Digital Sanskrit Buddhist Canon

त्रयोदशपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Trayodaśaparivartaḥ


 



त्रयोदशपरिवर्तः।



सामान्यरूपतया ज्ञानाकारेण परिच्छिन्नानां विशेषो ज्ञेय इति। ज्ञानलक्षणानन्तरं विशेषलक्षणं सामान्येनोपोद्वातयन्नाह। अथ खल्वायुष्मानित्यादि। महाकृत्येनेति। अचिन्त्यातुल्यादिविशेषविशिष्टैर्दुखादिसत्यविषयैः। षोडशभिर्धर्मान्वयज्ञानक्षान्तिज्ञानक्षणैर्विशेषलक्षणस्वभावैस्तथागतत्वाद्यर्थाय प्रत्युपस्थितेत्यर्थः। तथा चोक्तम्।



 



अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः।



विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः॥२३॥इति



 



वतशब्दोऽवधारणे। कः पुनरचिन्त्यादिविशेष इत्याह। अचिन्त्यकृत्येनेत्यादि। अचिन्त्यातुल्याप्रमेयासंख्येयताभि विशेषैर्यथाक्रमं दुःखसत्यचतुःक्षणसंग्रहीतैर्विशेषलक्षणमुक्तम्। असमसमकृत्येनेति। सर्वेषामेवेदं विशेषणम्। एषाञ्च व्याख्यानं ग्रन्थत एव भविष्यति। निरुपपत्तिक एवायमनुवाद इति व्याख्यातुमाह। कथञ्चेत्यादि। तत्र तथागतत्वमित्यादिपदचतुष्टयमादर्शादिज्ञानचतुष्टयभेदेन योज्यमिति पूर्वाचार्याः। तथागतत्वादिनिष्पादनादचिन्त्यकृत्यत्वमेवमुत्तरत्राप्यतुल्यकृत्यत्वादिकं ग्राह्यम्। चित्तचैतसिकादिप्रवृत्तौ कथं चिन्तयितुं न शक्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। न हि चित्तमित्यादि। चित्तं मनोज्ञानां,चेतना मानसं कर्म,तज्ज्ञे वाक्कायकर्मणी चैतसिको वा प्रज्ञादिरालम्बकभावेनात्र बुद्धत्वादौ न प्रवर्तते। सर्वविपर्यासापगमादिति भावः। तुलयितुं वेति। बुद्ध्या स्वरूपमवधारयितुम्। अप्रमेयं हीत्यादि। यस्मात् प्रमातुमशक्यम्। असंख्येयं हीति। यस्मादेकत्वादिना गणयितुं न पार्यते। कुतः पुनरुत्तर इति। समाभावादसमस्य कस्मात्पुनरुत्तरः प्रतिविशिष्टो भविष्यत्यतोऽसमेनात्मना समस्तुल्य इत्यसमसमो भगवान् सर्वज्ञः। एतदुक्तम्। "तथागतत्वादिकमेव सर्वैरचिन्त्यादिपदैर्व्यावृत्तिभेदेनोच्यत"इति। पदपरमत्वेन तथागतत्वादिकमेवाचिन्त्यादिविशिष्टमित्यवगम्य रूपादौ सन्देहादार्यसुभूतिराह। किं पुनरित्यादि। न्यायस्य तुल्यत्वादित्यभिप्रायेणाह। एवमेतत् सुभूते एवमेतत् रूपमपीत्यादि। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याचिन्त्यातुल्यते तावत् पूर्वोक्ताभिप्रायेण कथयन्नाह। रूपस्य हि सुभूते या धर्मतेत्यादि। रूपमपि सुभूतेऽप्रमेयमित्यादिना। अप्रमेयतां व्याचष्टे। कथं प्रमाणसद्भावेऽप्रमेया इति। तत्कस्य हेतोरित्याशङ्क्याह। रूपस्य हि सुभूते प्रमाणं न प्रज्ञायत इत्यादि। अप्रमाणत्वादिति। तत्त्वतोऽनुत्पन्नत्वेन सर्वधर्माणामप्रमाणत्वात् प्रमाणं न विद्यते। अतो न प्रज्ञायत इति यावत्। रूपमपीत्यादिनाऽसंख्येयतां कथयति। गणनासमतिक्रान्तत्वादिति। मायोपमत्वेनैव एकत्वादिगणनाभिरसंगृहीतत्वात्। अचिन्त्यतादिकमेव स्पष्टयितुमसमसमताप्रतिपादनार्थमाह रूपमपि सुभूतेऽसमसममित्यादि। आकाशसमत्वादिति। समाधिकाभावादाकाशेन तुल्यत्वादसमसमाः। सामान्येन पुनरपि प्रतिपादयन्नाह। तत्किं मन्यस इत्यादि। नो हीदमिति। तत्त्वतो निःस्वभावत्वादिति भावः। दार्ष्टान्तिकार्थं वक्तुमाह। एवमेव सुभूत इत्यादि। अनेन पर्यायेणेति। आकाशदृष्टान्तनिर्देशेन। तथागतधर्मा इति। अचिन्त्यतादिभिरेव सर्वप्रकारं तथागतानां धर्माधिगमादुपसंहारार्थमाह। अनेनापीत्यादि। तदेव स्पष्टयन्नाह। एते च सुभूते तथागतधर्मा इत्यादि। विज्ञानगतस्येति। मायोपमप्रतिभासप्राप्तस्यार्थस्याचिन्त्यतादिव्यपदेशः। संवृत्या। उपसंहारार्थमाह। तस्मात् सुभूत इत्यादि। अनास्रवधर्मदेशना सम्पन्नहेतुकानां विफला नास्तीत्याह। अस्यां खलु पुनरित्यादि। अनुपादायास्रवेभ्य इति। क्लेशवासनाबीजाधानमकृत्वा क्लेशेभ्यश्चित्तानि विमुक्तानि। विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धमिति। दुःखसत्यादौ धर्मज्ञानक्षान्तिभिर्विरजः। धर्मज्ञानैर्विगतंमलम् ज्ञेयविषये धर्मचक्षुः पूर्वोक्तमपगतदोषमुत्पन्नम्। क्षान्तिः प्रतिलब्धेत्यनुत्पन्नाः सर्वधर्मा इति धर्मनिध्यानक्षान्तिर्दुःखधर्मज्ञानक्षान्तिर्वा प्राप्ता। ते च विंशतिमात्रा बोधिसत्त्वाः। यद्यप्यनादिर्बुद्धवंशः प्रतिबुद्धोत्पादे चासंख्येयसत्त्वपरिनिर्वाणं तथापि संसारिणां परिक्षयो नास्ति,अनन्तादाकाशवत्। न हि पर्वताद्यनेकावरणसम्भवेऽपि नभसः परिक्षयोऽस्तीत्येके। ये प्रतिपक्षसन्निधावपचयधर्माणो दृष्टास्ते प्रतिपक्षात्यन्तसमृद्धौ सम्भवदत्यन्तापचयधर्माणो यथा कनकमलादयः। नैरात्म्यादिलक्षणप्रतिपक्षसम्मुखीभावेनापचयधर्माणः संसारिण इति स्वभावहेतुबलात् संसारिणामुच्छेद इत्यपरे। सर्वार्यपुद्गलसङ्ग्रहविशेषं समुदये प्रथमक्षणसङ्गृहीतं वक्तुमाह। गम्भीरा भगवन्नित्यादि। मातरि बुद्धत्वाद्यप्रतिबन्धात् कथं महाकृत्यत्वमिति। तत्कस्य हेतोरित्याशङ्क्याह। अत्र हीत्यादि। सर्वज्ञतासमायुक्तेति सर्वाकारज्ञता। प्रज्ञापारमितायां प्रतिबद्धा। सर्वकार्यप्रतिबद्धत्वमेव मातुर्दृष्टान्तेनाह। तद्यथापि नामेत्यादिना। मूर्धाभिषिक्तस्येति। अष्टादशमहाकुलिभिरभिषिक्तः। यद्वा राजहस्तिकरोदकाभिषिक्तः। जनपदस्थामवीर्यप्राप्तस्येति। स्वराज्यविगमभयाभावाज्जनपदविषये स्थामप्राप्तः। तन्निग्रहानुग्रहसामर्थ्ययोगाद्वीर्यप्राप्तः। कृत्यानीति व्यापाराः। अमात्यसमायुक्तानीति। प्रतिबद्धानि। तत्र कायवाग्व्यापाराभावाद्यथाक्रममल्पोत्सुकोऽपहृतभार इति योज्यम्। परिग्रहाभिनिवेशमन्तरेणाधिगमानुपपत्तिरित्याशङ्क्याह। कथं भगवन्नित्यादि। परिहारार्थं प्रतिपश्नमाह। तत्किं मन्यस इत्यादिना। परिग्रहं वाभिनिवेशं वेति। यथासंख्यं ग्राह्यग्राहकविकल्पाभ्यामवग्रहमित्यर्थः। नो हीदं भगवन्निति। अयमत्र समासार्थः। यस्मादार्यपुद्गलस्य निर्विकल्पेन ज्ञानेन दर्शनमार्गादौ स्थितस्य ग्राह्यमिदं फलमहं ग्राहक इत्येवमरूपो विकल्पो न समुदाचरति,सर्वविकल्पप्रतिपक्षत्वातथाभूतज्ञानस्य। अन्यथा साभिलापविज्ञानैर्यथावस्थितवस्त्वनुभवानुपपत्तेस्तथ्यज्ञानवियुक्तत्वेन मार्गासम्भवात् क्लेशप्रहाणवैकल्ये सत्यर्हत्वफलोदयो न स्याच्छ्रुतचिन्तावस्थायामिव। तस्मान्मार्गाद्युत्थितस्यैव योगिनोऽपगतैकत्वाभिनिवेशवचनादिविकल्पवत् समारोपरहिता ग्राह्यग्राहककल्पनामतिरुपजायते। तथा च वस्तुतत्त्वाग्रहणान्नाहं तं धर्मं समनुपश्यामीति। एतदेवानुवदन्नाह। एवमेतदित्यादि। औपलम्भिकजनानुकल्पयाह। सर्वज्ञतापि भगवन्नित्यादि। तस्मात्तेभ्यो न वक्तव्यमिति भावः। पुरुषविशेषवेदनीयताविशेषं द्वितीयक्षणसङ्गृहीतं कथयन्नाह। अपि नु खलु पुनरित्यादि। तत्र प्रकृतिसमुदानीतगम्भीरधर्माधिमोक्षगोत्रत्वेन यथाक्रमं हेतुसम्पन्नाः। दीर्घरात्रावरोपितकुशलमूलाः। गोत्रद्वयस्य तथागताधिष्ठानेन वृद्ध्यर्थं पदद्वयमध्ये पूर्वजिनकृताधिकारा इत्युक्तम्। तत्र गम्भीरा दुर्दृशा दुरनुबोधेति। पदत्रयं कल्पितादिस्वभावत्रयानुपलम्भतोऽवगन्तव्यम्। असाधारणताविशेषं तृतीयक्षणसंगृहीतं निर्द्दिशन्नाह। सचेद्भगवन्नित्यादि। श्रद्धानुसारिभूमाविति निर्वेधभागीयावस्थातः पूर्व सम्भारभूमौ दानाद्यनुष्ठानमुपलम्भयोगेन कुर्युः। क्षान्तिमिति धर्मनिध्यानक्षान्तिः। श्रवणावस्थायां प्रयोगमौलभेदेन रोचयेद्गवेषयेत्। चिन्तावस्थायां तथैव चिन्तयेत् तुलयेत्। भावनावस्थायां पूर्ववदुपपरीक्षेत उपनिध्यायेदिति वाच्यम्। क्षिप्राभिज्ञताविशेषं चतुर्थक्षणसंगृहीतं प्रतिपादयन्नाह। एवमुक्ते भगवान्नित्यादि। यावदिति वचनाद्बोधिसत्त्वादिपरिग्रहः। निर्वाणमिति तथागतत्वम्। अन्यूनापूर्णताविशेषं निरोधे प्रथमक्षणसंगृहीतं वक्तुमाह । अथ खलु ते कामावचरा इत्यादि। महापारमितेयमिति। न्यूनपरिपूर्णत्वाभावान्महानुभावयुक्ता। अविदूरं गत्वाऽन्तर्हिता इति भगवतः प्राकृतदर्शनविषयं यावत्पद्भ्यां गत्वापरेण स्वर्द्ध्या गता इत्यर्थः।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां अचिन्त्यपरिवर्तो नामः त्रयोदशः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project