Digital Sanskrit Buddhist Canon

अष्टादशपरिवर्तः

Technical Details


 



अष्टादशपरिवर्तः॥



 



भावनामार्गस्थावैवर्तिकलक्षणं प्रतिपादयितुं दर्शनमार्गसम्बन्धेन प्रस्तावयन्नाह। अथ खल्वित्यादि। असाधारणधर्मयोगादाश्चर्यम्। यथोक्तक्षान्तिलाभेन दर्शनहेयक्लेशविसंयोगान्महागुणसम्भारसमन्वागतः। यथानिर्दिष्टज्ञानलाभेन दर्शनहेयक्लेशापुनरुत्पत्तेरप्रमाणगुणसमन्वागतः। तदनु सर्वाकारज्ञताभिनिर्हारज्ञानलाभादपरिमितगुणसमन्वागतः। साधूक्तत्वेनैवमेतत् सुभुत एवमेवैतदित्यनुवादस्य निर्युक्तिकत्वात्तत्कस्य हेतोरित्याशङ्क्याह। अविनिवर्तनीयेनेत्यादि। आकारानन्त्यादनन्तं सर्वतोऽविषयत्वेनापर्यन्तं सर्वलोकाकम्पत्वेनासंहार्यम्। सम्बन्धमापाद्यैवं प्रकृतार्थमाह। प्रतिबलो भगवानित्यादि। यस्माद्भगवानाकारादिकं निर्देष्टुं प्रतिबलोऽत एव भगवता भावनामार्गस्थावैवर्तिकलक्षणार्थं गम्भीराणि स्थानानि कथनीयानीत्यर्थः। गम्भीराणि गम्भीराणीति वीप्साभिधानं पौनःपुन्याभ्यासमार्गज्ञापनार्थम्। स्थानानीति स्थित्यभिधानम्। यत्र भावनामार्गे स्थित्वा बोधिसत्त्वाश्चत्वारि स्मृत्युपस्थानानि यावदष्टादशावेणिकान् बुद्धधर्मान् परिपूरयेयुः,तस्य निरवशेषाधिगमपरिपूरिकारणत्वज्ञापनेन प्राबन्धिकताख्यापनार्थम्। "नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यत"इति न्यायाद्भावनामार्गं विशेषयन्नाह। साधु साध्वित्यादि। गम्भीराणीति। गम्भीरो भावनामार्ग इत्यर्थः। निगमयितुकाम इति। प्रतिपादयितुकामः। कतमत्पुनरस्य गाम्भीर्यमित्याह। गम्भीरमित्यादि। भावप्रधानोऽयं निर्देशो गाम्भीर्यमित्यर्थः। तत्र ग्राहकविवेकेन शून्यता। ग्राह्याभावादानिमित्तम्। ग्राह्यग्राहकविविक्ताद्वयज्ञानस्यापि वस्तुसतोऽधिगन्तव्यस्यासत्त्वादप्रणिहितम्। जात्यादिलक्षणत्रयविसंयोगादनाभोगप्रवृत्तत्वाद्वाऽनभिसंस्कारः। हेतोरसत्त्वादनुत्पादः। प्रतिसन्धिविगमादजातिः। दर्शनमार्गविपक्षविरहादभावः। भावनामार्गविपक्षविश्लेषाद्विरागः। आयत्यां दुःखानुत्पत्तिधर्मत्वान्निरोधः। अनिमित्तशान्तसुखविहारपदस्थानत्वान्निर्वाणम्। दृष्टधर्मे दुःखाप्रचारफलत्वाद्विगम इत्येवमेषां शून्यतादीनामर्थभेदो वाच्य इत्येके। सर्वैरप्येतैः पदैः व्यावृत्तिभेदाद्धर्मधातुरेव निर्दिश्यत इति योज्यम्। सा च शून्यतादीनां गम्भीरता समारोपापवादान्तद्वयरहिततेति प्रतिपादनार्थं काक्वा प्रश्नयन्नाह। एतेषामेवेत्यादि। भगवन्नित्यनन्तरं किमिति शेषः। परिहारार्थमाह। सर्वधर्माणामित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। रूपं हीत्यादि। एतदेव कुत इति प्रश्नयन्नाह। कथञ्च सुभूत इत्यादि। परिहरन्नाह। यथा सुभूते तथता तथा गम्भीरं रूपमित्यादि। यथा शून्यता गम्भीरा तथा तत्त्वतोऽनुत्पन्नत्वेन रूपादिकमपि गम्भिरमित्यर्थः। अनेन च तथतायां च रूपादिकमिति समारोपान्तः प्रतिषिद्धः। यथा रूपतथता तथा गम्भीररूपमिति।



 



यः प्रतीत्यसमुत्पादः शुन्यता सैव ते मता



 



इति वचनाद्रूपादिततथतैव संवृत्या रूपादिकमविचारैकरम्यमिति यावत्। अनेन च नान्यत्र रूपादिकात्तथतेत्यपवादान्तः प्रतिक्षिप्तः। उपसंहरन्नाह। यत्र सुभूते न रूपमित्यादि।आश्चर्यमिति। एकस्यैव युगपदर्थद्वयकथनाद्विस्मयः। यावद्वचनेनाभिनिवेशप्रतिषेधानभिनिवेशविधानादिपरिग्रहः। सुक्ष्मेणोपायेनेति। अनुत्त्रासक्रमेण रूपतश्च निवारितो निर्वाणञ्च सूचितमिति। तथतायां रूपादिप्रतिषेधाद्रूपादौ प्रवृत्तिनिराकरणाय निवारितः। तत्रैव शून्यत्वेनाभ्यासकरणानिर्वाणञ्च कथितं स्यात्। तदयं समासार्थः। शून्यतादिके न रूपादिकं,न ततोऽन्यच्छून्यतादिकमिति। यथाक्रमं या समारोपापवादान्तमुक्तता सा शून्यतादेर्गाम्भीर्यं शून्यतादिकमिति। गाम्भीर्ययोगाङ्गम्भीरोऽभ्यासपथ इति। तथा चोक्तम्।



 



गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम्।



समारोपापवादान्तमुक्तता सा गम्भीरता॥५२॥ इति



 



विशेषणं निर्दिश्यैवं विशेष्यभावनामार्गाथमाह। इमानि सुभूत इत्यादि। चिन्तयिष्यतीति। श्रुतमय्या प्रज्ञया तुलयिष्यतीति चिन्तामय्या। उपनिध्यास्यतीति।  भावनामय्या। समाधौ वा प्रयोगमौलपृष्ठभाविन्या प्रज्ञयेति यथाक्रमंयोज्यम्। कस्मिन् पुनर्विषये भावनामार्ग इत्याह। एवं मयेत्यादि। तत्र एवं मया स्थातव्यम्। यथा निर्वेधभागीयाधिकारेण प्रज्ञापारमितायामाज्ञप्तम्,एवं मया शिक्षितव्यम्। यथा दर्शनमार्गाधिकारेण प्रज्ञापारमितायामाख्यातम्,एवं मया प्रतिपत्तव्यम्। यथा भावनामार्गाधिकारेण प्रज्ञापारमितायामुपदिष्टमिति वाच्यम्।



 



तथा चोक्तम्।



 



चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः।



निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च॥५३॥ इति



 



अत एव चत्वारि निर्वेधभागीयानि,दर्शनभावनामार्गौ चाधिकृत्य,तथा सम्पादयमानस्तथोपनिध्यायंस्तथोपपरीक्षमाणस्तथा प्रयुज्यमानस्तथा घटमानस्तथा व्यायच्छमान इति षट्पदानि भवन्ति। कथं भावनामार्गस्य स एव विषयः। प्राबन्धिकत्वात्पूर्वपूर्वस्योत्तरोत्तर इत्यदोषः। भावनामार्गानुशंसार्थं प्रश्नयन्नाह। अयमित्यादि। यो बोधिसत्त्वश्चिन्तादिप्रयुक्तः सम्यगेकदिवसमप्यत्र भावनामार्गे योगमापद्यते सोऽयं तेनैकदिवसेन कियत्पुण्यं करोति। परिहारार्थमाह। तद्यथेत्यादि। न्यूनेऽपि विषयेऽधिकरागत्वाद्रागचरितः। रागविकल्पबाहुल्याद्वितर्कचरितः। समुदायावयवशोभत्वाद्यथाक्रमं योषिदभिरूपा प्रासादिका। दृष्ट्यनुकूलत्वेन दर्शनीया। अस्मिन् स्थाने त्वया गन्तव्यमित्यभिधानं सङ्केतः। न वशयेदिति। न लभतेत्येके। न पश्येदित्यपरः। आदिमध्यपर्यवसानेषु स्वाभिमतसुरतानुकूलव्यापारनिर्वर्तनाद्यथासंख्यमेवं करिष्यामि। एवं रमिष्यामि। एवं क्रीडिष्यामि। सर्वत्र यथेष्टप्रवर्तनादेवं प्रविचारयिष्यामिति योज्यम्। इयत इति रागचरितपुरुषवितर्कसंख्यानित्यर्थः। कर्मणः क्षयाच्छोरयति। विष्कम्भणाद्विपृष्ठीकरोति। अपूर्वस्यानुत्पादनेन संसाराज्जन्मप्रबन्धतो व्यन्तीकरोति। तदेवमप्रमाणकुशलसम्परिग्रहादपरिमितकल्पानां छोरणपृष्ठीकरणव्यन्तीकरणक्षणस्त्रिविधोऽनुशंसो भावनामार्गकारित्रज्ञापनार्थं कथितः स्यात्। य इहेत्यादि। निर्वेधभागीयाधिकारेण यथाज्ञप्तं तिष्ठति। दर्शनमार्गाधिकारेण यथाख्यातं शिक्षते। मृदुमध्याधिमात्रभावनामार्गाधिकारेण यथोपदिष्टं यथानिर्दिष्टं प्रतिपद्यते,उत्रनिध्यायति,योगमापद्यत इति सम्बन्धः। उपसंहरन्नाह। एवं सुभूते बोधिसत्त्व इत्यादि। एकदिवसेन तावत्कर्म करोतीत्यनन्तरं जन्मप्रबन्धतोऽपरिमितकल्पान् यावता परित्यजतीति शेषः। भावनामार्गस्येदानीं प्रकारभेदो द्रष्टव्यः। त्रयो हि मूलप्रकारा मृदुमथ्याधिमात्रास्तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रभेदे क्रियमाणे नवप्रकारा भवन्ति। यथा प्रतिपक्षस्यैवं विपक्षस्यापि नवप्रकारा वेदितव्याः। तत्र च मृदुमृदुना मार्गेणाधिमात्राधिमात्रविकल्पस्य प्रहाणं यावदधिमात्राधिमात्रेण मृदुमृदुविकल्पस्येति ग्राह्यम्। आदित‍एवाधिमात्रमार्गासम्भवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशाभावात्। यथौदारिको मलश्चैलात्पूर्वं निर्धूयते पश्चात् सूक्ष्मः। यथौदारिकञ्च तमः सूक्ष्मेणालोकेन हन्यते,सूक्ष्मञ्चाधिमात्रेण,शुक्लाश्च धर्मा बलवन्तो दुर्बलास्तु कृष्णाः,क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरम्पराप्यायितानामधिमात्रक्लेशानामुन्मूलनात्। बहुकालसंवर्धितदोषाणां त्रिवृत्कर्षनिष्कर्षणवत्,क्षणिकाल्पप्रदीपमहातमोघातवच्चेत्याचार्यवसुबन्धुः। तत्रान्यापदेशेनोत्तरोत्तरपुण्याधिकत्वप्रतिपादनात्। प्रतिपक्षप्रभेदमभिभूयमानपुण्यवचनेन च विपक्षप्रभेदं निर्दिशन् विकल्पक्लेशा बोधिसत्त्वा इति कृत्वाऽधिमात्राधिमात्रविकल्पप्रकारं वक्तुमाह। यश्च प्रज्ञापारमिताविरहित इत्यादि। मृदुमृदुमार्गार्थमाह। अयमेव तत इत्यादि। तत इति दानं दातुः सकाशाद्विशिष्यत इति। असंख्येयाप्रमेयाप्रमाणपुण्यपरिग्रहाद्विशिष्टतरः। अधिमात्रमध्यविकल्पं कथयन्नाह। पुनरपरमित्यादि। दद्यात्प्रतिष्ठापयेदिति। निर्यातयेच्चिरस्थितिकञ्च कुर्यादित्यर्थः। मृदुमध्यमार्गार्थमाह। यश्च बोधिसत्त्व इत्यादि। बहुतरमित्यसंख्येयादिस्वभावम्। अधिमात्रमृदुविकल्पं प्रतिपादयन्नाह। पुनरपरमित्यादि। यावद्वचनादनागामिप्रभृत्तीनां ग्रहणम्। अणुमात्रभयदर्शित्वेन शीलेषु च परिपूर्णकारी। मृद्वधिमात्रमार्गार्थमाह। यश्च बोधिसत्त्व इत्यादि। ततो मनसिकारादिति। प्रज्ञापारमिताभावनातः। मध्याधिमात्रविकल्पं ख्यापयन्नाह। पुनरपरमित्यादि। क्षान्त्या च समन्वागत इति। परापकारमर्षणादिक्षान्त्या युक्तः। मध्यमृदुमार्गार्थमाह। यश्चेत्यादि। धर्मदानमिति सम्यगर्पणम्। अत एव धर्मं देशयेदिति पूर्वस्मादिदं विशिष्यते। मध्यमध्यविकल्पमावेदयन्नाह। पुनरपरमित्यादि। उत्तप्तवीर्यत्वादारब्धवीर्यः। मध्यमध्यमार्गार्थमाह। यश्च खलु पुनरित्यादि। परिणामयेदिति। उपलम्भदृष्ट्या निर्यातयेत्। अत एवानन्तरं प्रज्ञापारमितोक्तेन परिणामेनेति विशेषो वक्ष्यते। अयमेव धर्मदानपूर्वकोपलम्भपरिणामो मध्यमृदुविकल्पो वक्ष्यमाणपरिणामापेक्षया स्यात्। मध्याधिमात्रमार्गार्थमाह। पुनरपरमित्यादि। प्रज्ञापारमितोक्तेनेति। सर्वधर्मानुपलम्भयोगेन तत इत्युपलम्भयोगेन परिणामयितुः सकाशात्। मृद्वधिमात्रविकल्पं निर्दिशन्नाह। पुनरपरमित्यादि। प्रतिसंलाने पुनरेव योगमापद्यत इति। परिणामोत्तरकालं प्रज्ञापारमिताविहारे चित्तसमाधानतां कुर्यात्। अधिमात्रमृदुमार्गार्थमाह। यश्च खलु पुनरित्यादि। प्रतिसंलाने पुनरेव योगमापद्येतेति। भूयोऽपि मनसिकुर्यात्। एतदेव स्पष्टयन्नाह। प्रतिसंलाने च पुनरेव योगामापद्यमान इत्यादि। मृदुमध्यविकल्पं वक्तुमाह। यदा भगवन्नभिसंस्कार इत्यादि। अभिसंस्कारश्चित्ताभोगो विकल्पो विपर्यासो यदा कथं विकल्पबीजानुगमात्तदा बहुतरं पुण्यं परिणामनाकाले प्रसवतीत्युच्यते विकल्पस्यापि मायोपमत्वेनानुगमादविपर्यासप्रवृत्तत्वेन संवृत्या बहुतरं पुण्यमिति परिहरन्नधिमात्रमध्यमार्गार्थमाह। सोऽपीदानीमित्यादि। स इत्यभिसंस्कारप्रभवः पुण्यराशिः। इदानीमिति। अष्टमप्रकारभावनामार्गावस्थायाम्। न तु पूर्वं तत्र विपर्यासप्रभवत्वात्। अध्यात्मबहिर्धोभयशून्यताभिः शून्यकः। शून्यमहापरमार्थशून्यताबलाद्रिक्तः। संस्कृतासंस्कृतात्यन्तानवराग्रानवकारशून्यताभिस्तुच्छकः। प्रकृतिशून्यतादिभिर्नवप्रकारैरसारकः। सन्नाहप्रस्थानसम्भारनिर्याणप्रतिपत्तिभिर्यथाक्रमं शून्यक इत्यादिपदचतुष्टयमित्यन्ये। मृदुमृदुविकल्पं कथयन्नाह। यथा यथा खलु पुनरित्यादि। यथा यथेति। येन येनाध्यात्मादिशून्यताद्याकारेण बोधिसत्त्वो महासत्त्व इत्यनन्तरं संख्येयप्रमेयाद्यधिगमसंगृहीत इति शेषः। एवं धर्मानिति। मायोपमान्। अधिमात्राधिमात्रमार्गार्थमाह। यथा च यथा च सुभूते बोधिसत्त्व इत्यादि। सर्वविकल्पबीजविगमादप्रमेयमसंख्येयं पुण्यं प्रसवति। अप्रमेयमित्यनेनाप्रमाणमप्याक्षिप्तम्। कोऽर्थभेद इति प्रश्नयन्नाह। अप्रमेयस्य चेत्यादि। किं नानाकरणमिति। किं उपलक्षणं किं सामान्यलक्षणमितियावत्। कः प्रतिविशेष इति। किं स्वभावलक्षणं किं स्वलक्षणमित्यर्थः। सामान्यलक्षणार्थमाह। अप्रमेयमित्यादि। यत्र प्रमाणान्युपरमन्त इति। यस्मिन् पुण्यविषये प्रत्यक्षेण विषयीकर्तुमनुमानेन च मातुमशक्यलात्प्रत्यक्षानुमानप्रमाणानि न प्रवर्तन्ते,तदप्रमेयमप्रमाणम्। अनेनाधिगमस्यासंस्कृतत्वं विभुत्वञ्च ज्ञापितमिति केचित्। यन्न शक्यं संख्यया क्षपयितुमिति। अविद्यमानसंख्यत्वेन यत्पुण्यं संख्यया निष्ठापयितुमशक्यं तदसंख्येयम्। अनेन तस्य समताधिगमो ज्ञापित इत्येके। स्वभावलक्षणार्थमाह। स्याद्भगवन्नित्यादि। पर्यायः प्रभेदः। यदित्यव्ययत्वाद्येनेत्यर्थः। अप्रमेयमित्यसंख्येयाद्युपलक्षणम्। साधूक्तत्वेन तद्वचनमनुवदन्नाह। यत्सुभूतिरेवमिहेत्यादि। एवमनूद्य प्रतिपादयन्नाह। स्यात्सुभूत इत्यादि। येनेति। धर्मधातुस्वभावात्मकेनेति। परमार्थतः शून्यतालक्षणोऽपि विकल्पप्रतिपक्षयोर्भेदादनागम्यध्यानान्तरादिनवभूमिषु महोपायकौशलबलेन वा कामधात्वादिनवभूमिषु यथासंख्यं यथोक्तनवप्रकारः प्रबन्धेन प्रवर्तमानो भावनामार्गोऽवसातव्यः। तथा चोक्तम्।



 



प्राबन्धिकत्वादिष्टोऽसौ नवधा चप्रकारतः।



मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः॥५४॥ इति



 



नन्वेकैकमेव प्रकारमधिकृत्य भिन्नार्थासंख्येयाप्रमाणपुण्यप्रसवकार्यवचनस्य प्रयोगेण कारणानामपि बहुधा भेदात्कथं नवप्रकारो भावनापथ इत्यभिप्रायवानाह। कस्य पुनरित्यादि। परिहरन्नाह। शून्यताया इत्यादि। त्रिविमोक्षमुखस्वभावभावनामार्गप्रकारस्येत्यर्थः। प्रकर्षपर्यन्तवर्तित्वान्नवमप्रकारस्यैवाधिवचनमित्यवगमादाह। किं शून्यताया इत्यादि। नान्येषामिति। अतोऽन्येषां सर्वधर्माणां प्रथमादिप्रकाराणां किन्नाधिवचनम्। तद्वचनेन परिहर्तुमाह। तत्किं मन्यस इत्यादि। सर्वधर्मा इति प्रथमादिप्रकाराः शून्या एवेति न्यायस्य सर्वत्र तुल्य त्वात्त्रिविमोक्षमुखस्वभावाः। सर्व एव प्रकारास्तथागतेनाख्याताः। सर्वप्रकाराणां शून्यतादिवचनमिति प्रतिपाद्य पर्यायार्थमाह। ये च सुभूत इत्यादि। अप्रमेयता पीति। अपिशब्दादसंख्येयतादयः। यस्मादसंख्येयाप्रमेयादिनिर्देशा वागभिलापस्वभावा व्यावृत्त्यपेक्षोपजनितनानात्वरूपेणैकस्मिन्नर्थे प्रयुक्तास्तस्मात्परमार्थेन यथोक्तलक्षणस्य भावनामार्गस्य भेदं कर्तुं न क्षमा इत्याह। तस्मात्तर्हीत्यादि। एषामित्यसंख्येयादीनाम्। संवृत्या त्वनालम्बनमहाकरुणास्वभावधर्मधातुनिःष्यन्दभूतास्ते देशनाधर्मस्वभावायथोक्तनिर्देशा बालजनानां महाफलोदयप्रकाशकत्वेनाभिमतास्तथागतस्येत्याह। अभिलाषा इत्यादि। एत इत्यसंख्येयादयः। देशनाभिनिर्हारनिर्देश इति। देशनाऽभिनिर्ह्रियते। जन्यतेऽनेनेति देशनाभिनिर्हारो धर्मकायस्तस्योद्भावनासंवृत्या निर्देश इति विग्रहः।



 



तथा चोक्तम्।



 



असंख्येयादिनिर्देशाः परमार्थेन न क्षमा।



कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः॥५५॥ इति।



 



तथागतस्य करुणानिष्यन्दनिर्देशत्वादेतैः सर्वविषयैर्भवितव्यमित्याह। आश्चर्यमित्यादि। यावद्वचनादप्रमेयतादिपरिग्रहः। सर्वधर्माणामिति। प्रथमादिनवप्रकाराणां धर्मतेति निर्वाणरूपता,व्यञ्जनार्थयोर्भेदानुपलम्भादनभिलाप्या। भाषितस्येत्यनन्तरनिर्देशस्य। तथा सर्वधर्मा इति। रूपादयः।  साधूक्तत्वादेवमेतदित्याद्यनूद्य पूर्ववत्। तत्कस्य हेतोरित्याशङ्क्याह। या सुभूत इत्यादि।  सर्वधर्माणां शून्यतेति। ज्ञेयत्वादिभेदान्तरप्रतिक्षेपेण शून्यतेत्युक्ता। ततः शून्याः सर्वधर्मा एवाभिलपितुं न शक्या इत्यर्थः। ननु निःस्वभावतया तत्त्वान्यत्वाभ्यामवाच्यस्य परमार्थतो धर्मतास्वरूपस्याभिमतमार्गवस्तुनो विपक्षप्रतिपक्षयोर्थथाक्रममपगमोदयौ न युज्येते। सर्वथातिशयाधानाभावादित्याह। किं पुनर्भगवन्नित्यादि। नो हीदं सुभूत इत्यादि। यद्येवं भावनासंज्ञकेन मार्गेण नैव किञ्चिदधिमात्रादि नवविधं विकल्पजातं परित्यक्तं,नापि किञ्चिन्मृदुमृद्वादिनवप्रकारं मार्गजातं प्राप्तम्। अतोऽनुपन्यसनीय एवेत्यभिप्रायेणानिष्टमापादयन्नाह। सचेद्भगवन्नित्यादि। अनभिलप्यस्येति। भावनामार्गस्य तत्प्रभेदत्वादेव दानादीनामपि हानिवृद्धयभाव इत्यादि। दानपारमिताया अपीत्यादि। भवत्वेवं को दोष इति चेदाह। सचेद्भगवन्नित्यादि। कथमिति क्षेपेणेवेत्यर्थः। उपचयार्थमाह। न च भगवन्नित्यादि। तथा चोक्तम्।



 



हानिवृद्धी न युज्येते निरालापस्य वस्तुनः।



भावनाख्येन किं हीनं वर्त्मना किमुदागतम्॥५६॥इति।



 



परमार्थतोऽनिष्टापादनमपि न भवतीत्याह। एवमेतदित्यादि। संवृत्या तु यथानुत्तरा सम्यक्संबोधिस्तथा भावनामार्गोऽर्थक्रियाकारीति कथयन्नाह। अपि तु खलु पुनरित्यादि,नैवं भवतिति। दानपारमिता विवर्धते वा परिहीयते वेति वस्तूपलम्भयोगेनैवञ्चित्तमुत्पद्यते। यथानुत्तरेति। यथाधिपत्यमात्रेण निरतिशयाधानाऽनुत्तरा सम्यक्सम्बोधिर्विनेयानां पुण्यज्ञानानुरूपतया विशिष्टार्थप्रतिभासिचित्तजननद्वारेण परिणामितपुण्यवर्धनात्संवृत्याभिमतार्थस्य साधिका तथा परिणामयतीत्यर्थः। तद्वदयमप्यागन्तुकमलापगमाद्भावनया साक्षात्कृतो भावनामार्गो मायोपमत्वान्निरतिशयाधानो यथासंवृत्या विपक्षप्रतिपक्षयोरपगमोदयक्रमेणार्थक्रियाकारी तथोपन्यस्यत इति मतिः। तथा चोक्तम्।



 



यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः। इति।



 



अस्यैवार्थस्य विस्तरेण निर्देशार्थं पुनरपरमित्यादिपञ्चहारकोपादानम्। किं लक्षणा बोधिरित्याह। का पुन रेषेत्यादि। तथतैषेति। तथता स्वरूपामायोपमनिष्प्रपञ्चज्ञानात्मकधर्मकायादिमयतथागतस्वभावेति यावत्। भावनामार्गोऽपि तथतास्वभाव एवेत्यभिप्रायः।



तथा चोक्तम्।



 



तथतालक्षणा बोधिः सोऽपि तल्लक्षणो मतः॥४७॥इति।



 



न च सुभूते तथता विवर्धते वा परिहीयते वा तत्खरूपत्वात्तथा बोधिमार्गावपीति शेषः। एवं हि हेतुफलयोः फलहेत्वर्थापरस्परस्वभावानुविधानाद्धेतुफलसम्बन्धावैषरीत्यमुद्भावितं स्यात्। पुनरपि संवृत्या मार्गस्य सामर्थ्यमावेदयन्नाह। सचेद्बोधिसत्त्व इत्यादि। तत्प्रतिसंयुक्तैरिति। भावनामार्गप्रतिबद्धैः। अभीक्ष्णं बहुलमिति। प्रयोगपृष्ठावस्थाभेदेन द्वयोपादानम्। मौलावस्थायां तन्मयत्वेन विहरणानुपपत्तेः। एवमिति। तथारूपेण। उपसंहरन्नाह। एवं खलु सुभूत इत्यादि। अर्थस्येति। भावनामार्गस्य॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां शून्यतापरिवर्तो नामाष्टादशः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project