Digital Sanskrit Buddhist Canon

एकादशपरिवर्त्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Ekādaśaparivarttaḥ


 



एकादशपरिवर्त्तः।



 



गुणानन्तरं के पुनः प्रयोगान्तरायकरा दोषा येषां परिवर्जनेन प्रयोगा भावयितव्या इत्यन्तरायकरान् दोषान् वक्तुमाह। गुणा इमे भगवन्नित्यादि। केचित् पुनरिति कियन्तः पुनरित्यर्थः। प्रतिवचनमाह। बहूनीति। तथापि कियद्बहु मारकर्म न ज्ञायत इत्याह। कियद्रूपाणीति। कियत् संख्यावच्छिन्नस्वभावानि बहूनि। षट्चत्वारिंशद्दोषा इति प्रतिपादयन् कृच्छ्रप्राप्तिं तावदाह। तेषामित्यादिना। चिरेण प्रतिभानमिति। दीर्घकालेन मातरि ज्ञानोत्पादः। अत्याशुप्रतिभानतां वक्तुमाह। तदपीत्यादि। क्षिप्रतरोत्पादेन पौर्वापर्यानिरूपणाददृढीभूतं ज्ञानमुत्पद्यमानं विक्षेप्स्यते। प्रज्ञापारमितातो भ्रश्यते। कायदौष्ठुल्यं कथयन्नाह। ते विजृम्भमाणा इत्यादि। तत्र कायपरावर्तनाद्विजृम्भयन्तः। महाट्टहासादिकरणाद्धसन्तः। स्वेनाङ्गेन तत्प्रतिबद्धेन वा परापभ्रजनादुच्चग्धयन्तः इति वाच्यम्। चित्तदौष्ठुल्यं प्रतिपादयन्नाह। विक्षिप्तचित्ता इत्यादि। अन्योन्यविज्ञानसमङ्गिन इति परस्परं समालम्बितरञ्जनीयवस्तुविज्ञानाः। अयोगविहितस्वाध्यायादितां निर्दिशन्नाह। परस्परमुपहसन्त इत्यादि। लिखिष्यन्तीत्युपलक्षणात् स्वाध्यायादिकं ग्राह्यम्। वैमुख्यनिमित्तग्रहितां कथयन्नाह। न वयमत्र गाधमित्यादि। श्रुतचिन्तामयज्ञानाविषयत्वात् यथाक्रमं न गाधं नास्वादञ्च लभामह इति योज्यम्। न नोऽत्रेति। नोऽस्माकम्। यावद्भिश्चित्तोत्पादैरप्रसादबहुलैरप्रक्रामन्ति,तावतः कल्पान् संसारस्य योगापत्तये ग्रहीष्यन्तीति। किमत्र कारणमिति। तत्कस्मादित्याशङ्क्याह। इमां हीत्यादि। हेतुभ्रंशं वक्तुमाह। पुनरपरमित्यादि। आहारिकामिति। उत्पादिकाम्। विवर्ज्योत्सृज्येति प्रयोगाशयाभ्यामिति वाच्यम्। परीत्तबुद्धय इति स्वल्पबुद्धयः। यथाभूतपरिज्ञाया मूलमिति सम्यग्धर्मावबोधस्य प्रधानं कारणम्। प्रशाखामिति श्रावकयानादिकम्। प्रणीतास्वादभ्रंशं निर्दिशन्नाह। तद्यथापि नामेत्यादि। निर्युक्तिकमेवेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। नहि तेऽल्पबुद्धय इत्यादि। कथं बुद्धवचनेऽपि श्रावकयानादौ प्रतिपत्तिर्निन्द्यत इति।  तत्कस्य हेतोरित्याशङ्क्याह। न हि सुभूत इत्यादि। प्रतिषिद्धाचरणान्निन्द्यत इत्यर्थः। दमयिष्यामः शमयिष्यामः परिनिर्वापयिष्याम इति पदत्रयं प्रयोगदर्शनभावनामार्गेषु यथाक्रमं वेदितव्यम्। श्रावकप्रतिपत्तिं प्रतिषिध्य बोधिसत्त्वप्रतिपत्त्यर्थमाह। अपि तु खलु पुनरित्यादि। न च तैर्मन्तव्यमिति। सर्वसत्त्वार्थं सर्वकुशलमूलाभिसंस्कारैर्नोत्कर्षः कार्यः। उत्तमयानभ्रंशं प्रतिपादयन्नाह। तद्यथापि नामेत्यादि। हस्तिनं लब्ध्वेति। स्पर्शादिनोपलभ्य प्रकाशमित्यालोकं। उपनिध्यायेदिति। निरूपयेत्। नो हीदमिति। हस्तिपदाद्वर्णसंस्थाने ग्रहीतुमशक्यत्वान्नैवेत्यर्थः। उद्देशभ्रंशं वक्तुमाह। तद्यथापि नाम सुभूते रत्नार्थिक इत्यादि। प्रमाणानवबोधान्नावगाहेत। नो हीदमिति। रत्नोद्देशमहासमुद्रभ्रंशान्नैव पण्डितः। प्रति संलपनमिति। कायादिविवेकः। दृष्ट एवेत्यादि। प्रत्युत्पन्ने जन्मन्यनागतोत्पत्तिं प्रति हेतुमकृत्वा क्लेशेभ्यः स्वचित्तमपनीय प्रदीपवन्निर्वृतिं करोमि। ननु सर्वोपद्रवास्पदजन्मनिरोधे कथं प्रवृत्तिर्वार्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। महायानसम्प्रस्थिता हीत्यादि। महायानसंप्रस्थितत्वेन जगदर्थकरणाय कृतसन्नाहानामुपायकौशलबलेन जन्मसम्भवेऽप्युपद्रवाभावादित्यर्थः। अल्पोत्सुकतायामिति। तावन्मात्रसन्तोषो लाभसत्कारस्य बन्धनत्वेन कथमेवं निषिध्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। लोकपरिणायका हीत्यादि। एतदुक्तम्। "आत्माभिनिवेशेनावग्रहे क्लेशवर्धनाल्लाभसत्कारो वर्धनम्। यदा तु दानादिभिः परानावर्ज्य पद्मवत्तत्रासक्तः सारथिभावेन लोकार्थकारी भवेत्तदा न कश्चिद्दोष इति। प्रथमं दशकं हेतुफलसम्बन्धभ्रंशं कथयन्नाह। ये च खलु पुनरित्यादि। एतदेव स्पष्टयन्नाह। तद्यथापि नामेत्यादि। पलगण्ड इति तक्षकः। पलगण्डान्तेवासीति तच्छिष्यः,वैजयन्तस्य प्रासादस्येति। सुमेरुतलमध्ये सुदर्शनं नाम नगरं सौवर्णम्। दैर्ध्येणार्धतृतीययोजनसहस्रप्रमाणमेकैकं पार्श्वम्। उच्छ्रयेण द्ध्यर्धयोजनम्। तत्र नगरस्य मध्ये शक्रस्य वैजयन्तो नाम प्रासादो दैर्ध्येणार्धतृतीययोजनशतप्रमाणमेकैकं पार्श्वमुच्छ्रयेण यथाशोभं वैजयन्तप्रासादः। चिरक्षिप्रभेदेन कर्तुकामो निर्मातुकाम इति पदद्वयम्। नो हीदमिति। सूर्याचन्द्रमसोर्विमानाद्यथायोगं पञ्चाशत्सैकयोजनाद्वैजयन्तस्याधिकप्रमाणत्वेन हेतुफलानुरूपविपर्ययसूचनान्नैवेत्यर्थः। निरुत्तरभ्रंशं वक्तुमाह। तद्यथापि नाम सुभूते कश्चिदेवेत्याह। तत्र वर्णो गौरत्वादि। संस्थानं दीर्घत्वादिकम्। लक्षणादिसम्पत्तेजः। आकाशगमनादिकमृद्धिः। निमित्तमसाधारणं वस्तुनश्चिह्नम्। वर्णादिसादृश्यमात्रोपलम्भेन विप्रलब्धबुद्धित्वादप्रतिबलः। ननु श्रावकयानेऽपि तथागतत्वप्रापककरुणादिधर्मनिर्देशात् कथं तेन सर्वाकारज्ञता पर्येषणीयेति। तत्कस्य हेतोरित्याशङ्क्याह। धन्वको हीत्यादि। सर्वाकारानिर्देशान्निर्दिष्टोऽप्यविशिष्ट इत्यर्थः। धर्मसम्भोगनिर्माणकायत्रयभ्रंशेन यथाक्रमं चक्रवर्तिशतरसभोजनानर्धमणिरत्नदृष्टान्ताः। बहुविधविषयविकल्पप्रतिभानोत्पादं कथयन्नाह। पुनरपरमित्यादि। चतुर्विधदोषप्रतिपादनार्थमाह। शक्येत्यादि। नो हीदमिति तत्त्वतो मायोपमज्ञानत्वादिति मतिः। लिखितेति मंस्यन्त इति। लिखनाभिनिवेशः। असतीति वेति। अभावाभिनिवेशः। अक्षरेषु वा प्रज्ञापारमितामभिनिवेक्ष्यन्त इति। अक्षराभिनिवेशः। अनक्षरेति। अनक्षराभिनिवेशः कथितः। जनपदादिमनस्कारं निर्दिशन्नाह। पुनरपरं सुभूते प्रज्ञापारमितायामित्यादि। तत्र देशो मगधादिः। एकगृहादिको  ग्रामः। अष्टादशप्रकृतिवासो नगरम्। वणिग्बहुलस्थानविशेषो निगमः। चातुर्वर्ण्याध्यस्तप्रदेशो जनपदः। चम्पादिविषयो राष्ट्रः। राज्ञामावासदेशो राजधानी। आख्यानं जातकमालादि। गुल्मस्थानं घट्टस्थानं परिष्कारविशेषः। विशिखाऽपणवीथी। शिविका याप्ययानम्। प्रियाप्रियव्यत्यस्तः प्रियाप्रियवियोगः। इतिकर्तव्यता सततकरणीयता। गुल्माक्षदर्शनं घट्टस्थाने पाशकादिदर्शनम्। शेषं सुगमत्वान्न विभक्तम्। लाभसत्कारश्लोकास्वादनं प्रतिपादयन्नाह। पुनरपरं सुभूते बोधिसत्त्वानामित्यादि। लाभसत्कारश्लोकास्वाद इति। तत्र लाभो रत्नादिप्राप्ति सत्कारः श्रीपट्टबन्धनादिः। श्लोको यशस्तेषामनुभवनमास्वादः। अमार्गोपायकौशलमार्गणं वक्तुमाह। पुनरपरं सुभूत इत्यादि। शून्यतादिप्रतिसंयुक्तेषु कथं न स्पृहेति। तत्कस्य हेतोरित्याशङ्क्याह। किञ्चापीत्यादि। द्वितीयं दशकम्। अमी तावदस्य प्रवृत्तस्यान्तरायाः कथिताः। सम्प्रति पुनः प्रवृत्तेः पूर्वमेव विसामग्र्यो वक्तव्या इति। छन्दकिलासवैधुर्यार्थमाह। पुनरपरं सुभूते धार्मश्रवणिक इत्यादि। छन्द इत्यभिलाषसम्पन्नः। किलासीत्यालस्योपेतो वीर्यरहित इति यावत्। छन्दविषयभेदवैधुर्यार्थमाह। पुनरपरं सुभूते धार्मश्रवणिकश्छन्दिक इत्यादि। तत्राधिकारार्थप्रतिपत्त्या गतिमान्। तावन्मात्रार्थावगमान्मतिमान। मेधायोगात् स्मृतिमान्। देशान्तरं क्षेप्स्यत इत्यनेन श्रोतुश्छन्दविषयाद्दैशिकस्य भिन्नच्छन्दविषयत्वमावेदितम्। रूपमित्याद्युक्ते रूपादिस्कन्धापरिज्ञानान्नोद्घटितज्ञः। रूपणालक्षणं रूपमित्याद्यभिधाने तदर्थानवबोधान्न विपञ्चितज्ञः। रूपं द्विधा विंशतिधेत्याद्युच्चारेण तदर्थानवगमादनभिज्ञः। यथोक्तवैधुर्यमेव स्पष्टयन्नाह। पुनरपरं सुभूते धर्मभाणकश्चेत्यादि। धर्मदैशिकश्रावणिकयोर्दातुकामदेशान्तरगन्तुकामत्वेन भिन्नविषयछन्दत्वात्। लाभगौरवाल्पेच्छतावैधुर्यार्थमाह। पुनरपरं सुभूते धर्मभाणकश्चामिषगुरुक इत्यादि। अनेनैव हारकेण योगायोगौ कथितौ। तथा हि तयोर्यथाक्रमं लाभादिकगुरुत्वेन धूतगुणायोगोऽल्पेच्छतादित्वेन च धूतगुणयोगो देशितः। कल्याणाकल्याणधर्मत्वार्थमाह। पुनरपरमित्यादि। तत्र कल्याणधर्मत्वेन श्राद्धस्तद्वैपरीत्येनाश्राद्धः। अनेनैव हारकनिर्देशेन त्यागमात्सर्यमुक्तम्। तथा ह्यर्थं परित्यक्तुकाम इति श्रावकणिकत्यागः। न वा भाषितुकामः इति। दैशिकस्य मात्सर्यं विहितम्। अनेनैव च दानाग्रहणं कथितम्। तथा हि पूर्ववच्छ्रावणिकस्य दानं दैशिकस्य पुनरल्पेछता वेत्यग्रहणमावेदितम्। उद्घटितज्ञविपञ्चितज्ञार्थमाह। पुनरपरमित्यादि। अर्थमवबोद्धुकाम इति। उद्घटितज्ञत्वेनार्थं प्रतिपत्तुकामः। धर्मान्तरायिकतयेति। सर्वधर्मप्रतिक्षेपसंवर्तनीयतया। न सम्भविष्यन्ति। पुस्तकतादिरूपेण नावतरिष्यन्तीति। विपञ्चितज्ञत्वेन तस्यावबोधमार्गं न गमिष्यन्ति। अप्राप्तधर्मभाणिन इति। अप्राप्तधर्मभाणकस्य। प्रतिवाणीति। न मया श्रोतव्यमिति प्रतिकूलवचनम्। सूत्रादिधर्माभिज्ञाऽनभिज्ञार्थमाह। पुनरपरमित्यादि। भाषितुकाम इति। सूत्रादिधर्माभिज्ञतया वक्तुकामः। अच्छन्दिक इति। तेषामेव सूत्रादिधर्माणामनभिज्ञतया श्रवणार्थमभिलाषरहितः। षट्पारमितासमन्वागमाऽसमन्वागमाविति। मारकर्मानेनैव हारकेणोक्तम्। तथा हि भाषितुकाम इत्यनेन सत्त्वानुग्रहाशयतया षट्पारमितासमन्वागमः। अच्छन्दिक इत्यनेन च वैरूप्याशयतया दानादिवियोगः। कथित इति तृतीयं दशकम्। उपायकौशलानुपायकौशले धारणीप्रतिलम्भाप्रतिलम्भौ लिखितुकामताऽलिखितुकामतौ विगताविगतकामादिच्छन्दत्वे च श्रावणिकमादिं कृत्वा प्रतिपादयन्नाह। पुनरपरं सुभूत इत्यादि। मिद्धादिगुरुकत्वेनाश्रोतुकामतया श्रावणिकस्य प्रतिषेधविषयं समन्वागमादिकं दैशिकस्य च भाषितुकामत्वेन समन्वागमादिकमप्रतिषेधविषयमुक्तं वेदितव्यम्। यथोक्तमेवार्थं दैशिकमादिं कृत्वा निर्दिशन्नाह। पुनरपरं सुभूते धर्मभाणक इत्यादि। अपायगतिवैमुख्यार्थमाह। पुनरपरं सुभूते प्रज्ञापारमितायामित्यादि। एवं दुःख इत्यादि। आवीचिज्वालादिदुःखा नारकाः। परस्परभक्षणादिदुःखा तिर्यग्योनिः। क्षुत्पिपासादिदुःखाः प्रेताः। विष्णुचक्रादिभयाः सर्वासुराः। जात्यादिदुखाः सर्वसंस्काराः। इहैव दुःखस्यान्तः करणीय इत्यनन्तरमेवं श्रुत्वा सत्त्वार्थनिमित्तमपायगतौ वैमुख्यं करिष्यन्तीति शेषः सुगतिगमनसौमनस्यार्थमाह। पुनरपरमित्यादि। तत्राशाश्वतं प्रबन्धोच्छेदात्। अनित्यं क्षणिकानित्यतया। दुःखं संस्कारदुःखतायोगात्। विपरिणामधर्मकं विपरिणामदुःखसम्भवादिति। तदेवं सर्वमशाश्वतमित्यादि। सर्वं हि संस्कृतमनित्यमित्यादेर्व्याख्यानमित्यवसातव्यम्। संवेगमापत्स्यन्त इति। प्रथमफलादिसुगत्यभिलाषेण बोधिचारिकाविमुखतां करिष्यन्ति। पूर्वं बाहुल्येन श्रावणिकं पश्चाद्दैशिकं नियम्य वैधुर्यमाख्यातम्। इदानीं पुनः पूर्वं दैशिकं पश्चात् श्रावणिकं नियम्य वैधुर्यमुच्यतेऽन्तरायानुपूर्व्यनियमज्ञापनार्थम्। तत्र एकाकिपर्षदवचरत्वार्थमाह। पुनरपरं सुभूते येऽपि भिक्षवो धर्मभाणकास्त एकाकिताभिरता भविष्यन्ति। येऽपि धार्मश्रवणिकास्तेऽपि पर्षद्गुरुका भविष्यन्तीति। अनुबन्धकामानवकाशदानत्वार्थमाह। तेऽपि धर्मभाणका एवं वक्ष्यन्तीत्यादि। अनुभत्स्यन्तीति। अनुबन्धयिष्यन्ति। न चावकाशं दास्यन्तीति। प्रज्ञापारमितां दास्यामीत्युक्ता तद्दानाय नावसरं करिष्यन्ति। आमिषकिञ्चित्काभिलाषतददातुकामतार्थमाह। स च धर्मभाणक इत्यादि। ते च न दातुकामा इति। अर्थश्रावणिका न दातुकामाः। जीवितान्तरायदिग्गमनार्थमाह। तेन तेन गमिष्यतीत्यादि। दुर्भिक्ष इति भक्तरहितत्वेन दुष्प्रापभिक्षः। अयोगक्षेम इति। इष्टावाप्तियोगः निरुपद्रवत्वं क्षेमः। तदुभयाभावादयागक्षेमः। जीवितेन्द्रियनिरोधाज्जीवितान्तरायः। तस्मिंश्च प्रदेशे जीवितान्तरायोऽपि भवेदिति। अनन्तरायां दिशं गच्छेयुर्भवन्त इति शेषः। इति चतुर्थं दशकम्। दुर्भिक्षदिग्गमनागमनार्थमाह। स च धर्मभाणकस्तानित्यादि। कच्चिदिति कदाचित्। नानुभत्स्यन्तीति नानुगमिष्यन्ति। चौराद्याकुलितदिग्गमनागमनार्थमाह। पुनरपरं सुभूते इत्यादि। तत्र जन्तुर्वृश्चिकादिः। दुष्टग्रहो व्याडः,प्रेतादिरमनुष्याः,कान्तारं भयस्थानं,सरीसृपः सर्पः,मांसाशी यक्षादिः क्रव्यादः,प्रत्युदावर्त्स्यन्त इति निवर्तिष्यन्ते। कुलावलोकनदौर्मनस्यार्थमाह। पुनरपरं सुभूते धर्मभाणको भिक्षुर्मित्रकुलेत्यादि। उपसंहारार्थमाह। इति हि सुभूते मार इत्यादि। मारभेदप्रयोगं कारणप्रश्नेनाह। किमत्र भगवन्नित्यादिना। उद्योगमाप्सत इति। महायानाद्विभेत्तुं यत्नं करिष्यति। तथा चोपायेन चेष्टिष्यत इति। पूर्वोक्तप्रकारव्यतिरेकेणोपायेन विघ्नार्थं यतिष्यते। कारणनिर्दिशन्नाह। प्रज्ञापारमिता निर्जाता हीत्यादि। प्रतिवर्णिकोपसंहारार्थमाह। पुनरपरं सुभूते मार इत्यादि। अपरसूत्रानुलोमनात्सूत्रागतम्। स्वस्मिन्नर्थविनिश्चयादिसूत्रे दृश्यमानत्वात्सुत्रपर्यापन्नम्। जननीसदृशसूत्रोपसंहारेण संशयोत्पादनात्संशयं प्रक्षेप्स्यति। कल्पितादिस्वभावत्रयापरिज्ञानादल्पबुद्धिकान् मन्दबुद्धिकान् परीत्तबुद्धिकानिति यथाक्रमं वाच्यम्। तदेव कथयन्नाह। अन्धीकृतानिति। अयथाविषयस्पृहोत्पादनं वक्तुमाह। पुनरपरं सुभूत इत्यादि। भूतकोटिं साक्षात्करोतीति श्रावकनिर्याणमधिगच्छति। नियमादनेन तत्राभिलापो जन्यत इति षट् दोषाः। कियन्तं मारकर्मप्रकारं निर्दिश्यापरमतिदिशन्नाह। एवं सुभूते मार इत्यादि। बहुप्रत्यर्थिकमहारत्नोदाहरणेन पूर्वोक्तमेव समर्थयन्नाह। एवमेतद्भगवन्नित्यादि। बहुप्रत्यर्थिकत्वे किं कारणमिति। तत्कस्य हेतोरित्याशङ्क्याह। यदुत दुर्लभत्वादित्यादि। साधूक्तमित्याह। एवमेतत्सुभुत इत्यादि। बह्वन्तरायत्वेऽपि तथागतसामर्थ्यादेव लभ्यत इत्याह। किञ्चापि सुभूत इत्यादि। तथागतसामर्थ्यपरिकल्पने को हेतुरिति। तत्कस्य हेतोरित्याशङ्क्याह। मारोऽपि हीत्यादि।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां मारकपरिवर्तो नामैकादशः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project