Digital Sanskrit Buddhist Canon

द्वादशपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Dvādaśaparivartaḥ


 



द्वादशपरिवर्तः।



 



तथागतानामुद्योगमेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। अस्पर्शविहार इति। असुखविहारः। अमन आप इति। चित्तेनानभिप्रेतः। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह। एतया हि वयमित्यादि। तत्र केनचिदाहाराद्युपस्तम्भेन सुधारितामन्येऽपि धारयेयुः। चौरादिभ्यो विहितरक्षत्वेन सुगोपितां गोपायेयुः। कायिकमलाद्यपनयनेन सुकेलायितां केलायेयुः। आपततो विद्युदादिपातात्। उत्पाततः सर्वोपसर्गिकरोगतः। अनिष्टनिपातोऽनिष्टवस्तुसम्भवः। दार्ष्टान्तिकार्थमाह। एवमेव सुभूत तथागता इत्यादि। इह लोकधातुस्था एव तथागता ग्राह्याः। यतोऽनन्तरं वक्ष्यति। येऽपि ते अन्येषु लोकधातुष्वित्यादि। अन्तरायं न कुर्युरिति। यथापूर्वोक्तन्यायेन षट्चत्वारिंशद्दोषान् न कुर्युः। तथौत्सुक्यमापत्स्यन्त इति पूर्वेण सम्बन्धः। तथा चोक्तम्।



 



दोषाश्च षट्विबोधव्याश्चतुर्भिर्दशकैः सह॥१२॥



 



इति दोषानन्तरं यथासंख्यं गुणदोषादानत्यागेन प्रयोगा भावनीया लक्षणज्ञानपूर्वकमिति। प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञानविशेषकारित्रस्वरूपं,कर्मसाधनपरिग्रहेण च स्वभावात्मकं वक्तव्यम्। तथा चोक्तम्।



 



लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधञ्च तत्।



ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते॥१३॥ इति



 



तत्र तावत् ज्ञानलक्षणं त्रिसर्वज्ञताभेदेन भिद्यमानं सर्वज्ञताद्वारेण तथागतनिर्वृतिज्ञानं कथयन्नाह। एवं हि सुभूते तथावता इत्यादि। निर्युक्तिकमेवेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। एषा हीत्यादि। तत्रोत्पादनान्माता,संवर्धनाज्जनयित्री। समुत्पादनात् सर्वज्ञताया दर्शयित्री। लोकस्य च सन्दर्शयित्री शून्यतादिरूपेणावगमात्। अत्र केचित् स्वयूथ्या एवं चोदयन्ति। यदि युगपदेकज्ञानक्षणेन निःशेषं ज्ञेयमण्डलं संवृत्या व्याप्यते,तदा भावानामियत्तापरिच्छेदादनन्तत्वमभ्युपेतं बाध्येत। तथा ह्येकज्ञानारूढाद्भावादन्यो भावो नास्तीत्येवं परिच्छिद्यमानाः कथमन्तवन्तो न भवेयुरिति। तदेतदसारम्। यदि तावन्निराकारविज्ञानमाश्रित्यैवं चोद्यते,तदा सर्वमसङ्गतम्। तथा हि यावत्किञ्चिद्वस्तुजातं सत्तामनुभवति,तस्य सर्वस्य सत्तामात्रेण सर्वज्ञचेतसा परिच्छेदात्तेन तद्व्याप्तमिति व्यपदिश्यते। न तु परैरेव घटनाद्देशापर्यन्ततया व्याप्तेः। न चैकेन ज्ञानेन परिच्छिन्नानीत्येतावता वस्तूनामात्मस्वभावहानिर्येन तान्येकज्ञानपरिच्छेदवशादनन्तत्वमात्मस्वभावं जह्युः। न हि नीलपीतादयो भावा बहवो युगपच्चित्रास्तरणादिष्वेकज्ञानक्षणावसीयमानतनवोऽनेकत्वं विजहति। नापि परस्परं समन्वाविशन्ति। अपि तु यथैव ते सन्ति तथैव ज्ञानेन परिच्छिद्यन्ते,नान्येन रूपेण। तद्वत्सत्त्वभाजनलोकोऽपि यथैव सत्तामनुभवति तथैव सर्वज्ञचेतसा गृह्यते। अपर्यन्तश्च दिक्षु विदिक्षु सत्त्वादिलोकोऽवस्थित इत्यपर्यन्ततयैव तस्य ग्रहणं न तु पर्यन्तवर्तितयेति। कुतोऽन्तवत्त्वप्रसङ्गः। स्यादेतत्। साकल्यग्रहणाभ्युपगमे कथं पर्यन्तग्रहणं न स्यादिति। नैतदस्ति। को ह्यत्र प्रतिबन्धो यत्र साकल्यग्रहणं तत्रावश्यं पर्यन्तग्रहणमिति। तथा हि यावन्तस्ते सन्ति भावास्तेषां मध्ये नैकोऽपि सर्वज्ञज्ञानादिविदितस्वरूपः सत्तामनुभवति,अपि तु सर्व एव सर्वज्ञचेतसा विदितस्वरूपा एवोदयन्ते व्ययन्ते च। नैकोऽपि परित्यक्त इत्ययं सकलग्रहणस्यार्थः। इयमेव च तेषामेकज्ञानेन व्याप्तिः। अन्यथा सकलशब्दवाच्यत्वमपि तेषां नाङ्गीकर्तव्यम्। माभूदन्तवत्त्वप्रसङ्ग इति यत्किञ्चिदेतत्। यथोक्तमेकज्ञानारूढाद्भावादन्यो नास्तीत्येवं परिच्छेदात्कथमन्तवन्तो न भवेयुरिति। तदप्यसम्यक्। न हि निराकारज्ञानवादिपक्षे ज्ञानात्मनि भावानामारोपणमस्ति,अपि तु सत्तामात्रेण तेन ते वेद्याः। नापि भावानां ज्ञानापरिच्छेद्यस्वभावतयाऽनन्तमभ्युपेतं,येन ज्ञायमानतया तेषामन्तवत्त्वं प्रसज्यते। किन्तु देशवितानापर्यन्ततयाऽनन्तो भाजनलोकः। सत्त्वलोकस्तु संख्यानापर्यन्तयापि। न च देशावस्तम्भाद्यपर्यन्तत्वे सति ग्राह्यत्वविरोधः कश्चिद्येनाग्राह्यता भवेत्। यदि पर्यन्ततया न गृह्णाति कथं सर्वज्ञः स्यादिति चेदत एव यत एवासौ पर्यन्ततया न गृह्णाति तत एव सर्वज्ञो भवति। अन्यथाऽनन्तवस्त्वन्तवत्त्वेन गृह्णन् भ्रान्तो भवेत्। तथाहि यदस्ति तदस्तित्वेन यन्नास्ति तन्नास्तित्वेन गृह्णन्सर्वविदुच्यते। न च सत्त्वभाजनलोकस्य पर्यन्तोऽस्ति। तस्मात्पर्यन्तं गमनकृतमविद्यमानमसंविद्यमानतया गृह्णन्। सर्वज्ञज्ञानपरिच्छेदकृतं तु पर्यन्तं विद्यमानं विद्यमानतया पश्यन् कथमसर्वज्ञो नाम स्यादेतत्। निराकारज्ञानपक्षे विषयग्रहणमनुपपन्नं सर्वत्राविशिष्टत्वात्तस्य तेन प्रतिकर्मविभागानुपपत्तेः। अतो निराकारपक्षोऽनुपन्यसनीय एव सर्वदा तस्य दुष्टत्वादिति। तदेतदप्यसम्यक्। न हि सर्वज्ञज्ञानस्य प्रतिकर्मविभाग इष्यते। तस्य सर्ववस्तुविषयत्वात्। यतो न तन्नीलस्यैव संवेदनं पीतस्यैव वापितु सर्वस्यैवेतीष्टम्। यस्य ह्यर्वाग्दर्शनस्य ज्ञानं प्रतिनियतार्थविषयग्राहि निराकारज्ञानपक्षे तस्य सर्वत्राविशेषात् प्रतिकर्मविभागानुपपर्त्तिदोष उच्यते,तथा हि नीलस्येदं वेदनम्,न पीतस्येति नियमाभावात्,सर्वस्य पृथग्जनस्य सर्वज्ञत्वप्रसङ्गापादानं क्रियते। सर्वज्ञस्य तु तदिष्टमेवेति। तस्य किमनिष्टमापद्यताम्। तेन सर्वज्ञावस्थायां निराकारं योगबलेनोत्पद्यमानमविरुद्धमेव। विभागेन हेयोपादेयवस्तु परिज्ञानं न स्यादिति चेत्। तदपि न। यदि हि युगपदनन्तवस्तुनि प्रतिभासमाने हेयोपादेयवस्तुनः प्रतिभासविरोधः स्यादविरोधे वाऽन्यैः सह भासमानस्य तस्य हेयोपादेयवस्तुनस्तत्त्वप्रच्युतिः स्यात्,अप्रच्युततत्त्वस्यापि विभागेनावभासं वा न स्यात्,विभक्तावभासस्यापि यदि परिच्छेदकः शुद्धलौकिको विमर्शप्रत्ययो वा पृष्ठभावी नोत्पाद्यते,तदैतत्सर्वं स्याद्वक्तुम्। यावता विश्वस्मिन् जगत्यवभासमाने तदपि हेयोपादेयं वस्तु। अविरुद्धप्रतिभासमप्रच्युतात्मतत्त्वं विभक्तमेवावभासते,पश्चात् सर्वज्ञज्ञानबलोत्पन्नशुद्धलौकिकप्रत्यवमर्शप्रत्ययेन परिच्छिद्यत एवेति। कथं विभागेन तदपरिज्ञानं नाम। तदेवं निराकारज्ञानपक्षे तावदचोद्यमिति प्रतिपादितम्। अथ साकारज्ञानवादिपक्षे चोद्यते। तत्राप्यविरोद्य एव,तथा हि यथैव तदनन्तं वस्त्वनन्ताकारानुगतमात्मसत्तामनुभवति,तथैव तत्सार्वज्ञं चेतोऽपरिमितवस्तुगताकारोपग्रहेणोत्पाद्यमान मविरुद्धमेव। एकस्य ज्ञानस्यानेकवस्त्वाकारोपग्रहणोत्पत्त्यविरोधात्। एकस्यानेकाकारत्वं विरोध एवेति चेत्। न। आकाराणामसद्भुतत्वात् यदि ह्येकस्य पारमार्थिका आकारा भवेयुः,तदा स्यादेकस्य चित्रत्वविरोधः। यावताऽसत्यभूता एवाकारा इतीष्टम्। यद्येवं भ्रान्तज्ञानसमङ्गित्वात्,भ्रान्तः प्राप्नोति सर्वज्ञ इति चेत्। न। यथाभूतपरिज्ञानाददोष एषः। यदि ह्यसत्यं सत्यत्वेन गृह्णीयात्तदा भ्रान्तः स्यात्। यदा त्वभूतानाकारानसत्यत्वेनैव जानाति,तदा कथं भ्रान्तो भवेत्। अर्थव्यतिरिक्तज्ञानारूढाकारग्रहणे सत्यर्थेषु दृष्टादिव्यवहारं कुर्वन् कथमभ्रान्त इति चेत्। न। सम्यगुपायपरिज्ञानात्। यदि ह्युचितं ग्रहणोपायमपास्योपायान्तरेणामुख्येनार्थं गृह्णीयात्तदा भ्रान्तो भवेत्। यावता साकारज्ञानवादिपक्षे ज्ञानस्यात्माकारानुभवव्यतिरेकेण नान्योऽर्थग्रहणव्यापारोऽस्ति। तत्कथमुचितेनार्थोपाधिभेदेन ग्रहणव्यापारेणार्थं गृह्णन् भ्रान्तो भवेत्। अतो ज्ञेयवदेकचेतसापि ज्ञानस्यानन्तवस्तुगताकारोपग्रहणोत्पत्तेरनन्तं वस्तु तेन व्याप्तमित्युच्यते। येनैव चात्मना ज्ञानात्मनि भावाः समारोहन्ति,तेनैव तत्पृष्ठभाविपरामर्शचेतसा वा परिच्छिद्यन्ते।  न च सर्वज्ञचेतसि परिमितभेदानुगताः समारोहन्ति भावाः। किं तर्हि यावत्किंचिदस्तित्वमनुभवति तत्सर्वमेव समारोहति। सर्वस्यैव सर्वज्ञज्ञानोत्पादनं प्रत्यालम्बनभावेनाप्रतिबद्धशक्तिकत्वात्,मनोविज्ञानस्य च सर्वार्थविषयत्वात्। अतः सार्वज्ञस्य चेतसः परिमितवस्त्वाकारोपग्रहणानुपपत्तेः। पृष्ठलब्धेन वा शुद्धलौकिकेन परामर्शप्रत्ययेन देशपर्यन्तं वर्तित्वेनापरिच्छेदात् कथमियन्त इति परिच्छेदो भवेत् ,येनान्तवत्त्वं स्यात्। यदि नाम प्रतिभासमानादन्यन्नास्तीत्येवं परामर्शो जातस्तथापि नान्तवत्त्वप्रसङ्गः। तथाहि यदि प्रतिभासमानमन्तवदेव निर्विकल्पे सर्वज्ञचेतसि प्रतिभासेत,तदा तत्पृष्ठलब्धेन परामर्शचेतसाऽन्तवत्त्वं भावानां व्यवच्छिद्येत। तद्व्यवच्छेदाच्चानन्तत्वहानिर्भवेत्। यावता प्रतिभासमानं वस्तु सार्वज्ञे चेतस्यनन्तमेव प्रतिभासेत,सर्वस्याप्रतिहतशक्तिकत्वात्। तस्मादन्यदप्रतिभासमानमन्तवदेव तस्यैव च परामर्शचेतसा व्यवच्छेदः क्रियत इति सुतरामेव भवताऽनन्तत्वं भावानामुपपादितमिति यत्किञ्चिदेतत्। ये पुनः सर्वमेव योगिज्ञानमनालम्बनं सत्यस्वप्नदर्शनवद्वस्त्वसंवादितया प्रमाणमिति प्रतिपन्नास्तान् प्रत्यन्तवत्त्वचोद्यं दूरीकृतावकाशमेव। स्यादेतद्योगिनामनास्रवं ज्ञानं शास्त्रे सामान्यविषयमेवोपवर्ण्यते,न तु स्वलक्षणविषयम्। तत्कथं सामान्यविषयेण योगिनो ज्ञानेन भावानां स्वरूपाण्येवावबुध्यन्त इति चेत्। तदेव हि स्वलक्षणं विजातीयव्यावृत्तमभिन्नाकारप्रत्ययहेतुतया शास्त्रे सामान्यलक्षणमित्युच्यते। अतस्तद्ग्राहकं योगिज्ञानं भावनाबलेन स्फुटप्रतिभासमुत्पद्यमानं स्वलक्षणगोचरमेवेत्यविरुद्धमेतत्। यत्सामान्यगोचरं तत्कथं स्वलक्षणग्राहि भवतीति। कथं परस्परविरुद्धानामेकज्ञानेन ग्रहणमिति चेत् उच्यते। यद्यपि भावाः केचित् परस्परं विरोधिनस्तथापि ते ज्ञानेन सहाविरुद्धा एव। युगपदेकेनापि ज्ञानेन विरुद्धानेकार्थग्रहणोपलम्भात्। तथाहि ये परस्परपरिहारेण स्थितलक्षणास्तेषामैक्यं विरुद्धम्। ये तु सहानवस्थायिनस्तेषामेकदेशावस्थानं विरुद्धम्। न चैकविज्ञानभासनादेषामैक्यमेकदेशत्वं वा प्रसज्यते। तेन नैकविज्ञानभासित्वमेषां विरोधः। दृष्टञ्च विरुद्धानामपि सतामेकज्ञानभासनम्।यथा शुच्यशुचिनोश्चक्षुर्विज्ञानेन परस्परपरिहारस्थितलक्षणयोरहेर्मयूरस्य च सहानवस्थायिनोर्युगपद्ग्रहणम्। स्यादेतत्। यदि विरुद्धानामप्येकविज्ञानावभासनमविरुद्धम्। एवं सति सुखदुःखयो रागद्वेषयोर्वा किमेकविज्ञाने वेदनं प्राणभृतां स्वसन्ताने नोत्पद्यत इति। यत् सुखादीनां सकृदवेदनं तत्कारणाभावेनानुत्पत्तेरसन्निहितत्वात् सुखादीनां न तु विरुद्धत्वादित्यवसातव्यम्। यथा चातीतानागतवस्तुग्रहणं तथा प्रागेव प्रतिपादितम्। अथवा वर्तमानस्येव साक्षात् पारंपर्येण वा तदुपकार्योपकारकस्वभावस्य प्रतिपत्त्यैवातीतानागतयोः प्रतिपत्तिः। विविक्तभूतलप्रतिपत्त्यैव घटादेरभावप्रतिपत्तिवत्। न चैवं सत्यानुमानिको भगवान् लिङ्गाभावात्। सर्वविशेषयुक्तस्यैव वर्तमानस्य प्रत्यक्षत्वेन तयोः प्रत्यक्षत्वादित्यलमतिप्रसङ्गेन। जनयित्रीत्वं स्पष्टयन्नाह। अतो निर्याता हीत्यादि। एवं सर्वज्ञतायाश्च सन्दर्शयित्रीति जनयित्रीत्वेनैव सर्वज्ञतायाश्च प्रतिपादिका। लोकज्ञानं प्रतिपादयन्नाह। यद्भगवानेवमाहेत्यादि। न लुज्यन्ते न प्रलुज्यन्त इति। क्षणिकप्रबन्धानित्यताभ्यां यथाक्रमं न नश्यति न प्रणश्यतीत्यर्थः।  वस्तुधर्मस्वभावत्वात् कथं तौ न भवत इति। तत्कस्य हेतोर्न लुज्यन्ते न प्रलुज्यन्त इत्याह। शून्यतास्वभावा हीत्यादि। तत्त्वतोऽस्वभावत्वात्। स्कन्धानां शून्यादित्वेन वस्तुधर्मस्वभावाभावे क्षणिकप्रबन्धानित्यते न भवतः। संवृत्या तु स्त इति भावः। सर्वसत्त्वचित्तचरितज्ञानं निर्दिशन्नाह। पुनरपरमित्यादि। प्रतिज्ञातार्थं समर्थयितुं प्रश्नयन्नाह। कथञ्च सुभूत इत्यादि। परिहरन्नाह। सत्त्वास्वभावतयेत्यादि। सत्त्वानां मायोपमस्वभावत्वादप्रमेयादिरूपेण परिज्ञानम्। उपसंहरन्नाह। एवं हि सुभूत इत्यादि। अमुनैव विधिना तेषाञ्चित्तचरितपरिज्ञानमित्याह। यान्यपि तानीत्यादि। सत्त्वाऽसम्भवतयेति। सत्त्वस्य विद्यमानत्वस्य तत्त्वतोऽनुपलब्धेर्धर्मधातुरूपतयाऽप्रमेयादिरूपत्वेन सत्त्वानां चित्तचरितानि प्रजानाति। चित्तसंक्षेपज्ञानं कथयन्नाह। संक्षिप्तानि चित्तानीत्यादि। स संक्षेपं क्षयतः क्षयञ्चाक्षयत इति। तदालम्बनेन धर्मतायां प्रविष्टञ्चित्तं स संक्षेपं क्षयतो विनाशतः संवृत्या जानाति। क्षयमपि विनाशं क्षयिणोऽसत्त्वात् परमार्थतोऽक्षयमविनाशं यथाभूतं प्रजानाति। चित्तविक्षेपज्ञानं गदितुमाह। विक्षिप्तानि चित्तानीत्यादि। धर्मतात इति। धर्मधातोरनुत्पादस्तदमनसिकारेण बहिः प्रवृत्तानि चित्तानि विक्षिप्तानि संवृत्या। परमार्थतः पुनरलक्षणानि स्वभावविरहितानि लक्षणानित्यत्वेनाक्षीणानि प्रबन्धोपरमादविक्षीणानि बहिर्गमनासम्भवादविक्षिप्तानीति यथाभूतं प्रजानाति। चित्ताक्षयाकारज्ञानं वक्तुमाह। अप्रमेयाक्षयाणि चित्तानीत्यादि। अधिष्ठितमिति। महाकरुणया आसंसारमधिष्ठितं तच्चित्तं यथायोगं त्रिविधसंस्कृतलक्षणासम्भवादनिरोधमनुत्पादमस्थितमतो धर्मिरूपत्वायोगादनास्रवं प्रमातुमशक्यत्वेना प्रमेयं धर्मधातुवद्विनाशानुपपतेरक्षयं भवति। तथागतस्य येनैवं चित्तेनाकाशमिवाप्रमेयाक्षयतया सर्वसत्त्वानां चित्ताप्रमेयाक्षयतां स्वसमाधिदर्पणतले प्रतिभासनाद्यथाभूतं प्रजानाति। सरागादिचित्तज्ञानं कथयन्नाह। संक्लिष्टानि चित्तानीत्यादि। असंक्लेशसंक्लिष्टानीति। भ्रान्तिमात्रास्तित्वात्। क्लेशकर्मजन्मलक्षणैः  संक्लेशैस्तत्त्वतोऽसंक्लेशैर्विपर्यासबलात् संक्लिष्टान्युपहतानि। असंकेतानीति। अप्रतिनियतवृत्तीनि। विगतरागादिचित्तज्ञानं निर्दिशन्नाह। असंक्लिष्टानि चित्तानीत्यादि। प्रकृतिप्रभास्वराणीति। पृथग्जनावस्थायामविशुद्धभ्रान्तिकारणनिर्जातत्वेन तथाभूतान्यपि चित्तानि नैःस्वाभाव्यात् प्रमाणोपपन्नानुत्पादादिरूपात्मावबोधपरायणत्वेन प्रतिपक्षोदयादप्यनिवर्त्यानीति शक्यापनेयरागादिसहायत्वात्,प्रभास्वराणि परिशुद्धनिजस्वभावमात्राणि। सामान्येन सरागादिचित्तं वीतरागादिचित्ताञ्च निर्दिश्यैवं तदुपायं यथाक्रमं कथयितुं लीनानि चित्तानीत्यादिकमेकं हारकम्। प्रगृहीतानि चित्तानीत्यादिकञ्च द्वितीयमाह। अनालयलीनानीति। अस्थानार्हेऽनालये समापत्त्यास्वादनादौ रागादिहेतुत्वेन लीनान्यभिनिविष्टानि। अग्राह्याणि सुभूते तानि चित्तानि न प्रग्रहीतव्यानि इति। तत्रोद्धतमौद्धत्याभिशङ्कि वा चित्तं संवेजनीयवस्त्वमनस्कारेण शमथनिमित्तेन। लीनं लयाभिशङ्कि वा चित्तं प्रमोदनीयवस्तुमनस्कारेण प्रग्रहनिमित्तेन। समप्राप्तं चित्तमनाभोगमनस्कारेणोपेक्षानिमितेन च गृहीतमित्येवं विरागादिहेतुत्वेन प्रगृहीतानि चित्तानि । पुनरग्रहणार्हत्वेनाग्राह्याणि। भूयो न प्रग्रहीतव्यानि। तयोरेव चित्तज्ञानयोः सामान्येन पर्यायं कथयन् यथाक्रमं सास्रवाणि चित्तानीत्यादिकञ्चापरं हारकमाह। अस्वभावानि सुभूते तानि चित्तानि,असत्संकल्पानीति। सास्रवाणि चित्तानि प्रतिपक्षोदयान्निवर्त्यत्वेनाविद्यमाननिजस्वभावानि।ततश्चासत्तातुल्यानि। अभावगतिकानि सुभूते तानि चित्तानि। अनाभोगानीति। अनास्रवाणि चित्तानि दर्शनभावनाहेयक्लेशानामभावपर्यवसानानि। ततश्च स्वरसेन परिशुद्धसन्तानप्रवर्तनादनाभोगानि। तयोरेव पुनः प्रभेदं वक्तुं षट् सरागाणीत्यादि हारकानाह। या चित्तस्य सरागतेत्यादि। या चित्तस्य सरागता विषयादिसक्तिरूपता पृथग्जनस्य न सा चित्तस्य यथाभूतता न्यायतो मायोपमस्वप्रकाशरूपता भवति। शक्याशक्यापनेयत्वेनानयोर्यथाक्रमं चलाचलरूपत्वात्। तथार्याणां प्रतिपक्षभावनया चित्तस्य या यथाभूतता अनास्रवरूपता न सा सरागता तत्प्रतिपक्षरूपत्वात्। तस्मादशुद्धावस्थायां सरागाणि चित्तानि संवृत्या। यः सुभूते चित्तस्येत्यादि। यश्चित्तस्य विगमो रागविगमावस्था पृथग्जनस्य न सा चित्तस्य सरागताऽरागावस्थतयोर्भिन्नरूपत्वात्। तथा या वीतरागस्य विष्कम्भणादिप्रहाणेन प्रहीणरागस्य चित्तस्य यथाभूतता तद्विविक्तात्मसंवेदनता न सा चित्तस्य सरागता। तस्माद्विवेकावस्थायां विगतरागाणि चित्तानि। एतदनुसारेण परिशिष्टेषु सदोषादिहारकेषु ग्रन्थो व्याख्येयः। विपुलचित्तज्ञानं वक्तुं व्यतिरेकान्वयमुखेन हारकद्वयमाह। अविपुलानि चित्तानीत्यादि। असमुत्थानयोगानि सुभूते तानि चित्तान्यसमुत्थानपर्यापन्नानीति। तत्त्वतोऽनुत्पत्तेः कारणसम्बन्धशून्यत्वेनासमुत्थानयोगानि। प्रादुर्भावविरहात् कामादिधातावप्रतिबद्धत्वात्तान्यसमुत्थानपर्यापन्नान्येवमनुपलम्भादविपुलानि। न हीयन्त इत्यादि। विनाशाभावान्न हीयन्ते। उत्पादाभावान्न विवर्धन्ते। अत एव क्वचिद्गमनाभावेनाविगमत्वान्न गच्छन्त्येवं धर्मधातुस्वाभाव्याद्विपुलानि चित्तानीति। महद्गतचित्ताज्ञानं कथयितुं व्यतिरेकान्वयमुखेन हारकद्वयमाह। अमहद्गतानि चित्तानीत्यादि। अनागतिकानि सुभूते तानि चित्तान्यगतिकान्यपर्यापन्नानीति। सत्कार्यप्रतिषेधेनातीतादध्वनस्तदागमनवैकल्यादनागतिकानि चित्तानि। सर्वात्मना विनाशादनागतेऽपि काले गमनानुपपत्तेरगतिकानि। प्रत्युत्पन्नेऽप्येकानेकस्वभाववैधुर्यादपर्यापन्नान्येवममहद्गतानि। समतासमानि सुभूते तानि चित्तानि स्वभावसमानीति। तत्त्वतोऽनुत्पादरूपत्वादात्मादिनिःस्वभावतुल्यत्वेन समतासमानि चित्तानि। तथ्यसंवृत्या तु सर्वगुणावाहकरूपेण प्रतिभासनान्मायास्वभावसमान्येवं महद्गतानि। अप्रमाणचित्तज्ञानं निर्दिशन्नाह। अप्रमाणानि चित्तानीत्यादि। अनिश्रयत्वादिति। न हि प्रतिनियतस्तेषामाश्रयो विद्यत इत्यप्रमाणानि। अनिदर्शनचित्तज्ञानं प्रतिपादयन् पूर्ववद्धारकद्वयमाह। सनिदर्शनानि चित्तानीत्यादि। समदर्शनानि सुभूते तानि चित्तानि चित्तस्वभावानीति। मायोपमात्मसंवेदनतया समदर्शनानि तत्तुल्योपलम्भरूपाणि सर्वाण्येव ज्ञानानि। कुशलाकुशलवासनाभिश्चितत्वाच्चित्तस्वभावानि सञ्चितवासनारूपाण्येवं सनिदर्शनानि। अलक्षणत्वादित्यादि। तत्त्वतो वर्तमानस्वरूपविरहेणालक्षणात्वादतीतानागतरूपाभ्यां सह यथाक्रमं कार्यकारणसम्बन्धानुपपत्त्याऽर्थविविक्तत्वात् त्रयाणां मांसादिचक्षुषां सर्वेषां वा पञ्चानामविषयत्वेनानवभासगतमदृश्यं चित्तमेवमनिदर्शनानि। यथोक्तज्ञानमेवमप्रतिघादित्वेन कथंचिद्व्यावृत्त्योच्यत इति प्रतिपादयन् सप्रतिघानि चित्तानीत्यष्टौ हारकानाह। असत्सङ्कल्पितानि इत्यादि। असताऽविद्यमानेनोत्पादादिरूपेण संङ्कल्पितान्यध्यारोपितानि चित्तानि शून्यान्यस्वभावानि,आरम्बनवशिकानि,संवृत्याऽलम्बनपरतन्त्राण्येवं प्रमाणबाधितत्वात् सप्रतिधानि। अद्वयभूतानीत्यादि। उत्पादानुत्पादरहितत्वेनाद्वयभूतानि। तत्त्वतोऽभवनमेव संवृत्या भवनमित्यभूतसम्भूतान्येवं प्रमाणोपपन्नत्वादप्रतिघानि। या सुभूते सोत्तरस्येत्यादि। आत्माद्यभिनिवेशेन सोत्तरस्य न्यूनावस्थां प्राप्तस्य चित्तस्य या यथाभूतता नैरात्म्यसंवेदनता न तत्रास्ति मन्यमानता सत्कायादिदृष्ट्युपलम्भता। तस्मादेवं संवृत्या सोत्तराणि। अण्वपि हीत्यादि। यस्मात्परमार्थतोऽणुमात्रमपि चित्तं वस्तुस्वरूपं नोपलब्धं,तस्माद्बुद्धत्वावस्थायामिव पृथग्जनावस्थायां प्रकृतिवैयवदानिकस्वभावेन सर्वरूपादिनिमित्तापगमान्निष्पपञ्चान्येवं तत्त्वतो निरुत्तराणि चित्तानि। असमसमानि हीत्यादि उत्पादादिदोषवैषम्यादसमेन ग्राह्येण समानि तद्ग्राहकत्वेन प्रवृत्तानि चित्तानि विक्षेपादकृतसमाधानत्वेनासमवहितान्येवमसमाहितानि। समसमानि हीत्यादि। सर्वदोषवैषम्यानुपपत्तेः समो धर्मधातुस्तेन सहानुत्पादादिना तुल्यत्वात् समानि। विक्षेपात्कृतप्रतीकारत्वेन समवहितानि।तत्त्वतोऽविद्यमानस्वभावत्वेनाकाशसमान्येवं समाहितानि। स्वभावविमुक्तानीत्यादि। न्यायानुयायिजन्मरहितत्वात् स्वभावविमुक्तानि चित्तान्यविद्यमानसत्तारूपत्वादभावस्वभावानि।ततश्च बन्धापनयनपूर्वकमोक्षाभावादविमुक्तानि चित्तानि। चित्तं हीत्यादि। यस्मादेकानेकस्वभाववैधुर्येणासत्त्वाचित्तं त्रैकालिकं तथागतेनानुपलब्धं,तस्मात् प्रकृत्या द्विविधावरणविगमाद्विमुक्तानि। प्रभेदं निर्दिश्य चित्तज्ञानं वक्तुमाह। अदृश्यानि चित्तानीत्यादि। असत्त्वात् सुभूतेऽदृश्यमिति। लक्षणशून्यत्वेनासत्त्वाददृश्यं कल्पितं चित्तम्। हेत्वभावेनाभूतत्वादविज्ञेयं परतन्त्रम्। स्वरूपाविद्यमानत्वेनापरिनिष्पन्नत्वादग्राह्यं परिनिष्पन्नं चितम्। प्रत्येकं प्रज्ञाचक्षुरादिभिस्त्रिभिः सम्बन्धनीयम्। पञ्चानां वा बुद्धधर्मचक्षुरादीनामनवभासगतत्वाददृश्यादिकमवगन्तव्यम्। एवं हि सुभूते प्रज्ञापारमितेत्युपसंहारपदम्। संक्षिप्तचित्तज्ञानादिहारकान्तेऽपि प्रत्येकं सम्बन्धनीयम्। चित्तोन्मिञ्जितादिज्ञानं कथयन्नाह। उन्मिञ्जितनिमिञ्जितानीत्यादि। तत्र विधिमुखेन यः स्वविषये चित्तप्रसरः सोऽयमुन्मिञ्जः। प्रतिषेधमुखेन विषयान्त‍राच्चित्तस्यापसर्पणं निमिञ्जः। तत्सञ्जातत्वादुन्मिञ्जितनिमिञ्जितानि। लौकिकलोकोत्तरप्रसिद्धिभेदात्परसत्त्वानां परपुद्गलानामिति द्वयमुक्तम्। रूपनिश्रितानीत्यादि। सर्वाण्येव विधिप्रतिषेधमुखेन रूपादिपञ्चस्कन्धाश्रितान्युत्पद्यन्ते चित्तानीत्यर्थः। तदेव कथयन्नाह। भवति तथागत इत्यादि। मरणादुत्तरकालं तथागतो भवति। तिरोभावरूपेणावस्थानात् किमिति कांक्षाप्रश्नकरणात्। सांख्यप्रभृतीनां रूपादिगतोऽयमुन्मिञ्जितविकल्पः। तथैव सर्वात्मना निरन्वयविनाशान्न भवतीति लौकायतिकानां निमिञ्जितविकल्पः। अवस्थातुरेकत्वादवस्थायाश्च भिन्नत्वाद्यथाक्रमं पूर्ववद्भवति न भवतीति दिगम्बरप्रभृतीनामुभयविकल्पः। तत्त्वान्यत्वरूपेणावाच्यत्वान्न भवति नन भवतीति पुद्गलवादिनामुभयप्रतिषेधाधिष्ठानो विकल्पः। एते च विकल्पास्तत्त्वतोऽनुत्पन्नत्वादतथ्यसंवृतिभाविन्यात्मस्वभावे तथागते न कथञ्चित् प्रतिष्ठां लभन्ते। तथा शून्यतादेशनायामविनेयजनापेक्षयाऽवस्थापनीयप्रश्नत्वेन व्यवस्थापिताः प्रदेशान्तरे। एवं शाश्वत आत्मा चेत्यादयोऽवगन्तव्याः। पर्षन्मण्डले तस्मिन् यथोक्तप्रभेदात्मदृष्टयुपेतानां सन्निहितविनेयजनानामाशयानुरोधादेव तावत्प्रभेदोपादानम्। तथताकारज्ञानं वक्तुमाह। पुनरपरं सुभूते तथागत इत्यादि। तथा सुभूते तथागतो रूपं जानाति,यथा। तथतेति।



 



"यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता"इति।



 



तथताकारेण रूपादिस्कन्धपरिज्ञानादुन्मिञ्जितादीनामपि तथतापरिज्ञानमिति यावत्। सम्यक्सम्बुद्धस्य तथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानञ्च कथयन्नाह। एवं हि सुभूते तथागततथतया च स्कन्धतथतया चेत्यादि। तथतां प्रज्ञपयतीति। सर्वधर्मानुयायिनीं तथतामेकरूपेण व्यवस्थापयत्यनेन तथताप्रज्ञपनज्ञानमुक्तम्। तदेवाह। यैव चेत्यादिना। ननु धर्मिभिन्नत्वे कथमभेदस्तथताया इति। तत्कस्य हेतोरित्याशङ्क्याह। उक्तं हीत्यादि। यस्मात् पञ्च स्कन्धा लोक इत्यादि। संज्ञाता संख्याता इति भगवता पञ्चस्कन्धैः सर्वधर्मनिर्देशाधिकारे कथितम्। तस्मान्न लोकोऽन्यानित्यादिलक्षणो भिन्नः,केवलं सन्निहितविनेयप्रतिपत्यपेक्षया भिन्नधर्मित्वेनोक्तः। तदेव वक्तुमाह। तस्मात्तर्हीत्यादि। अनेकभावाभावापगतेत्यादि। तत्त्वतोऽनुत्पादरूपत्वेन वस्तुधर्मसमतिक्रमान्नैकत्वं नापि नानात्वमिति। शून्यतारूपेणैकैवैषा तथता सर्वधर्मव्यापिनी घटपटादेरनेकस्माद्भावात्। प्रागभावादिलक्षणाच्चाभावादपगता प्रयोगमार्गे। तथा दर्शनभावनाविशेष निष्ठामार्गेषु च। यथाक्रममक्षयत्वादविकारत्वादद्वैधीकारत्वादेकैवैषा तथतेति योज्यम्। प्रज्ञापारमितामागम्याभिसम्बुद्धेत्यनेन। तथतावबोधज्ञानमावेदितम्। लोकस्य लोकं सन्दर्शयतीति। भावाभिनिवेशिनो लोकस्य मायोपमं लोकं कथयति। कल्पितपरतन्त्रपरिनिष्पन्नस्वभावानां मायोपमदर्शनाद्यथाक्रमं तथतां जानाति। अवितथतां जानाति। अनन्यतथतां जानाति। इति पदत्रयं वाच्यम्। तथतामभिसम्बुद्धः संस्तथागत इत्युच्यत इत्यनेन तथतापरिज्ञानमावेदितम्। कोऽत्र भगवन्नन्यो ऽधिमोक्ष्यत इति। नैव कश्चिदनियतगोत्रादिरधिमुञ्चति। किं तर्हि विशिष्ट एव पुद्गल इत्याह। अविनिवर्तनीय इत्यादि। अभिसम्बुद्ध्याख्यातानि इति। तथतासमाख्यानज्ञानमनेन निर्दिष्टम्। अक्षयाऽक्षयैवाख्यातेति। उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषा धर्माणां धर्मतेति वचनादक्षया तथताऽक्षयत्वेन निर्दिष्टा। तथतावबोधादिज्ञानचतुष्टयमेकीकृत्य निर्दिष्टमेवमतो ज्ञानलक्षणं सर्वज्ञतासङ्गृहीतं षोडशप्रकारं भवति। तथा चोक्तम्।



 



तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके।



सत्त्वानां चित्तचर्यासु तत् संक्षेपे बहिर्गतौ॥१४॥



अक्षयाकारतायाञ्च सरागादौ प्रविस्तृते।



महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने॥१५॥



अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम्।



पुनस्तथताकारेण तेषां ज्ञानमतः परम्॥१६॥



तथतायां मुनेर्बोधतत्पराख्यानमित्ययम्।



सर्वज्ञताधिकारेण ज्ञानलक्षणसङ्ग्रहः॥१७॥ इति



 



तदनन्तरं मार्गज्ञताधिकारेण ज्ञानलक्षणकथनार्थमाह। अथ खलु शक्रदेवेन्द्रप्रमुखा इत्यादि। कथं भगवन्नत्र लक्षणानि स्थाप्यन्त इति। केन प्रकारेण मार्गज्ञताधिकारे ज्ञानलक्षणानि निर्दिश्यन्ते। शून्यमित्यादि। शून्यतानिमित्ताप्रणिहितानुत्पादानिरोधासंक्लेशाव्यवदानाभावज्ञानान्यष्टौ स्वशब्देनोक्तानि। स्वभावज्ञानं निर्वाणमिति। अनिश्रितज्ञानं धर्मधातुरिति। आकाशलक्षणज्ञानं तथतेति। एवं ज्ञानत्रयं व्यवस्थापितम्  निर्युक्तिकञ्चेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। अनिश्रितानि हीत्यादि। यस्मादेतानि ज्ञानलक्षणानि तत्त्वतोऽनुत्पादरूपत्वान्न क्कचित् प्रतिबद्धानि,तस्माद्यथोक्तस्वभावानीति वाक्यार्थः। धर्मताऽविकोपनार्थमाह। नैतानि लक्षणानीत्यादि। चालयितुमिति विकोपयितुम्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। सदेवमानुषासुरोऽपि हीत्यादि। एतल्लक्षण एवेति। अविकोपितमायोपमो धर्मतास्वभावः। असंस्कारज्ञानार्थमाह। नाप्येतानि लक्षणानि केनापि हस्तेन स्थापितानीति। असंस्कृतत्वादेव भावानामिति भावः। अविकल्पज्ञानं वक्तुमाह। यो देवपुत्रा इत्यादि। संस्कृतत्वे कथं न स्थापितमिति। तत्कस्य हेतोरित्याशङ्क्याह। असंस्कृतत्वादिति। अहेतुप्रत्ययसमुद्भूतत्वादित्यर्थः। प्रभेदज्ञानार्थमाह। अथ खलु भगवंस्तानित्यादि। तथागतेन प्रकाशितत्वात् कथं पूर्वमवस्थितानीति। तत्कस्य हेतोरित्याशङ्क्याह। यथैता नित्यादि। आख्यातानीति। शून्यतादिरूपेण प्रभेदत इति शेषः। अलक्षणज्ञानं कथयन्नाह। गम्भीराणि भगवन्नित्यादि। असङ्गज्ञानमिति सर्वाभिनिवेशरहितं परमार्थतोऽलक्षणज्ञानं निष्पन्नावस्थायां यदुत प्रज्ञापारमिता बुद्धानां तदेवाह। असङ्गज्ञानायेत्यादिना। अनिष्पन्नावस्थायां पुनरसङ्गज्ञानाय भाव्यमाना प्रज्ञापारमिता तथागतानामेवं सर्वाकारं गोचरो ज्ञानविषयीभवति। अस्य लोकस्य सन्दर्शयित्रीति। यथोक्तैः षोडशप्रकारैर्मार्गज्ञताज्ञानैर्लोकतत्त्वसाक्षात्करणाल्लोकं सन्दर्शयति। तथा चोक्तम्।



 



शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते।



अनुत्पादानिरोधादौ धर्मताया अकोपने॥१८॥



असंस्कारेऽविकल्पे च प्रभेदालक्षणत्वयोः।



मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते॥१९॥ इति



 



तदनन्तरं सर्वाकारज्ञताद्वारेण ज्ञानलक्षनार्थमाह। यथा सुभूते तथागता इत्यादि। तत्र स्वधर्मोपनिश्रयज्ञानं सम्यक्सम्बुद्धस्य कथयन्नाह। इमं धर्मं प्रज्ञापारमितामित्यादि। अस्थानत इत्यनभिनिवेशतः। विहरन्तीति दृष्टधर्मसुखविहारार्थमधिगतमर्थमामुखीकृत्य विहरन्ति। सत्कारगुरुकारमाननापूजनाज्ञानानि वक्तुमाह। धर्मं सत्कुर्वन्तीत्यादि। पूजयन्तीत्यस्यार्थं प्रयोगपृष्ठावस्थाभेदेनाह। अर्चयन्त्यपचायन्तीति सामान्येन निर्दिश्य विशेषार्थमाह। प्रज्ञापारमितैवेत्यादि। विशेषग्रहणे किं निबन्धनमिति। तत्कस्य हेतोरित्याशङ्क्याह। अतो हि सुभूत इत्यादि। तत्र कृतज्ञाः प्रत्युपकारकरणात्। कृतवेदिनोऽल्पस्याप्युपकारस्य महत्त्वेन स्मरणात्। यानं महायानं प्रतिपद्दर्शनादिमार्गः। अनुगृह्णीतेऽनुपरिपालयतीति। तयोरेव यथाक्रमं वर्णवदनात्। अकृतकज्ञां वक्तुमाह। पुनरपरं सुभुते तथागतेनेत्यादि। तत्र कारकहेतोरसत्त्वादकृताः। विनाशहेतोरभावेनाविकृताः। संस्कृतस्वरूपविरहादनभिसंस्कृताः। सर्वत्रगज्ञानं कथयन्नाह। प्रज्ञापारमितां हीत्यादि। एवं सर्वधर्मेषु ज्ञानं प्रवृत्तमिति। अकृतकत्वाद्यवगमेन ज्ञानमुत्पन्नम्। तत्त्वतोऽनुत्पन्नत्वे भावानां कथं दृश्यदर्शकदर्शनमित्याह। यदा भगवन्नित्यादि। तत्र मनोविज्ञानेन परिच्छेदाभावादजानकाः। चक्षुरादिविज्ञानेनोपलम्भविरहादपश्यकाः। निर्युक्तिक एवायमनुवाद इत्याह। कथञ्चेत्यादि। यस्मात्सर्वधर्मास्तत्त्वेनोत्पादाभावाच्छून्या ग्राह्यग्राहकसम्बन्धानुपपत्तेरनिश्रितास्तस्मादजानका अपश्यका इत्यर्थः। प्रज्ञापारमितां चागम्येत्थंभूतधर्मावबोधेन लोकस्यादर्शनमेव दर्शनं तत्त्वतः। संवृत्या तु यथाप्रतीतमेवेति भावः। अदृष्टार्थदर्शकज्ञानं निर्दिशन्नाह। रूपस्यादृष्टत्वादित्यादि। रूपाद्यदर्शनमेव लोकस्य तत्त्वतो दर्शनमिति भावः। तदेवाह। कथं भगवन्नित्यादिना। न रूपालम्बनमिति। न रूपादिनिर्भासं सैव लोकस्य दृष्टतेति सर्वमिति न जानाति। सच्च सदिति जानाति । असच्चासदिति वचनादसतो लोकस्यादर्शनमेव दर्शनम्। परिशिष्टज्ञानकथनार्थमाह। कथञ्चेत्यादि। इति लोकः शून्य इति लोकशून्यताकारज्ञानमुक्तम्। इति लोकं सूचयतीति लोकशून्यतासूचकज्ञानम्। एवं ज्ञापयतीति। लोकशून्यताज्ञापकज्ञानम्। एवं लोकं सन्दर्शयतीति। लोकशून्यतादर्शकज्ञानमित्येतानि त्रीणि ज्ञानानि यथाक्रमं संगृहीतपरिपाचितविमोचितानां विनेयानामर्थाय वेदितव्यानि। "तिस्रः सर्वज्ञताश्चाभिप्रेत्य त्रिविधार्यपुद्गलाधिकारेण यथाक्रमं प्रदेशवृत्तिमुद्देशवृत्तिं प्रत्यक्षवृत्तिं वाधिकृत्यावगन्तव्यानी"त्यार्यविमुक्तिसेनः। इति लोकोऽचिन्त्य इति। अचिन्त्यताज्ञानम्। इति लोकः शान्त इति। शान्तताज्ञानमिति। लोको विविक्त इति। लोकनिरोधज्ञानम्। इति लोको विशुद्ध्येत्यादिना संज्ञानिरोधज्ञानञ्च गदितमवगन्तव्यम्। सर्वाकारज्ञतासंगृहीतानि यथोक्तान्येव षोडशज्ञानान्यवसातव्यानि। तथा चोक्तम्।



 



स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ।



गुरुत्वे माननायाञ्च तत्पूजाऽकृतकत्वयोः॥२०॥



सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम्।



लोकस्य शून्यताकारसूचकज्ञापकाक्षगम्॥२१॥



अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च।



ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये॥२२॥ इति



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां लोकसन्दर्शनपरिवर्तो नाम द्वादशः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project