Digital Sanskrit Buddhist Canon

दशमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Daśamaparivartaḥ


 



दशमपरिवर्तः।



 



विशिष्टप्रयोगैराकारा भावयितव्यास्ते च प्रयोक्तारं विना कथयितुमशक्या इति श्रवणादिभाजनं प्रयोक्तारं निर्दिशन्नाह। अथ खलु शक्रस्येत्यादि। तथागतमुद्दिश्य विहारादिकरणात् पूर्वजिनकृताधिकाराः। पिण्डपातादिदानाद्बहुबुद्धावरोपितकुशलमूलाः। कल्याणमित्रैरधिष्ठितत्वेन कल्याणमित्रपरिगृहीताः। यथोक्तविशेषणत्रयोपेता एवाकारलक्षणाया मातुरस्या मुख्यतः श्रवणभाजनम्। तथा चोक्तम्।



 



कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः।



मित्रैः सनाथाः कल्याणैरस्याः श्रवनभाजनम्॥६॥इति



 



अवरमात्रकेणेति। अल्पेन। कायाद्युपस्थानाराधनाद्बहुबुद्धपर्युपासिताः। संशयार्थनिर्णयाय स्वरूपपरिपृच्छनात् परिपृष्टाः। हेतुपरिपृच्छया परिप्रश्नीकृताः। दानादिदशपारमिताप्रतिपत्त्यनुष्ठानाद्बहुबुद्धावरोपितकुशलमूलाः। कृततथागतपर्युपासनादय एवोद्ग्रहणादिभाजनमित्यवसातव्यम्। तथा चोक्तम्।



 



बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया।



उद्ग्रहधारणादीनां भाजनत्वं सतां मतम्॥७॥ इति



 



युक्त एवायं शक्रस्य वितर्को यस्य यथोक्तहेतुरस्ति स एवाधिमोक्षं करोतीत्याह। यो भगवन्नित्यादि। तथा त्वया शिक्षिष्यत इत्यादि पदत्रयं प्रयोगमौलपृष्ठावस्थासु दर्शनभावनाविशेषमार्गभेदाद्वा ग्राह्यम्। ननु विशिष्टार्थाधिगमाभावे कथमुद्ग्रहादिमात्रेणाविनिवर्तनीयो धारयितव्य इति। तत्कस्य हेतोरित्याशङ्क्याह। गम्भीरेत्यादि।  यथोक्ततथागतपर्युपासनसंप्रश्नदानशीलादिचर्याहेतुत्रयवैपरीत्येन परीत्तकुशलमूलेनापरिपृच्छकजातीयेन पूर्वमचरितवतेति पदत्रयं योज्यम्। एतदुक्तम्। "व्यतिरेकमुखेन यस्माद्यथानिर्दिष्टबुद्धोपासनादिकारणेनाधिमुञ्चति प्रज्ञापारमितां विशिष्टाध्याशयतया तस्मादविनिवर्तनीयो धारयितव्य"इति। यथोक्तहेतुवैकल्याच्च प्रतिक्षिपन्तीत्याह। ये पुनरधिमुच्येत्यादि। कथमिदानीं प्रतिक्षेपाशयेन पूर्वं प्रतिक्षेपो गम्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। यथापीत्याह। यस्मादिदानीं कुशलमूलानं परीत्तत्वात् प्रतिक्षेपाशयो मातुस्तस्मात् पूर्वमपि प्रतिक्षेपो गम्यते। अन्यथा परीत्तकुशलमूलत्वानुपपत्तेरित्यर्थः। तदेवाह। न हि भगवन्नित्यादि। उचितमेवोक्तम्। शारिपुत्रेणेत्याह। गम्भीरेत्यादि। किमत्राश्चर्यं। नैव किञ्चित् कारणानुरूपत्वात् कार्यस्य। सञ्जातप्रसादातिशयत्वादाह। नमस्करोमीत्यादि। कथं मातुर्नमस्कारेऽन्यस्य सम्बन्धाभावान्नमस्कार इति। तत्कस्य हेतोरित्याशङ्क्याह। अतो निर्जाता हीत्यादि। बोधिसत्त्वावस्थायां मातुरभ्यासेन बुद्धत्वप्राप्तेस्ततः सर्वज्ञता निर्जाता। बुद्धत्वावस्थायां विनेयेभ्यः प्रज्ञापारमिताप्रकाशनात् सर्वज्ञज्ञानप्रभाविता च प्रज्ञापारमितेत्येवं हेतुफलसम्बन्धात् प्रज्ञापारमितानमस्कारे सर्वज्ञज्ञानस्य नमस्कारः। एवमिति। सर्वज्ञज्ञानस्य हेतुत्वेन फलत्वेन चेत्यर्थः। श्रुतचिन्ताभावनामयज्ञानैर्यथाक्रमं प्रज्ञापारमितायां चरितव्यमित्यादि। पदत्रयं योज्यम्। प्रयोक्तुर्निर्देशानन्तरं प्रयोगार्थं प्रश्नयन्नाह। कथं भगवन्नित्यादि। प्रकरणानुरूपत्वात् प्रश्नस्य साधु साध्विति साधुकारदानम्। एतमर्थमित्यादि। वक्ष्यमाणन् विंशतिप्रयोगानारभ्य स्वाधिगमार्थ परिप्रष्टव्यम्। पराधिगमार्थं परिप्रश्नीकर्तव्यम्। तथागतं मन्यसे प्रतिपद्यसे जानीष इति यावत्। तत्र रूपादिष्वनवस्थानप्रयोगमाह। इहेत्यादिना। आधारस्वरूपभेदेन रूपे रूपमिति पदद्वयं वाच्यम्। ततः किमित्याह। यत इत्यादि। एतदुक्तम्। "यस्माद्रूपादिषु निःस्वभावतया स्थानप्रतिषेधस्तस्मात्तत्रानवस्थानप्रयोग"इति। अयोगप्रयोगार्थमाह। रूपमिति कौशिक न योजयतीति। न योगमापद्यत इत्यर्थः। ततः किं भवतीत्याह। यत इत्यादि। एवं योगमापद्यत इति। एवं तत्त्वतो योगाभावेन संवृत्या योगमापद्यते। अयोग एव तेषु प्रयोग इत्यर्थः। गम्भीरप्रयोगमाह। गम्भीरेत्यादिना। रूपादितथतागम्भीरतया प्रतिष्ठानानुपलब्ध्यर्थेन सर्वज्ञताधिकारे गम्भीरेत्यवबोधात्। दुरवगाहप्रयोगमाह। दुरवगाहेत्यादिना। रूपादिदुरवगाहतया प्रकृत्यनाविलार्थेन मार्गज्ञताधिकारे दुरवगाहेत्यधिमोक्षात्। तदेव कथयन्नाह। दुरुद्ग्रहेति। श्रोत्रविज्ञानेन तदाकृष्टेन च मनोविज्ञानेन दुरुद्ग्रहत्वात्। अप्रमाणप्रयोगमाह। अप्रमाणेत्यादिना। रूपाद्यप्रमाणतया पर्यन्तानुपलम्भार्थेन सर्वाकारज्ञताधिकारेऽप्रमाणेत्यालम्बनात्। अथवा गम्भीराभिसम्बोधमसाधारणाभिसम्बोधं निरुत्तराभिसम्बोधञ्चाधिकृत्य यथाक्रमं त्रिविधोऽयं गम्भीरप्रयोगादिरुक्तः। साधूक्तत्वेन गम्भीरप्रयोगं स्पष्टयन्नाह। एवमेतदित्यादिना। तदयं  समासार्थो यदा गम्भीरं रूपादिकमित्यभिनिवेशयोगेन तत्त्वतो न तिष्ठति तदाऽविपर्यस्तत्वात्तत्र गम्भीरयोगमापद्यते।यदा च गम्भीरमित्यपि न योगमापद्यते तदा गम्भीरं रूपादिकमित्यपि न तिष्ठत्येवं योगावस्थानस्य निषेधेनाविपरीतगाम्भीर्यप्रयोगार्थः कथित इति। एतदनुसारेण दुरवगाहाप्रमाणप्रयोगयोरप्यर्थो वाच्यः। "एते च गम्भीरादयस्त्रयः प्रयोगाः प्रत्येकं मृदुमध्याधिमात्रा"इत्यार्यविमुक्तिसेनः। कृच्छ्रचिराभिसम्बोधप्रयोगार्थमाह। गम्भीरा भगवन् प्रज्ञापारमिताऽविनिवर्तनीयस्येत्यादि। नियतगोत्रत्वेन कश्चिदवैवर्तिकोऽप्यव्याकृत इति। तद्व्यवच्छेदार्थं व्याकृतग्रहणम्। मातरि सर्वप्रकारज्ञानाभावेन विचिकित्सादिसम्भावात् तस्यैव पुरतो भाषणे को हेतुरिति। तत्कस्य हेतोरित्याशङ्क्याह। स हीत्यादि। स यस्मात् प्रतिविद्धधर्मधातुनिष्यन्ददेशनाधर्माग्रत्वेन मिथ्याज्ञानाभावान्न कांक्षिष्यति,संशयज्ञानविगमान्न विचिकित्सिष्यति,अज्ञानविरहान्न धन्वायिष्यति,सम्यग्ज्ञानोपेतत्वान्न विवदिष्यति,तस्मात्तस्यैव पुरतो भाषणीयेति मतिः। सामर्थ्यादन्यस्य पुनरुत्त्त्रासादिसम्भवात् कृच्छ्रचिराभिसम्बोधप्रयोगो दर्शितः। व्याकरणलाभप्रयोगमाह। स चेत्पुनरित्यादिना को दोष इति । कतमः कांक्षादिदोषः स्यात्। गोत्रसामर्थ्यादनुत्रासादिमतो न कश्चिदित्याह। दुरत इत्यादि। दूराद्दूरतो दीर्घकालादि यावत्। तदेवाह। चिरयानसम्प्रस्थित इति। अथवा दूरतो गम्भीरार्थाधिमोक्षाच्छ्रावकाद्यगोचरतः। प्रज्ञापारमितां लप्स्यत इत्यादि। प्रथमतरमेव तावद्दुरात्पश्यति। ततो दर्शनाह्लादितशरीरो वन्दते। ततो विवर्धमानप्रसादवेगः प्रदक्षिणीकरणादिना पर्युपास्ते। ततः कृतानुपूर्वीको निषद्य शृणोति। इत्येवं दर्शनाद्यर्थं प्रज्ञापारमितां प्राप्स्यति। न चेदानीमसौ चिरेणेति। न चिरेणेदानीमेव दर्शनादिकाले। एतदेवाह। आसन्नमित्यादिना। नैकं तथागतमित्यादि। एकद्वित्रितथागतानतिक्रमिष्यति। ततः स बोधिसत्त्वः पश्चाद्व्याकरणं प्रतिलप्स्यत इत्येवं न ,अपि तु तेभ्य इत्यर्थः। तदेव कथयन्नाह। अपि तु तानारागयिष्यतीति। अपि च तानेकद्वित्रितथागतान् सम्यक् तत्प्रज्ञप्तशिक्षाप्रतिपत्त्याऽऽरागयिष्यति। तथागतदर्शनं च व्याकरणेनावन्ध्यं करिष्यतीति। एकद्वित्रितथागतादिदर्शनं व्याकरणेनाशून्यं करिष्यति। नियमे व्याकरणलाभात्। तदेवाह। तथागतदर्शनाच्चेत्यादिना। यदा च व्याकरणमित्याद्युपसंहारः सुगमः। अविनिवर्तनीयप्रयोगार्थमाह। अथ खल्वायुष्मान् शारिपुत्र इत्यादि। कः पुनर्वादोऽत्र यः श्रुत्वा चोद्ग्रहीष्यति। यः सम्यगुद्ग्रहणादिनाऽविनिवर्तनीयप्रयोगेण युक्तः स परिपक्वकुशलमूल इत्यत्र को वादः। नैव कश्चित्संदेह इत्यर्थः। साधूक्तत्वेनानुमतिमाह। एवमेतदित्यादि यथोक्तप्रयोगमेव द्रढयन्नाह। प्रतिभाति मे भगवन्नित्यादि। औपम्योदाहरणमिति। सादृश्योदाहरणम्। उपवर्त्स्यत इति। उपपत्स्यते। प्रज्ञा पारमितोद्ग्रहणादिना कथं परिपक्वकुशलमूलो बोधिसत्त्वो लक्ष्यते,अन्यस्यापि तदुद्ग्रहादिसम्भवादिति। तत्कस्य हेतोरित्याशङ्क्याह। भूयस्त्वेन हीत्यादि। यस्माद्बाहुल्येन धर्मव्यसनसंवर्तनीयैः कर्मभिरविरहितानां प्रज्ञापारमितायाञ्चित्तानि सम्यगुद्ग्रहादिविमुखत्वेन प्रतिकूलानि भविष्यन्तीति। परित्यागपरत्वेन च परिवेल्लयिष्यन्ति। यस्माच्चानुपचितकुशलमूलाः प्रज्ञापारमितायामर्थानवबोधगमनान्न प्रस्कन्दन्ति,नापि प्रसादलाभात् प्रसीदन्ति,तस्मादुपचितकुशलमूलास्ते यथावदुद्ग्रहणादिकारिण इति वाक्यार्थः। भूतकोट्यामिति। भूतकोटिर्धमधातुस्तद्द्योतनात् प्रज्ञापारमिता तथोक्ता। निर्याणप्रयोगमाह। तद्यथापि नाम भगवन् पुरुषो योजनशतिकादित्यादिना। एवमेवेत्यादिना। बहुयोजनशतिकाटवीकान्तारात्प्रस्थितपुरुषवदान्तरायिकधर्मवर्जनादिप्रतिपत्तिमतो यस्येयं जिनजननी  श्रवणाद्यर्थमुपपद्यते नियमेन निर्याणात्तेन वेदितव्यमभ्यासान्नोऽहमनुत्तरायाः सम्यक्सम्बोधेरित्यर्थः। तदेवाह। नापि तेनेत्यादिना। तद्विरोधिधर्मानुपस्थाने कथं श्रावकादिभूमौ पतनभयं न स्यादिति। तत्कस्य हेतोरित्याशङ्क्याह। तथा ह्यस्येमानीत्यादि । एतदुक्तम्। "यस्मात् पुद्गलनैरात्म्यमात्रप्रभवत्वेन श्रावकादिभूमिविरुद्धामविकलसर्वधर्मनैःस्वाभाव्यद्योतिकां प्रज्ञापारमितां दर्शनाद्यर्थं लभते ततो विरुद्धाया मातुरुपलम्भान्न श्रावकादिभूमिपाताशङ्के"ति। साधूक्तत्वादेवमेतच्छारिपुत्रैवमेतदिति। स्वहस्तं दत्त्वा पुनरपि सामर्थ्याधानार्थमाह। प्रतिभात्वित्यादि। निरन्तरप्रयोगार्थमाह। तद्यथापि नाम भगवन्निह कश्चिदेवेत्यादि। स्तम्बं वा स्तम्बनिमित्तं वेति,विटपं विटपनिमित्तं वेत्यर्थः। स्तम्बाद्यनुपलम्भात् कथं महासमुद्रस्याभ्यासन्नत्वमिति। तत्कस्य हेतोरित्याशङ्क्याह। अनुपूर्वनिम्नो हीत्यादि। एतदुक्तम्। यस्मात् स्वहेतुना जनितस्तम्बादिना विरुद्धोऽनुपूर्वनिम्नः स्वभावो महासमुद्रस्यातस्तदुपलम्भस्वभावादेव स्तम्बाद्यनुपलम्भात्तस्यासन्नत्वमिति। प्रज्ञापारमितां शृण्वता वेदितव्यमिति। सततभावनादिप्रतिपत्त्या निरन्तरप्रयोगबलान्निश्चेतव्यम्। कथं मातुः श्रवणकारणेन व्याकरणकार्यासन्नीभावोऽनुमीयते इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा ह्येनामित्यादिना। एतदुक्तम्। "कारणस्यार्थान्तरनिरपेक्षतया कार्योत्पादनयोग्यतानुमानेन स्वभावहेतुना व्याकरणासन्नीभावानुमानाददोष"इति। आसन्नाभिसम्बोधप्रयोगमाह। तद्यथापि नाम भगवन् वसन्त इत्यादिना। शीर्णपर्णपलाशेष्विति। पतितवृद्धपत्रेषु। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह। तथा हीमानि पूर्वनिमित्तानीत्यादि।



 



हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते।



अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः॥



 



इति न्यायेन गतार्थमेतत्। उपनामितेयमिति। अभिनवानास्त्रवधर्माधारत्वादिप्रतिपत्तेरासन्नाभिसम्बोधप्रयोगसामर्थ्येन ढौकिता। क्षिप्राभिसम्बोधप्रयोगार्थमाह। तद्यथापि नामेत्यादि। जातगर्भत्वाद्गुर्विणी। आसन्नप्रसवकालत्वाद्गुरुगर्भा। अङ्गविजृम्भणाद्वेष्टते। पौर्वकेणायोनिशोमनसिकारेण ग्राम्यधर्मप्रतिसंयुक्तेन प्रयोगमौलपृष्ठावस्थासु यथाक्रममासेवितेन निषेवितेन भावितेन सर्वत्र पुनः पुनरामुखीकरणाद्वहुलीकृतेनेमां वर्तमानामेवरूपामसह्यां कायेन वेदनां दुःखमनुभवामीति। चिन्तयतीति शेषः। शृण्वतश्चैनां रमते चित्तमस्यामिति। आधेयस्य प्रतिपत्तिधर्मस्य क्षिप्रं धर्मकायफलाभिनिर्वतनादिप्रतिपत्तिमतो यथोक्तप्रयोगसामर्थ्याच्चित्तं प्रज्ञापारमितायां श्रवणपूर्वकं रमते भक्तिं करोतीति यावत्। परमार्थप्रयोगमाह। आश्चर्यं भगवन् यावदित्यादिना। यावद्वचनेन सनाथा इत्यादिपरिग्रहः। यस्माद्व्याकरणादिभिर्भूमिषु पारमितासु च निवेशनात्सुपरिगृहीताः सुपरीत्ताश्च कल्याणमित्रप्रत्यर्पणाच्च सुपरीन्दिता भगवता बोधिसत्त्वास्तस्मादाश्चर्यम्। सर्वविषयत्वेऽपि कृपाया  विशिष्टाशयसम्पत्तिभव्यताबलेन प्रतिनियतजनानुग्रहो विस्मयः। विशिष्टाशयसम्पत्तिमेवाह। तथा हीत्यादिना। अनागतसम्बन्धेनार्थकारित्वाद्वहुजनहिताय प्रतिपन्नाः। वर्तमानकालतयेदानीमर्थकरणाद्वहुजनसुखाय। अतीतकालसम्बन्धेन कृतानां कुशलाकुशलधर्मवासनानां यथाक्रमं विवृद्धये परिहाणये वा यत्नकरणाल्लोकानुकम्पायै प्रतिपन्ना इति पूर्वेण सम्बन्धः। पुनरप्यतीतानागतवर्तमानकालसम्बन्धात्सामान्येनाह। महतो जनकायस्यार्थाय हिताय सुखायेति। धर्मं देशयितुकामा इति। प्रज्ञापारमितायां धर्मचक्रप्रवर्तनादिप्रतिपत्तिमतां परार्थकरणाद्धर्मं भाषितुकामाः। अवृद्ध्यपरिहाणिप्रयोगार्थमाह। इह भगवन् बोधिसत्त्वस्येत्यादि। रूपादीनां वृद्धिपरिहाण्यदर्शनेन प्रज्ञापारमितायाञ्चरणानुज्ञानात्तत्प्रयोगोऽभिहितः। धर्माधर्माद्यनुपलम्भप्रयोगार्थमाह। धर्मं न समनुपश्यतीत्यादि। धर्माधर्मादेरनुपलम्भप्रतिपत्त्या तत्प्रयोगत्वादेवं भावनापरिपूरिं गच्छति। अचिन्त्याकारसञ्ज्ञानिरोधप्रयोगार्थमाह। अचिन्त्यमिदं भगवन् देश्यत इत्यादि। धर्मधातुरूपत्वेन चिन्तयितुमशक्यत्वादचिन्त्यं रूपादीति यदि न सञ्जानीते तदग्रहणसञ्ज्ञानिरोधात्तदा यथोक्तप्रयोगेन चरति प्रज्ञापारमितायामित्यर्थः। अविकल्पप्रयोगार्थं प्रश्नयन्नाह। कोऽत्र भगवन्नधिमोक्षयिष्यतीत्यादि। परिहर्तुमाह। यः शारिपुत्र चरितावीत्यादि। कथं भगवंश्चरितावी बोधिसत्त्वो महासत्त्वो भवतीति। स्वरूपलाभप्रश्नं कथं चरितावीति नामधेयं लभत इत्यन्वर्थसञ्ज्ञालाभप्रश्नं च परिहरन्नाह। इह शारिपुत्रेत्यादि। ननु चिन्ताविषयबलवैशारद्यादिसम्भावे कथं न कल्पयतीति। तत्कस्य हेतोरित्याशङ्क्याह। बलानि हि शारिपुत्रेत्यादि। तत्त्वतो धर्मधातुरूपत्वाद्रूपादितन्निमित्ततत्स्वभावविकल्पनादिप्रतिपत्तिसामर्थ्येनाविकल्पप्रयोगलाभाच्चिन्तातिक्रान्तत्वेनाचिन्त्यानिबलादीनि न कल्पयतीत्यर्थः। फलरत्नदानप्रयोगार्थमाह। गम्भीरा भगवन् प्रज्ञापारमिता रत्न‍राशिर्भगवन् प्रज्ञापारमितेति। धर्मपुद्गलनैरात्म्यप्रतिपक्षत्वेन गम्भीरा सती प्रथमफलदर्शनादिप्रतिपत्त्या फलरत्नदानप्रयोगवतां स्त्रोतआपत्त्याद्यनुत्तरसम्यक्सम्बोधिफलरत्नम्य दात्रीत्वाद्रत्न‍राशिः। विशुद्धिप्रयोगार्थमाह। शुद्धराशिरित्यादि। आकाशस्यैव शुद्धत्वमुपादाय। रूपादिविशुद्धिभावनया तत्प्रयोगवतां क्लेशज्ञेयावरणहेतुत्वेन शुद्धराशिः। अवधिप्रयोगार्थमाह। आश्चर्यं भगवन्नित्यादि। महानुभावत्वेऽप्यन्तरायसम्भव इत्याश्चर्यम्। साधूक्तमित्याह। एवमेतत् सुभूत इत्यादि। निर्युक्तिकमेवेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। यस्मान्मारः पापीयानौत्सुक्यमुद्वेगमापत्स्यते,अन्तरायं कर्तुं तन्निमित्तं तस्माद्बहवोऽन्तराया इत्यर्थः। यद्येवं कथं तर्हि शीघ्रं लिख्यत इत्याह। तत्र शीघ्रमित्यादि। "संवत्सरेणेति वचनं तावता ऋत्वादिप्रत्ययसाकल्याद्वहिः-कालो नास्तीति ज्ञापनार्थमित्य"र्यविमुक्तिसेनः। तथा लिखितव्यैवेति। संवत्सराभियोगानुत्सर्गादिप्रतिपत्तिमतामवधिप्रयोगलाभाल्लिखितव्यैव निर्विघ्नतया शीघ्रमिति शेषः। ननु संवत्सरेण लिखने कथं शीघ्रमिति। तत्कस्य हेतोरित्याशङ्क्याह। एवं ह्येतदित्यादि। धर्मतैषा यस्मान्महारत्नानां बहवोऽन्तरायाः सम्भवन्ति,तस्मात् परमरत्नस्वभावाया मातुः संवत्सरेण बह्वन्तरायत्वेऽपि लिखनं शीघ्रमेवेति भावः। यथोक्त एव प्रयोगो ग्राह्यः। तथा चोक्तम्।



 



रूपादिष्वनवस्थानात्तेषु योगनिषेधतः।



तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः॥८॥



तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः।



व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे॥९॥



आसन्नबोधे क्षिप्रञ्च परार्थेऽवृद्ध्यहानितः।



धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने॥१०॥



रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः।



फलरत्नप्रदाता च शुद्धकः सावधिश्च सः॥११॥ इति



 



युक्तरूपा चेयमेषां विंशतेः प्रयोगाणामानुपूर्वी। तथा हि रूपादिष्वनभिनिवेशयोगेन स्थितोऽयोगप्रयोगेणाभियुज्यमानस्तेषां रूपादीनां गम्भीरतां दुरवगाहतामप्रमाणताञ्चावगच्छति। ततोऽसम्यग्योगविहितत्वेनादिकर्मिकः कृच्छ्रेण तदन्यः सुखेन व्याकरणमविनिवर्त्यभूमिञ्च प्राप्य निर्यात्यविरहितो भवत्यासन्नीभवति क्षिप्रमभिसम्बुध्यते। ततः परार्थं कुर्वन् न वर्धते न परिहीयते। ततो धर्माधर्मादौ सामान्ये रूपाचिन्त्यादौ च विशेषे सर्वसंज्ञाप्रहाणादविकल्पकः। फलरत्नप्रदानेन परां शुद्धिं निष्ठां प्राप्तो भवति। पूर्वमेवासंवत्सरमभियोगपरिकर्मितचित्तसन्तान इत्यधिगमप्रभावितः प्रयोगानुक्रमः। प्रयोगानन्तरं गुणदर्शनपूर्वकं सुतरामभ्यस्यन्ते प्रयोगा इति तद्गुणा वक्तव्याः। तत्र प्रथमं मारशक्तिव्याघातगुणं वक्तुमाह। इह भगवन् प्रज्ञापारमितायामित्यादि। न प्रसहिष्यत इति न प्रभविष्यति। अच्छिद्रसमादानस्येत्यादि। अखण्डितप्रज्ञापारमितापठनादिसमादानस्य। अच्छिद्रसमादानस्य तावन्मात्रं विघ्नासामर्थ्यादाह। यदा भगवन्नित्यादि। कथमेतर्हीति। केन प्रकारेणेदानीं कस्य वानुभावेनेति,कस्य वा सामर्थ्येन। सम्यक्संबुद्धानामनुभावेनेति। विकल्पेन प्रश्नद्वयस्य कृतत्वात् पश्चात्तस्यैव परिहारः। एतदुक्तम्। "प्रयोगभावनावस्थायां तथागतानामधिष्ठानस्य लाभान्मारशक्तिव्याघातगुणोदयेनोद्ग्रहणादिकं करिष्यन्ती"ति। तथागतानुभावस्तेषां कथमिति। तत्कस्य हेतोरित्याशङ्क्याह। एता हि शारिपुत्रधर्माणां धर्मतेति सुगमम्। एतदेव स्पष्टयन्नाह। ये तेऽप्रमेयेष्वित्यादि। द्वितीयं बुद्धसमन्वाहारज्ञातत्वगुणं वक्तुमाह। ये चैनां प्रज्ञापारमितामित्यादि। शक्याधानायावलोकनात् समन्वाहरिष्यन्ति। सामर्थ्योत्पादनात् परिग्रहीष्यन्ति। तदेव विस्तरेणाह। येऽपि ते भगवन्नित्यादिना। प्रयोगमौलपृष्ठावस्थासु तथागते समन्वाहरणलाभाद्बुद्धसमन्वाहारज्ञातत्वगुणोदयेन श्रवणादि करिष्यन्तीत्याह। बुद्धानुभावेनेत्यादिवचनम्। साधूक्तत्वेनाह। एवमेतदित्यादि। तृतीयं बुद्धप्रत्यक्षीकरणगुणं निर्दिशन्नाह। ज्ञातास्त इत्यादि। विशिष्टार्थाधानाभिप्रायेण दिव्यचक्षुषा ज्ञाताः। प्रज्ञाचक्षुषाऽधिष्ठिताः। धर्मचक्षुषा दृष्टाः। व्यवलोकिता बुद्धचक्षुषेति स्पष्टमेव। के पुनस्त इत्याह। ये त इत्यादि। एतदुक्तम्। "तथागतज्ञानदर्शनलाभाद्बुद्धप्रत्यक्षीकरणगुणवन्तो ये श्रवणादिकारिणस्ते ज्ञाता"इति।  सम्यक्सम्बोध्यासन्नीभावगुणं चतुर्थं निर्दिशन्नाह। श्रुत्वोद्गृह्येत्यादि। आसन्नीभविष्यन्तीति। तथागतानां समीपीभवनलाभेन सम्यक्सम्बोध्यासन्नीभावगुणोदयान्निकटवर्तिनो भविष्यन्ति। महार्थतादिगुणं पञ्चमं प्रतिपादयन्नाह। येऽपि शारिपुत्रैनामित्यादि। न तथतायां स्थास्यन्तीति। अनन्यथार्थेन तथतायां सम्यक्सम्बोधौ प्रतिपत्तिवैकल्यान्न तदैव स्थास्यन्ति। तेषामपीति। महानुशंसलाभान्महार्थतादिगुणोदयेन पुस्तकलिखितायां धारणवाचनवतां बुद्धैरविरहितत्वं सुगतिपरायणत्वं सम्यक्सम्बुद्धत्वं निर्वाणात् परेणापि च परार्थप्रवृत्तिमधिकृत्य यथाक्रमं महार्थिको महानुशंसो महाफलो महाविपाकश्चेति चत्वारि पदानि वेदितव्यानि। प्रकृष्टश्चात्र पाको विपाको द्रष्टव्यः। सपरिश्रम इति। तल्लिखनम्। परिष्पन्द इति धारणवाचने।



 



यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया।



बोधिसत्वस्य सततं प्रज्ञया त्रिप्रकारया।



धातुपुष्टयै प्रवेशाय चार्थसिद्ध्यै भवत्यसौ॥इति॥



 



सर्वस्य महायानधर्मस्यानुशंसत्वे कथं जिनजनन्या एवानुशंस इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हि प्रज्ञापारमितेत्यादि। यस्मात् सर्वधर्मनैःस्वाभाव्यमुखेन धर्माणां तत्त्वप्रतिवेधाय श्रवणादिक्रमेण प्रत्युपस्थिता तस्मात्तस्या एवानुशंसो मुख्यत इत्यर्थः। देशनिरूपणागुणं षष्ठं वक्तुमाह। इमे खलु पुनः शारिपुत्र षट्पारमिताप्रतिसंयुक्ता इत्यादि। षट्पारमितावचनं दानादिपारमितासहायभूतत्वात् परिशिष्टपारमितानाम्। तथा हि दानादिभिस्तिसृभिः पारमिताभिरनुगृहीतसत्त्वानां चतुःसङ्ग्रहवस्तुसङ्गृहीतेनोपायकौशलेन कुशले प्रतिष्ठापनादुपायकौशलपारमिता तिसृणां पारमितानां सहायभूता। दृष्टे धर्मे क्लेशप्रचुरतया कुशले कर्मण्यक्षमत्वेनायत्यां मन्दक्लेशत्वे मनसः प्रणिधानात् प्रणिधिपारमिता वीर्यपारमितायाः सहायभूता। सत्पुरुषसेवां सद्धर्मश्रवणञ्चागम्य दुर्बलाध्याशयतां व्यावर्त्य,आशयबलत्वं प्रणीते धातौ प्राप्याध्यात्मं चित्तस्थापनसामर्थ्यलाभाद्बलपारमिता ध्यानपारमितायाः सहायभूता। बोधिसत्त्वपिटकश्रुतालम्बनपूर्वकलोकोत्तरप्रज्ञानिर्हारसामर्थ्याज्ज्ञानपारमिता प्रज्ञापारमितायाः सहायभूतेति। वर्तन्यामिति पूर्वदेशे। नवमण्डप्राप्त इति। नवमण्ड इवाभिनवसाराभिधेयेऽर्थे तैस्तैर्धर्मभाणकैः प्राप्ते सति प्रचरिष्यन्ति सूत्रान्ता इति पूर्वेण सम्बन्धः। अनेन च ग्रन्थेन तथागतकृत्यकरणाद्देशनिरूपणागुणलाभेन धर्मभाणकानां बुद्धसमन्वाहारकांक्षादिनिरसार्थो वेदितव्यः। तदेवाह। समन्वाहृता इत्यादिना। पञ्चकषायोत्सेदत्वेनात्यन्तमभव्यत्वात् सत्त्वधातोर्धर्मरत्नस्य प्रचरणमसम्भावयन्नाह। इयमपीत्यादि। पश्चिमे काल इत्येतदेवाह। पश्चिमसमय इति न कणादादिपरिकल्पितः कालो नित्योऽस्ति क्रमेतराभ्यामर्थक्रियारहितत्वेनासत्त्वात्। किन्तु भावसन्निवेश एव कश्चित् पश्चिमः समयः सङ्केतः पश्चिमकालः। उत्तरस्यां दिशि न सर्वत्र किं तर्ह्युत्तरे दिग्भागे चीनविषयादौ। एवंविधेऽपि काले केचिदवरोपितकुशलमूला भविष्यन्तीत्याह। ये तत्र शारिपुत्रेत्यादि। तथापि बहुत्वमपश्यन्नाह। कियन्त इत्यादि। कल्याणमित्रादिबलेन बहूनां सम्भव इत्याह। बहव इत्यादि। स्वरूपबहुत्वाद्बहवः। गोत्रप्राचुर्यात् सुबहवः। सर्वानास्रवधर्मपरिपूरिगुणं सप्तमं कथयन्नाह। किञ्चापि शारिपुत्र बहव इत्यादि। तेभ्योऽपि बहुभ्योऽल्पका इति। श्रवणादिकारिभ्योऽपि बहुभ्यः प्रतिपक्षधर्मपरिपूरणलाभादनास्रवधर्मपरिपूरिगुणनिष्पत्त्याऽनवलयादिकारिणोऽल्पका इत्यर्थः। कथापुरुषतागुणमष्टमं वक्तुमाह। अनुबद्धास्तैः पौर्वका इत्यादि। त्रिशरणादिभावेनाश्रयादनुबद्धाः। कल्पितादिस्वभावत्रयपरिज्ञानार्थं प्रतिपत्त्यालम्बनसमुदागमानुत्तर्यावबोधार्थं वा यथाक्रमं परिपृष्टाः परिपृच्छिताः परिप्रश्नीकृता इति पदत्रयं वाच्यम्। अणुमात्रावेद्यदर्शनात्परिपूर्णकारिणः। विस्मृतबुद्धभूमिप्रापकधर्मश्रवणाः कथमनुत्तरां बोधिमारभ्यार्थकारिण इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हि तेषामित्यादि। समुदाचारा भविष्यन्तीति। सर्वाकारज्ञताकथाकथनलाभेन कथापुरुषतागुणसम्भवात् प्रज्ञापारमिताप्रतिसंयुक्ता विकल्पाः प्रवर्तिष्यन्ते। अभेद्यतागुणं नवमं निर्दिशन्नाह। तेषु च सुस्थिता इत्यादि। समुदाचारेषु व्यवस्थिताः। न शक्या भेदयितुमिति। तथागतसार्नाथ्यकरणलाभेनाभेद्यतागुणोत्पत्तेर्भेदयितुं बोधेर्निवर्तयितुमशक्याः। छन्दत इति सूत्रान्तमहायानाभिलाषतः। मन्त्रत इति।



 



रक्षन्ति देवता मन्त्रैः कुशले वर्तते मनः।



व्याधयोऽकालमृत्युश्च दौर्भाग्यञ्च प्रणश्यति॥ इति



 



बह्वनुशंसान्मन्त्रचर्याभ्यासाच्च भेदयितुं न शक्यन्त इत्येके। मारेण पापीयसा सर्वप्रकारेणौषधिसामर्थ्यान्मन्त्रसामर्थ्याच्च प्रज्ञापारमितातो निवर्तयितुमशक्या इत्यपरे। ननु स्वल्पकालेन बोधेरप्रात्या कथमशक्या भेदयितुमिति। तत्कस्य हेतोरित्याशङ्क्याह। यथापि नामेत्यादि। तस्यानल्पकल्पासंख्येयवीर्यत्वात् बोधिं प्रति न सहसाऽप्राप्तौ विनिवृत्तिरित्यर्थः। असाधारणकुशलमूलोत्पत्तिगुणं दशमं प्रतिपादयन्नाह। ताञ्च कुलपुत्रा इत्यादि। तत्र प्रीतिर्या लोकोत्तरधर्मपर्येष्टिः। प्रसादो बुद्धधर्मसङ्घाश्रयः। प्रामोद्यं या शुद्धता चित्तस्येत्यार्षम्। अथवा पूर्वोक्तमेव व्याख्यानम्। प्रतिलप्स्यन्त इति। असाधारणकुशलमूलपरिग्रहात् प्राप्स्यन्ति। प्रतिज्ञायाथार्थ्यसम्पादनगुणमेकादशं कथयन्नाह। बहुजनस्येत्यादि। पूर्वावेधमन्तरेण कथं सत्त्वार्थं कुर्वन्तीति। तत्कस्य हेतोरित्याशङ्क्याह। एवं हि तैरित्यादि। वाग्भाषितेति। प्रणिधानवचनमुच्चारितम्। महाबोधिचित्तोत्पादे नियोजनात्प्रस्थापयिष्यामः सन्दर्शयिष्याम इत्यादि व्याख्यातम्। स्मृत्युपस्थानादिभावनासु प्रवर्तनात् संप्रभावयिष्यामः। प्रमुदितादिसप्तभूमिप्रस्थापनात्। सम्बोधये प्रतिष्ठापयिष्यामः। वाग्भाषणेऽपि तदर्थानिष्पत्तौ कथमर्थक्रियाकारित्वमिति। तत्कस्य हेतोरित्याशङ्क्याह। अनुमोदितं हीत्यादि। यस्मात्तेषामाशयपरिशुद्धिं चित्तेन ज्ञात्वा वागनुमोदिता मया तथागतेन,तस्मात् प्रतिज्ञानुमोदनलाभे क्रमेण प्रयोगाभ्यासात् प्रतिज्ञायाथार्थ्यसम्पादनगुणोदयेनाशेषसत्त्वार्थकारिण इत्यर्थः। उदारफलपरिग्रहगुणं द्वादशं वक्तुमाह। एवञ्च ते कुलपुत्रा इत्यादि। उदाराधिमुक्तिका इति। गम्भीरोदारार्थाधिमोक्षेणोदारफलपरिग्रहादुदाराधिमुक्तिकाः। सत्त्वार्थकरणसामर्थ्यलाभेन सत्त्वार्थप्रतिपत्तिगुणं त्रयोदशं निर्दिशन्नाह। तेष्वपि ते बुद्धक्षेत्रेष्वित्यादि। स्वज्ञानविषयातिक्रान्तदेशनया सञ्जातबहुमानत्वादाह। आश्चर्यमित्यादि। अतीतादिधर्मेषु प्रहीणाशेषविपर्यासवासनस्यापि भगवतो यथादर्शनं संवृत्या ज्ञानं प्रवर्तत इति विस्मयः। यावदिति पर्यन्तनिर्देशादधर्मादिपरिग्रहः। चक्षुर्विज्ञानेनादृष्टम्। श्रोत्रविज्ञानेनाश्रुतम्। घ्राणविज्ञानेनाविदितम्। मनोविज्ञानेनाविज्ञातम्। नास्ति किञ्चिदिति योज्यम्। दौष्ठुल्यवासनास्वभावानीन्द्रियाणि इति वचनादज्ञानस्वभावस्येन्द्रियस्य बुद्धत्वावस्थायां प्रहाणेन मनोबुद्धिवदिन्द्रियबुद्ध्या विषयपरिच्छेदेन यस्मात् सर्वं विज्ञानं भगवतः सर्वविषयमिष्यते तस्मान्निर्मलतया चक्षुरादिज्ञाने नास्ति किञ्चिददृष्टादिकमित्यदोषः। तथा चेन्द्रियबुद्धिः पूर्वानुसारेण व्यवस्थाप्यत इत्यवसेयम्। मातुरलाभविकललाभविपर्ययेण नियतिलाभगुणं चतुर्दशं प्रतिपादयन्नाह। ये च तस्मिन् काल इत्यादि। अन्वेषमाणानामित्यादि पदत्रयं प्रयोगाद्यवस्थासु योज्यम्। यदुक्तमाश्चर्यमित्यादि तत् साधूक्तमित्याह। एवमेतदित्यादि। धर्मतैषा यद्बुद्धा भगवन्तो मायोपमतया सर्वं प्रतिपद्यन्त इति। किमत्र कारणमिति यदुक्तं तत्परिहर्तुमाह। तस्मिन् खलु पुनरित्यादि। निर्युक्तिकमेवेदं भगवतोक्तमिति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हि तैरित्यादि। अगवेषयन्तोऽपि लप्स्यन्त इति। अविकलप्रज्ञापारमिताप्रापकपूर्वकुशलमूलसमन्वागमे प्रयोगाभ्यासेन नियतिलाभगुणोदयात्प्राप्स्यन्ते। यान्यपि च ततोऽन्यान्यपीति। ततः प्रज्ञापारमितातः सकाशाद्यान्यन्यानि समाधिराजादिसूत्राणि। स्वयमेवेति। अनुकूलताप्राप्त्या कमकर्तृविवक्षावशादेवमुक्तम्। उपगमिष्यन्तीत्यादि पदत्रयं श्रुतादिज्ञानोदयभेदेन कल्पितादिस्वभावत्रयावबोधेन वा यथाक्रमं योज्यम्। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह। एवमेतदित्यादि। धर्मतैषा यः प्रत्युत्पन्ने जन्मन्यपरित्यक्तवीर्यो ग्रन्थं सुमृगयतेऽर्थं च पर्येषते स स्वप्रकृतिपरित्यागाज्जातिव्यतिवृतोऽपि पूर्वकायविरहाज्जन्मान्तरव्यतिवृत्तोऽप्यपरस्मिन्जन्मान्तरेऽप्यन्यजातिसंगृहीतोऽपि नियतिगुणलाभात् प्राप्स्यतीत्यर्थः। पदपरमत्वादाह। इम एवेत्यादि। नान्ये इति षट्पारमितारहिताः। किमिति काङ्क्षाप्रश्नः। साधारणकुशलमूलायत्तत्वात् सर्व एवोपपत्स्यन्त इत्याह। ये चान्येऽपीत्यादि। अन्येऽपीत्यषट्पारमिताप्रतिसंयुक्ताः। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्य तथैवाह। एवं ह्येतदित्यादि। अनुपलम्भप्रतिसंयुक्ता इति पुद्गलनैरात्म्यप्रतिसंयुक्ताः। शून्यताप्रतिसंयुक्ता इति। धर्मनैरात्म्यपरिदीपकाः। यथोक्ता एव गुणा ग्राह्याः। तथा चोक्तम्।



 



माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः॥इति



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां गुणपरिकीर्तनपरिवर्तो नाम दशमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project