाजनलोकभेदेन द्विविधबुद्धक्षेत्रविशुद्धिं निर्दिशन्नाह। पुनरपरं शारिपुत्रेत्यादि। तत्र सत्त्वलोकस्याशुद्धिर्या जिघत्सादिका तस्याः प्रतिपक्षेण दिव्योपभोगादिशुद्ध्युपसंहारतः,तथा भाजनलोकस्याशुद्धिर्या स्थाणुकण्टकादिका तस्याः प्रतिपक्षेण समपाणितलजातादिशुद्ध्युपसंहारतो यथाक्रमं द्विविधबुद्धक्षेत्रविशुद्धिरित्यभिसंक्षेपतः। तथा चोक्तम्।



 



सत्त्वलोकस्य याऽशुद्धिस्तस्याः शुद्ध्युपहारतः।



तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता॥६१॥ इति।



 



विस्तरस्तु यथासूत्रं सुबोधम्। तत्र किञ्चिदुच्यते। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि तेन सर्वमित्यादि। एतदेव स्पष्टयन्नाह। तेनैवं चित्तमित्यादि। तत्र सर्वेण वर्णसंस्थानवस्तुरूपेण,सर्वं तज्जातिभेदभिन्नं वस्तु,सर्वथा तदेकैकजातिप्रकारभेदेन,सर्वं यथासम्भवप्रकारम्। स्वरूपविरहान्न भविष्यन्ति,तत्कृतचिह्नाभावान्न प्रज्ञास्यन्ते। तथैव तत्कस्य हेतोरित्याशङ्क्याह। सर्वस्वपरित्यागकुशलाभिरता हीत्यादि। एतदेव विस्तारयन्नाह। तेनैवं चित्तमित्यादि। व्यापादक्रोधरोषा इति। व्यापादः सत्त्वविद्वेषः। क्रोधः सत्त्वासत्त्वयोराघातः रोषो वैरानुबन्धः। चित्तविशेषोत्पादात्तथा च करिष्यामि। प्रतिपत्त्या सम्पादनात्तथा च प्रतिपत्स्ये। अतिशयवीर्यकरणाद्व्यापत्स्ये। पानीयाभावात्पानीयकान्तारं तद्भयम्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। असंत्रस्तेत्यादि।



 



अष्टाङ्गोपेतपानीयं सुगन्धिस्वादुशीतलम्।



लध्वच्छं शुचि पातुश्च कुक्षिकण्ठौ न बाधते॥



 



इत्युदकलाभादष्टाङ्गोपेतपानीयलाभिनः। मृदुमध्याधिमात्रभेदेन सुखिताः सुखसमङ्गिनः सर्वसुखसमर्पिताः। दर्शनपथप्राप्तत्वे प्रादुर्भविष्यति। उपभोगयोग्यत्वेनोत्पत्स्यते। स्थितिहेतुत्वादन्नादयो जीवितपरिष्काराः। चिरेणेत्यतिदीर्घकालेन। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। यो हि चित्तक्षण इत्यादि। यस्माद्यश्चित्तक्षणस्तत्त्वतोऽनुत्पन्नः संवृत्या सैषा चिरकालवती प्रथमकारणरहितत्वादनादिरपूर्वा कोटिः। पर्यन्तो भागो बुद्धत्वावस्था शून्यतास्वभावत्वाद्यदुताकोटिस्तस्माच्चिरेणाभिसम्बोधादुत्रासादि न कर्तव्यम्। दुष्करसंज्ञा च नोत्पादयितव्येत्यर्थः। भयभैरवेभ्य इति। बाह्यं व्याडादिभयम्। अध्यात्मं ज्वरादिभैरवम्। यथोक्तबुद्धक्षेत्रपरिशोधनेऽशक्यानुष्ठानत्वान्न कश्चित्प्रवर्तत इति चेदाह। अथ खलु तत्र पर्षदीत्यादि। अत्र स्थान इति। अभ्यासयोगेन शक्यत्वान्निर्दिष्टबुद्धक्षेत्रपरिशोधने,तदाशयसम्पत्तिबलाद्व्याकरणनिमित्तं जातमित्याह। अथ खलु भगवानित्यादि। मूर्धन्यन्तरधीयत इति। धर्मतैषा यदा तथागतत्वेन व्याकरणं कर्तव्यं,तदोष्णीषसन्धौ रश्मयोऽन्तर्लीनाः। निमित्तदर्शनात्सञ्जातातिशयत्वेनार्यगङ्गदेवा विहितपूजेत्यादि। समनन्तरप्रादुष्कृते चेत्यादि। बहुधा गृहीतसम्बन्धत्वेन स्मितप्रयोजनं प्रश्नयन्नाह। अथ खल्वायुष्मानानन्द इत्यादि। स्वरूपमावेदयन्नाह। इयमानन्देत्यादि। सम्यक्सम्बोधिमभिसम्भोत्स्यत इति व्याकरणेन पार्षदानामेवंविधबुद्धक्षेत्रविशुद्धिलाभसम्प्रत्यये साक्षिभावः सूचित इति केचित्। अभिसम्बोध्यवस्थातः प्रागपि व्याकुर्वन्नाह। सेयमानन्देत्यादि। व्याकृतानामेव तत्रोत्पादाद्विस्मय इत्याह। अथ खल्वायुष्मत इत्यादि। साधूक्तत्वादाह। एवमेतदित्यादि। तत्र क्लेशावरणप्रहाणादुत्तीर्णपङ्काः। मूर्धाभिसमयेऽवस्थितत्वाद्बोधिपरिनिष्पत्त्युपगताः। श्रावकसङ्घमपि व्याकुर्वन्नाह। तस्य खलु पुनरित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तावन्त इत्यादि। कृतपुण्यानां निष्पन्नप्रणिधानत्वेनाह। तेन खलु पुनरित्यादि। उपसंहरन्नाह। सुवर्णपुष्पस्येत्यादि। अत्याश्चर्यं श्रुत्वा पूर्वयोगं प्रश्नयन्नाह। अनया भगवन्नित्यादि। स्वरूपमावेदयन्नाह। अनयानन्देत्यादि। प्रणिधानानुरूपमेवेदं सर्वप्रकारव्याकरणमित्याह। कृतपरिकर्मेत्यादि। तत्र प्राप्तदर्शनमार्गत्वात्कृतपरिकर्मा। विदितभावनापथस्वभावत्वात्कृतपर्यन्ता। तथैव स्वहस्तयन्नाह। एवमेतदित्यादि॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां गङ्गदेवा भगिनीपरिवर्तो नामैकोनविंशतितमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project