Digital Sanskrit Buddhist Canon

नवमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Navamaparivartaḥ

नवमपरिवर्तः।

अधुना दर्शनमार्गार्थमाह। प्रज्ञापारमितेति। प्रतिसत्यं धर्मज्ञानक्षान्तिं धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानमित्येवं षोडशक्षणात्मकः। सर्वज्ञताधिकारे दर्शनमार्ग इत्यर्थः। तथा चोक्तम्।

धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः।

दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये॥११॥ इति

नामधेयमात्रमेतदिति। विकल्पप्रतिबिम्बमात्रमेतदित्यर्थः। तच्च नामेदमिति नोपलभ्यते। तत्त्वतो निःस्वभावत्वात्। नाम किमुच्यत इत्याह। वाग्वस्त्वेवेति निर्विकल्पप्रतिबिम्बकं किमाकारं सत्यमित्याकारप्रतिपादनार्थमाह। किं कारणमित्यादि। न रूपं नित्यं नानित्यमिति। नैःस्वाभाव्येन रूपं नित्यानित्यवियोगान्न नित्यं नानित्यमित्याकारः प्रथमः। न रूपं बद्धं न मुक्तमत्यन्तविशुद्धमिति। दुःखादुःखविगमत्वेन बन्धमोक्षाभावाद्विशुद्धमपगतशाश्वतोच्छेदान्तमिति द्वितीयः। अनेन सुभूते कारणेनेति। अविपरीतसर्वधर्माभिसंबोधिहेतुतया। यथावद्धर्मतत्त्वद्योतिकामिमामेव प्रज्ञापारमितां भाषिष्यते। अन्यस्य तथाभूतधर्मतत्त्वप्रकाशने सामर्थ्याभावादित्यर्थः। रूपविशुद्धित इति। शून्याशून्यरहितत्वाद्विशुद्धमिति तृतीयः। रूपानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धित इति। आत्मानात्मस्वभावाभावान्नोत्पन्नं न निरुद्धं न संक्लिष्टं न व्यवदातमेवं विशुद्धमिति चतुर्थः। आकाशविशुद्धित इति। हेत्वहेतुतुच्छत्वादाकाशसदृशं विशुद्धमिति पञ्चमः। रूपनिरुपलेपापरिग्रहतयेति। समुदयासमुदयविसंयोगात्। सर्वक्लेशोपक्लेशनिरुपलिप्त इति षष्ठः। प्रभवाप्रभवसंक्लेशापरिग्रहेण निर्मुक्त इति सप्तमः। आकाशप्रतिश्रुत्काऽवचनीयप्रव्याहारनिरुपलम्भतयेति प्रत्ययाप्रत्ययविमुक्तत्वादाकाशप्रतिश्रुत्कावत् स्वरूपतोऽवचनीयमित्यष्टमः। यस्मान्निरोधानिरोधेनासम्बन्धस्तस्माद्वचनोदाहरणेन सन्तानान्तरे निरोधसत्यार्थेऽप्रापणीय इति नवमः। शान्ताशान्ताभावान्नोपलम्भकारणमिति दशमः। सर्वोपलेपानुपलेपधर्मानुपलेपतयेति। प्रणीताप्रणीतविकलत्वात् सर्वोपलेपधर्मैः सास्रवैरनुपलेपधर्मैरनास्रवैश्चानुलिप्तत्वादतिक्रान्तोभयान्ता विशुद्धिरित्येकादशः। प्रागेवेति। सुतरामेवोद्ग्रहणादिकारिणां सुलब्धा लाभाः। श्रोत्रविज्ञानानुभवविशिष्टत्वादुद्ग्रहणादेरित्यर्थः। न तेषाञ्चक्षुरोग इत्यादि। निःसरणानिःसरणविविक्तत्वात् सर्वव्याध्यनुत्पाद इति द्वादशः। बहुतरमिति। अष्टम्यादौ प्रजावलोकनादवतीर्णशक्रादिबहुतरश्रोतृसद्भावादिति भावः। मार्गे धर्मज्ञानक्षान्तिमाह। बहूनि सुभूत इत्यादिना। प्रज्ञापारमितया देवपुत्राणामनुपकारात्तां भाषमाणस्य रक्षादिकरणे तेषां को हेतुरिति। तत्कस्य हेतोरित्याशङ्क्याह। स देवमानुषासुरस्येत्यादि। अनुत्तरं रत्नमिति। सर्वपापप्रशमहेतुत्वेन मार्गामार्गरहितत्वादनुत्तररतिं तनोतीति। देवपुत्रादीनामुपकारभावादनुत्तररत्नमपायोच्छित्तिरिति त्रयोदशः। अतोऽपि सुभूत इत्यादि। न केवलं यत्र बहुतरश्रोतृजनसम्भवादतोऽप्यनुत्तररतिदानादपि ततो धर्मभाणकत्वेन हेतुना बुद्धत्वप्राप्तेर्हेतुभूतं निदानं पुण्यं प्रसविष्यतीत्यर्थः। मार्गे धर्मज्ञानमाह। अपि तु खल्वित्यादिना। महानुभावत्वेऽपि बह्वन्तरायत्वे किं कारणमिति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। महानुभावत्वाद्बहूनामभिलषणीयत्वाद्बहुप्रत्यर्थकानि। यथा सारञ्चेत्यादि। येन प्रकारेणोत्तरोत्तरसारता तथा प्रत्यर्थिकबहुतेत्यर्थः। सामान्येन निर्दिश्येदानीं विशेषेमाह। अनुत्तरञ्चेदं सुभूते महारत्नमिति। सर्वसत्त्वहितसुखाद्यर्थं प्रत्युपस्थितत्वेन सर्वधर्मविकल्पाभावादविकल्पककल्याणप्रकृतिरत्नार्थेन न्यायान्यायासंश्लेषात् फलसाक्षात्करणं प्रत्युपायोऽविकल्पकत्वं महारत्नमिति चतुर्दशः। मार्गेऽन्वयज्ञानक्षान्तिमाह। न च सुभूत इत्यादिना। कल्पितस्तावन्नावलीयते। परतन्त्रं न संश्लिष्यते परिनिष्पन्नं न परिगृह्णातीत्यर्थभेदः। एतदुक्तम्। प्रतिपत्त्यप्रतिपत्तिविनिर्मुक्तत्वेन धर्माणां निमित्तैरसंसर्ग इति पञ्चदशः। विद्यमानत्वेऽपि धर्माणां कथनं न परिग्रह इति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। गतार्थम्। मार्गेऽन्वयज्ञानमाह। अनुत्पत्तित इत्यादिना। नैर्याणिकानैर्याणिकविकलत्वेनोभये वाच्यवाचकभावलक्षणे ज्ञेये शब्दे ज्ञानस्यानुत्पत्तिरित्याकारः षोडशः। प्रकारान्तरेणानुपलिप्तार्थं कथयन्नाह। तथाहीत्यादि। इत्थमपि धर्मतत्त्वमभिनिविश्यमानं दोषायेत्याह। सचेदेवमपीत्यादि। यथोक्तनीत्या षोडशाकाराः सर्वज्ञताक्षणा इति। दर्शनमार्गो बोधिसत्त्वानामन्वयमुखेन कथितोऽर्थादेतद्विपर्ययेण श्रावकादीनामनित्यादिभिराकारैर्दृङ्मार्गोऽवसेयः। तथा चोक्तम्।

रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम्।

अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम्॥१२॥

परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः।

प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः॥१३॥

नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः।

अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति॥१४॥

असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये।

ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः॥१५॥

इति विस्तरेण निर्दिश्यैवं सकलार्थसङ्ग्रहकत्वेन त्रिसर्वज्ञतामध्ये सर्वाकारज्ञतामुपसंहरन्नाह। सा खलु पुनरित्यादि। तत्रावेशिका चित्तोत्पादद्वारेणोत्पादिका। निवेशिकाऽववादादिना प्रतिष्ठापिका। सन्दर्शिका सन्नाहप्रतिपत्त्या सामान्यरूपेण निदर्शिका प्रस्थानप्रतिपत्त्या विशेषरूपेण। आवाहिका सम्भारप्रतिपत्त्या प्रापिका निर्वाहिका निर्याणप्रतिपत्त्या निष्कर्षिका। सर्वत्र न कस्यचिद्धर्मस्येत्यभिसम्बन्धनीयम्। अविपरीतधर्मामृतरसेन तृप्ताः पूजयन्तीत्याह। अथ खलु इत्यादि। प्रसादौद्विल्यसमुत्थः सिंहनादः किलकिलाप्रक्ष्वेडितमित्येके। हर्षजनितोऽट्टहासः। किलकिलाः तत्पूर्वकं नृत्यं प्रक्ष्वेडितमित्यपरे। वाराणस्यां प्रथमतो धर्मचक्रप्रवर्तनापेक्षया द्वितीयम्। तात्त्विकाभिनिवेशनिराकरणार्थमाह। नेदमित्यादि। तदेव कथयन्नाह। नापीत्यादि। मार्गज्ञतामुपसंहरन्नाह। महापारमितेयमित्यादि । असङ्गतेति। अनभिनिवेशता। उपलम्भेऽपि धर्मादर्शने को हेतुरिति। तत्कस्य हेतोरित्याशङ्क्याह। नहि स इत्यादि। सुबोधम्। प्रवर्तयिष्यतीति। उत्पादयिष्यति। कारणसामग्रीकरणेन धर्मोत्पादनात्। कथमेवमुच्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। अत्यन्तेत्यादि। कारणस्यैवासत्त्वादिति भावः। निवर्तयिष्यतीति विनाशयिष्यतीति। मुद्गरादिना प्रवृत्तसन्तानविरुद्धपदार्थोत्पादने विनाशावसायात् कथमेवमुच्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। आद्यनभिनिर्वृत्ता हि भगवन् सर्वधर्मा इति। आदावेवोत्पादहेतोरसत्त्वेनानुत्पन्नाः। तदेव कथयन्नाह। प्रकृतिविविक्तत्वात् सर्वधर्माणामिति। स्वभावेन शून्यत्वात् कुतो विरुद्धतेति भावः। सर्वज्ञतामुपसंहरन्नाह। नहि सुभूते शून्यतेत्यादि। शून्यत्वादीनामनुत्पन्नत्वादिति मतिः। इयं सेति सर्वज्ञता सर्वधर्मदेशनेत्यारभ्य यावद्दक्षिणीयः कृत इति। परमार्थसत्यमधिकृत्योक्तत्वात् सुगमः। यथोक्तनीत्या त्रिसर्वज्ञतोपसंहारे न विप्रतिपत्तिः कार्या। तथा चोक्तम्।

इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा।

अधिकारत्रयस्यैषा समाप्तिः परिदीपिता॥१६॥

इति। किमर्थं पुनस्तथा सर्वज्ञतायां पृथग्भावनामार्गो नास्ति यथा मार्गज्ञतायामभिहितः। श्रावकप्रत्येकबुद्धसम्पदं बोधिसत्त्वो ज्ञानेन दर्शनेन चावलोक्यातिक्रामतीति वचनेनासाक्षात्कर्तव्यत्वान्निर्दिष्टो बोधिसत्त्वानां श्रावकादीनां तु यथा परिदृष्ट एवार्थः पुनः पुनरभिमुखीक्रियमाणो भावनामार्ग इति सुगमत्वान्नोक्तः। निर्वेधभागीयं पुनर्बोधिसत्त्वानां पूर्वोक्तक्रमेणावसातव्यम्। श्रावकादीनां त्वनित्यादिभिरेवाकारैराकीर्यमाणे सत्यचतुष्टये सास्रवं भावनामयमूष्मादिकं स्पष्टत्वान्नोक्तमिति ग्राह्यम्। ननु मार्गज्ञतायां श्रावकादिमार्गस्याभिधानात् सर्वज्ञता कथितैव कस्मात् पुनः सर्वज्ञतायाः पृथङ्निर्देश इति चेत्। उच्यते। तत्र हि।

चतुर्णामार्यसत्यानामाकारानुपलम्भः।

श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये॥

इत्यनुपलम्भभावनादिक्रमेण श्रावकादिमार्गो बोधिसत्त्वेन ध्येय इत्युक्तमतोऽनित्यादिभिराकारैर्व्यतिरेकमुखाक्षिप्तैरशेषवस्तुपरिज्ञानार्थं पृथक् सर्वज्ञतोपादानम्। बहुवक्तव्यञ्चेदमित्यलमतिप्रसङ्गेन।

परिज्ञातत्रिसर्वज्ञतो वशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानसङ्ग्रहेण त्रिसर्वज्ञतां भावयतीति सर्वाकाराभिसम्बोधो वक्तव्यः। तत्र तावन्नित्यादिग्राहविपक्षस्य प्रतिपक्षधर्मता स्वभावानामनित्याद्यालम्बनप्रकाराणामाकारत्वेन व्यवस्थानं सामान्येन लक्षणं ज्ञेयमतो निर्वस्तुकाकारदोषो नेह विजृम्भते। ते चाकारास्त्रिसर्वज्ञताभेदात्त्रिप्रकारा एव मता इति ग्राह्यम्। तथा चोक्तम्।

वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम्।

सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः॥१॥ इति

तत्र चत्वार्यार्यसत्यान्यधिष्ठानं कृत्वा त्रिसर्वज्ञताधिकारेण यस्मिन् सत्ये यावन्तो भवन्त्याकारास्तानुपरिदीपयन् सर्वज्ञताधिकारेण तावदाह। एवमुक्त आयुष्मान् सुभूतिर्भगवन्तमित्यादि। असत्पारमितेयमिति। आकाशस्येव नित्यरूपेणासत्तामविद्यमानतामुपादाय हेतूकृत्यासदनित्याकार इत्यर्थः। असमसमतेति। सर्वधर्मानुपलब्धेरिव समतामनुत्पादतामुपादाय। दुःखाकारोऽन्याकारविसदृशत्वेनासमोऽतुल्यः स तत्त्वतः समताऽनुत्पादः। विविक्तेति। अत्यन्तेनातिशयेनात्मनः शून्यतामुपादाय शून्याकारो गुणाबाहकत्वेन विवेकः। अनवमृद्येति। सर्वधर्माणामात्मत्वेनानुपलब्धितामुपादाय सर्वतीर्थिकासाधारणत्वेन तीर्थिकाकोप्यत्वेनानात्माकारोऽनवमर्दनीयः। तदेवमसदनुत्पादविवेकानवमर्दनीयाकाराश्चत्वारो यथासङ्ख्यमनित्यादिलक्षणा दुःखसत्ये भवन्ति। अपदेति। तत्र चत्वारोऽरूपिणः स्कन्धा नाम,शरीरं रूपस्कन्धस्तषामसौ हेतुरिति कृत्वा न्यायेनानामाशरीरतामुपादाय हेत्वाकारास्तत्त्वतोऽप्रसवाधानार्थेनापदः। अस्वभावेति। अनुत्पादानिरोधस्वभावामनागतिमगतिमुपादाय समुदयाकारोऽन्यायेनाकाशम्। अवचनेति। सर्वधर्माणामविद्यमानत्वेनोद्भावनासंवृत्याऽपि शब्दाऽवाच्यत्वादविकल्प्यतामुपादाय। प्रभवाकारोऽप्रव्याहारः। अनामेति। पञ्चस्कन्धानुपलब्धितामुपादायाचैतसिकत्वेन प्रत्ययाकारोऽनाम। तदेवमपदाकाशाप्रव्याहारानामाकाराश्चत्वारो यथाक्रमं हेत्वादिलक्षणाः समुदयसत्ये भवन्ति। अगमनेति। निरोधस्वभावसर्वधर्माणां क्वचिदगमनतामुपादाय निरोधाकारोऽगमनः। असंहार्येति। आदिशान्तत्वेन विषयभावोपसंहाराभावात् सर्वधर्माग्राह्यतामुपादाय। शान्ताकारोऽसंहार्यः। अक्षयेति। धर्मधातुरूपेणाक्षयधर्मयोगतामुपादाय प्रणीताकारोऽक्षयः। अनुत्पत्तीति। एकानेकहेतुवैधुर्यात्। सर्वधर्मानभिनिर्वृत्तितामुपादाय निःसरणाकारोऽनुत्पत्तिः। तदेवमगमनासंहार्याक्षयानुत्पत्त्याकाराश्चत्वारो यथासंख्यं निरोधादिस्वभावा निरोधसत्ये भवन्ति। अकारकेति। मार्गस्य कर्तृग्राहप्रतिपक्षत्वात् कारकानुपलब्धितामुपादाय मार्गाकारोऽकारकः। अजानकेति प्रमाणबाधितत्वेन सर्वधर्माणामनात्मतामनुपलम्भात्मतामुपादाय न्यायाकारोऽजानकः। असंक्रान्तीति। धर्मधातुरूपेण च्युत्युपपत्त्योर्विनाशोत्पादयोरनुत्पत्तिमुपादाय प्रतिपत्याकारोऽसङ्क्रान्तिः। अविनयेति। पूर्वान्तापरान्तप्रत्युपपन्नाध्वानुपलब्धितामुपादाय क्लेशविनयासम्भवान्नैर्याणिकाकारोऽविनयः। तदेवमकारकाजानकासङ्क्रान्त्यविनयाकाराश्चत्वारो यथासंख्यं मार्गादिस्वभावामार्गसत्ये क्लेशावरणप्रतिपक्षेण भवन्ति। न्यायानुयायिनो जन्मनोऽसत्त्वादनुत्पादविज्ञपनतामुपादाय। स्वप्नप्रतिश्रुत्काप्रतिभासमरीचिमायाकाराः पञ्च यथाक्रमं निःस्वभावानुत्पन्नानिरुद्धादिशान्तप्रकृतिपरिनिर्वृतिलक्षणाः सामान्येन ज्ञेयावरणप्रतिपक्षभूताः। सर्वज्ञतया प्रत्येकबुद्धाः सङ्गृहीता इति। तेषां ज्ञेयावरणप्रतिपक्षात्मके सास्रवे भावनामार्गे भवन्ति। असंक्लेशेति। रागद्वेषमोहास्वभावतामुपादाय क्लेशाभावोऽसंक्लेशः। अव्यवदानेति। आश्रयस्य क्लिष्टसत्त्वस्यानुपलब्धितामुपादाय व्यवदानाभावोऽव्यवदानम्। अनुपलेपेति। आकाशस्य प्रकृतिप्रभास्वरत्वेनानुपलेपतामुपादाय क्लेशोपक्लेशलेपाभावोऽनुपलेपः। अप्रपञ्चेति। सर्वधर्ममननानामुपलम्भरूपाणां समतिक्रमतामुपादाय प्रपञ्चाभावोऽप्रपञ्चः। अमननेति। सर्वोपलम्भसमुद्घतादनिञ्जनतां निष्प्रकम्पतामुपादाय मननाभावोऽमननः अचलितेति। आसंसारं धर्मधातुस्थितितामुपादाय भ्रंशाभावोऽचलितः। तदेतेऽसंक्लेशाव्यवदानानुपलेपाप्रपञ्चामननाचलाकाराः षड् यथाक्रमं संक्लेशव्यवदानक्लेशवासनारूपादिप्रपञ्चस्वाधिगमोपलम्भपरिहाणिविकल्पानां षणां प्रतिनियतज्ञेयावरणानां प्रतिपक्षभूताः प्रत्येकबुद्धानां ज्ञेयावरणप्रतिपक्षात्मकेऽनास्रवदर्शनमार्गे भवन्ति। समुदायेन सप्तविंशतिरिति सर्वज्ञताकाराः। तथा चोक्तम्।

असदाकारमारभ्य यावन्निश्चलताकृतिः।

चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः॥२॥ इति

तदनन्तरं मार्गज्ञताकारा वक्तव्याः। तत्र संक्लेशेतरपक्षाश्रयेण समुदयमार्गसत्ये कारणम्। दुःखनिरोधसत्ये च फलमित्यर्थद्वारेण निर्दिष्टे समुदयमार्गदुःखनिरोधसत्येषु यथासंख्यमष्टौ सप्त पञ्च षोडशाकारा बोधव्याः। तत्र हेतुस्त्रिविधः। छन्दो रागो नन्दी च पौनर्भविकी तृष्णेति। छन्दप्रतिपक्षेणाह। विरागेति। सर्वधर्माणां शून्यतारूपेणावितथतां सत्यतामुपादाय। रागाभावो विरागः। कर्तुकामत्वाभावाभिसन्धिना निर्दिष्टः छन्दोऽवस्थायां रागः प्रधानमिति कृत्वा। तदभावेन छन्दस्य भावापदेशात्। रागस्य वा कार्यात्मनोऽभावेनऽविकलतद्धेतुकच्छन्दस्याभावः कथितोऽन्यथाऽविकले कारणे सति कार्यानुदयो न स्यादिति न्यायात्। रागप्रतिपक्षेणाह। असमुत्थानेति। मायोपमत्वे सर्वधर्मनिर्विकल्पतामुपादाय समुत्थानस्य छन्दस्याभावोऽसमुत्थानः। धर्मेष्वसक्तत्वाभिसन्धिना कथितः। रागावस्थायां साक्षात्प्रवृत्तिहेतुत्वेन छन्दः प्रधानमिति कृत्वा तदभावेन रागस्याभावापदेशात्। पुनर्भवनिमित्तनन्दीतृष्णाप्रतिपक्षेणाह। शान्तेति। सर्वधर्माणां नीलपीतादिनिमित्तानुपलब्धितामुपादाय तृष्णायाः प्रधानेनानुपशमस्याभावः शान्तः। समुदयास्त्रिधा रागद्वेषमोहास्तत्प्रतिपक्षेणाह। निर्दोषेति। दशबलवैशारद्यादिगुणपारमितामुपादाय दोषाभावो निर्दोषोऽरागोऽद्वेषोऽमोह इति यावत्। प्रभवः परिकल्प्यस्ततो रागादिप्रसूतेस्तत्प्रतिपक्षेणाह। निःक्लेशेति। परिकल्पस्य द्वयाद्यभिनिवेशस्यासत्तामुपादाय क्लेशहेतुप्रभवाभावो निःक्लेशः। प्रत्ययः सत्त्वाभिनिवेशः। सत्कायदृष्टे सर्वानर्थप्रत्ययत्वात्तत्प्रतिपक्षेणाह। निःसत्त्वेति। अविपर्यासार्थेन भूतकोटितामुपादाय प्रत्ययाभावो निःसत्त्वम्। तदेवं विरागाकारमारभ्य यावन्निःसत्त्वाकार इति। यथाक्रमं यो हेतुः छन्दो रागो नन्दी च। यः समुदयो रागद्वेषमोहाः। यः प्रभवः परिकल्पः। यश्च प्रत्ययः सत्त्वाभिनिवेश इति। तत्प्रतिपक्षेण त्रयस्त्रय एक एक इत्यष्टावाकाराः समुदयसत्ये भवन्ति। अप्रमाणेति। सर्वधर्मसमुत्थानस्य प्रादुर्भावस्य समुत्थानतामुपादाय विपक्षनिवृत्तिप्रतिपक्षावाहकत्वेनाप्रमाणसत्त्वावकाशदत्वान्मार्गाकारोऽप्रमाणः। यथा चाप्रमाणसत्त्वावकाशद इत्याह। अन्तद्वयाननुगमेति। सर्वधर्मानभिनिवेशतामुपादाय संसारनिर्वाणान्तद्वयस्य प्रहाणादनुगमोऽनुपलम्भः। असम्भिन्नेति। धर्मधातुरूपेण सर्वधर्माणामसम्भेदनतामनानारूपतामुपादाय विपक्षनिवृत्त्या न्यायाकारोऽसम्भिन्नः। यथा च न्याय इत्याह। अपरामृष्टेति। सर्वश्रावकप्रत्येकबुद्धभूम्यस्पृहनतामुपादाय। तद्विकल्पासंमृष्टोऽपरामृष्टः। अविकल्पेति। विकल्पसमतामुपादाय प्रतिपत्त्याकारोऽविकल्पः। यथा च प्रतिपत्तिरित्याह। अप्रमेयेति। अप्रमाणधर्मतामुपादाय लब्धपरित्यागेऽलब्धलाभे च हिनप्रणीतविकल्पाभावं पुरोधाय ज्ञेयावधिरहितत्वेनाप्रमेयः। असङ्गेति। तत्र तत्राधिगमे गगनवत् सर्वधर्मासङ्गतामुपादाय नैर्याणिकाकारोऽसङ्गः। तदेवमप्रमाणान्तद्वयाननुगमासम्भिन्नापरामृष्टाविकल्पाप्रमेयासङ्गाकारा यथाक्रमं यः सर्वसत्त्वावकाशदो मार्गो यथा च सर्वसत्त्वावकाशदः,यो न्यायो यथा च न्यायः,या प्रतिपत्तिर्यथा च प्रतिपत्तिः,यच्च निर्याणमिति,द्वौ द्वौ द्वावेक इति सप्ताकारा मार्गसत्ये भवन्ति। अनित्येति। सर्वधर्माणामसत्त्वेन हेतुप्रत्ययैरसंस्कृततामुपादाय नित्यमसदित्यसदर्थोऽनित्यार्थः। दुःखेति। आकाशस्य सर्वधर्मेषु समतामुपादाय सर्ववस्तुव्यापि संस्कारदुःखम्। शून्येति। अधिष्ठात्रात्मसम्बन्धगन्धानुबन्धेनापि सर्वधर्मानुपलब्धितामुपादाय परपरिकल्पितात्मादिरहितत्वं शून्यम्। अनात्मेति। स्वयमनात्मत्वेन सर्वधर्मानभिनिवेशतामुपादाय पुद्गलाद्यस्वभावोऽनात्मा। अलक्षणेति। सर्वधर्मानभिनिर्वृत्तितामुपादाय निःस्वभावोऽलक्षणम्। तदेवमनित्यदुःखशून्यानात्माकाराः पञ्चमालक्षणाकारस्वभावा इति पञ्चाकारा दुःखसत्ये भवन्ति। सर्वशून्यतेति। पूर्वापरभावलक्षणस्यान्तस्य मध्यस्य च परितोऽन्तद्वयेन युक्तत्वात्पर्यन्तस्याविद्यमानत्वेनानन्तापर्यन्ततामुपादाय निरोधसत्याकाराः षोडशशून्यताः सर्वशून्यताः। तत्राध्यात्मबहिर्धोभयवस्तूनां निरोधेनाध्यात्मबहिर्धोभयशून्यताकारास्त्रयो निरोधाकारस्वभावाः शून्यतायां भाजनलोके परमार्थे संस्कृतेऽसंस्कृते शाश्वतोच्छेदान्तेऽनवराग्रसंसारेऽधिगतधर्मानवकारेऽभिनिवेशस्य प्रज्ञप्त्यात्मकस्यऽष्टप्रकारस्य निरोधेन यथाक्रमं शून्यताशून्यता। महाशून्यता। परमार्थशून्यता। संस्कृतशून्यता। असंस्कृतशून्यता। अत्यन्तशून्यता। अनवराग्रशून्यता। अनवकारशून्यता चेत्यष्टौ शून्यताकाराः शान्ताकारस्वभावाः। प्रणीताकारः परपरिकल्पितकारकनिरोधेन प्रकृतिशून्यताकारः। विषयभ्रान्त्यात्मिकानां निरोधेन सर्वधर्मलक्षणानुपलम्भश्रून्यताकारास्त्रयो निःसरणाकारस्वभावाः। स्वभावनिरोधेनाभावस्वभावशून्यताकार एव निःसरणाकारात्मक इति निरोधाकारं शान्ताकारं प्रणीताकारं निःसरणाकारञ्चाधिकृत्य यश्चाध्यात्मिकादेर्वस्तुनो निरोधः। यथा च शान्तोऽष्टविधाभिनिवेशोपरमात्। यथा च प्रणीतः प्रकृत्या। यथा च निःसरणं त्रिविधभ्रान्तिनिरोधेन। यच्च निःसरणमभावस्वभावतेति त्रयोऽष्टावेकस्त्रय एक इति यथाक्रमं षोडशाकारा निरोधसत्ये भवन्ति। समुदायेन षट्त्रिंशदिति मार्गज्ञताकाराः। तथा चोक्तम्।

हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम्।

अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः॥३॥ इति

तदनन्तरं सर्वाकारज्ञताकारा वक्तव्याः तत्र च सर्वार्यपुद्गलाधिकारेण त्रिविधसर्वज्ञताकारसङ्ग्रहो भवति अतः सर्वज्ञतामार्गभेदेनाह। स्मृत्युपस्थानादिबोधिपक्षधर्मेति। तेषामेव बोधिपक्षधर्माणामनुपलब्धितामुपादाय स्मृत्युपस्थानादय एव पारमितेत्यर्थः। एतदुक्तम्। तत्र सर्वज्ञतायामादौ चतुःसत्यावताराय स्वसामान्यलक्षणपरिक्षितकायवेदनाचित्तधर्मस्मृत्युपस्थानाकाराश्चत्वारो वस्तुपरीक्षामार्गः,तेन कायादिचतुर्विधवस्तुपरीक्षणात्। ततोऽवतीर्णस्य वीर्यमिति सर्वथोत्पन्नानुत्पन्नस्याकुशलस्य कुशलस्य च यथाक्रमं प्रहाणानुत्पादनार्थं भूयोभावोत्पादनार्थं च हेतुभूतवीर्यात्मकाः सम्यक् प्रहाणाकाराश्चत्वारो व्यवसायिकमार्गः,तथावरणप्रहाणादिमुखेन वीर्यारम्भात्। वीर्यवतश्चित्तकर्मण्यतापादानमिति छन्दवीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतर्द्धिपादाकाराश्चत्वारः समाधिपरिकर्ममार्गः,तथा छन्दादिमुखेन कर्मण्यतापादनात्। कृतचित्तपरिकर्मणोऽनन्तरमूष्ममूर्धप्रयोग इति तत्स्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाकाराः पञ्च सम्यग्भिसमयप्रायोगिकमार्गः,श्रद्धेन्द्रियादिनार्यमार्गसमुदागमायाधिपतिभूतोष्ममूर्द्धप्रयोगात्। अधिगतोष्मादेः क्षान्त्यग्रधर्मप्रयोग इति तत्स्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलाकाराः पञ्च सर्वथाभिसमयसंश्लेषमार्गः,श्रद्धाबलादिनाऽनन्तरं सत्यप्रतिवेधार्थमाश्रद्ध्यादिविपक्षानभिभूतक्षान्त्याग्रधर्मप्रयोगात्। विदितोष्मादिचतुष्कस्य सत्यदर्शनमार्ग इति स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षाकाराः सप्तबोध्यङ्गान्यभिसमयमार्गः,तेनादितः प्रत्यात्मवेद्यतत्त्वाभिसम्बोधात्। परिज्ञातसत्यदर्शनस्य भावनामार्ग इति सम्यग्दृष्टिसंकल्पवाक्कर्मान्ताजीवव्यायामस्मृतिसमाध्यार्याष्टाङ्गमार्गाकारा विशुद्धनैर्याणिकमार्गः,दर्शनमार्गादूर्ध्वमनेन भावनाप्रहातव्यक्लेशविशुद्धये निर्याणात्। अत एवैषां बोधिपक्षधर्माणामेषानुपूर्वी। तदेवं वस्तुपरीक्षामार्गादि सप्तविधं मार्गमधिकृत्य सर्वज्ञतामार्गाधिष्ठानाः सप्तत्रिंशदाकारा भवन्ति। तदनन्तरं मार्गज्ञतामार्गभेदानाह। शून्यानिमित्ताप्रणिहितपारमितेति। शून्यानात्माकारस्वभावं प्रथमं शून्यताविमोक्षमुखं,दृष्टिकृतप्रतिपक्षः। यच्चानिमित्तं निरोधो येन चानिमित्तं विकल्पापोढेन मार्गेणेति कृत्वा निरोधमार्गसत्याकारस्वभावं द्वितीयमानिमित्तविमोक्षमुखं दृष्टिनिमित्तविकल्पप्रतिपक्षः। यत्तूक्तमानिमित्तः शमाकारैरिति तद्वस्तुनिमित्तानुविद्धं श्रावकमार्गमधिकृत्येति न तेनास्य विरोधः। अनित्यदुःख समुदयसत्याकारस्वभावं तृतीयमप्रणिहितं विमोक्षमुखं त्रैधातुकप्रणिधानप्रतिपक्ष इति। एवं त्रिविमोक्षमुखाकारास्त्रयः प्रतिपक्षमार्गः। अष्टविमोक्षपारमितेयमिति। अविभावितविभावितरूपसंज्ञत्वाद्यथाक्रममध्यात्मं रूप्यरूपी प्रत्यात्मं ध्यानमारूप्यसमापत्तिं वा निःश्रित्य बहिर्धा रूपाणि सुवर्णदुर्वर्णनि पश्यतीत्येतौ निर्माणावरणप्रतिपक्षेण द्वौ विमोक्षौ। शुभाशुभरूपनिर्माणे च यथासंख्यमाभोगः प्रातिकूल्यञ्च संक्लेशस्तत्प्रतिपक्षेण शुभं विमोक्षमुखं कायेन साक्षात्कृत्वोपसम्पद्य विहरति। प्रत्यात्मं शुभाशुभेषु रूपेष्वन्योन्यापेक्षासंज्ञामन्योन्यानुगमसंज्ञां च निश्रित्यान्योन्यैकरससञ्ज्ञालाभेन यथेष्टं रूपाधिमोक्षविभूत्वलाभादित्येको विमोक्ष इति विमोक्षाकारास्त्रयो निर्माणमार्गः। मोक्षानुकूलविहारमार्गस्वभावाश्चतुरारुप्यसमापत्याकाराः शान्तविहारमार्गस्वभावः सञ्ज्ञावेदितनिरोधाकार एक इति पञ्चाकारा दृष्टधर्मसुखविहारमार्गः। नवानुपूर्वविहारपारमितेयमिति। चतुर्ध्यानारूप्यनिरोधसमापत्त्याकारा नवलोकोत्तरमार्गः। चतुःसत्यापारमितेयमिति। चतुःसत्यसङ्गृहीताः क्लेशविसंयोगलक्षणानन्तर्यमार्गाकाराश्चत्वारः प्रहाणमार्गः। दशपारमितेयमिति। दानादिपारमिताकारा दशबुद्धत्वमार्गः। तदेवं प्रतिपक्षमार्गादिषड्विधमार्गमधिकृत्य मार्गज्ञता मार्गाधिष्ठानाश्चतुस्त्रिंशदाकारा भवन्ति। तदनन्तरं सर्वाकारज्ञताकारा वक्तव्याः। तत्र च मार्गो निरतिशयत्वादेक एव केवलं तु बलवैशारद्याद्याकारभेदेनास्य विशेषमार्गस्यासाधारणभेदो वक्तव्य इत्याह। बलपारमितेयमिति। स्थानास्थानज्ञानबलं,कर्मविपाकज्ञानबलं,नानाधिमुक्तिज्ञानबलं,अनेकलोकधातुज्ञानबलं,इन्द्रियपरापरज्ञानबलं,सर्वत्रगामिनीप्रतिपज्ज्ञानबलं,संक्लेशव्यवदानज्ञानबलं,पूर्वनिवासानुस्मृतिज्ञानबलं,च्युत्युपपत्तिज्ञानबलं,आश्रवक्षयज्ञानबलमिति निर्जितविपक्षत्वेनानवमृद्यतामुपादाय बलाकारा दश। वैशारद्यपारमितेयमिति। बुद्धोऽहमित्यात्मप्रतिज्ञाने रागादीनामन्तरायत्वाख्याने सर्वज्ञतादिमार्गस्य निर्याणत्वप्रकाशने क्षीणाश्रवत्वेनात्मनोऽभ्युपगमे च पर्यनुयोक्तुरभावेनानवलीनचित्ततामुपादाय वैशारद्याकाराश्चत्वारः। प्रतिसंवित्पारमितेयमिति। पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदे च यथाक्रममधिगमास्वादनज्ञेयावरणप्रतिघाताभावेन सर्वज्ञानासङ्गाप्रतिघातितामुपादाय धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदाकाराश्चत्वारः। सर्वबुद्धधर्मावेणिकपारमितेयमिति। नास्ति स्खलितं

रचितं मुषितस्मृतिरसमाहितं चित्तं नानार्थसञ्ज्ञाऽप्रतिसंख्यायोपेक्षा चेत्येवमाकाराः षट्। ज्ञेयावरणविशुद्धिमारभ्य नास्ति छन्दतो वीर्यतः स्मृतितः समाधेः प्रज्ञाया विमुक्तेश्च सकाशात्परिहाणीरित्येवमाकाराः षट्। कायवाङ्मनस्कर्मणां ज्ञानपूर्वङ्गमानुपरिवर्तनाकारास्त्रयः। अतीतानागतप्रत्युत्पन्नेष्वसङ्गाप्रतिहतज्ञानाकारास्त्रय इति श्रावकाद्यसाधारणत्वेन गणनासमतिक्रमणतामुपादायाष्टादशावेणिकबुद्धधर्माकाराः। तथागततथतेति। सर्वस्य धर्मस्य बुद्धैर्भगवद्भिर्भाषितस्य लक्षणार्थवैकृत्यादवितथतामुपादाय सर्वबुद्धभाषिततथताकार एकः। स्वयम्भूपारमितेयमिति। सर्वज्ञतया प्रत्येकबुद्धाः सङ्गृहीता इति। तेषां ज्ञेयावरणप्रतिपक्षात्मके सास्रवे भावनामार्गे भवन्ति। असंक्लेशेति। रागद्वेषमोहास्वभावतामुपादाय क्लेशाभावोऽसंक्लेशः। अव्यवदानेति। आश्रयस्य क्लिष्टसत्त्वस्यानुपलब्धितामुपादाय व्यवदानाभावोऽव्यवदानम्। अनुपलेपेति। आकाशस्य प्रकृतिप्रभास्वरत्वेनानुपलेपतामुपादाय क्लेशोपक्लेशलेपाभावोऽनुपलेपः। अप्रपञ्चेति। सर्वधर्ममननानामुपलम्भरूपाणां समतिक्रमतामुपादाय प्रपञ्चाभावोऽप्रपञ्चः। अमननेति। सर्वोपलम्भसमुद्घतादनिञ्जनतां निष्प्रकम्पतामुपादाय मननाभावोऽमननः अचलितेति। आसंसारं धर्मधातुस्थितितामुपादाय भ्रंशाभावोऽचलितः। तदेतेऽसंक्लेशाव्यवदानानुपलेपाप्रपञ्चामननाचलाकाराः षड् यथाक्रमं संक्लेशव्यवदानक्लेशवासनारूपादिप्रपञ्चस्वाधिगमोपलम्भपरिहाणिविकल्पानां षणां प्रतिनियतज्ञेयावरणानां प्रतिपक्षभूताः प्रत्येकबुद्धानां ज्ञेयावरणप्रतिपक्षात्मकेऽनास्रवदर्शनमार्गे भवन्ति। समुदायेन सप्तविंशतिरिति सर्वज्ञताकाराः। तथा चोक्तम्।

रचितं मुषितस्मृतिरसमाहितं चित्तं नानार्थसञ्ज्ञाऽप्रतिसंख्यायोपेक्षा चेत्येवमाकाराः षट्। ज्ञेयावरणविशुद्धिमारभ्य नास्ति छन्दतो वीर्यतः स्मृतितः समाधेः प्रज्ञाया विमुक्तेश्च सकाशात्परिहाणीरित्येवमाकाराः षट्। कायवाङ्मनस्कर्मणां ज्ञानपूर्वङ्गमानुपरिवर्तनाकारास्त्रयः। अतीतानागतप्रत्युत्पन्नेष्वसङ्गाप्रतिहतज्ञानाकारास्त्रय इति श्रावकाद्यसाधारणत्वेन गणनासमतिक्रमणतामुपादायाष्टादशावेणिकबुद्धधर्माकाराः। तथागततथतेति। सर्वस्य धर्मस्य बुद्धैर्भगवद्भिर्भाषितस्य लक्षणार्थवैकृत्यादवितथतामुपादाय सर्वबुद्धभाषिततथताकार एकः। स्वयम्भूपारमितेयमिति। सर्वधर्मास्वभावतामुपादाय तदधिगमस्यापरप्रत्ययत्वात्। सर्वधर्मवशवर्तनस्वयम्भ्वाकार एकः। सर्वज्ञज्ञानपारमितेयमिति। सर्वधर्मस्वभावसर्वाकारपरिज्ञानतामुपादाय सर्वाकाराभिसम्बोधिबुद्धत्वाकार एकः। तदेवं कृत्वा यथा बलादिभिराकाराणां प्रभेदो यश्चैषां स्वभावस्तथता। यस्य च ते सर्वधर्मवशवर्तिनः स्वयम्भुवो यदर्थञ्च सर्वधर्मसर्वाकाराभिसम्बोधायेति यथाक्रमं दश चत्वारश्चत्वारोऽष्टादश एक एक एकश्चेत्येकोनचत्वारिंशदाकाराः सर्वाकारज्ञतामार्गाधिष्ठाना भवन्ति। यथोक्ता एव चाकाराः श्रावकादिभेदेन सर्वाकारज्ञतायां मार्गसत्यभेदादवगन्तव्याः। तथा चोक्तम्।

स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः।

शिष्याणां बोधिसत्त्वानां बुद्धानाञ्च यथाक्रमम्॥४॥

सप्तत्रिंशच्चतुस्त्रिंशत्रिंशन्नव च ते मताः।

त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः॥५॥इति

तत्रानास्रवाः सास्रवाश्च सर्वज्ञताकारा यथाक्रमं श्रावकबोधिसत्त्वभेदेन। मार्गज्ञताकाराः सास्रवा एव बोधिसत्त्वानामत्यन्तक्लेशाप्रहाणात्। अनास्रवा एव सर्वाकारज्ञताकाराः सवासनक्लेशज्ञेयावरणप्रहाणेन सर्वधर्मज्ञानित्वात् सम्यक्सम्बुद्धस्येत्येकत्र गण्यमानं त्रिसप्तत्युत्तरमाकारशतमित्याकाराः। यदुक्तं नामतः षोडशेभ्योऽन्याकारा इति तत्क्लेशावरणमात्रप्रतिपक्षाकाराभिसन्धिनेति न तेनास्य विरोधः॥

अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां स्तुतिपरिवर्तो नाम नवमः॥ 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project