Digital Sanskrit Buddhist Canon

पञ्चदशपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Pañcadaśaparivartaḥ


 



पञ्चदशपरिवर्तः।



 



अनास्वादविशेषञ्चतुर्थक्षणसङ्गृहीतं निर्दिशन्नाह। आदिकर्मिकेणेत्यादि। तत्र कायेन वाचा परिवारादिप्रदानेन वाऽराधनाद्यथासंख्यं सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि इति योज्यम्। योग मापद्यस्वेति। देयदायकप्रतिग्राहकाद्यनुपलम्भयोगेन प्रतिपत्तिपरो भव। मा रूपतः परामृक्ष इति। मा रूपाद्यभिनिवेशयोगेन ग्रहीरित्यर्थः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। अपरामृष्टा हीत्यादि। तत्त्वतोऽनुत्पादरूपत्वात् सर्वाकारज्ञता न केनचित् प्रकारेण प्रत्यवमर्षणीया। पेयालमिति। तत्सर्वमनुत्तरायामिति। यावत् कुलपुत्र सर्वत्रेत्ययं ग्रन्थः शीलादिपारमिताचतुष्टयेऽतिदेशनीयः। अनुपूर्वेणेति। आदावात्मादिनिराकरणेन बाह्येऽर्थे प्रतिष्ठाप्य पश्चात्कल्पितपरतन्त्रपरिनिष्पन्नस्वभावकथनेन त्रैधातुकचित्तमात्रावगमे नियोज्य तदनु सम्यगर्थक्रियासु योग्यमयोग्यं तथ्यातथ्यभेदेन संवृतिसत्यद्वयमविचारैकरम्यपूर्वपूर्वस्वकारणाधीनं निर्दिश्य तथ्यसंवृतौ स्थित्वा यथादर्शनं मायापुरुषेणेव दानाद्याचरितव्यम्। परमार्थतोऽनुत्पादश्च भावयितव्य इत्येवंक्रमेण प्रज्ञापारमितायामवतारयितव्यः। तदेवं षोडशप्रकारं विशेषलक्षणमावेदितं येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिद्वये विशेषमार्गो विशिष्यते। अतस्तेषां यथोक्तविशेषविकलोऽभिज्ञाद्युत्पादनलक्षणत्वेन सुगमत्वान्नोक्तः। तथा चोक्तम्।



 



अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ।



सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते॥२४॥



क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ।



आलम्बनञ्च साधारं साकल्यं संपरिग्रहः॥२५॥



अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः।



विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते॥२६॥ इति



 



विशेषलक्षणेनावच्छिन्नायां किं कारित्रमिति कारित्रलक्षणं वक्तव्यम्। तत्र हितसुखकारित्रे निर्दिशन्नाह। दुष्करकारका भगवन्नित्यादि। एवंरूपमिति। बुद्धत्वनिष्पादकमविकलं कारणमित्यर्थः। तत्रानागततदात्वसुखोपसंहाराभिप्रायेण हिताय सुखायेति द्वयमुक्तम्। एतच्च द्वयमनुकम्पया स्यादित्याह। लोकानुकम्पायै सम्प्रस्थिता इति। त्राणादिकारित्रप्रतिपादनायोद्देशमाह। लोकस्य त्राणं भविष्याम इत्यादिना। तत्र त्राणकारित्रं निर्दिशन्नाह। कथञ्च सुभूत इत्यादि। तत्र व्यायच्छन्ते वीर्यमारभन्त इति। प्रयोगासन्तुष्टिवीर्याभ्यां यथाक्रमं योज्यम्। त्राणं भवन्तीति। अविपाकधर्मतायां स्थापनात्। शरणकारित्रं वक्तुमाह। कथञ्चेत्यादि। तत्र जातिरभूत्वाभावः,जरा पूराणीभावः,व्याधिरस्वास्थ्यं मरणं पूर्वकर्माक्षिप्तनिकायपरित्यागः,शोको वैमनस्यं,परिदेवः प्रियगुणानुस्मरणसहितं क्रन्दनं,दुःखं कायिकमशान्तं वेदितं,दौर्मनस्यं चैतसिकं पूर्ववत्,उपायासो भारोद्वहनादिः। शरणमिति। आत्यन्तिकहितोपसंहारार्थेन। लयनकारित्रं निर्दिशन्नाह। कथञ्चेत्यादि। अश्लेषायेति। रूपाद्यनुत्पादाय लयनमिति। दुःखहेतुनिवर्तनार्थेन। अश्लेषार्थमेव स्पष्टयन्नाह। कथं भगवन्नश्लेष इत्यादि। ज्ञानदर्शनादिति। अस्मिन्प्रसङ्गे यथानिर्दिष्टार्थसाक्षात्करणं ज्ञानदर्शनम्। परायणकारित्रं प्रतिपादयन्नाह। कथञ्च सुभूत इत्यादि। यत्सुभूते रूपस्य पारं न तद्रूपमिति। प्रकर्षगमनार्थेन रूपस्य यत्पारमनुत्पादो निःस्वभावता न तद्रूपं भवतीति संवृत्या। परमार्थतः पुनर्यथा पारं शून्यता तथा रूपम्।



 



धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते। इत्याह।



 



यथा सुभूते पारं तथारूपमिति। अभिसम्बुद्धा एवेति। इदानीमपि शून्यतारूपत्वाद्वुद्धत्वावस्थायामिवाधिगताः सर्वधर्मास्तस्मादेतत्सूत्राभियोगो व्यर्थ इति भावः। भ्रान्त्यात्मकविकल्पसद्भावात् कथमभिसम्बुद्धा इति। तत्कस्य हेतोरित्याशङ्क्याह। न ह्यत्रेत्यादि। विकल्पस्यानुत्पादरूपत्वाद्रूपादिपारे विकल्पो नैवास्तीत्यर्थः। अभिसम्बुद्धा एव भवन्ति सर्वधर्मा इति। तत्त्वत एवेति शेषः। संवृत्या पुनरनादिकालीनसमारोपापनयनाय सूत्राभियोगः सफलो भवेदिति भावः। संवृत्यधिगममेवावेदयन्नाह। इदमपीत्यादि। बहुशो बहुधोपायं भावयन्त्युपनिध्यायन्ति न च साक्षात् कुर्वन्तीदं परमदुष्करं सहसा कर्तुमशक्तम्। न चावलीयन्ते दानादिपारमितापुरणे च कौशीद्यं न प्रतिपद्यन्ते। एते धर्मा इति। प्रकृतिपरिनिर्वृतत्वादिलक्षणाः। परायणं भवन्तीति। धर्मदेशनया संसारनिर्वाणसमतोपसंहारार्थेन त्रातारो भवन्ति। द्वीपकारित्रं वक्तुमाह। कथञ्च सुभूत इत्यादि। उदकपरिच्छिन्ना इति। जलमध्यस्थिताः स्थलभागाः। पूर्वान्तापरान्तपरिच्छिन्नं रूपमिति। पूर्वान्तो हेतुरपरान्तं कार्यं ताभ्यां परिच्छिन्नम्। तन्मध्यवर्ति मायोपमस्वरूपम्। एतेन सुभूते परिच्छेदेनेति। तत्त्वतोऽनुत्पादेन। एतच्छान्तमित्यादि। पदपञ्चकेन प्रयोगदर्शनभावनाऽशैक्षविशेषमार्गेषु यथाक्रमं मार्गसत्यमावेदितम्। लोकस्य द्वीपा भवन्तीति। उदकपरिक्षिप्तसुस्थलसाधर्म्येण पूर्वान्तापरान्तपरिच्छिन्नसर्वधर्माधिगमात् तृष्णाक्षयविरागनिरोधनिर्वाणदेशिकत्वेन,स्वपरार्थाधिगमाधारभावोपसंहारादाश्रयणीया भवन्ति। कथञ्चेत्याद्यालोककारित्रं पुनः सालोकरत्नद्वीपसाधर्म्येणाविद्यान्धकारक्षयस्य तृष्णादिक्षयान्तर्भावेन द्वीपकारित्रमेव। पृथक्करणं तु ज्ञानालोकस्याज्ञानक्षये प्राधान्यादिति वेदितव्यम्। अविद्याण्डेत्यादि। अविद्यैवाण्डकोशपटलं ग्राह्यग्राहकाकारादिप्रतिभासः। तेन पर्यवनद्धानां समन्ताद्वाह्येन ज्ञानेन युक्तानां सत्त्वानाम्। तमोऽभिभूतानामान्तरेणाविद्यावासनाबीजेनाभिभूतानां सर्वाज्ञानतमोऽन्धकारं बाह्याभ्यन्तरमज्ञानं विधुन्वन्त्यपनयन्तीति सम्बन्धः। किं कुर्वाणा इत्याह। प्रज्ञायाऽवभासयन्त इति ज्ञानालोकं कुर्वाणा इत्यर्थः। परिणायककारित्रं कथयन्नाह। कथञ्च सुभूत इत्यादि। परिणायका भवन्तीति। रूपादिसर्वधर्माणां स्वभावेनानुत्पादानिरोधाय धर्मप्रकाशनात्सारथिभावेन परार्थप्रतिपत्युपसंहारान्नायकाः। अनाभोगादिकारित्रत्रयार्थं प्रश्नयन्नाह। कथञ्चेत्यादि। लोकस्य गतिर्भवतीति। त्रिविधकारित्रव्यापारोपसंहारादाश्रया भवन्तीति। तत्र सर्वज्ञताधिकारधर्मदैशिकत्वेनानाभोगप्रवृत्तसत्त्वार्थोपसंहारादाश्रया भवन्तीत्यनाभोगकारित्रं तावत् कथयन्नाह। इह सुभुत इत्यादि। आकाशगतिकमिति। आकाशनिष्ठम्। एतदेव कथयन्नाह। यथाकाशमित्यादि। तत्र द्रव्याभावमात्रमाकाशम्। अतीतात् कालादागमनाभावादनागतमनागते च काले गतिवैकल्यादगतम्। कारकहेतोरसत्त्वादकृतं विनाशहेतुविरहादविकृतम्। स्थापकसंस्कारानुपपत्तेरनभिसंस्कृतम्। कालत्रये स्वभाववियोगाद्यथाक्रममस्थितमसंस्थितमव्यवस्थितम्। अतश्चानुत्पन्नमनिरुद्धम्। उपसंहारार्थमाह। एवमेव सुभूत इत्यादि। आकाशकल्पत्वादविकल्पा इति। खतुल्यत्वान्निर्विकल्पाः। अनागतमित्यादि निर्युक्तिकमिति। तत्कस्य हेतोरित्याशङ्क्याह। या सुभूते रूपस्येत्यादि। शून्यता अनुत्पादरूपता। यदि नाम तस्या गमनागमनं नास्ति,तथापि रूपादीनां कथं न भवतीति। तत्कस्य हेतोरित्याशङ्क्याह। शून्यतागतिका हीत्यादि। अनुत्पादस्वभावत्वात्,सर्वधर्माः शून्यतादिस्वभावाः। तत्र मायोपमत्वाच्छून्यता। सर्वनिमित्तविगमादानिमितम्। प्रार्थनाविषयातिक्रान्तत्वादप्रणिहितम्। गगनवत् प्रकृतिप्रभास्वरत्वादनभिसंस्कारः। तां गतिं न व्यतिवर्तन्ते। तं स्वभावं नातिक्रामन्ति। अतोऽनन्तरमेवं खलु सुभूते बोधिसत्त्वा महासत्त्वाऽनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धाः। सन्तो लोकस्य गतिर्भवन्तीति वक्ष्यमाणेन हारकान्तेन सम्बन्धतः। सर्वज्ञताधिकारस्तु हिताद्यनाभोगपर्यन्ते सर्वत्रकारित्रे निर्वाणपरिदीपनार्थेन वेदितव्यः। मार्गज्ञताधिकारधर्मदैशिकत्वेन यथायाननिर्वाणतदसाक्षात्करणोपसंहाराद्गतिर्भवन्तीति। यानत्रयनिर्याणतत्फलासाक्षात्करणकारित्रं प्रतिपादयन्नाह। अनुत्पादगतिका हीत्यादि। तत्र कल्पितदुःखविवेकादनुत्पादगतिकाः,विकल्पितदुःखविरहादजातिगतिकाः,धर्मतादुःखवियोगादभावगतिकाः। कल्पितसमुदयाभावात् स्वप्नोपमप्रतिभासमात्रस्य विद्यमानत्वेन स्वप्नगतिकाः। यथा आत्मा प्रमाणबाधितत्वान् न विद्यते,तद्वद्विकल्पितसमुदयासत्त्वादात्मगतिकाः। धर्मतासमुदयस्य मायोपमत्वेनाविद्यमानपरिच्छेदत्वादपर्यन्तगतिकाः। कल्पितादित्रिविधभावनिरोधाद्यथाक्रमं शान्तगतिकाः,निर्वाणगतिकाः,अप्रत्युद्धारगतिका इति पदत्रयं वाच्यम्। तथैव कल्पितादित्रिविधमार्गस्वभावत्वादनागतिकाः,अगतिकाः,अचलगतिका इति । अतोऽप्यनन्तरं पूर्ववद्धारकान्तेन सम्बन्धः करणीयः। गतिकारित्रं कथयन्नाह। रूपगतिका हीत्यादि। रूपादिगतिका धर्मतात्मकरूपादिस्वभावाः। लोकस्य गतिर्भवन्तीति। सर्वाकारज्ञताधिकारिकसर्वधर्मदैशिकत्वेन बोधिसत्त्वा लोकस्याश्रयणीया भवन्तीति। यथोक्तमेकादशविधमेव कारित्रलक्षणमवसातव्यम्। तथा चोक्तम्।



 



हितं सुखं च त्राणं च शरणं लयनं नृणाम्।



परायणञ्च द्वीपञ्च परिणायकसंज्ञकम्॥२७॥



 



अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम्।



पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम्॥२८॥ इति



 



कारित्रलक्षणेनावच्छिन्नानां स्वभावलक्षणं कथयन् प्रतिपत्त्यर्थमाह। के भगवन्निमामित्यादि। स्वरूपमावेदयन्नाह। ये सुभूते चरिताविन इत्यादि। स्वभावलक्षणकथनार्थं प्रश्नयन्नाह। किं स्वभावा इत्यादि। परिहर्तुमाह। वैनयिकविविक्तस्वभावा इति। विनीयतेऽनेनेति विनयो धर्मधातुः तत्प्रभवो विपक्षविवेकाद्विविक्तः स्वभावो येषां ते तथोक्ता इत्यनेनैव पदेन क्लेशविवेकस्वभावो रागादिविविक्तस्वभावत्वेन ,क्लेशलिङ्गविवेकस्वभावो रागादिलिङ्गकायादिदौष्ठुल्यविविक्तस्वभाववत्त्वेन,क्लेशनिमित्तविविक्तस्वभावो रागादिनिमित्तायोनिशोमनसिकारविविक्तस्वभावत्वेन,विपक्षप्रतिपक्षविवेकस्वभावो रागारागद्वेषाद्वेषमोहामोहविविक्तस्वभावत्वेन चेति स्वभावचतुष्टयं सर्वाकारज्ञतागतिकत्वेनाधिमुक्तॄणां भावनामार्गोपन्यासार्थेनावेदितम्। तामेव गतिं निर्देष्टुमाह। किं  भगवन्नेवमित्यादि। एवं गतिका इति। सर्वाकारज्ञतागतिकाः। साधूक्तत्वेनाह। एवमेतत्सुभूत इत्यादि। दुष्करस्वभावं वक्तुमाह। दुष्करकारक इत्यादि। एवमेतदिति। सर्वधर्माणामत्यन्ततयाऽविद्यमानत्वात्तदसम्बद्धतामुपादाय सर्वसत्त्वापरिनिर्वापणदुष्करसन्नाहत्वेन दुष्करकारकः। सन्नाहस्वरूपं स्पष्टयन्नाह। स खलु पुनरयमित्यादि। तत्र वर्तमानरूपाद्यभिनिवेशविरहान्न रूपादिसम्बन्धः। अनागततत्प्रार्थनाविमुखत्वान्न रूपादेरर्थाय सम्बन्धः। निर्युक्तिकमेवेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। सर्वधर्मासम्बद्ध इति। तत्त्वतोऽविचारैकरम्यत्वादिति मतिः। ऐकान्तिकस्वभावं प्रतिपादयन्नाह। अस्य भगवन् बोधिसत्त्वस्येत्यादि। एवं महासन्नाहसन्नद्धस्येति। ऐकान्तिकस्वभावेन युक्तस्य। तत्र श्रावकभूमिः प्रत्येकबुद्धभूमिश्च सम्यक्प्रवृत्तत्वाद्बोधिसत्त्वस्य न प्रतिकांक्षितव्या। बुद्धभूमिः पुनरभिलाषयोगेन नाकांक्षणीया। कथमयमर्थो लभ्यत इत्याह। कं त्वं सुभूतेऽर्थवशमित्यादि। सर्वोपलम्भप्रतिपक्षत्वान्मातुरित्यभिप्रायेण परिहरन्नाह। अस्थानं हीत्यादि। तत्र हेतुवैकल्यादस्थानमसम्भवः। फलासम्भवादनवकाशोऽनवसरः। श्रावकादिभूमिपातास्थानानवकाशत्वेन चैकान्तिकभावनाऽनभिनिवेशयोगेन परिदीपिता भवेत्। उद्देशस्वभावं निर्दिशन्नाह। अपि तु बुद्धभूमिरेवेत्यादि। प्रतिकांक्षितव्येति। मायोपमसर्वधर्माधिमोक्षादिति भावः। अनेनोद्देशभावनाऽव्यभिचारत्वेनोद्द्योतिता स्यात्। अनुपलम्भस्वभावं कथयन्नाह। गम्भीरा भगवन्नित्यादि। सा न केनचिद्भावयितव्या। भाव्यभावकभावनानुपलम्भात्। तदेवाह। तां हीत्यादिना। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह। न हीत्यादि। न हि कश्चिद्धर्मः परिनिष्पन्न इति। कर्तृकर्मक्रियादिलक्षणः। कथन्तर्हि भावनेत्यादि। आकाशभावनेति। तत्त्वतो मायोपमभावना। तामेव भावनां सर्वाकारज्ञतादिभेदेनाह। सर्वधर्मभावनेत्यादिना। तत्र सर्वाकारज्ञतया सर्वाभिसमयानुत्पादसंग्रहात् सर्वधर्मभावना। मार्गज्ञतयाऽनभिनिवेशेन सर्वमार्गशिक्षणादसङ्गभावना। सर्वज्ञतयाऽशेषवस्तुसङ्ग्रहादत्यन्तभावना। सर्वाकाराभिसम्बोधेन विशेषमार्गरूपत्वादसम्भावना। मूर्धाभिसमयेन निष्ठामार्गलक्षणत्वादपरिग्रहभावना। अनभिनिवेशस्वभावं वक्तुमेवमेतत्सुभूत एवमेतदिति। स्वहस्तदानपूर्वकमाह। अतो हि सुभूते गम्भीराया इत्यादि। अत इति वक्ष्यमाणात् कारणादित्यर्थः। कारणमेवाह। कच्चिदित्यादिना। कच्चिच्छब्दो यस्मादर्थे वर्तते। नाभिनिवेशं करोतीति। न वस्तुपरिग्रहं करोति। परभणितानि परमन्त्रितानि नाभिनिविशत इति। निकायभिक्षूणां नेदं बुद्धवचनमिति प्रकटाभिधानं परभणितं प्रच्छन्नकथनं परमन्त्रितम्। नाकर्णयति। न परस्य श्रद्धया गच्छतीति,प्रत्यात्मवेद्यप्रसादलाभान्न परप्रणेयो भवति। ग्रन्थाद्यवगमादवगाहते। अर्थालम्बनादधिमुच्यते। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। जन्मान्तरवासनाधानमन्तरेण चानुत्त्रासा दिर्न भवतीति भावः। अनुत्रासादिभिश्च मार्गज्ञताकारभावना कथिता स्यात्। आलम्बनस्वभावं निर्दिशन्नाह। यो भगवन् बोधिसत्त्व इत्यादि। आकारेणेति ग्रहण प्रकारेण। व्यवचारिता निरूपिता। सर्वज्ञतानिम्नयेति त्रिसर्वज्ञतानिष्ठया चित्तसन्तत्या। अनेन त्रिसर्वज्ञताभावना कथिता स्यात्। निर्ज्ञातस्वरूपा सन्ततिरन्यस्य व्यवचारणे दक्षेत्याह। कथं भगवन्नित्यादि। प्रयोगमौलपृष्ठावस्थासु मायोपमसर्वधर्मभावनात्मिकया चित्तसन्तत्या पूर्विकया सर्वज्ञतानिम्ना सन्ततिर्व्यवचारितेति परिहरन्नाह। आकाशनिम्ना चेत्यादिपदत्रयम्। इयं सा व्यवचारणेति। यथोक्तनिश्चितसन्तत्या सा व्यवचारणा सम्यगित्यर्थः। निर्युक्तिकमेवेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। अप्रमेया हीत्यादि। यस्मात् तत्त्वेन प्रमाणप्रमेयत्वसमतिक्रमाद्यथायोगमप्रमेयाऽप्रमाणा च सर्वज्ञता तस्मान्मायोपमभावनानिश्चितसन्तत्या व्यवचारणाऽन्यथा प्रमेयत्वादिसद्भावाद्भावग्रहः स्यादिति वाक्यार्थः। एतदेव स्पष्टयन्नाह। यत्सुभूत इत्यादि। तत्र प्राप्तिः पृथग्जनस्य शीलादिस्वभावः  सम्भारमार्गः,अभिसमयः सम्भृतसम्भारस्य निर्वेधभागीयात्मकः प्रयोगमार्गः। अधिगमः सर्वत्रगधर्मधातुप्रतिवेधलक्षणो दर्शनमार्गः। मार्गो लौकिकध्यानारूप्यालम्बनो लौकिकभावनामार्गः। मार्गफलं दुःखसत्यादिज्ञानरूपो लोकोत्तरभावनामार्गः। ज्ञानमधिमात्राधिमात्रादिक्लेशप्रहाणकारी मृदुमृद्वादिस्वभावो मृदुमार्गः। विज्ञानं मध्याधिमात्रादिक्लेशविध्वंसको मध्यमृद्वादिलक्षणो मध्यो मार्गः। उत्पत्तिर्मृद्वधिमात्रादिक्लेशोन्मूलकोऽधिमात्रमृद्वादिरूपोऽधिमात्रो मार्गः। विनाशो भावनामार्गे क्लेशप्रहाणोपायः प्रयोगमार्गः। उत्पादः क्लेशप्रहाणेन विमुक्तिप्रापकः सम्यगानन्तर्यमार्गः व्ययः क्लेशविविक्तज्ञानसाक्षात्कारी विमुक्तिमार्गः। निरोधः परिशिष्टक्लेशप्रकारस्य प्रयोगानन्तर्यविमुक्तिमार्गात्मको  विशेषमार्ग इत्येके। वैशेषिकगुणाभिनिर्हारको विशेषमार्गो निरोध इत्यन्ये। भावना वज्रोपमः समाधिः सर्वावरणाभेद्यभेदकः। विभावना निष्ठामार्गः । क्षयानुत्पादज्ञानं देशादेशसामान्यम्। प्रदेशो देशविशेषः। न केनचिदभिसम्बोद्धुमिति। रूपादिभिराकारैर्न शक्याधिगन्तुम्। तदेवाह। न रूपेणेत्यादिना। यत्तर्हीदमुक्तमालम्बनं सर्वधर्मा लौकिकाः कुशलादय इत्यादि,तत्कथमिति। तत्कस्य हेतोरित्याशङ्क्याह। रूपमेव हीत्यादि। यस्माद्योगिसंवृत्त्या रूपादिकमेव मायोपमताधिगतं बुद्धत्वमित्यर्थः। यथोक्तं प्रसिद्धमात्रस्य हि याऽयथार्थता तदर्थसम्बोधफलं हि शासनमिति। दानपारमितैवेत्यादि। तत्र दानशीलक्षान्तिपारमितास्तिस्रो वीर्यध्यानपारमितयोश्चांशः पुण्यसम्भारः। ज्ञानसम्भारस्तु प्रज्ञापारमिता वीर्यध्यानपारमितयोश्चांश इत्येतत्सर्वं मायोपमत्वेनाविशिष्टत्वात्तथागतत्वम्। सम्यग्धर्मावबोधेन सञ्जातप्रसादातिशया भगवत्पादवन्दनापूर्वकं मातुर्माहात्म्यं शक्रादयः प्रकटयन्तीत्याह। अथ खलु शक्र इत्यादि। तत्र गम्भीरा रूपादितथतास्वभावत्वात्। श्रुतचिन्ताभावनावस्थासु मायोपमत्वाद्यथाक्रमं दुरवगाहा दुर्द्दशा दुरनुबोधा,इदमप्यर्थवशमिति। अपिशब्दान्न केवलं विनेयाग्रहणादि किन्तर्हीदमपि धर्मगाम्भीर्यं पश्यत इत्यर्थः। अल्पोत्सुकतायामिति निर्व्यापारत्वे चित्तमवनतम्। न धर्मदेशनायां तथापि ब्रह्माध्येषणान्महाकरुणया धर्मचक्रं प्रवर्तितमिति भावः। साधूक्तत्वेनानुवदन्नाह। एवमेतदित्यादि। उपसंहारार्थमाह। गम्भीरो वतायमित्यादि। केयं गम्भीरतेत्यादि। यत्र न कश्चिदित्यादि। सर्वलोकविप्रत्यनीकस्वभावं कथयन्नाह। आकाशगम्भीरतयेत्यादि। अविचारैकरम्यकारणत्वादाकाशगम्भीरतया गम्भीरः। तत्त्वेन मायोपमकार्यस्वभावत्वादात्मगम्भीरतया गम्भीरः। उत्पादाभावात्सर्वधर्मानागमनतया गम्भीरः। विनाशवियोगात् सर्वधर्मागमनतया गम्भीरः। एतदुक्तम्। "स्वप्नोपमहेतुफलधर्माधिगतिपूर्वकः क्षयानुत्पादज्ञानस्वभावो मया धर्मोऽभिसम्बुद्धो देश्यत"इति। यथोक्तस्वभावमेव स्पष्टयन्नाह। आश्चर्यमित्यादि। हेतुवैशिष्ट्यादाश्चर्यम्। फलातिशयादद्भुतम्। सर्वलोकविपरीतत्वात्सर्वलोकविप्रत्यनीकः। तदेव वक्तुमाह। अनुद्ग्रहायेत्यादि। अयमिति। प्रज्ञापारमितात्मकः।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां देवपरिवर्तो नाम पञ्चदशः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project