Digital Sanskrit Buddhist Canon

अष्टमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Aṣṭamaparivartaḥ


 



अधिगमानधिगमहेतुं प्राप्तिपरिहारविषयमुक्तैवं प्रकृतस्यात्यन्तविशुद्धिलक्षणभावनामार्गस्य सामान्येन विशुद्धिं प्रतिपादयितुं गाम्भीर्य प्रतिपादयन्नाह। दुरधिमोचेत्यादि। दुःखेनाधिमोच्यत इति दुरधिमोचा। दुरधिमोक्षेति यावत्। ननु पृथग्जनार्यभेदेन बन्धमोक्षात् कथमबद्धममुक्तम् रूपमिति। तत्कस्य हेतोरित्याशङ्क्याह। रूपास्वभावत्वादिति। त्रैपथिकरूपस्य न्यायतो निःस्वभावत्वात्। सामान्येन निर्दिश्यातीतादिभेदेनाह। रूपस्येत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। पूर्वान्तास्वभावमिति। पूर्वान्तो हेतुस्तत्त्वतोऽनुत्पन्नत्वेनास्वभावो यस्य वर्तमानरूपस्येति तथोक्तम्। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। अपरान्तास्वभावमिति। अपरान्तं कार्यं पूर्ववदस्वभावमस्येति विग्रहः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। प्रत्युत्पन्नास्वभावमिति। प्रत्युत्पन्नलक्षणविरहितम्। रूपादिस्वभावशून्यत्वेन पृथग्जनागोचरत्वाद्दुरधिमोचा। लौकिकवीतरागाविषयत्वात् परमदुरधिमोचा। ननु रूपादिप्रज्ञापारमितास्वभावयोः संवृतिपरमार्थभेदेन विवेकप्रतिपत्तेः कथं परमदुरधिमोचेति। तत्कस्य हेतोरित्याशङ्क्याह। या रूपविशुद्धिरित्यादि। नानात्वलक्षणभेदाभावादभिन्नम्। प्रभेदलक्षणच्छेदाभावादच्छिन्नम्। स्वसामान्यलक्षणनानात्वविरहाद्वा यथाक्रममुक्तम्। इति हीत्यादि।



 



संवृतेस्तथता यैव परमार्थस्यापि सा मता।



अभेदात् सोऽपि हि न्यायो यथादर्शनमास्थितः॥



 



इति न्यायाद् या रूपादेरात्मात्मीयाद्यभिनिवेशविगमान्मायोपमताविशुद्धिः सैव सर्वविपक्षरहितत्वेन स्रोतआपत्त्यादिफलस्य प्रज्ञापारमिताया विशुद्धिस्तथा फलस्य या विशुद्धिः सा रूपादेर्विशुद्धिरिति अद्वयाद्वैधीकारादभिन्नमच्छिन्नम्। तस्मात् फलविशुद्धितो रूपादिविशुद्धिस्तथा रूपादिविशुद्धितः फलविशुद्धिः कथितेति यावत्। तथा चोक्तम्।



 



फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः।



अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता॥२८॥



 



इति सामान्येन शुद्धिमेवमभिधाय विशेषेणाह। पुनरपरमित्यादि। सर्वज्ञताविशुद्धिरिति। त्रिसर्वज्ञताविशुद्धिरित्यर्थः। ततश्चेदमुक्तम्। भवति॥"श्रावकाणां क्लेशावरणप्रहाणात्,प्रत्येकबुद्धानां तु क्लेशावरणस्य ज्ञेयावरणैकदेशग्राह्यविकल्पस्य च प्रहाणात् सर्वज्ञताविशुद्धिः। यानत्रयमार्गावरणप्रहाणाद्बोधिसत्त्वानां मार्गज्ञताविशुद्धिः। सवासनक्लेशज्ञेयावरणप्रहाणाद्धर्मधातूद्भवत्वादात्यन्तिकी तथागतानां सर्वाकारज्ञताविशुद्धिरि"ति। तथा चोक्तम्।



 



क्लेशज्ञेयत्रिमार्गस्य शिष्यखङ्गजिनौरसाम्।



हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा॥२९॥



 



इति मार्गज्ञताधिकारे विशुद्धिकथनप्रसङ्गादात्यन्तिकी चेतरा च तथागतानां श्रावकाणाञ्च यथाक्रमं विशुद्धिः कथिता। सा कथमित्याह। अथ खल्वायुष्मानित्यादि। गम्भीरावभासकर्यालोकोऽप्रतिसन्धिरसंक्लेशोऽप्राप्तिरनभिसमयोऽनभिनिर्वृतिरत्यन्तमुपपत्तिरित्यार्यशारिपुत्रोक्तानि नवपदार्थानि। यथाक्रमं मृदुमृद्वादिनवप्रकारभावनामार्गस्वभावत्वेन वाच्यानि। प्रतिपदञ्च विशुद्धत्वादिति भगवतोक्तवचनमधिमात्राधिमात्रादिनवप्रकारविपक्षप्रहाणतो योज्यम्। कामधातुरूपधात्वारूप्यधातुष्विति वचनात्कामधात्वादिनवभूमिको भावनामार्गो ग्राह्यः। यत्तूक्तम्।



 



कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिता।



 



इति तदनुपायकुशलान् श्रावकानधिकृत्येति न तेनास्य विरोध इत्येके। अनागम्यस्थानमारभ्य यावदाकिञ्चिन्यायतनपर्यन्तो नवभूमिको भावनामार्ग इत्यपरे। कामधात्वादिवचनं तु मातुस्तत्र परमार्थतोऽस्थानप्रतिपादनपरम्। न तु नवभूमिप्रकाशकमिति। तदयं समासार्थः। यथोक्तासु नवभूमिषु प्रत्येकं यथासंख्यञ्चाधिमात्राधिमात्रादिनवप्रकारविपक्षस्य प्रतिपक्षभावेन मृदुमृद्वादिमार्गो यथाक्रमं नवप्रकारः सर्वथाऽन्यथा च विशुद्धिहेतुत्वादात्यन्तिकी चेतरा च विशुद्धिरिति। तथा चोक्तम्। 



 



मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु।



अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः॥३०॥इति।



 



कथमनुपचरिताऽत्यन्तिकी विशुद्धिरित्याह। न जानातीत्यादि। स्वरूपं न जानाति। प्रभेदं न संजानीते। विशुद्धत्वादिति। त्रैधातुकप्रतिपक्षत्वात्। किमिति विषयगतोऽयं प्रश्नो न तु क्षेपे। तदेवाह। रूपमित्यादि। ननु सदावस्थितं रूपं किमिति न प्रतिपद्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। विशुद्धत्वादिति। तत्त्वतो निःस्वभावत्वात्। ननु चाधिमात्राधिमात्रादिः प्रतिपक्षो मृदुमृद्वादिभिर्विपक्षैरिति भवितव्यम्। तत्कथमन्यथा निर्दिष्टमित्याशङ्कायामाह। प्रज्ञापारमिता भगवन् सर्वज्ञताया इत्यादि। व्यवस्थितधर्मतत्त्वापनयनाभावान्नापकारं करोति। अपूर्वाकरणान्नोपकारं करोतीति पूर्वेण सम्बन्धः। प्रतिपक्षं न परिगृह्णाति। न विपक्षं परित्यजति। न जानातीत्यादिप्रकरणस्यायं समुदायार्थः। ननु चाधिमात्रादिमात्रादिः प्रतिपक्षो मृदुमृद्वादिविपक्ष इति भवितव्यम्। तत्कथमन्यथा निर्देश इति चोद्यस्य परमार्थेन कस्यचिन्नोपकारादिकमिति परिहारतस्तथा संवृत्या सूक्ष्ममलापकर्षणे रजकमहायत्नोदाहरणेन मृदुमृद्वादिक्रमप्रतिपक्षोत्पादेन च सामर्थ्याक्षिप्तेन समाधानतस्तस्य यथानिर्दिष्टभावनामार्गस्यान्त्यक्षणस्य त्रैधातुकाकारज्ञानज्ञेययोरनुपलम्भाद्या समता सर्वधर्ममायोपमताप्रतिपत्तिः सैव समस्तप्रतिपक्षरूपत्वमिति कृत्वा। आत्यन्तिको विशुद्धिर्मुख्या भगवतो बुद्धस्येष्यत इति। तथा चोक्तम्।



 



त्रिधातुप्रतिपक्षत्वं समता मानमेययोः।



मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः॥३१॥इति



 



भावनामार्गपरिसमाप्त्यनन्तरं तदधिकारे प्राग्यदुक्तं या रूपविशुद्धिर्या फलविशुद्धिर्या सर्वज्ञताविशुद्धिरिति तन्निर्दिशन्नाह। आत्मविशुद्धितो भगवन् रूपविशुद्धिरित्यादि। यथात्मनः परपरिकल्पितस्य परमार्थतोऽनुत्पत्तिविशुद्धिस्तद्वद्रूपादिसर्वज्ञतान्तानां विशुद्धिर्वेदितव्येति हारकत्रयस्यार्थः। केवलं संवृत्या रूपादीनामात्मनश्चार्थक्रियासु यथासंख्यं योग्यायोग्यत्वेन तथ्यातथ्यतया भेदो न तु परमार्थत इत्यभिप्रायेण सर्वत्र भगवतोक्तमत्यन्तविशुद्धत्वादिति। यथोक्तभावनामार्गे तत्त्वतो नाधिगम इत्याह। आत्मविशुद्धितो भगवन्न प्राप्तिर्नाभिसमय इति। तत्र न प्राप्तिरग्रजप्राप्त्या योग्यतालक्षणया। नाभिसमयो विमुक्तिमार्गेण। तत्त्वेनैवमित्याह। विशुद्धत्वादिति। शून्यत्वादित्यर्थः। संवृत्या तु सर्वमेवास्तीत्याह। आत्मपर्यन्ततयेत्यादि। अविचारैकरम्यपूर्वपूर्वकारणस्यात्मनः स्वभावस्यापर्यन्ततया रूपादीनामपर्यन्तता गम्यत इति यावत्। विशुद्धत्वान्न्यायानुयायिन्योत्पत्त्या रहितत्वात्। मार्गज्ञतामुपसंहरन्नाह। य एवमस्येत्यादि। एवमनन्तरोक्तध्यामीकरणतादिक्रमेण योऽयमवबोधोऽधिगमः सेयं प्रज्ञापारमिता मार्गज्ञता बोधिसत्त्वानां निर्दोषत्वेनावगन्तव्या॥



 



सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यगिति सर्वज्ञतां वक्तुं संसारनिर्वाणाप्रतिष्ठानमाह। सा खलु पुनरित्यादिना। त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधाद्या श्रावकाद्यगोचरत्वेन विप्रकृता विप्रकृष्टरूपा बुद्धबोधिसत्त्वानां प्रज्ञापारमिता मता। सा खलु पुनर्नापरे तीरे संसारे प्रज्ञयाऽदीनवदर्शनात्। न परे तीरे निर्वाणे कृपया सत्त्वार्थकरणान्नापि संसारनिर्वाणमुभयमन्तरेण वस्तुनोऽसत्त्वान्मध्येऽपि व्यवस्थिता। अत्यन्तविशुद्धत्वादिति। प्रज्ञाकरुणयोः सम्यक् प्रतिवेधेन संसारनिर्वाणोभयोपलम्भवियोगात्। तथा चोक्तम्।



 



नापरे न परे तीरे नान्तराले तयोः स्थिता।



अध्वनां समताज्ञानात् प्रज्ञापारमिता मता॥१॥ इति



 



सर्वज्ञताधिकाराद्व्यतिरेकनिर्देशेन श्रावकादीनामध्वसमताज्ञानाभावात् सम्यक् प्रज्ञापारमिता दूरीभूतेति। स्वाधिगममात्रात्मिका तु प्रज्ञापारमिता कृपाप्रज्ञावैकल्यान्निर्वाणे संसारे चावस्थिता वस्त्ववस्तूपलम्भतयेति ज्ञेयम्। एवमुत्तरत्रापि क्वचिदन्वयमुखेन क्वचिद्व्यतिरेकमुखेन क्वचिदुभयथापि निर्देश इति प्रतिपत्तव्यम्।



 



ननु-



यः प्रतीत्य समुत्पादः शून्यता सैव ते मता।



 



इति न्यायादध्वसमताज्ञानं पदार्थावबोध एव,स च सर्वेषामेव समस्तीति कथं श्रावकादीनां सम्यक् प्रज्ञापारमितादूरीभाव इत्याह। एवमपीत्यादि। अपिशब्दान्न केवलमन्येन भावाद्याकारेण। किन्तर्ह्येवमपि न क्वचित् स्थितेत्यप्यभिनिवेशनिमित्तयोगेनेत्यर्थः। रिञ्चिष्यति दूरीकरिष्यतीति। तदात्वे चायत्याञ्चेति यथाक्रमं वाच्यम्। किमत्र कारणं निमित्तप्रतिपत्त्या मातुर्दूरीभाव इति। तत्कस्य हेतोरित्याशङ्क्याह। नामतोपीत्यादि। तत्र प्रज्ञापारमितेत्यादिव्यपदेशमात्रं नाम कल्पितादिलक्षणवस्तुनिमित्तम्। सक्तिस्थानविपर्यास सङ्गः। एतदुक्तम्। "मायाकारनिर्मितवस्तुनः प्रतिभासेऽविदिततत्स्वरूपस्य भावाभिनिवेशितया नैःस्वाभाव्याप्रतिभास इव कल्याणमित्राद्युपायकौशलवैकल्यान्निमित्तयोगेन प्रतिपत्तौ विपर्यासलक्षणोपलम्भसङ्गसम्भवात् तत्समतापरिज्ञानमविज्ञातभावरूपाणां श्रावकादीनां नास्तीत्यतस्तेषां दूरीभावो जिनजनन्या "इति। बोधिसत्त्वादीनां तूत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतस्तेषां सम्यगासन्नीभावोऽस्या मातुरिति सामर्थ्यात् कथितमित्याह। आश्चर्यं भगवन्नित्यादि। यावदिति वचनात् सुपरिशुद्धेत्यादिपरिग्रहः। श्रावकप्रत्येकबुद्धाधिगमविपर्ययेण कथनात् स्वाख्याता। परिपूर्णमहायानाधिगमतः सुनिर्दिष्टा। समस्तगुणप्रकर्षनिष्ठाधिगमतः सुपरिनिष्ठिता। इमेऽपि सङ्गा इति नामाद्याः। श्रावकबोधिसत्त्वभेदादेतदेव प्रतिपत्तव्यम्। तथा चोक्तम्।



 



अनुपायेन दूरं सा सनिमित्तोपलम्भतः।



उपायकौशलेनास्याः सम्यगासन्नतोदिता॥२॥ इति



 



श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं प्रतिपक्षोऽपि सन् वस्तूपलम्भविपर्यासप्रवृत्तत्वेन बोधिसत्त्वानां त्याज्यत्वाद्विपक्ष इति प्रतिपादयितुमाह। कतमे त इत्यादि। शून्यमिति। तीर्थिकपरिकल्पितात्मनो विवेक इति। सञ्जानीत इति वक्ष्यमाणेन सम्बन्धः। इयन्तमिति। अप्रमेयादिसंख्यावच्छिन्नम्। प्रथमेन चित्तोत्पादेनेति। दानादिबोधिपक्षोपलक्षणमत्र चित्तोत्पादः। कथञ्चित्तोत्पादः सङ्ग इत्याह। कतमेनेत्यादि। विपर्यासप्रवृत्तत्वेनाह। स चेदित्यादि। इदं तत् प्रथमं बोधिचित्तमिति। एवमभिनिवेशयोगेन यथा तद्बोधिचित्तं सञ्जानीते। तथेदं तत् प्रथमं बोधिचित्तं परिणामयामीत्यभिनिवेशयोगेन यदा च परिणामयति तदानेन पर्यायेण सङ्गतिरिति वाक्यार्थः। कस्मादेवं विपर्यास इत्याह। न च चित्तप्रकृतिरित्यादि। परिणामयितुमिति। यथोक्तद्वादशप्रकारभेदभिन्नपरिणामनामनस्कारेण चित्तस्य प्रकृतिरनुत्पादता न शक्या परिणामयितुं तस्योपलक्षणत्वादेकानेकवस्तुरूपतया सञ्ज्ञातुमपि न शक्येत्यवगन्तव्यम्। सञ्जानीते परिणामयतीति पदद्वयस्य प्रकृतत्वात्। एतदुक्तम्। "रूपादिस्कन्धानां शून्यत्वे त्रैयध्विकानाञ्च सर्वधर्माणां सास्रवानास्रवोभयस्थानीयानामतीतादिस्वभावत्वे दानादिबोधिपक्षाणामनुष्ठाने च तात्त्विकोपलम्भसञ्ज्ञाविपर्यासप्रवृत्तत्वेन यस्माद्विपक्षस्तस्मादेषां प्रकृतिस्तथता सञ्ज्ञातुमशक्ये"ति। तथा चोक्तम्।



 



रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च।



दानादौ बोधिपक्षेषु चर्यासञ्ज्ञा विपक्षता॥३॥ इति



 



यथोक्तार्थविपर्ययेण बोधिसत्त्वानां प्रतिपक्षमाह। तस्मात्तर्हीत्यादिना। यतो विपक्षस्त्याज्यस्तस्माद्भूतानुगमेन देयदायकप्रतिग्राहकाद्यनुपलम्भयोगेन दानादौ परेषां सन्दर्शनादिकं कार्यमित्यर्थः। एवमात्मानञ्च न क्षिणोतीति। तथैव भूतानुगमयोगेन दानादौ स्वयमवस्थानादात्मानमुपलम्भविपर्यासविशेषेण न विनाशयति। इमाश्चेति रूपाद्यालम्बनाः पूर्वमुक्ताः। धर्मताऽविरुद्धस्थूलतरतमसङ्गकथनात् साधु साध्विति साधुकारं दत्वा सूक्ष्मतरसङ्गार्थमाह। तेन हि सुभूत इति। निमित्ततो मनसिकरोतीति रूपकायाद्यालम्बनेनाभिमुखीकरणात्। कथं पुनरेवं सङ्गः कथित इत्याह। यावन्ति खलु पुनरित्यादि। तदयं प्रकरणार्थः। त्रिमण्डलविशुद्ध्या दानादावात्माद्यनवबोधेन स्वपरयोर्नियोजनं सम्यक् प्रवृत्तत्वात् सर्वसक्तिनिचयस्थानप्रतिषेधेन चोपादेयत्वात् सर्वथा प्रतिपक्षः। तथागतादिषु नमस्कारादिः पुण्यसम्भारहेतुत्वेन प्रतिपक्षोऽपि सन् सूक्ष्मसक्तिरूपतया न सर्वथा प्रतिपक्ष इति। तथा चोक्तम्।



 



दानादिष्वनहङ्कारः परेषां तन्नियोजनम्।



सङ्गकोटी निषेधोऽयं सूक्ष्मः सङ्गो जिनादिषु॥४॥इति



 



कथं पुनः सूक्ष्मसक्तिर्विपक्ष इति। तत्कस्य हेतोरित्याशङ्क्याह। निमित्ततो हि सुभूते सङ्ग इति। तदेव कथयन्नाह। इति हि स इत्यादि। इदमेव तत्त्वमिति निश्चयग्रहणान्ननिमित्तीकर्तुम्। पुनः पुनरालम्बनान्नारम्बनीकर्तुमिति भेदः। नापि सा दृष्टश्रुतमतविज्ञातेति चक्षुर्विज्ञानेन दर्शनादृष्टा। श्रोत्रविज्ञानेन श्रवणाच्छ्रुता। घ्राणजिह्वाकायविज्ञानैरनुभूतत्वान्मता। मनोविज्ञानेनोपलम्भाद्विज्ञाता। नापीति प्रत्येकं सम्बन्धनीयम्। एतदेव ज्ञेयज्ञानगाम्भीर्यभेदेनाह। गम्भीरेत्यादिना। प्रकृतिरिति स्वभावस्तथतेति यावत्। विविक्तत्वादिति सर्वोपलम्भशून्यत्वात्। प्रकृतिगम्भीरेति। प्रकृत्या ज्ञानस्य स्वभावेनानुत्पादेन श्रावकाद्यविषयत्वाद्गम्भीरा प्रकृति परिशुद्धत्वात्। प्रकृतिविविक्तत्वादिति। यथाक्रममविकाराविपर्यासपरिनिष्पत्त्या परिनिष्पन्नत्वादित्यर्थः। एतदुक्तम्। "यस्मात् स्वभावेनैव सर्वधर्मगोत्राणां ज्ञानज्ञेयस्वभावानां प्रकृत्यैव शून्यत्वात् तेषां गाम्भीर्यं तस्मात् केनचिद्रूपेणोपलम्भः सूक्ष्मासक्तिर्विपक्ष "इति। तथा चोक्तम्।



 



तद्गाम्भीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः। इति



 



कथं तर्हि तस्य वर्जनमित्याह। प्रकृतिविविक्तेति। भावाभ्युपगमदोषरहितत्वेन यस्मात् प्रकृतिविविक्ता,तस्मान्नमस्करोमि। प्रज्ञापारमितेतिवचनान्न तर्हि सर्वधर्मा विविक्ता इत्याशङ्कायामाह। सर्वधर्मा इत्यादि। ननु स्वसंवेदनरूपत्वेनावगमाभावात् सर्वधर्मविविक्ततायाः कथं सा स्वसंविद्रूपा प्रज्ञापारमितेति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हि सुभूत इत्यादि। एतदुक्तम्। "बाह्यवस्तुपरिनिष्पत्त्यभावे स्वप्नादाविवोपदर्शितविविधाकारप्रभेदप्रपञ्चं बहिरिव परिस्फुरद्रूपं विज्ञानमुपजायते यदाऽतो ज्ञानस्य संवृत्या मायोपमतावगमात्तदव्यतिरिक्तत्वेनाकृताः शून्या मायोपमाः सर्वधर्मा इति भगवतोऽभिसम्बोधात्तेषां विविक्तताऽप्यवगते"ति।



 



भावा जायन्ति संवृत्या परमार्थेऽस्वभावकाः।



तया सर्वमिदं सत्यमसत्यं परमार्थतः॥



 



इत्यार्यलङ्कावतारसूत्रानुसारेणानन्तरमेवार्थतत्त्वं स्पष्टयन्नाह। तस्मात्तर्हीत्यादि। अनभिसम्बुद्धास्तत्त्वत इति शेषः। साधूक्तत्वेन समर्थनमाह। तथाहीत्यादिना। कीदृशी प्रकृतिरित्याह। या चेत्यादि। या च प्रकृतिः स्वभावस्तथता सैव स्वरूपविरहादप्रकृतिर्या चाप्रकृतिः सा  सर्वधर्माणां प्रकृतिरेकलक्षणत्वादेकरूपत्वाद्यदुतालक्षणत्वान्निःस्वभावत्वादित्यर्थः। एतदेवोपसंहरन्नाह। तस्मात्तर्हीत्यादि। ननु भिन्नकारणजन्यत्वेन भावानां भिन्नस्वभावत्वे कथमेकलक्षणत्वमिति।तत्कस्य हेतोरित्याशङ्क्याह। न हि सुभूत इत्यादि। एवं मन्यते। प्रमाणव्याहतोत्पादरूपत्वादेषां भिन्नहेतुजन्यत्वनिबन्धनानेकस्वभावाभावे यस्मादेषां न नानारूपता परमार्थतस्तस्मादेकैव प्रकृतिरिति। एवमेता इत्यादि। यथोक्तक्रमेण रूपादिसर्वधर्माणामेकैव प्रकृतिरिति प्रकृतिर्यदुता ज्ञानज्ञेयसमतैकपरिज्ञाने पूर्वोक्ताः संगकोट्यः। सूक्ष्मासक्तिरूपा विवर्जिता भवन्ति। तथा चोक्तम्।



 



एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनमिति॥५॥



 



कथं पुनः प्रकृत्या धर्मगाम्भीर्यं प्रागुक्तमित्याह। गम्भीरा भगवन् प्रज्ञापारमितेति। कथमिति काङ्क्षाप्रश्नः। आकाशगम्भीरतयेति। सर्वविज्ञानोपलब्धार्थनिराकरणेनानुपलम्भेन ज्ञानज्ञेयसमतासंसूचकेन यस्मात्तस्याः प्रकृतेर्दुर्बोधता कथिताऽतस्तयाऽऽकाशस्येव गाम्भीर्यमित्यर्थः। तथा चोक्तम्।



 



दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता। इति



 



किम्पुनः कारणमेवं तस्याः प्रकृतेर्दुर्बोधतेत्याह। दुरनुबोधा भगवन् प्रज्ञापारमितेति। अत्रापि पूर्ववत् काङ्क्षाप्रश्नः। न कश्चिदभिसंबुध्यत इति। रूपाद्यावेणिकबुद्धधर्माद्याकारैः प्रकृतेस्तथतास्वाभाव्यादनभिसम्बोधेन यस्माच्चिन्तातिक्रान्तत्वमिष्यते,अतोऽस्या दुर्बोधतेति यावत्। तथा चोक्तम्।



 



रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते॥६॥ इति



 



अचिन्त्यत्वमेव कुत इत्याह। अचिन्त्येत्यादि। कथमिति शेषः। न चित्तेन ज्ञातव्या न चित्तेन गमनीयेति यस्मादकृतत्वेनाधिमोक्षमनस्कारानधिमोक्षान्न चित्तेन ज्ञातव्या तत्त्वमनस्कारापरिज्ञानान्न चित्तगमनीया। तस्मादचिन्त्यत्वमिति यावत्। अकृतत्वमेव कथमित्यादि। अकृत इत्यादि। कथमित्युपस्कारः। कारकानुपलब्धित इति कारकहेतोरनुपलम्भात्। तथा हि प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावो वर्णितः। तत्र न तावन्निराकारेणावसीयते। संविन्मात्रेण सर्वचेतसां साम्यादिदमस्य ज्ञानं नेदमस्येति कुतो व्यवस्था। यतो बीजज्ञानादङ्कुरज्ञाने तदज्ञानात्तदज्ञाने च बीजं कारणमङ्कुरः कार्यमिति स्यात्। नापि बीजजन्यत्वाद्बीजं तेनावसीयते। मा भूच्चक्षुर्जन्यत्वाच्चक्षुषोऽवगतिरत इति। अथ निराकारस्यापि चेतसोऽस्त्यसाधारणः कश्चिदात्मातिशयो हेतुधर्मसामर्थ्यजनितो यस्मादियं व्यवस्थेति चेत्। एमप्यात्मातिशय इत्याकारस्यैव नामान्तरमारोपितम्। न च नामान्तरकरणादर्थान्तरं भवितुमर्हति। नासावाकारश्चेत्कस्तर्हीत्यपदिश्यताम्। दुरुपलक्षणतया नायमिदन्तया निर्देष्टुं शक्यत इति चेत्। यत एवेयं व्यवस्थेदं बीजमयमङ्कुर इति तदनुपलक्षणे कुतोऽनुमा स्यात्। न हि दण्डविषाणानुपलक्षणेऽयं दण्डी विषाणी वेति स्थीयते। नापि साकारेण। न ह्याकारो वस्तुनाऽव्याप्तोऽसत्यपि तस्मिन् द्विचन्द्रादावस्य भावान्नैवम्भ्रान्तत्वादस्य। यस्त्वभ्रान्तो नासावसति वस्तुनि भवति न चान्यव्यभिचारेऽन्यव्यभिचार इत्यप्यसत्। न हि कार्यकारणभावसाधनवेलायामयं भ्रान्तः खल्वाकारोऽयं नेति निश्चयनिबन्धनमस्त्यर्वाग्दृशः,न चातीन्द्रियदृशः प्रतीदमुच्यते। न चासति निश्चये हेतुफलभावव्यवस्था ज्यायसी। न च वस्त्वाकारो ज्ञानस्य युज्यते। यदि ह्येकदेशेन ज्ञेयाकारं ज्ञानमिति तत्परिच्छिद्यात्तदा सर्वे सर्वविदः प्रसज्येरन्। ज्ञेयत्वादिभिः सर्ववस्तुसाधारणैराकारैरन्वितत्वात् सर्वज्ञानानां सर्वात्मनापि ज्ञेयाकारत्वे ज्ञानस्य ज्ञानज्ञेययोरैक्येन विभागायोगाद्व्यवहारोच्छेदः। सर्वात्मना च संवेदनस्य संवेद्याकारत्वे तदभावादित्यलमतिप्रसङ्गेन। मन्दबुद्धिजनानुग्रहेण सन्निहितविनेयजनविपर्यासनिराचिकीर्षया यथानिर्दिष्ट एव विपक्षप्रतिपक्षयोरयं विभागोऽवसातव्यः। तथा चोक्तम्।



 



एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये।



अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः॥७॥इति



 



तयोर्विभावनायां कः प्रयोग इति प्रयोगार्थमाह। तेन हीत्यादि। यस्मादेव विपक्षप्रतिपक्षौ हेयोपादेयौ। तस्मात्तदर्थं कथञ्चरितव्यमित्यर्थः। रूपादिप्रयोगमाह। न रूपे चरत्यभिनिवेशयोगेन यदा तदा चरति प्रज्ञापारमितायाम्। एवमुत्तरत्र वेदितव्यम्। रूपाद्यनित्यादिप्रयोगार्थमाह। सचेद्रूपमनित्यमित्यादि। रूपाद्यपरिपूरिप्रयोगमाह। स चेद्रूपमप्रतिपूर्णमित्यादिना। लक्षण शून्यत्वात्कल्पितरूपमप्रतिपूर्णम्। गुणगणोपेतत्वाद्धर्मतारूपं प्रतिपूर्णम्। न तद्रूपमित्यादि। धर्मधर्मिणोर्बुद्धिपरिकल्पितभेदात्। सचेदेवमपि न चरति। चरति प्रज्ञापारमितायामिति वक्ष्यमाणेन सम्बन्धनीयम्। यथोक्तधर्मदेशनया संजातातिशयत्वेनाह। आश्चर्यमित्यादि। अन्यार्थकथनेन प्रकारान्तराभिधानादाश्चर्यम्। तस्मादेवं प्रयोगकथनेन ससङ्गता रूपादीनामुपलम्भरूपत्वमसङ्गता च मातुरनुपलम्भस्वभावता कथिता। रूपादिष्ठसङ्गप्रयोगमाह। रूपं ससङ्गमसङ्गमित्यादि। ससङ्गमसङ्गमिति सोपलम्भमनुपलम्भमित्यर्थः। नन्वभिनिवेशमकृत्वा भावयितुमशक्यत्वात्कथमेवमुच्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। असक्तेत्यादि। अभिष्वङ्गविगमादसक्ता। अबद्धाऽमुक्तेति पदद्वयं व्याख्यातम्। प्रतीत्यसमुत्पादशून्यतारूपत्वादसमतिक्रान्ता। एतदुक्तम्। "यथाभिनिवेशमतत्त्वाद्यथातत्त्वञ्चानभिनिवेशाद्विकल्पेन विपयीकर्तुमशक्या यस्मात् सर्वज्ञता तस्मात्तत्र सङ्गं न जनयती"ति। एवं हीत्याद्युपसंहारः। अविकारप्रयोग माह। आश्चर्यमित्यादिना। देशनाऽदेशनाभ्यां यथाक्रमं ग्रन्थात्मिकाया मातुर्निष्ठान्तर्धानाभ्यां परिहाणिः। तथा देशनया युक्त्यागमबाधितरूपेण सन्तानान्तरे समुत्पादाद्वृद्धिः। अदेशनया निरन्तरप्रतिसंलयनेन स्वसन्तानेऽधिकार्थदर्शनाद्वृद्धिः। मुख्यायास्तु मातुर्निर्विकारस्वभावत्वात् सर्वमेतन्नास्तीत्याह। या देश्यमानापीत्यादि। अविरुद्धत्वात् साध्वित्यादिवचनपूर्वकमेतदेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। अकर्तृप्रयोगार्थमाह। तद्यथापि नाम सुभूते मायापुरुष इत्यादि। वितथप्रख्यातिरूपत्वेनाकर्तृत्वाद्रागद्वेषक्लेशाभ्यां नानुनीयते न प्रतिहन्यते। अत एव तदुदयक्लेशैर्न संक्लिश्यत इति योज्यम्। दुष्करप्रयोगस्य त्रैविध्यादुद्देशदुष्करतासर्वाकारज्ञताप्रयोगार्थमाह। दुष्करकारक इत्यादि। नोत्प्लवत इति न तरलायते नोपरिवर्तते। न हर्षमुत्पादयतीति यावत्। न च प्रत्युदावर्तत इति। नैव विनिवृत्तिं कुर्यात्। अयं सन्नाह इति। वक्ष्यमाणाः सन्नाहः। ननु सम्भवत्प्रज्ञादिप्रकर्षमवगम्य यत्नकरणात् को नामातिशयो दुष्कर इति। तत्कस्य हेतोरित्याशङ्क्याह। आकाशेनेत्यादि। एतदुक्तम्। "आकाशोपमानपि सर्वधर्मानध्यालम्ब्य तत्त्वतः सम्भवत्प्रज्ञादिप्रकर्षाभावेऽपि सर्वाकारज्ञतायाः कृतशः सन्नाहकारणादतिशयो दुष्कर"इति। आकाशसमानां धर्मधातुसमानामिति। लौकिकलोकोत्तरप्रसिद्धिभेदेन द्वयमुक्तम्। प्रयोगदुष्करतामार्गज्ञताप्रयोगार्थमाह। आकाशं स भगवन् परिमोचयितुकाम इति। मार्गज्ञतायां यः प्रयोक्तुकाम इति शेषः। कारित्रदुष्करता सर्वज्ञताप्रयोगार्थमाह। आकाशं स भगवन्नुत्क्षेप्तुकाम इति। सर्वज्ञतां यः कर्तुकाम इत्युपस्कारः। महावीर्यपारमिताप्राप्त इति। सन्नाहप्रयोगकारित्रेषु शून्यताकरुणागर्भमहाव्यवसायसम्पन्नः। सन्नाहः सन्नह्यत इति। त्रिविधदुष्करमुत्सहते। यथाभव्यफलप्राप्त्या बन्ध्यप्रयोगार्थमाह। अथ खल्वित्यादिना। अन्यतमो भिक्षुरिति। अकथापुरुषो नामगोत्रादिभिरनभिलक्षितः पुद्गल इति यावत्। नमस्करोमीति। अन्येषामपि पार्षदानां यथाभव्याधिगमावाप्तिं संसूचयन् शून्येनानुत्पादादिप्रयोगेण स्वानुरूपाधिगमाज्जातप्रसादातिशयो नमस्करोति। प्रयोगमेवाह। तथाहि भगवन्नित्यादिना। आकाश इति ज्ञेयशून्यत्वे। अभ्यवकाश इति ज्ञाननिःस्वभावत्वे। अपरप्रत्ययप्रयोगार्थमाह। आज्ञापयतु भगवन्नित्यादि। नो हीदमिति। अपरप्रत्ययतां दर्शयति। परेण रक्षादौ परप्रत्ययतासम्भवात्। एतदेवं प्रश्नयन्नाह। एवं कौशिक स चेदित्यादि। प्रज्ञापारमिताविहारित्वादेव स्वतस्तस्य रक्षादयो भविष्यन्ति नान्यथेति वाक्यार्थः। निःस्वभावधर्माधिमोक्षाच्च स्वतस्तस्य रक्षादय इत्याह। अपि च कौशिकेत्यादि। सप्तविधख्यातिज्ञानप्रयोगमाह। तत् किं मन्यसे कौशिकेत्यादिना। तत्र विज्ञानपरिणतत्वेन परिणामख्यात्या स्वप्नोपमाः। मंत्रौषधिसंहृतत्वेन समाहारख्यात्या मायोपमाः। अविद्यमानत्वेन विरोधख्यात्या मरीच्युपमाः। शब्दप्रत्ययत्वात् प्रत्ययख्यात्या प्रतिश्रुत्कोपमाः ज्ञेयरूपासङ्क्रमणादसङ्क्रान्तिख्यात्या प्रतिभासोपमाः। आधारविगमान्निराधारख्यात्यागन्धर्वनगरोपमाः। हेतुविरहादकारकख्यात्या निर्मितोपमाश्च भावा ज्ञाता भवन्तीत्येवं पञ्चविंशतिसाहस्रिकायामुक्तम्। अत्र तु संक्षेपस्य विवक्षितत्वात् प्रतिश्रुत्कोपमाः सर्वधर्मा इति वचनेन मध्यस्य निर्देशादाद्यन्तत्रिकनिर्देश इति प्रतिपत्तव्यम्। तदेवमन्वयमुखेन बोधिसत्त्वानां दशविधः। प्रयोगः कथितोऽर्थाद्यथोक्तविपर्ययेण श्रावकादीनां वेदितव्यः। तथा चोक्तम्।



 



रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः।



तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः॥८॥



अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा।



यथाभव्यं फलप्राप्तेरबन्ध्योऽभिमतश्च सः॥९॥



अपरप्रत्ययो यश्च सप्तधाख्यातिवेदकः।इति



 



समताद्वारेण प्रयोगो भावनीय इति समतामाह। स च तान् न मन्यत इत्यादिना तत्र समाहितेन चित्तेन तान्न मन्यते यतो न समनुपश्यति। ते च धर्मा न विद्यन्ते। यतो न सन्दृश्यते समाहितेन मनसा न जानाति। यतो न सञ्जानीते। ते च धर्मास्तज्ज्ञानगम्या न संविद्यन्ते। यतो नोपलभ्यन्त इति योज्यम्। उपसंहारार्थमाह। सचेदेवं विहरतीत्यादि। तदेवं रूपादिपदार्थमनना। नीलादिनिमित्तमनना। रूपं द्विधा विंशतिधेत्यादि प्रपञ्चमनना। निर्वेधभागीयाद्यधिगममननानां प्रतिषेधेन ज्ञातृज्ञेयधर्मानुपलब्धिश्चतुर्धोक्ता विज्ञेया। तथा चोक्तम्।



 



चतुर्धाऽमनना तस्य रूपादौ समता मता॥१०॥ इति



 



प्रयोगसमतां प्रतिविध्य दर्शनमार्गो ध्येय इत्यधुना वक्तव्यः। स च षोडशक्षणिक इति। "क्षणान्तराभावज्ञापनार्थं साक्षिभावकथनाय सर्वबुद्धभाषितत्वप्रतिपादनाय चाथ खलु बुद्धानुभावेनेत्यादिवचनमि"त्यार्यविमुक्तिसेन। उपायकौशलबलेनान्येषां विधिप्रतिषेधाभावात् सहलोकधातौ भद्रकल्पे बोधिसत्त्वसहस्रस्य नियमेन बुद्धत्वप्राप्तेर्बुद्धसहस्रमित्युक्तम्। नामभिरिति पदसमुदायैर्वाक्यैः। पदैरिति  सुप्तिङन्तैरक्षरसमुदायैः। अक्षरैरिति एवमित्यादिवर्णैः। अयमेव प्रज्ञापारमिता परिवर्त इति विशुद्धिपरिवर्त इत्यर्थः। तत्रातीततथागतानुदाहरणं तद्देशनापर्युपयोगज्ञापनार्थम्। मैत्रेय इत्यनागततथागतोदाहरणम्। अनागतसत्त्वार्थप्रयोजनाविष्करणार्थम्॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां विशुद्धिपरिवर्तो नामाष्टमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project