Digital Sanskrit Buddhist Canon

सप्तदशपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Saptadaśaparivartaḥ


 



अवैवर्तिकबोधिसत्त्वसंघस्य यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमित्यवैवर्तिकबोधिसत्त्वसंघो वक्तव्यः। स तु निर्वेधभागीयप्रयोगमार्गस्थस्तथा क्षान्तिज्ञानसङ्गृहीतदर्शनमार्गस्थोऽपरश्च प्राबन्धिकभावनामार्गस्थ इति व्यवस्था भवति। तथा चोक्तम्।



निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः।



ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः॥३८॥ इति



 



तत्र रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैर्विंशतिप्रकारैर्निर्वेधभागीयस्थानामवैवर्तिकलक्षणं ज्ञेयम्। तथा चोक्तम्।



 



रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितैः



निर्वेधाङ्गस्थितस्येदमवैवर्त्तिकलक्षणम्॥३९॥ इति



 



तथतास्वभावत्वाद्रुपादिभ्यो निवृत्तिं॥ तावत्प्रतिपादयितुमाह। अविनिवर्तनीयस्येत्यादि। तत्राकाराः प्रतिपक्षसंगृहीताः। लिङ्गानि स्वाश्रयचिह्नानि। निमित्तानि तत्परिभोगोपकरणगतानि। अथवाकारः कायिको हर्षविशेषो रोमोद्गमाश्रुपातादिः। लिङ्गं वचन विशेषः प्रहर्षाध्येषणादिः। निमित्तमनुष्ठानविशेषः। श्रवणधारणवाचनपूजनादिः। पूर्वपूर्वव्याख्याभूतान्यमूनि वा पदानि। कथं वा वयम्भगवञ्जानीयाम इत्यनेनासङ्कीर्णप्रतिपत्तिनिमित्तं प्रश्नयन्नाह। परिहरन्नाह। या च सुभूत इत्यादि। तथताभूमिरिति सर्वभूमेर्मायोपमत्वात्। तदेवाह। सर्वा इत्यादिना। युक्त्यागमाभ्यां निश्चितत्वेनान्यथा कारणासम्भवाद्यथासंख्यं न कल्पयति। न विकल्पयति। ततोऽपीति। पर्षन्मण्डलात्। एवमेतदिति। रूपादिभ्यो निवृत्तत्वेन। एवमेतत्तथतैव सत्या मोहोऽन्य इति चिन्ताश्रवणकालेऽधिमुञ्चत्यवगाहते। भावग्रहापरिदीपनान्न च यत्किञ्चित्प्रलापी भवति। मायोपमप्रकाशकत्वेनार्थसंहितामेव वाचं भाषते नानर्थसंहिताम्। धर्मताभावनाभियोगान्न च परेषां कृताकृतानि कार्याकार्याणि व्यवलोकयति। धारयितव्य इति। हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते,अर्थान्तरानपेक्षत्वात्स स्वभावोऽनुवर्णित इति न्यायाद्योग्यतानुमानेन निश्चेतव्यः। अवेत्य प्रसादलाभेन विचिकित्साक्षयमावेदयन्नाह। पुनरपरमित्यादि। मुखमुल्लोकयतीति। ज्ञातव्यतत्त्वपरिज्ञानादिसम्भावनाशयेनाराधनतया न मुखं निरीक्षते। व्यपाश्रयत इति। शरणादिभावान्न स्वीकरोति। प्रणिधानसमृद्ध्याऽष्टाक्षणक्षयार्थमाह। स खलु पुनरित्यादि। नापायेषूपपद्यत इति। नरकप्रेततिर्यगुपपत्त्यभावः साक्षात् कथितः। उपलक्षणत्वादस्य मिथ्यादृष्टिबुद्धवचनाश्रवणप्रत्यन्तजनपदोत्पादाभावो ग्राह्यः। न च स्त्रीभावं परिगृह्णातीति। स्त्रीभावप्रतिषेधवचनादिन्द्रियजडमूकभावं न गृह्णातीति लभ्यते। चशब्दान्न दीर्घायुष्कदेवोपपत्तिं गृह्णातीत्यर्थः। कारुणिकतया स्वपरकुशलधर्मनियोजनार्थमाह। पुनरपरमित्यादि। तत्र प्राणातिपातः परेषां जीवित क्षयः। स्थानाच्चौर्येण परद्रव्यव्यावनमदत्तादानम्। अनङ्गादौ स्त्याद्यभिगमनं काममिथ्याचारः।



 



वल्कलैः सगुणैः काचित्क्रियते मधुनाऽपरा।



पिष्टकिण्वजलैरन्या सुरा ज्ञेया त्रिधा बुधैः।



मैरेयं गुडधात्र्यंबुधातकी संस्कृतं विदुः॥



मदयेदशितं पीतं यत्तन्मद्यमिति स्मृतम्।



तदेतन्त्रिविधं सर्वं शुक्लधर्मविपक्षतः॥



 



प्रमादस्थानमित्याह प्रसङ्गादागतं पुनः। अभूताभिधानमनृतवचनम्। परभेदकं वचः पिशुनवचनम्। अप्रियाभिधानं परुषवचनम्। सर्वक्लेशजनितं वाक्यं सम्भिन्नप्रलापः। अभिध्या परद्रव्येषु विषयस्पृहा। व्यापादः सत्त्वविद्वेषः। नास्तीति मिथ्यादृष्टिदर्शनम्। सर्वेण मन्त्रप्रयोगादिना। सर्वं निखिलसत्त्वविषयम्। सर्वथा मृद्वादिनाऽपि प्रकारेण। सर्वं तच्चित्तमपि नाध्यापद्येत न कुर्यात्। परात्मपरिवर्तकत्वेन सर्वसत्त्वविषयपरिणामितदानादिकार्थमाह। पुनरपरमित्यादि यं यं धर्ममिति सूत्रादिकं पर्यवाप्नोतीति स्वीकरोति। ददाति। फलेन सह प्रयच्छति। सम्यग्धर्मावबोधेन। गम्भीरधर्माकांक्षणार्थमाह। पुनरपरमित्यादि। तत्र मार्गान्तराभिलाषोऽपर्याप्तितामुपादाय कांक्षा। ऋजुमार्गविलोमनं विमतिः। गोत्रधर्मस्य विविधकुशलवृद्धिगमनाभावेन विचिकित्सनाद्विचिकित्सा। सर्वथा बोधवैकल्याद्वन्धत्वम्। परहितप्रतिपन्नत्वेन मैत्रकायवाङ्मनस्कर्मार्थमाह। हितवचन इत्यादि। तत्र मैत्रकायकर्मणा योगादनागतपथ्याभिधायितया हितवचनः। तथैव वाक्कर्मसद्भावेन परिमितवचनान्मितवचनः। मैत्रीपरिभावितचित्तसमुत्थापितत्वेन श्रोत्रसुखादिकारित्वात् स्निग्धवचनः।



 



प्रयोगसम्पत्त्या कामच्छन्दो व्यापादः। स्त्यानमिद्धमौद्धत्यकौकृत्यं विचित्कित्सा चेति पञ्चनिवरणासंवासार्थमुपलक्षणात्वेनाह। अल्पस्त्यानमिद्धश्च भवतीति। विभावितप्रतिपक्षत्वेनाविद्यादिसर्वानुशयहानार्थमाह। निरनुशयश्च भवतीति। तत्राविद्यादृष्ट्याश्रवसङ्गृहीतानामनुशयानामभावान्निरनुशयत्वम्। न तु कामभावाश्रवसङ्गृहीतानां बोधिसत्त्वस्य सञ्चिन्त्यभवोपादानात्। नित्यसमाहितत्वेन स्मृतिसम्प्रज्ञानार्थमाह। सोऽभिक्रामत्वेत्यादि। तत्रागमनमभिक्रमः। गमनं प्रतिक्रमः संप्रज्ञानयोगान्न भ्रान्तचित्तः। स्मृतिसद्भावादुपस्थितस्मृतिः। भिन्नेर्यापथपरिहारार्थं नातिमन्दं न विलम्बितम्। शान्तरूपाभिद्योतकत्वात् सुखम्। एकपादस्य सम्यगप्रतिस्थानेऽपरपादानुत्क्षेपान्न च सहसा पादं भूमेरुत्क्षिपति। सप्राणकदेशपरिहारार्थं न च सहसा पादं भूमौ निक्षिपति। चौक्षसमुदाचारत्वेन शुचिपरिभोग्यचीवरादिकार्थमाह। तस्य खलु पुनरित्यादि। तत्राल्पबाधोऽल्पव्याधिः। अल्पादीनवोऽल्पपरोपद्रवः। तदेवमूष्मगतावस्थास्यैकादशाकारा भवन्ति। सर्वलोकाभ्युपगतकुशलत्वेन कायेऽशीतिकृमिकुलसहस्रासम्भवार्थमाह। यानि खल्वित्यादि। सर्वेणाणुनापि रूपेण सर्वं कृमिकुलम्। सर्वथा वर्णादिप्रकारेणा,सर्वमशीतिसहस्रसंख्यम्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि तस्येत्यादि। कुशलमूलविशुद्ध्या चित्ताकौटिल्यार्थमाह। यथा यथा चेत्यादि। तत्र कायपरिशुद्धिर्लक्षणाद्यलङ्कृतगात्रता। वाक्यपरिशुद्धिर्ब्रह्मस्वरादिरूपताद्वयमेतच्चित्तपरिशुद्धिकार्यत्वेनोक्तम्। अत एव चित्तपरिशुद्धिविभजनार्थं प्राधान्यादाह। का पुनरित्यादि। तत्र लाभादिनिरपेक्षत्वाच्चित्ताल्पकृत्यता। भूतदोषपरिलम्बनाभावाच्चित्ताशाठ्यता। सम्यगभूतगुणसन्दर्शनवैकल्याच्चित्तामायाविता। यथाभूतवादित्वाच्चित्ताकुटिलता। मात्सर्यादिविविक्तत्वाच्चित्तावङ्कता। यया चेति महायानप्रवणया लाभसत्कारादिनिरपेक्षत्वेन द्वादशधूतगुणसमादानार्थमाह। पुनरपरमित्यादि। तत्र लाभो द्रव्यप्राप्तिः। सत्कारो बहुमानता। श्लोकः कीर्तिः। न तद्गुरुको न तत्प्रवणो भवति। तत्रेमे द्वादशधूतगुणाः। यदिदं। पांशुकुलिकत्वं,त्रैचीवरिकत्वं,सर्वनामयिकत्वं,पैण्डपातिकत्वं,ऐकासनिकत्वं,पश्चात् खलु भक्तिकत्वं,आरण्यकत्वं,वार्क्षमूलिकत्वं,अभ्यवकाशिकत्वं,श्माशानिकत्वं,नैषद्यिकत्वं चेति। दानादिविशेषप्रतिपत्त्या पारमिताविपक्षमात्सर्यादिचित्तानुत्पादार्थमाह। नेर्ष्यामात्सर्यबहुलो भवतीति। उपलक्षणत्वात्सर्वपारमिताविपक्षो ग्राह्यः। धर्मधातुना सर्वधर्मसंग्रहाद्धर्मताऽविरुद्धप्रज्ञापारमितायोगगमनार्थमाहः। न च गम्भीरेत्यत्यादि। चालयितुमशक्यत्वात् स्थिरबुद्धिः। सूक्ष्मार्थदर्शनाङ्गम्भीरबुद्धिः। संयोजनात्संस्यन्दयति। स्वात्मीकृतसत्त्वधातुत्वेन परार्थनरकाभिलाषार्थमाह। पुनरपरमित्यादि। गृहीतबोधिचित्तपरित्यागात् प्रतिदेशय। पुनरनुत्पादनात्प्रतिनिःसृज। दोलायमानत्वाभावान्न क्षुभ्यति। गृहीतापरित्यागान्न चलति। तदेवं मूर्धगतावस्थस्य षडाकारा भवन्ति। अधिगतसंप्रत्ययधर्मत्वेनापरप्रणयनार्थमाह। पुनरपरमित्यादि। दुःखादिसत्यचतुष्टयस्य मायोपमत्वेनावगमाद्धर्मतामित्यादि पदचतुस्कोपादानम्। न परस्य श्रद्धया गच्छतीति। धर्मताप्रत्यक्षकारित्वान्न परमं प्रत्ययेन प्रतिपद्यते। एतदेव दृष्टान्तपूर्वकं स्पष्टयन्नाह। तद्यथापि नाम सुभूत इत्यादि। अनपहरणीयत्वादसंहार्यः। निवृत्त्यसम्भवादप्रत्युदावर्तनीयधर्मा। एकान्तस्थितत्वान्नियतो भवति सर्वज्ञतायाम्। एतदेव विस्तारयन्नाह। सम्यक्सम्बोधिपरायण इति। विदितबुद्धत्वोपायकौशलत्वेन प्रतिरूपमार्गोपदेशकमारस्य मारत्वावबोधार्थमाह। पुनरपरमित्यादि। एषेति प्रज्ञापारमिताचर्या। इहेत्यस्मिन्नेव जन्मनि दुःखस्यान्तं कुरु चतुरार्यसत्यभावनयेति शेषः। अहोवतेत्यादि। अहो कष्टमिहैव तावत्तवायमात्मभावो धर्मताधिगमवैकल्येन यदोतरकालमपरिनिष्पन्नोऽनभिनिवृत्तो भविष्यति,तदा कस्मात्पुनस्त्वमन्यमात्मभावं प्रणिधानादिबलेन सत्त्वार्थं प्रतिग्रहीतव्यं मन्यस इत्यर्थः। मारोऽयमित्यन्यमार्गोपदेशिनोऽवबोधेन निवर्तनासम्भवादविनिवर्तनीयः। तदेव क्षान्तिगतावस्थस्याकारद्वयं स्यात्। त्रिमण्डलविशुद्ध्या सर्वत्र बुद्धानुमोदितप्रतिपत्त्यर्थमाह। स चेद्बोधिसत्त्वस्येत्यादि। चित्तं परतः श्रुत्वैवमिति। परस्मात्परतो मारादेव नैतद्बुद्धभाषितमित्यादीनि विवेकपदानि श्रुत्वा चित्तं धर्मताया न परिहीयत इत्यर्थः। प्रयोगमौलपृष्ठावस्थासु न परिहीयते न प्रत्युदावर्तते। न चान्यथाभावश्चित्तस्येति यथाक्रमं योज्यम्। तथा चरन्निति। बुद्धानुज्ञातचर्यया चरन्नित्यर्थः। उपसंहरन्नाह। स चेद्बोधिसत्त्वो महासत्त्वेत्यादि। तदेवमग्रधर्मगतावस्थस्यैक आकारः स्यात्। यथोक्तैरेवाकारैर्निर्वेधभागीयस्थितो बोधिसत्त्वोऽनुत्तरबोधेर्न निवर्तते इति लक्षणीयः। तथा चोक्तम्।



 



रूपादिभ्यो निवृत्तिश्च विचिकित्साऽक्षणक्षयौ।



आत्मनः कुशलस्थस्य परेषां तन्नियोजनम्॥४०॥



पराधारञ्च दानादि गम्भीरेऽर्थेऽप्यकांक्षणम्।



मैत्रं कायाद्यसंवासः पञ्चधाऽवरणेन च॥४१॥



सर्वानुशयहानञ्च स्मृतिसंप्रज्ञता शुचि।



चीवरादि शरीरे च कृमीणामसमुद्भवः॥४२॥



चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता।



धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा॥४३॥



परैरनेयता मारस्यान्यमार्गोपदेशिनः।



मार इत्येव बोधश्च चर्या बुद्धानुमोदिता॥४४॥



ऊष्मामूर्द्धसु सक्षान्तिष्ठग्रधर्मेष्ठवस्थितः।



लिङ्गैरमीभिर्विंशत्या सम्बोधेर्न निवर्तते॥४५॥ इति।



 



निर्वेधभागीयस्थावैवर्तिकलक्षणानन्तरं दर्शनमार्गस्थावैवर्तिकलक्षणं दुःखे धर्मज्ञानक्षान्त्यादिभिः षोडशभिः क्षणैर्वक्तव्यम्। तथा चोक्तम्।



 



क्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे।



बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम्॥४६॥इति



 



तत्र रूपादिधर्मावबोधव्यावर्तनेन दुःखे धर्मज्ञानक्षान्तिरिति कथयन्नाह। पुनरपरमित्यादि। व्यवस्थितविशेषानुत्पादान्नाभिसंस्करोति। अपूर्वाकरणान्नोत्पादयति। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। स्वलक्षणशून्यैरिति। स्वभावशून्यधर्मतया रूपादिधर्मावबोधानुपलम्भाद्बोधिसत्त्वन्यामं दुःखे धर्मज्ञानक्षान्तिमधिगतोऽवक्रान्तः संस्तमपि धर्मं नोपलभते। यतस्तं नाभिसंस्करोति। नोत्पादयतीत्यर्थः। अनुत्पादज्ञानक्षान्तिक इति यथा निर्दिष्टक्षान्तिलाभी। अनुत्तरबोधिचित्तदृढतया दुःखे धर्मज्ञानमित्याह। पुनरपरमित्यादि। दर्शनभावनाविशेषमार्गेष्ठसत्त्वप्रतिपादनार्थमाकाशसमेत्यादिपदत्रयोपादानं प्रयोगादिषु वा श्रवणचिन्ताभावनादिष्वेवं ज्ञातव्यमित्यादि योज्यम्। तत्र दृढं चित्तं निरन्तरायसारतया। अप्रकम्प्यं धर्मताप्रत्यक्षकारितया। असंहार्यं परेषामविषयतया। समादानप्रयोगाद्देशापरिभ्रंशार्थेन वा योज्यम्। श्रावकप्रत्येकबुद्धयानचित्तविनिवर्तनात्। दुःखेऽन्वयज्ञानक्षान्तिरित्याह। पुनरपरमित्यादि। श्रावकप्रत्येकबुद्धभूमिनिवृत्तः। सर्वज्ञतायां प्रवृत्तो भवतीति। तत्र सत्यां प्रवृत्तौ या विनिवृत्तिः,सत्यां विनिवृत्तौ या प्रवृत्तिः,ते त्विह निवृत्तिप्रवृत्तौ निर्दिष्टे। न तु निवृत्तिप्रवृत्तिमात्रे तयोः सम्यगर्थाकरणात्। तथा तृतीये क्षणेऽन्वयज्ञानसम्बन्धे न श्रावकादिभूमिपातः सम्भवति। तस्य त्रैधातुकप्रतिपक्षावाकहत्वादतस्तन्निवृत्त्याकारः कथितः। धर्मप्रविचयसामर्थ्याद्ध्यानाद्यङ्गपरिक्षयेण दुःखेऽन्वयज्ञानमित्याह। स आकांक्षन्नित्यादि। नवानुपूर्वसमापत्त्याद्युपलक्षणम्। अत्र ध्यानानि दृष्टधर्मसुखविहारार्थमभिमुखीकरणाद्ध्यानैर्विहरति,तत्फलसाक्षात्करणाद्ध्यानपरिजयञ्च करोति। तत्तदङ्गप्रहाणेनाधिगतान्वयज्ञानस्य रूपारूप्यधातुप्रतिपक्षत्वज्ञापनार्थमालम्बनाद्ध्यानानि च समापद्यते। अनुकूलात्मभावसंपरिग्रहान्न च ध्यानवशेनोपपद्यते। दुःखेऽन्वयज्ञानावस्थायां बोधिसत्त्वस्य वैराग्यलाभानुपपत्त्या स पुनरेव कामावचारान्धर्मानध्यालम्बत इति योज्यम्। अपगताकुशलत्वेन कायचेतोलाघवात् समुदये धर्मज्ञानक्षान्तिरित्याह। पुनरपरमित्यादि। दर्शनहेयविकल्पानपहृतत्वेन कायचित्तलाघवोत्पादान्न नामादिगुरुको भवति। बाह्याध्यात्मिकयशोभेदात्कीर्तिः श्लोक इति द्वयमुक्तम्। विदितस्वलक्षणशून्यधर्मत्वान्नामाद्यलाभेऽपि वैमनस्याभावेनासंक्षुभितचित्तः। मायोपमभावनोपायकौशलसामर्थ्येनानभिनिवेशकामोपभोगात्समुदये धर्मज्ञानमित्याह। सचेत्सोऽगारमित्यादि। अगारं गृहं प्राप्तेषु कामेषु कामाभिष्ठङ्गोऽभिनिवेशः। अप्राप्तेष्वभिप्रायः प्रार्थना। मायोपमनिर्वाणधर्मावगमान्निर्विन्संज्ञा। एतदेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। जीवितेन्द्रियादिनिरोधदर्शनादुत्रस्तसंज्ञा समयत्वादविश्रब्धम्। अनागतेष्वनर्थिका वर्त्तमानेष्वगृद्ध्या विनष्टेष्वसक्ता इत्येके। प्रयोगादिषु चेत्यपरे। प्रासादिकसुखदत्त्वात् प्रियरूपसातरूपाणि। तेऽगारमध्यावसन्तोऽनर्थिका एव च भवन्तीति पूर्वेण सम्बन्धः। विषयादीनवदर्शनेन सदा ब्रह्मचारित्वात्समुदयेऽन्वयज्ञानक्षान्तिरित्याह। न समविषमेणेत्यादि। न समविषमेण नोद्धारवृद्धिन्यायेन। न्यायोपात्तत्वाद्धर्मेण सदा ब्रह्मचारित्वान्नाधर्मेण। शमथस्निग्धसन्तानत्वान्न परेषामपमर्दनमुपघातं कुर्वन्ति। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि तैरित्यादि। सत्पुरुषैरित्यादिस्तुतिरित्येके। षोडशक्षणदर्शनमार्गलाभाद् यथाक्रमं सत्पुरुषैरित्यादिषोडशपदानीत्यपरे। सत्पुरुषधर्मतया सम्यगुपकरणाजीवविशुद्धत्वात्समुदयेऽन्वयज्ञानमित्याह। पुनरपरमित्यादि। वज्रपाणिरित्येतत्संज्ञकोऽन्यः कश्चित् प्रतिविशिष्टो महायक्षः। अनभिभवनीयकायवाकचित्तत्वाद्यथासंख्यम्। दुर्घर्षानतिक्रमणीयदुरासदपदानि वाच्यानि। वस्तिगतकोषगुह्यत्वात् पुरुषवृषभेन्द्रियसमन्वागतः। आर्यतारादिमन्त्रप्रकारो मन्त्रजातिः। चन्द्रसूर्यग्रहोत्पादितभृङ्गराजादिरोषधिः। मन्त्रजात्योषध्य एव विद्याभेषजादि। आदिशब्दाद्यन्त्रादिपरिग्रह इत्येके। मन्त्रजातिर्लोकोत्तरा बहुद्रव्यसमाहारलक्षणौषधिः। विद्या लौकिकी भेषजमेकाङ्गिकमित्यपरे। पुरुषदेवतासम्बन्धान्मन्त्रजातिः। उत्पन्नव्याधिप्रतीकारार्थमोषधिः। स्त्रीदेवतासम्बन्धाद्विद्या,भेषजमनागतोत्पातप्रतिषेधार्थमित्यन्ये। कायवाक्कलहाभावान्न विग्रहविवादशीलः। शून्यतावस्थितत्वेन स्कन्धधात्वायतनयोगानुयोगविहारप्रतिषेधान्निरोधे धर्मज्ञानक्षान्तिरित्याह। पुनरपरमित्यादि। "योगानुयोगग्रहणेन दुःखसमुदयसत्ययोर्निरोधमार्गसत्ययोश्च यथाक्रमं योगानुयोगयोर्वापर्यं ज्ञापितमि"त्यार्यविमुक्तिसेनः। स्कन्धादिषु प्रथमोऽभिनिवेशो योगः। पश्चादत्यन्ताभिनिवेशोऽनुयोग इत्यपरे। निरस्तविपक्षत्वेनाधिगमान्तरायधर्मकथायोगानुयोगविहारप्रतिषेधान्निरोधे धर्मज्ञानमित्याह। न सङ्गणिकेत्यादि। कथाग्रहणेन वस्तुविकल्पस्य दुःखसमुदयज्ञानकाल एवोत्सन्नत्वान्निरोधज्ञानस्य कथामात्रविकल्पप्रतिपक्षत्वमावेदितम्। एताञ्चावस्थामधिकृत्योच्यते।



 



नाममात्रमिदं सर्वं संज्ञामात्रे प्रतिष्ठितम्।



अभिधानात्पृथग्भूतमभिधेयं न विद्यते॥इति।



 



परिज्ञातविकल्पदोषत्वेन बोधिसम्भारभूतदानादिप्रचुरविचित्रधर्मसेनाकथायोगानुयोगविहारप्रतिषेधान्निरोधेऽन्वयज्ञानक्षान्तिरित्याह। न सेनाकथेत्यादि। तत्र सेना बोधिसम्भारधर्मसमूहः। निरोधज्ञानावस्थायां प्रभूतसमुदागमस्योपयुक्ततानेन सूचिता। तथा हि प्रकृतिशून्यतायां स्थितो न कस्यचिद्धर्मस्याल्पत्वं वा बहुत्वं वा समनुपश्यतीत्यार्यपञ्चविंशतिसाहस्रिकावचनादित्येके। ग्राह्यग्राहकयोर्हेयत्वेन विपक्षप्रतिपक्षघात्यघातकयुद्धकथायोगानुयोगविहारप्रतिषेधान्निरोधेऽन्वयज्ञानमित्याह। न युद्धकथेत्यादि। एवंभूतावस्थस्य स्वरसत एव विपाकनिरोधश्चतुर्विधो भवति। यदुतेन्द्रियग्रामनिरोधः प्रथमः। तथेन्द्रियाश्रयभूतभौतिकनगरनिरोधो द्वितीयः। तथेन्द्रियविषयनिगमनिरोधस्तृतीयः। यदाह न ग्रामेत्यादि। जनपदादयो निगमप्रभेदाः। आत्माभिनिवेशनिरोधश्चतुर्थः। यदाह। नात्मकथेत्यादि। आत्मन एवात्मीयसम्बन्धेन प्रभेदार्थं नामात्येत्याद्युपादानम्। स चायं चतुर्विधो विपाकनिरोधः प्रत्येकं त्रैधातुको वेदितव्यः। तत्र कामरूपधात्वोरिन्द्रियाधारविषयनिरोधोऽतिप्रतीतः। आरूप्ये तूपेक्षाजीवितमनः सञ्ज्ञेन्द्रियसद्भवादिन्द्रियनिरोधः।



 



निकायं जीवितञ्चात्र निःश्रिता चित्तसन्ततिः।



 



इति कृत्वेन्द्रियाधारनिरोधः। मनोविषयधर्मनिरोधसम्भवादिन्द्रियविषयनिरोधः सम्भवति। सर्वत्रात्माभिनिवेशस्तु विद्यत एवेति तन्निरोधोऽप्युपपन्नः। दानादिविशेषावबोधेन मात्सर्यदौःशील्यादियोगानुयोगविहारप्रतिषेधान्मार्गे धर्मज्ञानक्षान्तिरित्याह। न धर्मविरुद्धकथेत्यादि। धर्मविरुद्धकथानिषेधेन क्षान्तेरानन्तर्यमार्गत्वात् क्लेशविसंयोगकारणत्वं विज्ञापितम्। कायवाक्समारम्भः कलहः। वाक्‍चित्तकृतं वैरूप्यं भण्डनम्। विग्रहविवादौ व्याख्यातौ। कुशलधर्मानुवर्तनाद्धर्मकामाः। प्रतिपत्तिफलधर्मयोः संस्कृतासंस्कृतत्वाद्यथाक्रमं हानोपादानकथनादभेदवर्णवादिनः विशिष्टतरावस्थाप्राप्त्यभिलाषान्मित्रकामाः। श्रावकाद्यसाधारणधर्मगदनाद्धर्मवादिनः। उपपत्तिवशितालाभात्तत्रोपपद्यन्ते। यथोक्तक्षान्तिमेव स्पष्टयन्नाह। पुनरपरमित्यादि। कोविदा इति पण्डिताः। यद्भूयस्त्वेनेति बाहुल्येन। सर्वधर्मत्रिविमोक्षमुखस्वभावत्वेनाणुमात्रधर्मानुपलम्भान्मार्गे धर्मज्ञानमित्याह। पुनरपरमित्यादि। मायोपमसर्वधर्मावगमेनाणुमात्रधर्मोपलम्भवैकल्यान्नैवं भवत्यविनिवर्तनीयो वाहं न वाहमविनिवर्तनीय इति। प्रयोगाद्यवस्थासु विचिकित्सासंशयसंसीदनापदानि योज्यानि। विचिकित्साद्यभावत्वेन विमुक्तिमार्गत्वाज्ज्ञानस्य विसंयोगप्राप्तिकारणत्वं कथयति। तदेव दृष्टान्तपूर्वकं स्पष्टयन्नाह। तद्यथापि नामेत्यादि। मारकर्मावरोधादिना विसंयोगप्राप्तिकारित्रमेव ज्ञापयति। पुनरपि दृष्टान्तेन विस्तारयन्नाह। तद्यथापि नाम सुभूते पुरुष इत्यादि। सर्वथाऽपनयनात् प्रतिविनोदयितुं तावत्कालासमुदाचारात् विष्कम्भयितुं वा चालयितुं वा कम्पयितुं वेति स्वस्थानादपनेतुं तत्रैवादृढीकर्तुमित्यर्थः। अनेन च सदेवकेन लोकेन शक्यनिवृत्तित्वेन सदेवकं लोकमतिक्रम्य न्यामावक्रमणान्मार्गे धर्मज्ञानस्य त्रैधातुकप्रतिपक्षत्वं ज्ञापितं भवेत्। जातिव्यतिवृत्तस्यापीति जन्मान्तरगतस्यापि श्रावकादिचित्तानुत्पादेन प्रयोगस्य यानान्तरनिर्याणाभावादैकान्तिकत्वमावेदितम्। अभिसम्प्रत्ययलाभेन त्रिसर्वज्ञतात्मकस्वभूमित्रयनिश्चितावस्थानान्मार्गेऽन्वयज्ञानक्षान्तिरित्याह। जातिव्यतिवृत्तस्याप्येवं भवति नाह मित्यादि। स्वस्यां भूमाविति। त्रिसर्वज्ञतायाम्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। चित्तेनेति। पञ्चाभिज्ञाधिगमेन। ज्ञानेनेति। सत्याभिसम्बोधेन। तथा तन्नान्यथेति। अर्हत्वं बोधिसत्त्वैर्न साक्षात्कर्तव्यमिति। यथोक्तं भगवता तथैव तन्नान्यथेत्यर्थः। एवं प्रत्यवेक्षते। एवं समन्वाहरतीति प्रत्यक्षानुमानाभ्यामवधारयति। बुद्धाधिष्ठानमिति। बुद्धरूपम्। अबद्धा वतायमिति। अवश्यं वतायम्। तथैव तत्कस्य हेतोरित्याशंक्याह। तथा ह्यस्येत्यादि। एकान्तनिष्ठत्वेन सर्वाकारज्ञतादिधर्मार्थं जीवितत्यागान्मार्गेऽन्वयज्ञानमित्याह। पुनरपरमित्यादि। तत्र कायत्यागादात्मपरित्यागः। चित्तत्यागाज्जीवितपरित्यागः। उभयाभिधानं व्यस्तसमस्तात्मपरित्यागज्ञापनार्थमित्यन्ये। प्रेम स्नेहः। गौरवं बहुमानता। ममाप्येष इत्यनेन विसंयोगप्राप्तेः सर्वधर्मपरिग्रहसभागता ज्ञापिता। यथोक्तज्ञानमेव विस्तारयन्नाह। पुनरपरमित्यादि। तथैव तत्कस्य हेतोरित्याशंक्याह। तथा हि तेनेत्यादि। यथोक्तैरेवाकारैरचिन्त्योपायवतां बोधिसत्त्वानां धर्मनैरात्म्यद्योतकैः साक्षात्कृताः षोडशक्षणा दर्शनमार्गस्थाऽवैवर्तिकबोधिसत्त्वलक्षणं ग्राह्यम्। तथाचोक्तम्।



 



रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हीनयोः।



यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः॥४७॥



कायचेतोलघुत्वञ्च कामसेवाभ्युपायिकी।



सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता॥४८॥



स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके।



समरे मत्सरादौ च नेति योगानुयोगयोः॥४९॥



विहारप्रतिषेधश्च धर्मस्याणोरलब्धता।



निश्चितत्वं स्वभूमौ च भूमित्रितयसंस्थितिः॥५०॥



धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः।



अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः॥५१॥ इति



 



ननु कथं योगिसन्तानप्रत्यात्मवेद्यक्षणाः परप्रतिपत्तये लक्षणानीति चेत्। उच्यते। यतः क्षान्तिज्ञानक्षणाः सम्यगधिगताः सन्तोऽनभिनिविष्टग्राह्यग्राहकाकारशुद्धलौकिकपृष्ठचित्तसंगृहीतं स्वानुरूपकार्यं रूपादिसंज्ञाव्यावर्तनादिकं परप्रतिपत्तिविषयं जनयन्त्यधिगमानुरूप एव सर्वत्र योगिनां व्यवहारोऽन्यत्र सत्त्वविनयप्रयोजनवशादितिकृत्वा तस्मात्ते लक्षणानि भवन्तीति।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां अविनिवर्तनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project