Digital Sanskrit Buddhist Canon

षोडशपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Ṣoḍaśaparivartaḥ


 



षोडशपरिवर्तः।



 



अप्रतिघातस्वभावं निर्दिशन्नाह। अथ खल्वायुष्मानित्यादि । नायमिति। त्रिविधसर्वज्ञताकारसुपरिपूर्णाभिसमयत्वेन सर्वत्र रूपादौ ज्ञानधर्मस्याप्रतिघातित्वादयं देशनाधर्मो न क्वचित्प्रतिहन्यते। अपदस्वभावं वक्तुमाह। अप्रतिहतेत्यादि। सर्वपदानुपलब्धित इति। ज्ञानज्ञेयसमतया सर्वप्रतिष्ठानुपलम्भार्थेनाप्रतिहतलक्षणोऽनभिभूतः। अद्वितीयत्वादिति। एकाकित्वादप्रतिमलक्षणोऽसादृश्यलक्षणः। निःप्रत्यर्थिकत्वादिति। सर्वप्रतिपक्षसमतिक्रान्तत्वादप्रतिलक्षणोऽप्रतिपक्षलक्षणः। अनभिनिवृत्तत्वादिति। अजातत्वादपदोऽप्रतिष्ठास्वभावः। सर्वोपपत्त्यनुपपत्तित्वादिति। देवादिसर्वगतिष्ठविद्यमानरूपत्वादनुत्पादः। सर्वपथानुपलब्धित्वादिति। सर्वमार्गत्वेनानुपलम्भादपथोऽमार्गः। अपद इत्यस्य प्रयोगदर्शनभावनाविशेषाशैक्षमार्गेषु विशेषणार्थमप्रतिहतलक्षण इत्यादि पञ्चपदोपादानम्। अगतिस्वभावं कथयन्नाह। अनुजातो वतायमित्यादि। भगवतः सम्बन्धी श्रावकोऽयमनु पश्चाज्जातस्तथागत इवेत्यनुजातः। कथं श्रावकोऽपि तथागत इवानुजात इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हि भगवन्नित्यादि। यस्मात्सर्वमेव धर्ममनधिगतार्थविषयमपि सम्यक्‍शून्यतया देशयति,तस्मात्तथागत इवानुजात इत्यर्थः। वस्तुधर्मत्वेनानुजातार्थं विघटयन्नाह। यद्देवपुत्रा इत्यादि। अजातत्वादिति। तत्वेनानुत्पन्नत्वादजातस्तथागतस्य श्रावकः सुभूतिस्तस्यैव तथतामनुयातः। प्राप्तस्तादात्म्येनानुगतः। "तथाभावस्तथतेत्यत एव निर्देशादस्य ह्रस्वत्वमि"त्याचार्यवसुबन्धुः। कथमित्याह यथा तथागतेत्यादि। एवं हि सुभूतिरिति। यस्मादनन्तरोक्ततथतारूपेण तथागततथतामनुयातस्ततोऽजातत्वादनुजात इति पूर्वेण सम्बन्धः करणीयः। एवमुत्तरत्राप्यवगन्तव्यम्। अभ्यासयोगेन तत्तथताप्राप्तौ कथं न वस्तुधर्मत्वेनानुजातः स्यादित्याह। आदित एवेत्यादि। आदित इति। प्रथमत एवेत्यर्थः। निर्युक्तिकमेवेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। या हीत्यादि। सा सर्वधर्मतथतेति। द्रव्याभिमतानां रूपादीनां सामान्यधर्मताऽनुत्पाद इति यावत्। एवं तथागतसर्वधर्मतथतयोः परस्परमभेदेन तथागततथतायाः सर्वविषयत्वमावेदितम्। अतश्च सैव सुभूतेरपीत्याह। या चेत्यादि। अतोऽनुजात इति तथताप्राप्तियोगादनुजातः। तथता तर्हि द्रव्यसती स्यादित्याह। सापि चेत्यादि। अतथतेति,निर्विषयप्रतिषेधानुपपत्तेस्तथतापि सांवृती मायोपमेति यावत्। तथागतमनुजात इति। अनुशब्दयोगे कर्मविभक्तिः। तथागतस्येति पाठे तत्सम्बन्धो विवक्षितः। तत्त्वतो धर्मतारूपत्वे कथमनुजात इत्याह। तथागतस्येत्यादि। स्थितितेति। संवृत्या प्रबन्धधर्मता। यद्येवं विकारादिमान् सुभूतिः स्थविरः स्यादित्याह। यथा तथागतेत्यादि। तत्राधिकन्यूनविकाराभावाद्यथाक्रममविकारानिर्विकाराः। स्वपरविकल्पवियोगादविकल्पा निर्विकल्पा। तथागततथतावत्सुभूतितथता कुतोऽविकारादिस्वभावेत्याह। एतदेव कुत इति। तत्कस्य हेतोरित्याशङ्क्याह। या च तथागततथतेत्यादि। एकैवैषेत्यभिन्ना यस्माद्भेदककर्मकर्तृक्रियाऽनुपलम्भादद्वयाऽद्वैधीकाराऽद्वयतथतेत्यर्थभेदो वाच्यः। सर्वथाऽऽधारत्वविरहान्न क्वचित्। हेतोरभावान्न कुतश्चित्। सम्बन्धिनोऽसत्त्वान्न कस्यचित्। सम्बन्धिभावादौ तु वस्तुत्वापत्तेस्तथतैव न स्यादित्याह। यतः सेत्यादि। एवं हि सुभूतिरिति। तथागतसर्वधर्मतथतयोरेवमेकस्वभावत्वेन तथागततथतया सङ्गृहीतत्वान्निर्विकारादिस्वभावा सुभूतितथता। तस्मादकृततथतयाऽनुजात इत्यर्थः। तथतारूपेण सर्वेषामनुजातत्वे सुभूतेः कोऽतिशय इति चेत्। सत्यम्। किन्तु यदेव विवादास्पदीभूतं तदेव निर्दिश्यते। अन्यथाऽश्रोतृसंस्कारकं वाक्यं कुर्वाणः कथं नोन्मत्तः स्यात्। एतदेव स्पष्टयन्नाह। या चाकृततथतेत्यादि। न सा कदाचिन्न तथतेति। सर्वदैव तथतेत्यर्थः। उपसंहरन्नाह। यथा तथागततथता सर्वत्रेत्यादि। सर्वत्रेति सर्वस्मिन् काले। अभिनिर्मित इति। प्रभावितो निष्पादितः। अलुप्तमिति। लुप्तमप्रतीतमदृष्टं न लुप्तमलुप्तं दृष्टं प्रतीतमिति यावत्। भेदकानुपलब्धित इति। प्रमाणोपपन्नैकस्वभावत्वेन तथताया भेदकप्रमाणानुपलम्भेन द्वयमप्यनन्तरोक्तमभिन्नमित्येतदलुप्तम्। सर्वधर्मतथतात्मिका तथागततथता सुभूतितथता पुनर्न तथाविधा। तत्कथं तथतया द्वयमभिन्नं स्यादित्याह। यथा तथागततथतेत्यादि। नान्यत्रेति निपातवचनं प्रथमार्थे वर्तते। तदुक्तम्। स्यात्। यथा सर्वधर्मतथताया नान्या तथागततथता किन्तर्हि तदात्मिका एवं सुभूतितथतापीति। न सा कस्यचिन्न तथतेति सर्वस्य सा तथतेत्यर्थः। तदेवाह। सैव सेत्यादिना। यैव सा तथता सुभूतेः। सैव सर्वधर्मतथतेति योज्यम्। अनन्यतथतानुगमेनेति। आत्मस्वभावतथतानुकरेण तां तथतां सर्वधर्मवर्तिनीमुपगतः। तथतास्वभावत्वेन कथमनुगम इति चेत् आह। न चात्रेत्यादि। संवृत्यैवं व्यपदेशः कृतः। परमार्थतस्तु नैवात्र मायोपमत्वे कश्चिद्भावः क्वचिदनुगतिं सदृशता प्राप्तः। त्रैयध्विकसर्वधर्माणां तथता त्रैकालिकी,तथागततथता तु प्रकृतिप्रभास्वरत्वेनोत्पादविरहान्न तथाविधा। तत्कथमनयोरेकत्वमिति चेदाह। यथा तथागततथतेत्यादि। तत्रोत्पादपूर्वकविनाशाभावान्नातीता,भविष्यदुत्पादवियोगान्नानागता,लब्धसत्ताकत्वानुपपत्तेर्न प्रत्युत्पन्ना। एवं सर्वधर्मतथतेति। मायोपमत्वप्रसाधकप्रमाणस्य सर्वत्र तुल्यत्वादिति भावः। भवतु वा सांवृतभावोपाधिभेदेन तत्तथतायास्त्रैकालिको व्यपदेशः,तथापि तथागतसर्वधर्मतथतयोरभेद एवेत्याह। तथागतथतयापीत्यादि। न केवलमात्मतथतया किन्तर्हि तथागततथतयापि। यस्मात्तथतामनुप्राप्तः सन् सुभूतिस्तयैव तथागततथतयाऽतीतादितथतामनुगतः,अतीतादितथतया च तथागततथतामनुगतो भवति,तस्मान्नास्ति विमुक्तेर्नानाकरणमिति भावः। अतीतादिप्रत्येकसमुदायभेदेन च हारकचतुष्टयमवगन्तव्यम्। उपसंहरन्नाह। इति हि सुभूतितथतेत्यादि। बोधिसत्त्वतथागतावस्थयोरेव तावद्भिन्नरूपत्वात्तथतायाः कुतः सर्वधर्माभिन्नस्वभावत्वमिति कस्यचिदाशङ्कायामाह। यैव चेत्यादि। इयं सा तथतेति। सर्वदैकस्वभावत्वाद्युक्तेयं सा तथता यया सर्वप्रकारागन्तुकमलापगमेनाभिसम्बोधात्। य एकानेकस्वभावा न भवन्ति,न तेषां परमार्थतः स्वभावोऽस्ति। यथा मायादिरूपस्य न भवन्ति चैकानेकस्वभावाः स्वपरोदिता भावा इति व्यापकानुपलब्ध्या। मायोपमस्तथागत इत्यर्थः। नासिद्धो हेतुर्यस्मात्प्रेक्षावतां प्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वादर्थक्रियायोग्यपदार्थविषयो विचारोऽन्यथार्थक्रियार्थिनां पुंसामसदर्थपदार्थविचारैः किं प्रयोजनमित्यर्थक्रियाकारी भावोऽभ्युपगन्तव्यः। स चान्योन्यव्यवच्छेदरूपत्वाज्ज्ञेयरूपो वा भवेज्ज्ञानरूपो वेति विकल्पः। तत्र यद्याद्यः पक्षस्तदा परस्परसंयुक्तस्वभावो वा भवेत्,बहुभिर्वा समानजातीयैः परमाणुभिः परस्परसामर्थ्यविधृतैरसमाश्लिष्टस्वरूपैः सान्तरैः परिवृतो यद्वा निरन्तरैरिति पक्षत्रयम्। तत्र प्रथमे पक्षे यद्येकेन सहैकदेशेन संयोगोऽपरस्य तदा सावयवत्वप्रसङ्गादेकत्वहानिरपरापरस्वभावैरण्वन्तरसमाश्लेषात्। सर्वात्मना संयोगपक्षेऽपि यदा पूर्वोऽणुरपराणुना सह सर्वात्मना संयुज्यते,तदाऽपरोऽपि पूर्वेणेत्यतः संयोगस्योभयपदार्थाधीनत्वेन परस्परस्वभावानुप्रवेशान्न कस्यचिदणोरेकस्वभावता। तथा हि पूर्वाणुरपरेण सर्वात्मना संयुज्यत इति। स्वस्वभावं परित्यज्य सर्वथाऽपररूपापत्तेस्तस्य च संयुज्यमानस्यासत्त्वम्। तथाऽपरोऽपि पूर्वेण संयुज्यत इति स्वस्वभावं विहाय सर्वथा पूर्वरूपभवनात्तस्य संयोगाश्रयस्यासत्त्वम्। ततश्चैकस्यैकदा परस्परपरिहारस्थितलक्षणविधिप्रतिषेधायोगात् कथमेकस्वभावता। द्वितीयेऽपि परिवारकपक्षे,यदि नाम समानजातीयैः संस्पर्शो नेष्टस्तथापि छिद्रस्यालोकतमोरूपत्वाद्विजातीयैरालोकतमः परमाणुभिरभीष्ट एव। न ह्यालोकेनासमाक्रान्तस्य तमोरहितता तमसा वाऽनास्पदीकृतस्यालोकरहितत्वं युक्तिमत्। तयोरन्योन्यविरहितदेशादिमात्रप्रतिबद्धोदयत्वात्तथा चानन्तरोपवर्णितो दोषः समुपनिपतति। अथ विजातीयैरपि संस्पर्शो नानुमन्यते,तदा योऽसौ मध्यवर्ती परमाणुर्येनैकेन स्वभावेनैकपरमाण्वभिमुखावस्थितस्तेनैवान्यपरमाण्वभिमुखो यद्वाऽन्येनेति विकल्पद्वयम्। तत्र यद्याद्यः पक्षस्तदा यदेकरूपपरमाण्वभिमुखस्वभावं तदेकदेशम्। तद्यथा तस्यैव परमाणोः पूर्वदिगवस्थितपरमाणुः। एकपरमाण्वभिमुखस्वभावाश्च सर्वे परिवारकाः परमाणव इति स्वभावहेतुः। तेनैव स्वभावेनेत्यभ्युपगमान्नासिद्धता सपक्षे सद्भावान्न विरुद्धता। भिन्नदेशावस्थाने तु नाभिमतैकपरमाण्वभिमुखस्वभावा भवेयुस्तस्य परमाणोरपरापरस्वभावाभावात्,असता च स्वभावेनाभिमुख्यायोगादिति न चानैकान्तिकताहेतोः ततश्च परिवार्यावस्थानाभावेन परिवारकाणामणूनामेकदेशताप्रसङ्गात्तत्वतः प्रचयाभावे तत्साध्यार्थक्रियावैकल्यादेव तस्य परमाणोर्नैकस्वभावाभ्युपगमो युक्तः। द्वितीये तु पक्षेऽपरापरस्वभावैरपरापरपरमाण्वभिमुखयोगात् स्फुट तर एव सावयवता प्रसङ्गादेकत्वविरहोऽणूनां स्वभावभेदलक्षणत्वाद्वस्तुभेदस्य। तृतीयस्तु नैरन्तर्यपक्षः संयोगपक्षमेवानुपतति तत्पर्यायत्वात् न ह्यन्तरालदेशविरहिणां परस्परसंश्लेषं मुक्ताऽन्या गतिरस्ति। न च शब्दान्तरेणाभिधीयमानः स एवार्थोऽन्यथा भवत्यतिप्रसङ्गात्। अथासंयुक्तः एव परमाणुर्बहुभिस्तु दिक्‍शब्दवाच्यैः समीपेतरदेशावस्थितैः परमाणुभिः परिवृत इति चेन्मतम्। तदयुक्तम्। न ह्यर्वाक्परभागयोरभावे वचनमिदमर्थवत्तायां व्यवतिष्ठते। तदन्यापेक्षयाऽन्यस्य यद्रूपमवधार्यते तदसत्तत्र तत्त्वेन पारावारादिभेदवदिति न्यायान्न भूतार्थेन सावयवत्वमिति चेत्। न। पारापारयोरपि बहिरर्थवादिनां व्यपेक्षाभेदेनासाङ्कर्यात् पितापुत्रादिवत् तात्त्विकमेव रूपमित्यभ्युपगन्तव्यम्। यदपेक्षया हि तत्पारं न जातु तदपेक्षया तदपारमिति। अन्यथा पारापारयोरपारमार्थिकत्वे कथं पारावाराभिधानतटस्थितयोरसाङ्कर्येणावस्थानम्। तथा हि पाराभिमतादन्यत्वमेव विवक्षितस्यापारस्यापारत्वमुच्यते। तस्य च कल्पितत्वे तयोरैक्यप्रसङ्गः। तथा च न तदाश्रितानामसङ्कीर्णावस्थितिः स्यात्। न हि कल्पनोपरचितो भेदोऽर्थक्रियाङ्गम्। अथ संवेदनबलाद्विषयस्थितेरननुभूयमानत्वेनार्थस्यात्यन्तपरोक्षत्वात्समनन्तरप्रत्ययबलेन प्रतिनियतस्य कार्यस्योदयातद्व्यतिरेकेण कल्पयितुमशक्यत्वाच्च स्वतः सिद्धरूपमेवाद्वयज्ञानमेकस्वभावं परमार्थतो ग्राह्यग्राहकभावरहितमहेतुकत्वे नित्यं सत्त्वादिप्रसङ्गान्नित्यत्वेऽर्थक्रियाद्यनुपपत्तेश्च स्वहेतुप्रतिबद्धोदयमुदयानन्तरापवर्गि केवलमनादिभवभावि भावाभिनिवेशवासनापरिपाकप्रभावादाकारास्तत्र प्रतिभासन्त इति ज्ञानात्मको भावो योगाचारैरभ्युपगम्यते। तत्रापि किं त्वाकारास्तात्त्विका एव किं वा प्रतिबिम्बादिवदविचारैकरम्या इति विकल्पः। यद्याद्यस्तदा भाविकानेकाकाराव्यतिरेकादाकारस्वरूपवदनेकत्वं विज्ञानस्यासज्यत इत्येकता कुतः। अथ सकृदनुभूयमानत्वेन विज्ञानस्यैकत्वं निश्चितम्। तदैकज्ञानाव्यतिरेकादाकाराणामेकत्वं विज्ञानस्वरूपवद्दुर्निवारम्। भवत्वेवमिति चेत्। नैवम्। तथा हि यद्येक आकारश्चलनादिविशिष्टः प्रतिभासते तदा परिशिष्टा अप्याकाराः पूर्वाकाराव्यतिरिच्यमानमूर्तिस्वभावत्वात्तथाविधा एव स्युरिति वैचित्र्याकारानुभवो विरुध्यते। अतो नानात्वमैकान्तिकमेवाकाराणामित्येकानेकत्वयोः परस्परविरुद्धधर्माध्यासयोगात् पारमार्थिकमेवाकारविज्ञानयोर्नानात्वं स्थितमित्यभ्युपगताद्वयनयहानिः। अथ सुखादिवन्नीलादय आकारा अनुभवात्मका एवेत्येकस्य चित्रत्वानभ्युपगमान्न यथोक्तदूषणप्रसङ्ग इति मत्वा समानजातीयान्यपि विज्ञानानि बहूनि विजातीयज्ञानवत् सकृदुत्पद्यन्त इति वर्ण्यते। तदायमन्यो दोषः। तथा हि यत्तन्मध्याभिमतं विज्ञानं परिवृताणुप्रख्यमिष्यते। तद्येन स्वभावेनैकस्याभिमुख्यं प्रतिपद्यते किन्तेनैवान्यस्याप्यथान्येनेति विकल्पः। तेनैवेति पक्षे परिवार्यावस्थानाभावेनावशिष्टानां न दिगन्तरावस्थितिर्यथार्था भवेदतश्च पूर्वापरादिदिग्भागेनानुत्पत्तेर्नीलादिमण्डलसंनिवेशप्रतिभासो न स्यात्। अन्येनेति तु पक्षे स्वभावभेदलक्षणत्वाद्वस्तुभेदस्येत्येकता कुत इति परमाणुविचारभावी दोषः समापतति। नन्वमूर्तत्वाज्ज्ञानानां न देशकृतं पौर्वापर्यमस्ति तत्कथमणुवन्मध्यवर्तित्वं ज्ञानानां भवेत्। सत्यमेतत्। अयमपरोऽस्य दोषोऽस्तु यद्देशवितानप्रतिभासिनामाकाराणां सत्यत्वमिच्छता ज्ञानानामदेशानामपि सतां बहूनां तथा देशवितानास्थानेनोत्पादः परिकल्प्यते। अन्यथा हि यद्यनेकविज्ञानोत्पादकल्पनायामपि तथा देशवितानोत्पादप्रतिभासो मिथ्या स्यात्तदाऽनेकविज्ञानोत्पादकल्पना व्यर्थैव स्यात्। न च देशवितानावस्थितनीलादिप्रतिभासमन्तरेणान्यन्नीलाद्यनुभूयते यत्सत्यं भवेत्। तस्य चालीकत्वे किमन्यत् सत्यं भविष्यतीति यत् किञ्चिदेतत्। ननु तथाप्यणवो मूर्ता विज्ञानं त्वमूर्तं तत्कथं स एवात्र दोष इति चेत्। नैष दोषः। तथा हि तदेव नीलादि नैरन्तर्येण भासमानमेकेन परमाण्वात्मकमुपगम्यते। अपरेण संविद्रूपमिति नाममात्रमेव केवलं भिद्यते,नतु देशनैरन्तर्यावस्थानलक्षणस्यार्थस्य भेदः। न च नाममात्रप्रवृत्तिद्वारकृतं तुल्यदोषतापादनं क्रियते। अपि तु देशनैरन्तर्यावस्थानकृतम्। तच्च नाममात्रभेदेऽप्यस्तीति कथं तुल्यदोषता न भवेत्। अथैवमपि ज्ञानज्ञेययोर्वैसादृश्याज्ज्ञेयगतं दुषणं ज्ञानेनानुमन्यते। तदाप्युच्यते। युगपदनेकज्ञानोदये घटपदादिविषयः प्रतीयमानो विकल्पः क्रमभावी न स्यात्। न चैतच्छक्यते वक्तुं निर्विकल्पकज्ञानान्येव युगपदिति तदनुभवनिश्चयद्वारेण विकल्पानामुत्पत्तेः। ततश्च न हीमाः कल्पनाः स्वयमसंविदितरूपा उत्पद्यन्त इति सकृदनुभवनिश्चयप्रसङ्गात् क्रमभावी विकल्पोऽनुभूयमानो न स्यादिति प्रत्यक्षविरोधः। अथ मतम्। एकमेव विनज्ञमागृहीतचित्ररूपं मेचकमणिप्रतिभासवदिति तदसत्। तथा हि यच्चित्रं तदेकं न भवति। यथा नानासन्तानवर्तिनः प्रत्ययाः। चित्रं चेदं विज्ञानमिति विरुद्धोपलब्धिः। चित्रत्वेनोपलम्भान्नासिद्धो हेतुः,सपक्षे भावान्न विरुद्धः। कथं पुनश्चित्रैकत्वयोर्विरोधो येन चित्रत्वमेकत्वमपनयेदिति चेत्। उच्यते। न हि नानास्वभावव्यतिरेकेणान्यच्चित्रशब्दाभिधेयमस्ति। नानैकत्वयोरन्योन्यस्वरूपव्यवच्छेदान्तरीयकत्वात् परस्परपरिहारस्थितलक्षणो विरोध इति सिद्धो विरोधः। विरुद्धयोरप्येकस्वभावत्वे सकलं विश्वमेकं द्रव्यं स्यात्ततश्च सहोत्पादविनाशादिप्रसङ्गो दुर्निवारः। अन्यथा नाममात्रमेव स्यादेकमिति। न च नाम्नि विवाद इति नानैकान्तिकता च हेतोः। दृष्टान्तो मेचकमणिप्रतिभासस्तावत् सिद्ध इत्यपि न वक्तव्यम्। तत्राप्येकरूपत्वे नानारूपतयाऽव्याप्तत्वेन नानारूपावभासित्वाद्यनुपपत्तेस्तुल्यपर्यनुयोगत्वात्। अथ स्यात्। प्रतिभासमानस्य नीलादेर्देशकालान्तरस्थात् पदार्थान्न भेदः प्रत्यक्षेण प्रतीयते द्वयोरप्रतिभासनेनैतस्मादिदं भिन्नमित्यग्रहात्। नापि समानकालदेशस्थात् प्रतिभासमानादस्मादिदं भिन्नमिति प्रत्ययोऽस्ति निर्विकल्पतया प्रत्यक्षेणाग्रहात्। तस्माद्ग्राहाग्राहकयोर्ग्राह्याणाञ्च परस्परं भेदाग्रहाच्चित्राद्वयमेवैकरूपं प्रत्यक्षे प्रतिभासत इति। तदप्येतेनैव प्रत्युक्तम्। एकस्य चित्रत्वविरोधात्। अथाभिन्नयोगक्षेमत्वाच्चित्रमप्येकम्। तदयुक्तम्। अन्योन्यव्यावृत्तरूपत्वेनास्यैकत्वविरोधात्। न चास्यानेन भिन्नयोगक्षेमत्वं प्रत्यक्षेणावगम्यते,युगपत् प्रतिभासस्याभिनयोगक्षेमरूपत्वे स्वरूपान्यत्वस्यापि प्रतिभासनात्। कथन्न भेदप्रतिभासो भवेत्। यदि च भेदस्याग्रहादद्वैतं कल्प्यते तदा अभेदस्यास्मादिदमभिन्नमित्येवं रूपस्याग्रहात् द्वैतं किं न कल्प्यते। अथ भेदाभेदविनिर्मुक्तं वस्तुमात्रं गृह्यते। कथं तर्हि नीलादेश्चित्रस्य च प्रतिभासः। चित्रश्चेत्प्रतिभास इष्यते स एव लोके भेदप्रतिभास उच्यत इति कथं भेदापलापः अथ मतम्। यदि सत्यरूपा एवामी स्युराकारास्तदा सर्वोऽयं विरोधः। यावता शुद्धस्फटिकोपलसंकाशमेव तद्विज्ञानमसंप्राप्तनीलाद्याकारभेदं तस्मिन्नेवं विधेऽप्यनादिकालिकविपर्यासवासनापरिपाकप्रभावात् मृच्छकलादिषु मन्त्राद्युपप्लुतलोचनपुरुषप्रतिभासापन्नकरितुरगादीनामिवाकाराणामवभासनमिति। परमार्थत एकरूपस्यैकज्ञानस्याभ्युपगमेऽलीकत्वान्न विरोधो यतो भवता दोषाभिधानेनालीकत्वमेकत्वमेवाकाराणां प्रतिपाद्यते। तच्चास्माभिरभ्युपगतमिति। तदसत्। तथा हि यदति स्फुटमाबालप्रतीतनीलाद्याकाररूपमनुभूयते तदलीकमननुभूयमानं तु स्फुटप्रतिभास्याकारव्यतिरिक्तमद्वयं ज्ञानं यत्तत्सत्यमिति किमतः परमिह सुभाषितमस्ति। किमित्यतिपरिस्फुटसंवेदनानुपपत्तिरसत्त्वेऽपि तत्त्वत इति चेत्। उच्यते। यद्यत्रासंविद्यमानरूपं न तत्तत्र संवेद्यते। यथा दुःखे सुखादिरूपमसंविद्यमानाश्चाकारा नीलादयो विज्ञान इति व्यापकविरुद्धोपलब्धिः। अलीकत्वेनाकाराणां निश्चितत्वान्नासिद्धिता,सपक्षे भावान्न विरुद्धता। तत्र यदि परमार्थतोऽसंवेदनप्रसङ्गः साध्यते तदा सिद्धसाधनम्। सामान्येन। तदा साध्यधर्मविपर्यये साधनधर्मस्य वाचकप्रमाणाभावात्कथं सन्दिग्धविपक्षव्यावृत्तिकत्वं हेतोर्न भवेदित्यपि न वक्तव्यम्। यतः सामान्येन नैवात्र साध्यते न चात्रानैकान्तिकता। तथा हि द्विविधं संवेदनं मुख्यं गौणञ्च। तत्र मुख्यं यदजडरूपम्। स च ज्ञानस्यैवासाधारणः स्वात्मभूतो धर्मः कथमसत आकारस्य स्यात्। तथा हि यदज्ञानरूपं न तस्य मुख्यं संवेदनमस्ति। यथाकाशनलिनस्य। अज्ञानरूपाश्चासत्त्वेनोपगतानीलादय आकारा इति व्यापकविरुद्धोपलब्धिः। गौणमपि न सम्भवति। यतः स्वाकारनिर्भासज्ञानोत्पादनमेव गौणं संवेदनमुच्यते। तच्चासतः सर्वसामर्थ्यशून्यस्य तुरगविषाणस्येवायुक्तं। सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य। तथा हि यदसमर्थं न तस्य गौणं संवेदनं यथा तुरगविषाणस्य। असमर्थाश्चासत्त्वेनाभिमता नीलादय आकारा इति व्यापकविरुद्धोपलब्धिः। आकाराणामलीकत्वान्नासिद्धो हेतुः। सपक्षे भावान्न विरुद्धः। तदेवं मुख्योपचरिताभ्यामन्योन्यपरिहारस्थितलक्षणाभ्यां संवेदनस्य व्याप्तत्वात्,तस्य च व्यापकस्य निवृत्तेः संवेदनस्यापि तद्व्याप्तस्य निवृत्तिरेवेति नासत्त्वादित्यस्य हेतोः संवेदनेऽनवकाशो नास्तीति  नानैकान्तिकत्वम्। ननु मरीच्यादौ जलाद्याकारस्यासतोऽपि संवेदनादनैकान्तिकत्वमेवेति चेत्। न। तत्रापि हि जलाद्याकारो यदि नान्तर्नापि बहिस्तदा तस्यात्यन्तासतः कथं संवेदनं स्यादिति तुल्य एव पर्यनुयोगः। प्रतिबन्धबलेनानुभूयन्त इत्यपि न वक्तव्यम्। तथा हि न ज्ञानस्वभावता,आकाराणां ज्ञानवत् सत्त्वप्रसङ्गात्। अथाकारस्वभावता ज्ञानस्यानुमन्यते तदाकारवत् ज्ञानस्यासत्त्वप्रसङ्गः। न च ज्ञानादाकाराणामुत्पत्तिर्नीरूपस्य जन्यरूपासम्भवात्। नाप्याकारेभ्यो ज्ञानस्याकाराणामलीकत्वेनार्थक्रियासामर्थ्यविरहात्। न च तादात्म्यतदुत्पतिभ्यामन्यः सम्बन्धोऽस्ति। ततश्च यस्य येन सह प्रतिबन्धो नास्ति न तत्तस्मिन् संवेद्यमाने नियमेन संवेद्यते,यथा ज्ञानात्मनि संवेद्यमाने बन्ध्यासुतः ंआस्ति च तादात्म्य तदुत्पत्तिलक्षणो द्विविधोऽपि प्रतिबन्धो ज्ञानेन सहाभिमतानामाकाराणामिति व्यापकानुपलब्धिः। सम्बन्धाभावस्य प्रतिपादितत्वान्नासिद्धता। सपक्षे भावान्न विरुद्धता। सर्वसंवेदनप्रसङ्गान्नानैकान्तिकता च हेतोः। ततश्च योऽयमाकारो ज्ञानसमानकालभावित्वेन भवता परिकल्पितस्तस्याहेतुकत्वे कथमपेक्षाऽभावात् कादाचित्कत्वमित्यभिधानीयमत्र कारणम्। योऽपि मन्यतेऽलीकत्वेऽपि यथा भवतां संवृत्या ज्ञानज्ञेययोः प्रतिभासनं तथास्माकमपि निराकारे तात्त्विके ज्ञाने तदप्रतिबद्धैवाऽविद्यालीकापि सती संवृत्त्याऽन्यत्वेऽपि प्रतिभासत इति। तदप्येतेनैव प्रत्युक्तम्। अस्माकन्तु संवृत्या ज्ञानमेव ज्ञेयरूपमिति सम्बन्धस्याभ्युपगतत्वात्तयोः प्रतिभासनमविरुद्धम्। अथ माभूदयं दोष इति हेतुमत्वमभ्युपगम्यते तदा प्रतीत्यसमुत्पन्नत्वाद्ग्राह्यग्राहकाकारयोः कल्पितत्वाभावात् परतत्वतास्वभावः प्रसज्यते। यतो न प्रतीत्यसमुत्पत्तेरन्यत्पारतन्त्र्यम्। यद्यप्येवं तथापि पारमार्थिकी सत्ता कुतो लभ्यत इति। चेत्। उच्यते। तथा हि विज्ञानस्यापि न प्रत्ययोद्भवात् स्वभावादन्या सत्तेत्यतः प्रतीत्योत्पत्त्यविनाभाविनी पारमार्थिकी सत्ता दुर्निवारा। ततश्च पौर्वापर्येण भावाद्यौगपद्येनासंवेदनप्रसङ्गेऽप्युपगताकारालीकत्वहानिः स्यात्। अथ यथोक्तोऽप्याकारो नाभ्युपगम्यते तदोपलब्धिलक्षणाप्राप्तत्वेनानाकारमेव ज्ञानं सदा सर्वप्राणभृद्भिः संवेद्यत इति प्राप्तम्। स्यादेतत्। संवेद्यत एव किन्त्वनुभूयमानाकारोपजनितविभ्रमबलेनानुपलब्धिलक्षणप्राप्तत्वादर्वाग्दृशामतोऽनुभूतनिश्चितोपलम्भवैकल्यान्न तस्योपलम्भोऽस्ति क्षणैकत्ववदिति तदसत्। तथा हि यद्यन्तर्बहिर्वाकाराः सम्भवेयुस्तदा तेषां संवेदनोपजनितविभ्रमबलेन संविद्यमानमपि ज्ञानं न निश्चिन्वन्तीति स्यात्। यदा तु नान्तर्न बहिस्ते सन्ति तदा कस्यानुभवेन विप्रलभ्येरन् येन संवेदयन्तोऽप्यद्वयं न विनिश्चिन्वन्तीति स्यात्। अथ मतम्। भ्रान्तेरयमेव स्वभावो यदलीकाकारसन्दर्शनम्। तेनाऽसतोऽप्याकारस्य भ्रान्तिवशात् संवेदनं भविष्यतीति तदप्यसम्यक्। तथा हि भ्रान्तिशब्देन विभ्रमोत्पत्तिवासनाहेतुभूतज्ञानावस्था वाऽभिधीयेत,यद्वा तथाविधवासनाप्रभवं भ्रान्तमेव ज्ञानं कार्यरूपम्। तत्राद्ये पक्षे तत्र हेतावाकाराणामप्रतिबद्धत्वात्तद्बलात्तेषां संवेदनमयुक्तमतिप्रसङ्गात्। न चापि तदुत्पत्तिलक्षणः प्रतिबन्धोऽस्त्येवेति युक्तं पूर्ववत्परतन्त्रत्वप्रसङ्गात्। अथापि द्वितीयः पक्षस्तत्रापि प्रतिबन्धो भवन्नाकाराणां तादात्म्यलक्षणो भवेन्न तदुत्पत्तिलक्षणः तत्समानकालमनुभूयमानत्वात्। समानकालयोश्च हेतुफलत्वायोगात्। ततश्च भ्रान्तिवत्तदव्यतिरेकात्परतन्रत्वप्रसङ्गो दुर्निवार इति यत्किञ्चिदेतत्। स्यादेतत्। भ्रान्तग्राह्यग्राहकाकाराभावात् सुप्ताद्यवस्थायां स्वसंवित्तिरेकरूपा सत्या भविष्यतीति। तदसत्। मनोविज्ञानस्य धर्मधात्वालम्बनत्वेऽपि केवलचैतसिकधर्माग्रहणात्कलापपरिच्छेदेन चित्ररूपत्वात्। अथ ग्राह्यग्राहकभावरहित एव ससम्प्रयोगविज्ञानस्कन्धस्य स्वभावो निश्चितः। तथापि चित्रतामेवाभिधावति। तथा हि भ्रान्तिवासना विद्यत इति भवताऽभ्युपगम्यते। अथ नेति विकल्पद्वयम्। यद्याद्यस्तदा वितथाकाराभिनिवेशवासनैवाविद्या सा च वासना शक्तिरुच्यते। शक्तिश्च कारणज्ञानात्मभूतैवेति। तेन पूर्वपूर्वस्मात् कारणभूतादविद्यात्मनो ज्ञानादुत्तरोत्तरस्य कार्यस्य वितथाकाराभिनिवेशिन उत्पत्तेरविद्यावशात्तथाख्यातियुक्तेति बलाच्चित्रत्वमायातम्। न च समनन्तरप्रत्ययान्नियम इति वक्तव्यम्। यतो यथोक्तमेव ज्ञानं समनन्तरप्रत्यय इति यत्किञ्चिदेतत्। अथ तत्र वासनात्मिकाः शक्तयो भिन्ना इति चेत्। न। भाविकानेकशक्त्यव्यतिरेकात् शक्तिस्वरूपवद्युगपदनेकत्वं विज्ञानस्यासज्यते। तत्र चोक्तो दोषः। तथैकज्ञानाव्यतिरेकाद्वा शक्तीनामेकत्वं विज्ञानस्वरूपं दुर्निवारमिति कथं समनन्तरप्रत्ययभेदः। अथ नेति द्वितीयः पक्षो मतस्तदा मुक्ताः स्युरयत्नेन सर्वदेहिन इत्यादिप्रसङ्गोऽनिवार्यः। अथ सर्वमेव पृथग्जनस्य ज्ञानमनापन्ननीलाद्याकारोपरागं प्रवर्तते तत्रैकत्वहानिप्रसङ्गो न भविष्यति। अचित्ररूपत्वात् नीलादिसंवेदनरूपतात्तया तस्य व्यवस्थाप्यते सा तत्संवेदनरूपत्वान्न तु नीलादिरूपापत्तेः। तथा ह्यालम्बनग्रहणप्रकार एवाकारो न तु ताद्रूप्यम्। यत्तु नीलादि बहिरिव प्रतिभासमानमालक्ष्यते तन्न ज्ञानाकारतया,अपि तु ज्ञानं नीलादिसंवेदनमनुभवन् प्रतिपत्ता मोहात्तथा बहीरूपेण नीलादिकमध्यवस्यतीति। एतदपि मिथ्या। तथा हि यदि नीलादिना सहगतस्य कश्चित् प्रतिबन्धो नास्ति तदा कथं नीलादिसंवेदनं स्यात्। नहि ताद्रूप्यव्यतिरेकेणान्यो निरीहस्य ज्ञानस्यालम्बनग्रहणप्रकारोऽस्ति येन ताद्रूप्यव्यतिरेकेणाकारो व्यवस्थाप्यते,अतिप्रसङ्गात्। अपि तु ताद्रूप्योत्पत्त्यैव ज्ञानस्य सव्यापारता प्रतीयते स एव तस्यालम्बनग्रहणप्रकार उच्यते। तत्र चोक्तो दोषः। नास्त्येव सर्वथा नीलादिरिति चेत्। नैवम्। तथा हि यदि नीलादि नान्तर्नापि बहिरस्ति तत्कथमिदमविकल्पे चेतसि स्फुटतरमनुभूयत इति वक्तव्यम्। न चैतच्छक्यते वक्तुं नैव प्रतिभासत इति। सर्वेषामनुभवसिद्धत्वात्तत्प्रतिभासस्य। न चापि स्फुटावभासिनो विकल्पविषयता युक्ता। येनोच्यते मुढात्मना तथावसीयत इति। अथैवमप्यनुमन्यते विकल्पेनावसीयत इति तदसत्। यस्माद्यदि निराकारमेव सर्वं ज्ञानमनुभूतं तदा तत्पृष्ठभाविनापि विकल्पेन प्रतिनियतस्य नीलादेराकारस्याध्यवसायोऽप्ययुक्त एव प्रतिबन्धाभावात्। भ्रान्तेरयमेव स्वभाव इति चेत्,उक्तमत्र परतन्त्रत्वप्रसङ्गात् कथं भ्रान्तावस्य प्रतिबन्ध इति। तस्मात्प्रतिबन्धाभावाद्विकल्पविषयतयापि नीलादेरसतः संवेदनानुपपतेरयुक्तमेतदिति। यद्येवमस्तु तर्ह्यपरिशुद्धावस्थायां चित्रावभासमलीकमेव ज्ञानं,परिशुद्धावस्थायां भ्रान्तिविगमादद्वयरूपमेवैकस्वभावं भविष्यतीति। उच्यते। यद्यशुद्धावस्थायां सर्वमलीकमेव ज्ञानं,तदा शुद्धावस्थायां तत् सत्यरूपं कुतो जातमिति वक्तव्यम्। न चालीकात्सत्यरूपस्योत्पत्तिर्युक्ता,तस्यासमर्थत्वात्। सामर्थ्ये वा तदलीकं कथं भवेत्। तथाविधस्याप्यलीकत्वेऽन्यस्यापि सत्यत्वं कथं भवेत्। अतो निर्हेतुकमेव तत्स्यात्। तच्चायुक्तं नित्यं सत्त्वादिप्रसङ्गात्। भ्रान्तिविगमादित्यपि न वक्तव्यम्। यदि हि विशुद्धावस्थायां सर्वेषामाकाराणां निवृत्तिः सम्भवेत्तदा संभाव्यते एवैतत्। यावता भ्रान्तिनिवृत्तावपि नाकारणां निवृत्तिः सम्भवति,तत्र तेषां यथोक्तन्यायेन प्रतिबन्धाभावात्। न चाप्रतिबन्धे सत्येकनिवृत्तावपरस्य नियमेन निवृत्तिर्गवाश्वादिवदतिप्रसङ्गात्। अथापि स्यात्कस्यचिन्निसर्गसिद्धमेवाद्वयज्ञानं प्रपञ्चापगतमेकं भविष्यतीति तदयुक्तम्। निसर्गसिद्धत्वे हि प्रतिनियताश्रयपरिग्रहेणानायत्तत्वान्न तथाविधा सत्ता कस्यचिद्विरमेत्। ततश्च प्रतीत्यादिविरोधो भवेत्। स्यादेतत्। स तादृशो हेतुधर्मो येन पूर्वपूर्वप्रतिपक्षक्षणबलेनोत्पादात् प्रतिनियतकारणायत्तस्वभावतया कस्यचिदेव भविष्यतीति। तदेतन्नितरामेव न राजते। यथोदितविधिभिः सर्वस्य नीरुपताऽपादनेन परमार्थतः कार्यकारणभावस्यानुपपत्तेरिति यत्किंचिदेतत्। अतो यदा विचार्यमाणो भावानां न कश्चिदंशरूपोऽपि स्वभाव एको भागरहिततया सिद्धस्तदानेकः कथं सेत्स्यति तत्समुदयात्मकत्वादनेकत्वस्येति,नासिद्धो हेतुः। ननु न सर्वस्य प्रतिभासमानस्यैकानेकस्वभावरहितत्वेन निःस्वभावत्वं प्रत्यक्षतोऽवभासते भावविषयत्वादस्य नाप्यनुमानतो व्याप्तेर्ग्राहकस्य प्रत्यक्षस्याभावात्। अनुमानेन च ग्रहणेऽनवस्थानादप्रतिपत्तेः कथं सिद्धो हेतुरिति चेत्। न। तथा हि समुदितानुमानविधिभिर्निःस्वभावत्वमेकानेकस्वभावरहितत्वेन व्याप्तमिति प्रतिपादितम्। तेषाञ्च मध्ये कस्यचिदनुमानस्य प्रत्यक्षेण व्याप्तिः,कस्यचित् प्रत्यक्षगृहीतव्याप्तिकेनानुमानेन गृह्यत इति यथास्वं प्रमाणेन निश्चितपक्षधर्मग्रहणात्कुतोऽनवस्था। सपक्षे भावान्न विरुद्धः। तथा हि यदि यथोक्तहेतुः साध्यविपर्ययसाधनात्पारमार्थिकस्वभावे वर्तते,तदा तादात्म्यतदुत्पत्तिभ्यां तत्र प्रतिबद्धोऽन्यत्र विचारविमर्दासहिष्णुत्वेन तात्त्विकरूपविरहिणि मायादिरूपे कथं वर्तितुमुत्सहेत। भावधर्मत्वहानिप्रसङ्गादिति कथं प्रसिद्धदृष्टान्तं प्रति विरुद्धता हेतोः। अथ मतम्। मां प्रति दृष्टान्त एवोभयधर्मानुगतो न सिद्धो विज्ञानरूपेण मायादीनां वस्तुसत्त्वेनाभ्युपगमादतोऽनैकान्तिकता हेतोरिति। तदसत्। तथा हि विज्ञानानां सर्वेषामेव वस्तुत्वेनाभिमतानां यथोदितानुमानविधिभिर्नैःस्वाभाव्यं प्रतिपादितम्। ततो न स्वेच्छाबलेन वस्तूनां तथा भावो लक्ष्यते,येन प्रमाणबाधितस्यापि मायादेर्विज्ञानरूपेण सिद्धत्वादसिद्धो दृष्टान्तः स्यादिति न किञ्चिदेतत्। स्यादेतत्। पक्षसपक्षयोः सत्त्वे सिद्धेऽपि कथं विपक्षाद्व्यावृत्तिर्निश्चीयते हेतोर्येन सन्धिग्धव्यतिरेकदोषदुष्टता न भवतीति। उच्यते। यद्रूपव्यवच्छेदनान्तरीयकपरिच्छेदं हि यत्तत्तत्परिहारस्थितलक्षणम्। तद्यथा भावोऽभावव्यवच्छेदनान्तरीयकपरिच्छेदः। परस्पररूपव्यवच्छेदनान्तरीयकपरिच्छेदेचैकत्वानेकत्वे तस्मात्परस्परपरिहारस्थितलक्षणे इति। यौ च परस्परपरिहारस्थितलक्षणौ तावेकविधानस्यापरप्रतिषेधनान्तरीयकत्वाद्राश्यन्तराभावं गमयतः। तद्यथा भावाभावौ। त अन्योन्यपरिहारस्थितलक्षणे चैकत्वानेकत्वे तस्माद्राश्यन्तराभावादेकत्वानेकत्वाभ्यां स्वभावः क्रोडीकृत इति साध्यविपर्यये हेतोरस्त्येव व्यतिरेक इति कुतो यथोक्तदोषावकाशः। ननु चात्र प्रतिज्ञार्थैकदेशत्वादसिद्धो हेतुर्यस्मादेकानेकयोः स्वभावप्रभेदरूपत्वात्,तद्विपर्यययोरपि साध्यसाधनयोरभेद एव। ततश्च यदि साध्यमसिद्धं हेतुरपि तदभिन्नस्वभावत्वादसिद्धः। अथ हेतुः सिद्धस्तदा निःभावत्वमपि भावानां सिद्धम्। न ह्येकानेकत्वविरहिणि शशविषाणादौ कश्चिद्भावस्वभावरूपतामभ्युपैतीति चेत्। तदसत्। तथा हि हेतुस्तावद्यथा सिद्धस्तथा विस्तरेण प्रतिपादितम्। तस्मिन् सिद्धेऽपि यदि नाम विधिरूपतया साध्यते नैःस्वाभाव्यं,तथापि वस्त्वभिनिवेशस्य दुस्त्यजतया तत्त्वतः समस्तवस्तुव्यापिनैःस्वाभाव्ये निश्चयाद्यनुत्पादनाद्व्यामूढं प्रति सर्वभावानां निःस्वभावताव्यवहारयोग्यताप्रसाधनान्न प्रतिज्ञार्थैकदेशता हेतोर्यथोपलब्धिलक्षणप्राप्तानुपलम्भेन नास्तित्वस्येत्यचोद्यम्। अथ मूढं प्रति नैःस्वाभाव्यमेव तावत्साधयितव्यं व्यवहारार्थमित्यभिनिविश्यते। तत्राप्युच्यते। यदा त्वेकानेकत्वयोः स्वभावव्यापकयोर्निवृत्या वृक्षनिवृत्त्या शिंशपानिवृत्तिवद्भाविकी स्वभावनिवृत्तिः साध्यते। तदा कुतः प्रतिज्ञार्थैकदेशता हेतोः। न हि व्याप्यव्यापकनिवृत्तिवचनयोर्भिन्नव्यवच्छेदरूपयोः पर्यायत्वं,न चापर्यायरूपस्य प्रतिज्ञार्थैकदेशत्वमिति यत्किञ्चिदेतत्। ननु परमार्थत इति विशेषणमनर्थकम्। तथा ह्यविसंवादको न्यायः परमार्थ इति परमार्थशब्देन त्रिरूपलिङ्गजनिता बुद्धिरभिधीयते। तदा तस्या अपि संवृतिरूपत्वात् कथं परमार्थत्वम्। यदि च तद्वशाद्भावानां निःस्वभावत्वं व्यवस्थाप्यते,तदा तस्याश्च बुद्धेः कुतोऽवस्थापनीयम्। न तत एव स्थापयितुं युक्तं,स्वात्मनि वृत्तिविरोधात्। नापि प्रमाणान्तरतोऽनवस्थाप्रसङ्गात्। अथ तामेकां बुद्धिं मुक्ता व्यवस्थाप्यते। न तर्हि सर्वविषयनैरात्म्यं प्रतिपादितं भवतीति। साध्वेतत् किन्तु सकलप्रपञ्चपरिवर्जितपरमार्थस्यानुकूलत्वाद्यथोक्तबुद्धेः परमार्थत्वं निःस्वभावतापि च तत एव,न च स्वात्मनि वृत्तिविरोधः,सामान्यरूपेण सर्वधर्माणां निःस्वभावताव्यवस्थापनात्। तत्र च सामान्यलक्षणे तद्बुद्धिस्वरूपस्यान्तर्गतत्वाद्यथा सर्वधर्मेषु सत्त्वादिभ्यो हेतुभ्यो विनाशित्वप्रत्ययो भवन्नात्मानं विरहय भवतीत्यचोद्यम्। ननु समारोपिततात्त्विकोत्पत्त्याद्याकाररहिततयाऽविचारैकमनोहरो भावस्वभाव एव निःस्वभावताशब्देनोच्यते। तस्य च भावस्वभावस्य प्रत्यक्षत्वात्तत्स्वभावभूताऽपि निःस्वभावता प्रत्यक्षैव घटविविक्तभूतल इवोपलब्धे तदात्मभूतो घटविवेकः। अन्यथा भिन्नयोगक्षेम त्वादव्यतिरेकताऽवहीयते। ततश्च भावो निःस्वभावो न स्यादसम्बन्धान्निःस्वभावतायाः। न च तदुत्पत्तिलक्षणः सम्बन्धोऽवस्तुत्वेनाकार्यत्वात्तस्याः,तस्माद्वालैः सा न प्रत्यक्षतोऽवसीयत इति प्रत्यक्षबाधा। तथोपलब्धिलक्षणप्राप्तानुपलब्ध्या घटवदभावव्यवहारयोग्यत्वान्नास्त्येव निःस्वभावतेत्यनुमानबाधा। शशिन्यचन्द्रत्ववदागोपालजनस्य निःस्वभावताप्रतीतिवैकल्यात्प्रतीतिबाधापि दुर्निवारैवेति चेत्। तदसत्। तथा हि समारोपिताकारविविक्तता भावानां निःस्वभावतोच्यते। सा च भावस्वभावग्रहणेन गृहीताऽपि क्षणिकत्ववद्भ्रान्त्या समारोपिततत्त्वोत्पत्त्याद्याकारतिरस्कृतरूपत्वान्न बालैर्निश्चीयते। अतो निश्चयानुपपत्तेः प्रत्यक्षताया अभावान्न प्रत्यक्षबाधा। तथा गृहीताऽपि व्यवहारायोग्यादगृहीतकल्पैवेति नोपलब्धिलक्षणप्राप्तत्वमस्याः,ततो नानुमानबाधा। परमार्थत इति विशेषणाच्च भावप्रतीतेरनपह्नवेन प्रतीतिबाधा नास्त्येवेति यत्किञ्चिदेतत्। निर्बीजभ्रान्तेरयोगात् कथं तया समारोपित आकार इत्यपि न वक्तव्यम्। यतः सत्येन सहालीकायाः भ्रान्तेः कः सम्बन्धः। न तावत् तत्स्वभावता सत्यालीकयोर्विरोधात्,नापि तदुत्पत्तिरलीकस्याकार्यत्वात्। अतः सांवृतमेव कारणं पूर्वमुपादानमस्या न विरुध्यते। तस्यापि कारणस्यापरं सांवृतमेव पूर्वं कारणम्। एवंविधहेतुपरम्परायाश्चानादित्वान्न कदाचिन्निरुपादाना भ्रान्तिः। कथं प्रतिनियम इति चेत्। उच्यते। तात्त्विकभावस्वरूपवत् सांवृतस्याप्ययमेव स्वभावोऽपरसांवृतकारणाधीनो यत्प्रतिनियतसांवृतकार्यकारणं नाम। कथं तर्हि सांवृत्तमिति चेत्। अर्थक्रियासमर्थमेव हि वस्तुविचारविमर्दाक्षमत्वात् सांवृतमित्युच्यते। तथा हि तथ्यातथ्याभ्यां सर्व एव राशिर्व्याप्तस्तयोरन्योन्यपरिहारस्थितलक्षणत्वात्। तथ्यरूपतायाञ्च निषिद्धायां सामर्थ्यादितरत्रावस्थानमेषामापतितम्। अतः स्वयमेवेदं रूपं सर्वभावैः स्वीकृतमित्यदोषः। ननु हेतुमन्तरेणेष्टार्थासिद्धेः सर्वधर्मनैःस्वाभाव्यप्रसाधनाय हेतोः परिग्रहं कुर्वता तस्य सत्ताभ्युपगता सर्वधर्मनैःस्वाभाव्यप्रतिज्ञया चासत्तेति परस्परविरोधात् स्वमातृवन्ध्यात्वप्रतिज्ञावत् स्ववचनविरोधः। यतो न हेतोस्तत एव निःस्वभावता सिध्यति,स्वात्मनि कारित्रविरोधात्। नाप्यन्यतोऽनवस्थाप्रसङ्गादिति चेत्। न। निःस्वभावताऽपि च तत एवेत्यादिनोक्तोत्तरत्वात्। एवं निःस्वभावत्वेऽपि संवृत्या कर्मफलसम्बन्धव्यवस्थापनेनागमविरोधस्याभावात्तद्विरोधोऽपि नोद्भावनीयः। अथ मतम्। निःस्वभाववादिनः सर्वार्थाभावादाश्रयासिद्धतादयो दोषा दुर्निवारा इति। तदसत्। तथा हि सर्व एवानुमानानुमेयव्यवहारः परस्परपराहतसिद्धान्ताहितधर्मभेदपरित्यागेनाबालजनप्रतीतं धर्मिणमाश्रित्य प्रवर्तते। तत्प्रतिबद्धो हेतुः सिद्धस्तथा दृष्टान्तोऽपि। अन्यथा यदि सिद्धान्ताश्रितो हेतुर्धर्मो दृष्टान्तो वा स्यात्,तदैकसिद्धान्तप्रसिद्धविशेषणविशिष्टो धर्मी विवादास्पदीभूतत्वादपरस्यासिद्ध इति विशिष्टधर्मिणोऽसिद्धेराश्रयासिद्धो हेतुः स्यात्। तथा स्वरूपासिद्धौ दृष्टान्तधर्मिणश्चासिद्धिरिति सर्वथैव धूमसत्त्वादिभ्यो दहनानित्यतादिप्रतीतिवैकल्यात्साध्यसाधनव्यवहारोच्छेदः स्यात्। अविज्ञानादिरूपपरावृत्तज्ञानमात्रादेः कस्यचित् सिद्धत्वादिति यत्किञ्चिदेतत्। स्यादेतत्। यो हि प्रतिभासमानं धर्मिणमाश्रित्य समारोपिताकारनिषेधनाय साधनं प्रयुंक्ते,तस्याश्रयासिद्धतादयो दोषा नावतरन्ति। त्वया तु प्रतिभासमान एव धर्मी निषिध्यते। तत्कथमाश्रयासिद्धतादयस्ते नावतरन्तीति। नैवं तथा हि परमार्थत इति विशेषणात्,प्रतिभासमाने धर्मिणि समारोपितभाविकस्वभावनिषेधः साध्यते न तु धर्मस्वरूपनिषेध इति समानम्। अथ मतम्। पारमार्थिकश्चेत् स्वभावो निषिद्धः किमपरमवशिष्यते,तस्य धर्मिणो रूपं यत् प्रतिभासेतेति। तदप्यसत्। नहि पारमार्थिकस्वभावत्वेन प्रतिभासो व्याप्तो येन तन्निवृत्तौ निवर्तेत। अलीकस्यापि द्विचन्द्रकेशोण्डुकादेर्भासनात्। न चैतच्छक्यते वक्तुं यद्यपि द्विचन्द्रादयो बहीरूपतयाऽलीका ज्ञानरूपतया तु ते पारमार्थिका एवेति प्रतिभासनं युक्तमिति चित्ररूपतया देशस्थतया च तेषां प्रतिभासनात्। नहि ज्ञानमेकं चित्रं युक्तमेकत्वहानिप्रसङ्गात्। अनेकज्ञानोत्पत्तेश्च पूर्वनिषिद्धत्वात् नापि देशस्थममूर्तत्वात्। तस्मान्न द्विचन्द्रादयः पारमार्थिकाः तथा च प्रतिभासन्त इति पारमार्थिकस्वभावनिवृतौ प्रतिभासनता विरुध्यत इति तात्त्विको भावाभ्युपगमो न कार्यः। नाप्यभावाभ्युपगमो भावनिवृत्तिलक्षणत्वात्तस्य,भावासिद्धौ निर्विषयस्य नञोऽप्रयोगेणासति निषेध्ये निषेधस्याप्रवर्तनात्,तत्पूर्वकस्य तस्याप्यसिद्धेरैकान्तिकभावाभावपक्षभाविनो दोषा नास्मानुपालीयन्ते। ततश्चान्योन्यव्यवस्च्छेदरूपत्वादेकप्रतिषेधनान्तरीयकमपरविधानं बलादापतितमिति यदुच्यते तदसङ्गतं,तत्त्वतो भावरूपस्य व्यवच्छेद्यस्याभावात्। एवञ्च भावाभावस्वरूपाभावे साक्षात् पारम्पर्येण वा ज्ञानज्ञेययोरप्रतिबद्धवृत्तित्वान्न तद्विषयो विकल्पः सर्वथा तात्त्विक इति सिद्धम्। न च मन्तव्यमनादिवासनोद्भूतो भावाभावस्वरूपाभावेऽपि तद्विषयो विकल्पः शशविषाणादिविकल्पवदुपजायत इति। तथा हि यदि नाम बाह्ये वस्तुनि न प्रतिबद्धस्तथाऽपि पूर्वके ज्ञाने तदव्यतिरिक्तवासनाप्रबोधेनोत्पादनात्तदुत्पत्तिलक्षणः प्रतिबन्धोऽस्यात्स्येव तथा समानकालभाविनि विज्ञाने तदव्यतिरिक्तत्वेन तादात्म्यलक्षण इति विकल्पारूढप्रतिबिम्बस्य केनचित् प्रकारेण विधिप्रतिषेधाभ्यां व्यवहारः। यतो यथोदितविधिना वासनाप्रभवज्ञानाभावेन तत्प्रतिबिम्बविरहाद्विकल्पानुत्पत्तेः कुतो भावाभावस्वरूपाभावे विकल्प इति वक्तव्यम्। एतेन यदेके वर्णयन्ति प्रेक्षावतः प्रमाणोपपन्नेऽर्थे सत्यत्वेनाभिनिवेशोऽन्यत्रालीकत्वेन युक्तोऽन्यथा प्रेक्षावत्त्वहानिप्रसङ्गादतः सत्यालीकत्वाभिनिवेशस्य दुस्त्यजतया कथं सर्वविपर्यासप्रहाणमिति। तदपि प्रत्युक्तम्। अभिनिवेशस्य ज्ञानादव्यतिभिन्नमूर्तित्वात्तदभावे कथमभिनिवेशस्य युक्तरूपतेति। तदेवं भावाभावविकल्पाभ्यां सर्वविकल्पस्य व्याप्तत्वाद्व्यापकाभावे व्याप्यस्यासम्भवात्तत्त्वतो भावाभावपरामर्शरहितानविचाररमणीयानन्तबहिःसारविरहिणः कदलीस्कन्धनिभान् सर्वभावानेवं सर्वाकारज्ञतादृष्टाभिसमयक्रमेण प्रज्ञाचक्षुषा निरूपयतो भावनाबलनिष्पत्तौ केषाञ्चिन्मणिरूपादिज्ञानवदुत्सारितसकलभ्रान्तिनिमित्त एव स्वतः प्रमाणभूतो यथाभूतार्थग्राहित्वान्मायोपमाद्वयज्ञानात्मसंवेदनो विशुद्धसांवृतकारणनिर्जातः सर्वविपर्यासप्रहाणादुरुकरुणाप्रज्ञास्वभावः सांवृतो ज्ञानालोकः समुपजायते,प्रतीत्यसमुत्पादधर्मतया यथा न पुनः कल्पनाबीजं प्रादुर्भवति। एवञ्च यदुच्यते कैश्चिद्विद्ययाऽविद्याक्षयो,विद्या च यथार्थज्ञानं ताथागतमपि यदि ज्ञानं भवतां सांवृतं तस्मादविद्यारूपत्वाद्विद्यायाः समुत्पादाभावे कथमविद्याविनिवृत्तिर्यावच्चाविद्या न प्रहीणा तावत्कथं मुक्तिरिति। तदसङ्गतम्। तथा हि नित्यत्वादिसमारोपितधर्मप्रतीतिरविद्या। तद्विपरीतप्रमाणाबाधितधर्मप्रतीतिस्तु विद्येति। विपर्यासाविपर्यासनिबन्धनं तयोर्व्यवस्थानमतिप्रतीतमतः सांवृतत्वेऽपि विरुद्धधर्मोदयाद्यथाभूतपदार्थावगमेन विपर्यासनिवृत्तौ कुतस्तन्निबन्धनमविद्यात्वं येन तदप्रहाणान्मुक्तिरसङ्गतेति यत्किञ्चिदेतत्। तदेवं कस्यचित्पारमार्थिकस्य भावस्य प्रज्ञाचक्षुषाऽदर्शनमेव परमं तत्त्वदर्शनमभिप्रेतं न तु निमीलिताक्षजात्यन्धादीनामिव प्रत्ययवैकल्यादमनसिकारतो वा यद्दर्शनम्। ततो भावादिविपर्यासवासनाप्रहाणाभावादसंज्ञिसमापत्त्यादिव्युत्थितस्येव भावादिविपर्यासवासनाप्रभवक्लेशज्ञेयावरणस्योत्पत्तेरमुक्त एव योगी भवेत्। यस्माच्च यथोक्तमेव तत्त्वज्ञानं मुक्त्यावाहकं नान्यथातिप्रसङ्गादतः प्रागुक्तमेव परमतत्त्वदर्शनं ग्राह्यं,तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति तद्विरुद्धत्वात् क्लेशावरणं ज्ञेयावरणञ्च प्रहीयते। अतः प्रतिबन्धाभावाद्रविकिरणवदपगतमेघाद्यावरणे नभसि सर्वत्र प्रतीत्यसमुत्पन्ने वस्तुनि तत्त्वोत्पत्त्यादिकल्पनारहितेऽव्याहतो योगिप्रत्यक्षोज्ञानालोकः प्रवर्तते। तथाहि वस्तुस्वभावप्रकाशरूपं विज्ञानम्। तच्च सन्निहितमपि वस्तु प्रतिबन्धसद्भावान्न प्रकाशयेत्। प्रतिबन्धाभावे सत्यचिन्त्यशक्तिविशेषलाभात् किमिति सकलमेव वस्तु न प्रकाशयेत्। अतः संवृतिपरमार्थरूपेण सकलस्य वस्तुनो यथावत्परिज्ञानात्सर्वाकारज्ञत्वमवाप्यते। अतोऽयमेव सर्वावरणप्रहाणे सर्वाकारज्ञत्वाधिगमे च परमः पन्थाः,विशेषस्त्वयं योगिनां पृथग्जनेभ्यः। ते हि मायाकारा इव मायां यथावत्प्रसिद्धमात्राऽसत्यतापरिज्ञानान्न भावान् सत्यतोऽभिनिविशन्ते। तेन ते योगिन इत्युच्यन्ते। ये तु तां मायां बालप्रेक्षकजनवत्सत्यत्वेनाभिनिविष्टास्तद्वद्भावमपि ते विपरीताभिनिवेशाद्बाला उच्यन्त इति सर्वमविरुद्धम्। ततश्च युक्त्यागमाभ्यां परिविदितमायोपमाद्वयचित्तास्तत्त्वातत्त्वावबोधाभ्युद्यतमतयोऽद्वयं मायोपमं चित्तं तथ्यसंवृतिरूपमेव श्रुतचिन्तामयेन ज्ञानेन व्यवस्थाप्य प्रतीत्यसमुत्पादधर्मतया सर्वाकारज्ञताद्यष्टाभिसमयक्रमेण सादरनिरन्तरदीर्घकालविशेषभावनया भावयन्तः संहृतसकलविकल्पमाभवमनुबद्धं मायोपमाद्वयविज्ञानमात्रप्रबन्धमासादयन्ति योगीशाः। स एव मुख्यः प्रतिपक्षः। प्रथमं तु मायोपममिति साभिजल्पं विज्ञानं व्यवस्थापकं तदनुगुणं न तु मुख्यप्रतिपक्षभूतम्। तथा हि बाह्यार्थनये पुद्गलनैरात्म्यादिभावनापि न वस्तुरूपञ्चेतस्यवस्थाप्य क्रियते। वस्तुनो निर्विकल्पज्ञानसमधिगम्यत्वात्तस्य चादावसम्भवात्। भावे भावनावैयर्थ्यप्राप्तेः तस्मात्तत्राप्ययं परो नाममात्रानुस्यूतविकल्पप्रतिबिम्बे तत्त्वावबोधानुकूल्यभाजि वस्त्वध्यवसायो सन्तुष्यति। तदत्र नामाकाराभ्यासात् कथं जल्पो न विवर्धितो भवति। स्तिमितान्तरात्मनः क्रमेण विकल्पसंहार इति चेत्। तदेतदितरत्रापि समानमित्यलमतिप्रसङ्गेन। तदेवं सर्वाकाररमणीयतथतानिर्देशस्य माहात्म्यख्यापनाय न धर्मताबलान्निमित्तमुत्पन्नमित्याह। अस्यां खलु पुनरित्यादि। षड्विकारमष्टादशमहानिमित्तमिति क्रियाविशेषणत्वादेकवचनम्। तत्र च द्वौ विकारौ भाजनलोके,अभिसंस्कृतामनभिसंस्कृतां च पृथिवीमधिकृत्य यथासंख्यं चलनमुन्नमनञ्च। सत्त्वलोके चतुर्विधसत्त्वनिकायमकुशलिनं नानादेवताधिमुक्तं मानिनं विद्यावन्तञ्चाधिकृत्य यथाक्रममवनमनमूर्ध्वगमनमधोगमनं घोषोन्नदनं च। अष्टादशमहानिमित्तानि पुनरेषामेव षणां विकाराणां मृदुमध्याधिमात्रक्रियाभेदेनाकम्पत् यावत् संप्रागर्जदित्यर्थनिर्देशाद्भवन्ति। अथवा मध्यादुन्नमत्यन्तेऽवनमतीत्येकः। अयमेव च विपर्ययेण द्वितीयः। तथा हि पूर्वा दिगुन्नमत्यपरा दिगवनमतीति तृतीयः। अयमेव विपर्ययाच्चतुर्थः। तथा दक्षिणा दिगुन्नमत्युत्तरा दिगवनमतीति पञ्चमः। अयमेव विपर्ययेण षष्ठ इति षड्विकारा भवन्ति। अष्टादशमहानिमित्तानि पुनस्तथैवावगन्तव्यानि। उपसंहरन्नाह। एवं हीत्यादि। तथागतमनुजात इति। एवं सर्वज्ञताकारानुजातत्वेनानुजातः। अजातिस्वभावं कथयन्नाह। पुनरपरं सुभूतिः स्थविरो न रूपमित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि,। सुगमम्। एवं हीति। एवं मायोपमत्वान्मार्गज्ञताकारानुजातत्वेन तथागतमनुजातः। तथतानुपलम्भस्वभावं निर्दिशन्नाह। गम्भीरचर्येयमित्यादि। सर्वाकारज्ञताकारस्वभावानुपलम्भात्तथता गम्भीरचर्या। साधूक्तत्वेनानुवदन्नाह। एवमेतदित्यादि। भगवतां न विफला धर्मदेशनेत्याह। अस्मिन्नित्यादि। पूर्वपरिकर्मकृतैरिति। सम्भारभूम्यादौ समुपार्जितपुण्यज्ञानसम्भारैः पूर्वपरिकर्मभिः कृता निष्पादिता ये तैर्मायोपमधर्मभावनायां क्षान्तिरधिमुक्तिः प्रतिलब्धेत्येके। सर्वत्रगधर्मधातुप्रतिवेधादनुत्पत्तिकधर्मक्षान्तिरधिगतेत्यपरे। केन कारणेन महायानप्रवृत्तानां हीनयानावकाशो भवतीत्याह। को भगवन् हेतुरित्यादि। तत्र हेतुरूपादानकारणं प्रत्ययः सहकारिकारणं,प्रज्ञोपायकौशल्यवैकल्यं कारणमित्याह। एतैः शारिपुत्रेत्यादि। उपचर्यार्थमाह।किञ्चापीत्यादि। स्पष्टार्थञ्च दृष्टान्तमाह। तद्यथापीत्यादिना। पक्षिणः शकुनेरिति पक्षौ द्वावस्येति पक्षी नरोऽपि मित्रारिपक्षसद्भावात्पक्षी स्यादिति शकुनिग्रहणम्। शिवादिरपि शकुनिः स्यादिति पक्षीतिवचनम्। नो हीदमित्यादिवचनं निर्युक्तिकमेवेति। तत्कस्य हेतोरित्याशङ्क्याह। गुरुद्रव्यस्योर्ध्वप्रदेशात् पाते वस्तुधर्मत्वेन नियमात्। क्षतत्वादिकमाह। एवं ह्येतदित्यादि। दार्ष्टान्तिकार्थमाह। एवमेतदित्यादि। पततीति। दानादिप्रयुक्तस्यापि प्रज्ञापारमितोपायकौशलप्रयोगमन्तरेण श्रावकादिभूमौ पातो भवति,अनेन च तदुभयप्रयोगस्य निर्याणे प्राधान्यमावेदितम्। यथानिर्दिष्टं षोडशप्रकारमेव स्वभावलक्षणं ग्राह्यम्। तथा चोक्तम्।



 



क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः।



विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः॥२९॥



विषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः।



विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः॥३०॥



तथतानुपलम्भश्च स्वभावः षोडशात्मकः।



लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम्॥३१॥ इति।



 



यथोक्तप्रयोगपरिज्ञानं मोक्षभागीयकुशलमूलवत् एवेति। मोक्षभागीयं वक्तुमाह। पुनरपरं शारिपुत्र बोधिसत्त्व इत्यादि। तत्राभिमुखीकरणात्समन्वाहरति। निश्चयप्रभावेनावधारयति। निमित्तयोगेनेति। एकान्ताभिनिवेशयोगेन । लौकिकलोकोत्तरज्ञानाभ्यामनवगमनान्न जानाति,न पश्यतीति योज्यं परिणामयितुमिच्छत्तीति। शून्यतैवानुत्तरा सम्यक्संबोधिरिति। परिणामनात्पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। एवं हीत्यादि। मोक्षभागीयनिर्देशाधिकाराद्व्यतिरेकनिर्देशेनेदमुक्तं स्यात्। अनिमित्तालम्बनज्ञानाकारेण दानादिसर्वबुद्धधर्माणां स्वसन्ताने प्रादुर्भावात् समुदागमे कर्तव्ये यत् कौशलं प्रज्ञापारमितोपायलक्षणं,तदस्मिन् सर्वाकाराभिसम्बोधे मोक्षभागीयमिष्टम्। मोक्षोऽत्र विसंयोगविशेषस्तद्भागहितत्वान्मोक्षभागीयं प्रथमतः सर्वाकाराभिसम्बोधात्मके शासनेऽवतारहेतुभूतं श्रुतचिन्तामयमतः प्रज्ञोपायकौशलविरहाद्भूमिद्वये पात इति। तथा चोक्तम्।



 



अनिमित्तप्रदानादिसमुदागमकौशलम्।



सर्वाकारावबोधेऽस्मिन् मोक्षभागीममिष्यते॥३२॥इति



 



कौशलमेवं स्पष्टयन्नाह। यथाहमित्यादि। भाषितस्येति स्थास्यत्ययं श्रावादिभूमावित्यस्य यथाहमर्थमाजानामि,तथा बहुपुण्यसम्भारादिना महाबोध्यधिगमे संशयो भवति। कथं तर्हि प्राप्यत इत्याह। तस्मात्तर्हीत्यादि। प्रज्ञापारमिता भावयितव्या। उपायकौशलेन च भवितव्यमिति। तत्र प्रज्ञापारमिता सर्वाकारैर्निखिलधर्मपरिज्ञानम्। उपायो बुद्धादिविषये श्रद्धा। दानादौ वीर्यम्। कल्याणकामतादेः स्मरणम्। कर्मकर्तृक्रियाऽनुपलम्भश्च समाधिः। तदेवमिन्द्रियार्थाभावादनिन्द्रियस्वभावश्रद्धावीर्यसमाधिप्रज्ञास्वभावं पञ्चप्रकारं मोक्षभागीयं कुशलमूलमुपार्जनीयमित्युक्तं भवेत्। तथा चोक्तम्।



 



बुद्ध्याद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम्।



स्मृतिराशयसम्पत्तिः समाधिरविकल्पना॥३३॥



धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा॥इति



 



साधूक्तत्वेनानुवदन्नाह। एवमेतदित्यादि। एवमपि न सर्वैरनुत्तरा सम्यक्सम्बोधिः श्रद्धादिभिः प्राप्येत्याह। गम्भीरेत्यादि। मध्यैः श्रद्धादिभिरप्राप्यमाणत्वाद्दुरभिसम्भवा। मृदुभिस्तैरेवानधिगम्यमानतया परमदुरभिसम्भवा। तथैवानुवदन्नाह। एवमेतद्देवपुत्रा इत्यादि। दुःप्रज्ञैरित्यादि।सर्वाकारधर्मपरिज्ञानविरहाद्दुःप्रज्ञाः। दानादिविषयवीर्यवैकल्येन हीनवीर्याः। सर्वाविकल्पनसमाधिवियोगेन हीनादिमुक्तिकाः। बुद्धाद्यालम्बनश्रद्धाऽभावादनुपायकुशलाः। हितवस्त्वादिस्मरणवैधुर्यात्पापमित्रसंसेविनः। अनेनेदमुक्तं स्यात्। धर्मतेयं यतोऽधिमात्रैः श्रद्धादिभिः सम्यक्सम्बोधिः सुबोधा मृदुभिस्तैरेव दुर्बोधेत्यर्थादिदमाक्षिप्तम्। मध्यैः प्रत्येकबोधिर्मृदुभिः श्रावकबोधिरिति। तथा चोक्तम्।



 



तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता॥३४॥ इति।



 



परमार्थसत्याश्रयेण दुरभिसम्भवत्वं विघटयन्नाह। यद्भगवानेवमित्यादि। कथमिति। क्षेपेणैवेत्यर्थः। कथं न किञ्चिदभिसम्बुध्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। शून्यत्वादिति। अनुत्पन्नत्वादभिसम्बोधव्यो धर्मो नास्तीत्यर्थः। तदेव स्पष्टयन्नाह। तथा हि भगवन्नित्यादि। प्रहाणायेति क्लेशानामानन्तर्यमार्गेण प्रहाणार्थम्। अभिसम्बुध्येताभिसम्बोधव्यमिति। विमुक्तिमार्गावस्थायाम्। आजानीयादाज्ञातव्यमिति। विशेषमार्गेण। अनेनापीति कर्तृकर्मक्रियानुपलम्भेनापि। शून्यत्वेऽपि स्वभिसम्भवत्वं नास्तीत्याह। असम्भवत्वादित्यादि। तत्र हेतोरसत्त्वादसम्भवत्वं,कार्याभावादसद्भूतत्वम्। ततो लौकिकलोकोत्तरज्ञानाविषयत्वाद्यथाक्रममविकल्पितत्वमविठयितत्वमिति पदद्वयं योज्यम्,इदमुक्तम्भवति। धर्माणामनुत्पन्नत्वेन ज्ञानाविषयत्वात् कथं स्वभिसम्भवानुत्तरा सम्यक्सम्बोधिः किन्तर्ह्येवं धर्माधिमोक्षेऽपि पुण्यज्ञानसम्भारमुपार्ज्यं योगिसंवृत्या मायापुरुषेणेवाधिगम्यमानत्वाद्दुरभिसम्भवैति। एतदेवोपोद्वलयन्नाह। शून्यमित्यनेनापीत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। न ह्यायुष्मन्नित्यादि। अभिसम्भोत्स्य इति। शून्यत्वेनाकाशस्वभावस्य बोधिसत्त्वस्याहमभिसम्भोत्स्य इत्येवं प्रयोगाभावादेव दुरभिसम्भवेत्यर्थः। एवञ्चेत्यादि। निःस्वभावा एवाभिसम्बोधव्याः। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। आकाशेत्यादि। धर्मा यस्मादाकाशसमास्तथा चोत्पादवैधुर्याद्दुरभिसम्भवा बोधिरित्यर्थः। संवृत्यापि स्वभिसम्भवत्वं निराकुर्वन्नाह। यदि चायुष्मन्नित्यादि विवर्तेरनित्यभिलाषसद्भावान्न त्वेवं निवर्तेरन्। व्यतिरेकमुखेन निर्दिश्य,अन्वयमुखेनाह। यस्मात्तर्हीत्यादि। विवृत्तिरेव न सम्भवति। तत्र कथं तया दुरभिसम्भवत्वमिति आह। किं पुनरित्यादि। रूपादयो धर्मिणस्तद्व्यतिरिक्ता वा तथता रूपादितथतालक्षणो धर्मस्तत्पृथग्भूतो वा निवर्तमानो निवर्तेत। किमिति सर्वत्र प्रश्ने धर्मताभिप्रायेण पृथक्त्वादाह। नो हीदमिति वाक्यार्थः। प्रमुदितादिसप्तभूमिषु सामान्येन विवृत्त्यसम्भवं निर्दिश्याचलादिभूमित्रयेण पुनर्बोधकबोध्यधर्मभेदेनाह। किं पुनरायुष्मन् शारिपुत्र रूपमभिसम्बुध्यत इत्यादि। समन्तप्रभां बुद्धभूमिमधिकृत्याह। तत् किं मन्यस इत्यादि। तत् कतम इति। तस्मान्निवृत्त्यसम्भवादेव कारणाद्यस्तस्यामेव धर्मतायां शून्यतायां सर्वानभिनिवेशयोगेन स्थितः कतमः स धर्मो विवर्तते। नैव कच्चिदित्यर्थः। कतमो वेति। नैव कश्चित्। कच्चिदिति निपातोऽपि नुशब्दार्थे वर्तते। उपसंहरन्नाह। एवमायुष्मन्नित्यादि। सत्यत इति परमार्थसत्यतः। स्थितित इति प्रज्ञप्तिव्यवस्थानत इत्येके। ज्ञानज्ञेयस्वभावतत्त्वविरहाद्यथाक्रमं सत्यतः स्थितितः इत्यपरः। संवृतिसत्याश्रयेण स्वभिसम्भवत्वं निराक्रियमाणं परमार्थतो यदि साध्यते,तदा प्रकृतानुपयोगीत्याह। ययेत्यादि। यया धर्मनयजात्या येन धर्माणामनुत्पादप्रकारेण निर्दिश्यते,तथा न कश्चिद्विवर्तते,किन्तु संवृत्या विवर्तत इति मतिः। संवृतिरेव नास्तीति चेत्। तत्र न केवलं प्रत्यक्षादिबाधा किं तर्ह्यभ्युपेतबाधापीत्याह। ये च खलु पुनरिम इत्यादि। व्यवस्थानं न भवतीति सर्वधर्मानुत्पादधर्मनिर्देशेन यस्मादेकमेव बोध्यात्मकं सत्त्वं चित्तं तदेव यातव्यत्वाद्यानं बोधिसत्त्वयानं बुद्धयानं तथागतभूमिसंगृहीतं,तस्माद्धेत्ववस्थाश्रावकादियानत्रयानुत्पत्तेस्तद्यानिकबोधिसत्त्वानां त्रयाणां व्यवस्थानं न स्यात्,तथाभ्युपेतविरोध इति भावः। सर्वधर्मानुत्पन्नत्वेऽपि बोधिसद्भावेनान्यतमैकबोधिसत्त्वाभ्युपगमात्कथं त्रिविधबोधिसत्त्वव्यवस्थानमापद्यत इत्याह। किं पुनरायुष्मन्नित्यादि। किमेकमपि बोधिसत्त्वमायुष्मान् सुभूतिः स्थविरो नाभ्युपगच्छति। यतस्त्रिविधपुद्गलासत्त्वञ्चोद्यत इत्यर्थः। जानन्नपि तद्वचनेन परिहारं दापयितुमाह। प्रष्टव्यस्तावदयमायुष्मान् सुभूतिः स्थविर इति। तमेव प्रश्नयन्नाह। किम्पुनस्त्वमित्यादि। परिप्रश्नेन परिहरन् वक्तुमाह। किम्पुनरायुष्मनित्यादि। तथतायास्तथतेति। अनुत्पादस्यापि तत्त्वतोऽसत्त्वम्। न ह्येतदिति विवृण्वन्नाह। तथापीत्यादि। त्रिभिराकारैरिति श्रावकयानादिप्रकारैर्व्यवच्छेदफलत्वाद्वाह्यस्यैकेन तर्ह्योपलभ्यत इत्याह। किं पुनरित्यादि। एकेनापीति। महायानात्मकेनापि प्रकारेण तुल्यत्वान्न्यायस्येत्याह। न ह्येतदिति। आधेयमपि निराकर्तुमाह। कच्चित्पुनरित्यादि। न ह्येतदिति गतार्थम्। प्रकृतार्थमुपसंहरन्नाह। एवमायुष्मन्नित्यादि। कुतस्तवैवम्भवतीति। योगिसंवृत्यानुत्तरा बोधिरिति न तद्वलात्परमार्थतो बोधिसत्त्वास्तित्वम्। ततश्चायं श्रावकयानिक इत्यादि,कस्मात्तवैवम्भवत्यपि तु नैवञ्चित्तमुत्पादयितव्यमिति यावत्। चोद्यपरंपरया प्रसङ्गागतमेवार्थं मोक्षभागीयलिङ्गत्वे योजयन्नाह। एवमेतेषामित्यादि। प्रविभाव्यमानानामिति निरूप्यमाणानाम्। तत्राविशेषता त्रिविधबोधिसत्त्वस्य भेदानुपलम्भात्। निर्विशेषता तथतैकत्वेनावगमात्। निर्नानाकाराणता यथोक्तप्रकारव्यतिरेकेण पृथक्कर्तुमशक्यत्वात्। मृदुमध्याधिमात्रमोक्षभागीयसमन्वागमाद्यथाक्रमञ्चित्तं नावलीयत इत्यादि पदत्रयं योज्यम्। धर्मताऽविरुद्धार्थं कथयन्नाह। साधु साध्वित्यादि। अनेकप्रकारबोधिभेदादाह। कतमयेत्यादि। सुगमम्। उत्पन्नमोक्षभागीयस्योत्साहिनो निर्वेधभागीयार्थमाह। अनुत्तरायां भगवन्नित्यादि। समं स्थातव्यमित्युद्देशं निर्दिशन्नाह। सर्वसत्त्वेष्वित्यादि। समचित्तमनुनयाभावात् न विषमचित्तं द्वेषविरहात्। मैत्रचित्तेनेति। प्रत्युत्पन्नार्थचित्तेनेति। हितचित्तेनेति। अनागतार्थचित्तेन मैत्रहितचित्तयोरेवार्थमाह। कल्याणचित्तेन निहतमान चित्तेनेति। अप्रतिहतचित्तेनेति। प्रतिघविविक्तेन। तदेवाह। अविहिंसाचित्तेनेति। अविहेठनाचित्तेनेति। तयोत्पादरहितेन मातृसंज्ञामित्यादि सुगमम्। किन्तु भ्रातृभगिनीमित्रामात्यज्ञातिसालोहितसंज्ञाश्चोपलक्षणत्वेनावगन्तव्याः। तत्र च मातापित्रादीनां द्वयं द्वयमेकैकं कृत्वा पञ्चाकारा वक्तव्याः। सर्वसत्त्वानामहं नाथ इति इदमुक्तं स्यात्। सममैत्रहिताप्रतिघाविहेठनाचित्ताकारैः पञ्चभिर्मातापितृभ्रातृभगिनीपुत्रदुहितृमित्रामात्यज्ञातिसालोहितचित्ताकारैश्च सर्वसत्त्वालम्बने सम्यगूष्मगतकुशललाभात्सर्वसत्त्वानां त्रातेति। तथा चोक्तम्।



 



आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते।



समचित्तादिराकारस्तेष्वेव दशधोदितः॥३५॥इति



 



मूर्द्धानमधिकृत्याह। स्वयञ्चेत्यादि। इदमुक्तं स्यात्। स्वयं सर्वपापान्निवृत्तस्य दानाद्येषु प्रतिपत्त्या स्थितस्य च। तथैवान्येषां पापनिवृत्तौ समादापनेन कुशलप्रवृत्तौ समादापनवर्णवदनसमनुज्ञानाकारैरालम्बने मूर्द्धगतमुद्यत इति। तथा चोक्तम्।



 



स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च।



तयोर्नियोजनान्येषां वर्णवादानुकूलते॥३६॥



मूर्द्धगम् इति



 



क्षान्तिमधिकृत्याह। एवं सत्येषु यावद्बोधिसत्त्वन्यामावक्रान्ताविति। यथा मूर्द्धसु स्वपराधिष्ठानभेदेनालम्बनाकारभेदो व्याख्यातस्तथा दुःखादिसत्यचतुष्टयप्रथमफलादिकं प्रमुदितादिभूमिञ्च स्वयं परिजानतोऽन्येषाञ्च तत्रैव समादापनादिभिराकारैरालम्बने क्षान्तिरुत्पद्यत इत्यर्थः। तथा चोक्तम्।



 



स्वपराधारं सत्यज्ञानं तथा क्षमा इति।



 



अग्रधर्मानधिकृत्याह। सत्त्वपरिपाचन इत्यादि। तत्रानावरणं रूपं बोधिसत्त्वाभिज्ञादि,सर्वधर्मस्थितिर्बुद्धत्वम्। इदमुक्तं स्यात्। स्वयं सत्त्वपरिपाचनादौ स्थितस्यान्येषामपि तत्र समादापनादिभिराकारैरालम्बनेऽग्रधर्मा भवन्तीति। तथा चोक्तम्।



 



तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः॥३७॥ इति



 



एतानि पुनर्निर्वेधभागीयानि मृदुमध्याधिमात्रभेदात्प्रत्येकं त्रिविधानि भवन्ति। तत्र मृदूष्मगतं सममैत्रचित्ताभ्यां तदात्वे पराविहेठनतामुपादाय,मध्यं हितादिचित्तत्रयेणायत्यां परहिताशयतामुपादाय। अधिमात्रं मात्रादिचित्तोत्पादेन तदात्वे चायत्याञ्च परेषामिष्टोपसंहारकामतामुपादाय निर्दिष्टम्। मृदुमूर्द्धगतं पापनिवृत्तौ स्वपरनियोजनेनान्येषां दुःखहेतुनिवृत्तिकामतामुपादाय। मध्यं दानादौ स्वपरस्थापनेनान्येषां,सुखहेतुसन्नियोगाभिलाषितामुपादाय। अधिमात्रं द्विधा प्रतीत्यसमुत्पादभावनायामात्मपरप्रवर्तनेनान्येषां,सुखदुःखविपर्यासप्रहाणाभिप्रायतामुपादायोक्तम्। मृद्वी मध्याधिमात्रा च क्षान्तिर्यथाक्रममेव सत्येषु यावद्बोधिसत्त्वन्यामावक्रान्तावित्यनेनान्येषामार्यमार्गे प्रथमफलादौ बुद्धत्वे च नियोक्तुकामतामुपादायोक्तम्। किं त्वधिमात्रा क्षान्तिरेकक्षणिकी ग्राह्या। मृदुमध्याधिमात्रास्त्वग्रधर्मा यथासंख्यं परेषामविशेषेण यानत्रये परिपाचनाय विशेषेण बोधिसत्त्वमार्गे नियोजनाय सर्वसम्पत्प्रकर्षनिष्ठाधिष्ठानकामतामुपादाय सत्त्वपरिपाचनानावरणरूपसद्धर्मस्थितिवचनेनोक्ताः।



 



यदुक्तमभिधर्मकोशे।



 



यथाधिमात्रा क्षान्तिरेव क्षणिकी तथाग्रधर्माः। इति।



तत् स्वार्थाधिकारात्। इह तु परार्थाधिष्ठानानां मृदुमध्याधिमात्रभेदो व्याख्यातः। परार्थस्य तारतम्यावस्थासम्भवादिति न तेनेदं विरुध्यते। प्रत्यभिसमयं कस्मान्निर्वेधभागीयादिनिर्देश इति चेत्। उच्यते। सर्वाकारमार्गवस्तुविभावनाभेदेन यथाक्रमं सर्वाकारज्ञतादित्रिविधेऽभिसमये लौकिकनिर्वेधभागीयाधिगमपूर्वको लोकोत्तरदर्शनभावनामार्गाधिगमः। सर्वाकाराभिसम्बोधादौ तु त्रिविधेऽभिसमये भावनोत्तरोत्तरावस्थाविशेषेण सर्वाकारविशेषमार्गसङ्गृहीतं ज्ञानमनास्रवं मृदुमध्याधिमात्रक्रमेणोत्पद्यत इति सकृदुत्पत्तिनिरासाय निर्वेधभागीयादिव्यपदेशोऽभिहित इति केचित्॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमितायां तथतापरिवर्तो नाम षोडशः॥३६२॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project