Digital Sanskrit Buddhist Canon

सप्तमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Saptamaparivartaḥ


 



सप्तमपरिवर्तः।



 



सास्रवभावनामार्गानन्तरमनास्रवो भावनामार्गो वक्तव्यः। स च द्विविध इति। प्रथममभिनिर्हारलक्षणं भावनामार्गं वक्तुं स्वभावाभिधानादाह। अथ खल्वायुष्मानित्यादि। तथागतज्ञानस्य निष्पादनहेतुत्वात्सर्वज्ञज्ञानपरिनिष्पत्तिः। सर्वज्ञत्वमिति रूपाद्यविपरीतदर्शनं स्वभाव इत्यर्थः। एवमित्यादिवचनेन लब्धप्रसादातिशयत्वादभिनिर्हारस्य विस्तरेण ज्ञानस्वाभाव्यपरिदीपनार्थमाह। अवभासकरीत्यादि। उष्मगतज्ञानालोकत्वादवभासकरी। कायवाङ्मनोभिः प्रणामान्नमस्करोमि। यस्मान्नमस्कारार्हत्वान्नमस्करणीया। मूर्धावस्थाप्राप्तत्वेनाश्रद्धादिभिरसंसर्गादनुपलिप्ता। क्षान्तिस्वभावत्वेनापायसंवर्तनीयकर्मविगमात् सर्वलोकनिरुपलेपा। अग्रधर्मरूपत्वेन लोकोत्तरज्ञानोदयहेतुत्वादालोककरी। दुःखधर्मज्ञानक्षान्त्या स्वदर्शनप्रहातव्यत्रैधातुकक्लेशप्रहाणात् सर्वत्रैधातुकवितिमिरकरी। धर्मज्ञानेन विमुक्तिसाक्षात्करणात् सर्वक्लेशदृष्ट्यन्धकारापनेत्री। अन्वयज्ञानक्षान्त्याऽऽर्यधर्मान्वयावगमादाश्रयणीया। अन्वयज्ञानेन निश्चयावधारणादग्रकरी। समुदये धर्मज्ञानक्षान्त्यादिभिश्चतुर्भिः क्षणैः पूर्ववद्व्यापारकरणाद्यथाक्रमं बोधिपक्षाणां धर्माणां क्षेमकरी,आलोककरी,सर्वभयोपद्रवप्रहीणाऽऽलोककरीति पदचतुष्टयं योज्यम्। मांसदिव्यप्रज्ञाबुद्धधर्मचक्षुःपरिग्रहं कृत्वा पूर्ववन्निरोधे धर्मज्ञानक्षान्त्या मार्गदर्शयित्री। धर्मज्ञानेन चक्षुरन्वयज्ञानक्षान्त्या मृदुमध्याधिमात्रविपक्षापगमेनार्यधर्मान्वयावगमान्मोहतमस्तिमिरविकरणी। अन्वयज्ञानेन निश्चयावधारणाद्वितिमिरकरणी। मार्गे तथैव धर्मज्ञानक्षान्त्याऽकरणी। धर्मज्ञानेन मार्गावतारणी। अन्वयज्ञानक्षान्त्या सर्वज्ञता। अन्वयज्ञानेन सर्वक्लेशज्ञेयावरणावासनानुसन्धिप्रहीणतामुपादायानुत्पादिका। सास्रवभावनामार्गेण कुशलधर्मप्रसवनादनिरोधिता। मायोपमत्वादनास्रवाभिनिर्हारभावनामार्गरूपेण सदावस्थानादनुत्पन्नानिरुद्धा। अत्यन्तविशुद्धिभावनामार्गस्वभावेनातिशयहितकारिणीत्वात् स्वलक्षणशून्यतामुपादाय माता। स च मृदुमध्याधिमात्रभेदात्त्रिविध इति यथाक्रमं दशबलकरी,अनवमर्दनी,नाथकरीति पदत्रयमुक्तम्। आनन्तर्यमार्गतया सर्वसंसारप्रहाणात् संसारप्रतिपक्षः। कूटः सामग्री तत्र तिष्ठतीति हेतुप्रत्ययजन्यो भावस्तथोक्तस्तत्प्रतिषेधादकूटस्थतामुपादाय विमुक्तिमार्गेण सर्वगुणसम्पदभिमुखीभावात् सर्वधर्मस्वभावविदर्शनी,पश्चादेवं समधिगततत्वानां यथाशयं त्रियानधर्मदेशनया परिपूर्णत्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनीत्येवमेषां पदानामर्थनिर्देशो वाच्य इति पूर्वाचार्याः। तत्र त्रयः परिवर्ता द्वादशाकारा यस्मिन् धर्मचक्र इति विग्रहः। तत्रामी त्रयः परिवर्ताः। यदुत इदं दुःखमार्यसत्यं तत् खल्वभिज्ञाय परिज्ञेयं परिज्ञातम्। इदं दुःखसमुदय आर्यसत्यं तदभिज्ञाय प्रहातव्यं प्रहीणम्। इदं दुःखनिरोधं आर्यसत्यं तदभिज्ञाय साक्षात्कर्तव्यं साक्षात्कृतम्। इदं दुःखनिरोधगामिनी प्रतिपदार्यसत्यम्। तत् खल्वभिज्ञाय भावयितव्यं भावितं मयेति भिक्षवः पूर्वमनुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतः प्रत्यक्षार्थत्वादनास्रवा प्रज्ञा चक्षुरुदयादि। निःसंशयत्वाज्ज्ञानं भूतार्थत्वाद्विद्या विशुद्धत्वाद्वुद्धिरुदयादीत्येतत्क्रियापदमेकैकस्मिन् सत्ये त्रिष्वपि योज्यम्। अतः प्रत्येकञ्चतुर्णामार्यसत्यानां त्रिपरिवर्तनात्रिपरिवर्तम्। चक्षुरित्यादयश्चाकाराश्चत्वारस्त्रिपरिवर्तनात् प्रतिसत्यं त्रय इत्यतो द्वादशाकारम्। एतावतैव जगदर्थसम्पादनात् परिपूर्णं त्रिपरिवर्तद्वादशाकारं धर्मचक्रमिव धर्मचक्रं यत् प्रथमतो वाराणस्यां भाषितं सूत्रम्। यथा राज्ञश्चक्रवर्तिनश्चक्ररत्नमग्रेसरं सर्वस्तु बलकायस्तदेवानुसरन् पश्चाद्गच्छति,तथा सकलत्रैलोक्याधिपतेस्तथागतस्य तत् सूत्रमग्रतः कृत्वा सर्वो देशनाधर्मः प्रभवति। अतस्तन्मातुराधिपत्येन प्रवर्तत इति। भगवती तथोक्ता। श्रेष्ठतां प्रतिपादयितुमाह। कथं भगवानित्यादि। परिहरन्नाह। यथा शारिपुत्रेत्यादि। शास्तरीव प्रतिपत्त्यादिविधानान्नान्यथावबुद्धत्वसम्प्राप्तिरिति श्रेष्ठता कथिता। कुत इति कस्माद्धेतोरित्यर्थः। तदेवाह। किन्निदानेति। एतन्निदानेति पुण्यस्कन्धाभिभवहेतुका। अभिनिर्हारश्रेष्ठताधिकारे परिणामनामनस्कारपुण्यस्कन्धहेतुका पृच्छा किमर्थमिति चेदुच्यते। यत्र हि नाम सास्रवपरिणामनामनस्कारस्येदृशी श्रेष्ठता यद्बलादप्रमेयदानादिपुण्यस्कन्धाभिभवो जातस्तत्र सुतरामेवानास्रवभावनामार्गस्येति कथनाय परिणामाभिभूतपुण्यस्कन्धहेतुका पृच्छा कृता। अतिशयार्थमेवाह। अपितु खलु पुनरित्यादि। सर्वज्ञतामार्गावतारायेति। बुद्धत्वप्रापकमार्गप्रमुदितादिभूमिष्ववतारनिमित्तम्। अपरिणायकमभव्यमिति। सारथिभावरहितमयोग्यम्। दानमित्यादि। तत्र दानं धर्माभिषाभयभेदात्रिविधम्। तथा शीलमकुशलनिवृत्तिकुशलप्रवृत्तिसत्त्वार्थक्रियारूपेण त्रिविधम्। तथा क्षान्तिरपि धर्मनिध्यानदुःखाधिवासनपरापकारमर्षणात्मिका त्रिविधा। तथा वीर्यमपि सन्नाहकुशलसत्त्वार्थप्रयोगभेदात्रिविधम्। तथा ध्यानं गुणसत्त्वार्थक्लेशप्रतिपक्षसुखाभिनिर्हारात्पूर्ववत्त्रिविधमिति। जात्यन्धभूतमिति। उत्पद्यमानमेव संवृतिपरमार्थसत्यसकलसत्त्वार्थालम्बनभेदात्रिविधप्रज्ञाचक्षुषा विहीनम्। कुतः पुनरिति। कस्मात्पुनर्नैवेत्यर्थः। पारमितानामधेयमेव कथयति। पारमिताशब्दमिति। आसाञ्चक्षुःप्रतिलम्भ इति। दानादिपारमितानां धर्मताचक्षुःसमन्वागमः। सर्वधर्मानभिसंस्कृतिं प्रतिपादयितुमाह। कथं भगवन् बोधिसत्त्वेनेत्यादि। परिहरन्नाह। रूपस्येत्यादि। मायोपमतया रूपादेरधिगमो मातुरभिनिर्हार इत्यर्थः। उपसंहरन्नाह। एवमनभिसंस्कारेणेत्यादि। तथतारूपत्वात् सर्वधर्मविशेषानुत्पादनेनाधिगमो प्रयोगोऽनभिसंस्कारस्तेन स्कन्धानामधिगम इति यावत्। क्वचिदनभिनिर्हारेणेति पाठस्तत्राप्ययमेवार्थो ग्राह्यः। सर्वधर्मानुपलम्भेनाभिसमयार्पणार्थमाह। एवमभिनिर्हृतेत्यादि। न कश्चिद्धर्ममर्पयतीति। यथोपलम्भादिविपर्यासस्तथा न कश्चिदधिगमधर्मं योगिसन्ताने समुत्पादयति तदा प्रज्ञापारमितेति संख्यां गच्छत्यविपर्यस्तत्वादिति मतिः। सर्वज्ञतायास्त्वर्पणं युक्तमन्यथा निरर्थिकैव प्रज्ञापारमितेत्यभिप्रायवानाह। किमियम्भगवन्नित्यादि। विपर्यासद्वारेण नार्पयतीत्याह। न यथोपलम्भ इत्यादि। तत्रोपलम्भो बाह्यार्थोपलम्भः। नाम चत्वारोऽरूपिणः स्कन्धाः। अभिसंस्कारो मायोपममेवेदं तत्त्वमित्यादिचित्ताभोगः प्रकारान्तरव्यवच्छेदेनान्यथार्पणमित्याह। कथं तर्हीत्यादि। यथा कौशिक नार्पयति तथार्पयतीति। येन प्रकारेण मायोपमतया कश्चिदभिनिवेशं विपर्यासं नार्पयति तथा सर्वज्ञतामर्पयतीत्यर्थः। न किञ्चिद्धर्ममुत्पादयतीति वैयवदानिकं न किञ्चिद्धर्मं निरोधयतीति सांक्लेशिकम्। प्रत्युपस्थितेत्यनुत्पादाय। अनुपस्थितेत्यनिरोधायेति योज्यम्। एवमप्यभिनिवेशो बन्धनमित्याह। सचेदेवमित्यादि। प्रयोगदर्शनभावनाविशेषमार्गेषु यथाक्रमं दूरीकरिष्यति रिक्तीकरिष्यति तुच्छीकरिष्यति न करिष्यतीति पदचतुष्टयं योज्यम्। प्रकारान्तरेणापि दूरीकरणादिकमाह। अस्त्येष इत्यादिना। भवत्येष रूपाद्यभिसंबोधपर्याय इत्यर्थः। ननु "धर्मतया रूपाद्येव प्रज्ञापारमिते"ति न्यायात् कथं रूपाद्यवगमेन मातुर्दुरीकरणादिकमिति। तत्कस्य हेतोरित्याशङ्क्याह। प्रज्ञापारमितायां हीत्यादि। एतदुक्तम्। "मायोपमतया यस्माद्रूपाद्येव जिनजननीत्येकस्वभावत्वेन न्यायात् परिदीपितायां प्रज्ञापारमितायां पृथग्रूपाद्यवगमो विपर्यासस्तस्माद्रूपाद्यवगमेन मातुर्दूरीकणादिकमि"ति। महार्थतामाह। महापारमितेयमित्यादिना। बुद्धमहार्थसाधनान्महापारमिता। तत्र न महत्करोति। अधिकानुत्पादनात्। नाल्पीकरोति व्यवस्थितानपकर्षणात्। तदेव यथायोगं कथयति।



 



न संक्षिपति न विक्षिपतीति।



"प्रसिद्धमात्रस्य हि याऽयथार्थता



तदर्थसंबोधफलं हि शासनम्।"



 



इति भावः। न बलीकरोति। अपूर्वसमारोपात्। न दुर्बलीकरोति विद्यमानानुपवादात्। पृथग्जनव्यवस्थायां विपर्यासबलादल्पीयसी सर्वज्ञता मुक्त्यवस्थायां मातुः सामर्थ्येन विपर्यासापगमान्महती जाता। तत्कथमेवं वक्ष्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। असंक्षिप्ता हीत्यादि। एतदुक्तम्। "विपर्यासापगमे मातुः सामर्थ्यस्य स्थितत्वेन यस्मात् सर्वज्ञताऽसंक्षिप्ताऽविक्षिप्ता तस्मान्न महती नाल्पीक्रियत"इति। तत्राप्यभिनिवेशो बन्धनमित्याह। सचेदेवमित्यादि। किम्पुनरेवं सञ्जानान इति। वक्ष्यमाणोपलम्भं प्रतिपद्यमानः किं पुनः प्रज्ञापारमितायाञ्चरत्यपि तु महोपलम्भत्वान्नैवेत्यर्थः। ननूपलम्भस्य को दोषो येन तत् सद्भावान्न चरतीति। तत्कस्य हेतोरित्याशङ्क्याह। न ह्येष इत्यादि। एतदुक्तम्। "यस्मादेष प्रज्ञापारमितायाः सदृशः स्यन्दो निष्यन्दस्तदनुरूपं फलं सत्त्वनिर्वाणोपलम्भो न भवति। तस्मादुपलम्भभावान्न चरती"ति। कथं पुनरेतदिति। तत्कस्य हेतोरित्याशङ्क्याह। सत्त्वास्वभावेत्यादि। सत्त्वानामस्वभाव एव जातिः प्रकृतिर्यस्या इति सा तथोक्ता। एवं मन्यते सत्त्वानुत्पादप्रकृतिकाया मातुः कथं सत्त्वोपलम्भो निष्यन्दफलमिति। सत्त्वानुत्पादरूपतार्थमेवाह। सत्त्वास्वभावतयेत्यादि। तत्रास्वभावताः विविक्तताऽचिन्त्यता यथाक्रमं कल्पितादेर्वेदितव्या। सत्त्वाविनाशधर्मता सदैवावस्थिता तथता। सत्त्वस्य मायोपमतया दर्शनमार्गेणानवगमः सत्त्वानभिसम्बोधनता। सत्त्वस्य पूर्वभावनामार्गेणाऽप्रतिपत्तिः सत्त्वयथाभूतार्थानभिसम्बोधनता। सत्त्वस्य बलं प्रमाणाव्याहतं सामर्थ्यं मायोपमत्वं तस्य प्राप्तिः समुदागमनता। तया तथागतबलस्य प्रज्ञापारमितायाः समुदागमनता वेदितव्या। यथोक्तस्वभावादिलक्षण एवाभिनिर्हारभावनामार्गोऽवसातव्यः। तथा चोक्तम्।



 



स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः।



नोपलम्भेन धर्माणामर्पणा च महार्थता॥२१॥ इति



 



तदनन्तरं द्वितीयोऽत्यन्तविशुद्धिलक्षणो भावयितव्यस्तदुत्पादानुत्पादहेतोर्यथाक्रमं परिग्रहत्यागेनेत्युत्पादहेतुं तावत्प्रतिपादयितुमाह। यो भगवन्नित्यादि। मार्गान्तराकांक्षणान्न कांक्षिष्यति। सन्देहाभावान्न विचिकित्सिष्यति। अज्ञानविगमान्न धन्वायिष्यति। चिरचरितावीति। चिरं दीर्घकालं चरितमनुष्ठितं दानादि। श्रावकादिबोधावनिर्यातनेनावितुं रक्षितुं शीलमस्येति तथोक्तः। अनुगमिष्यति धर्मतोऽर्थतश्च। अनुभोत्स्यते तन्नयतः। अनुबोधयिष्यति परानुभयथा यथाक्रममित्येवमर्थभेदो वाच्यः। परिवारादिदानात्पर्युपास्यः। संशयार्थपरिपृच्छनात् परिपृच्छ्येति बुद्धसेवा कथिता। अधिमोक्षस्य पर्युपासनादिना कः सम्बन्धो येनाधिमोक्षबलात् पर्युपासनादिकं प्रतीयत इति। तत्कस्य हेतोरित्याशङ्क्याह। यः कश्चिदित्यादि। एतदुक्तम्। "विशिष्टकारणमन्तरेण तादृग्विधाधिमोक्षाद्यसम्भवात् तत्कारणं तथागतपर्युपासनादिकमनुमीयत"इति। समाधानोत्पादनाच्छ्रोत्रमवदधाति। मण्डलादिकरणात्सत्कृत्य शृणोति। अप्रस्तुतार्थानभिधानात् कथं नोपच्छिनत्ति। चिरचरितावी स इति वचनेन दानादिरुक्तः। अनेकबुद्धपर्युपासनात् बहुबुद्धपर्युपासितः। सहेतुकश्रवणादावनभिनिवेशं प्रतिपादयितुमाह। शक्या पुनरित्यादि। उपलक्षयितुमित्यादिपदानि यथासंख्यमियं सेत्यादि पदचतुष्टयेन सम्बन्धनीयानि। तत्राकारलिङ्गनिमित्तानि स्वसामान्योभयरूपाणि यथाक्रमं वेदितव्यानि। हेतुबलादपि श्रवणं संवृत्या न तु तत्त्वत इत्याह। नो हीदमिति। तदेवाह। नेयमित्यादि। प्रतीयमानेनापि स्कन्धादिना कथं न शक्यते श्रवणादि कर्तुमिति। तत्कस्य हेतोरित्याशङ्क्याह। सर्वधर्मेत्यादि। तत्र वर्तमानीभूतस्कन्धादिस्वलक्षणशून्यत्वात् सर्वधर्मविविक्तत्वं कार्यकारणान्तद्वयविगमादत्यन्तविविक्तत्वम्। तस्मात् त्रैयध्विकशून्यत्वेन तत्त्वतः स्कन्धादिभिर्निर्देष्टुं न शक्यत इति वाक्यार्थः। तद्व्यतिरेकेण तर्हि निर्दिश्यतामित्याह। न चान्यत्रेत्यादि। प्रकारान्तरस्यानिषेधे कथमेवं लभ्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। स्कन्धेत्यादि। उत्पादहेतुवैकल्येन शून्यम्। स्वरूपानवधारणाद्विविक्तम्। कार्यसामर्थ्यविरहेण शान्तम्। एतदुक्तम्। "सर्वधर्मसंग्राहकस्कन्धादीनां तत्त्वतो निःस्वभावत्वे तद्व्यतिरेकेण निर्देष्टुं न शक्यत"इत्यादि। इति। हीत्याद्युपसंहारः। संज्ञा समज्ञा यथाक्रमं स्वसामान्यलक्षणोद्ग्रहणलक्षणे। प्रज्ञप्तिस्तत्सङ्केतोद्ग्रहणम्। व्यवहारः प्रज्ञप्तिपूर्वकौ हिताहितप्राप्तिपरिहारौ। विभज्येत्यादि। प्रज्ञापारमितायोगार्थं येनोपायकौशलं विमात्रतया मृद्वादिभेदेन भावितं स योगमापत्स्यत इति विभज्य वक्तव्यमेतदनेनोपायकौशलमुक्तम्। यथोक्तमेव सेवादित्रयमुत्पादहेतुः। तथा चोक्तम्।



 



बुद्धसेवा च दानादिरुपाये यच्च कौशलम्।



हेतवोऽत्राधिमोक्षस्य॥



 



इति। अनुत्पादहेतुं निर्दिशन्नाह। स्यात् खलु पुनरित्यादि। अनधिमोक्षे किं कारणमिति। तत्कस्य हेतोरित्याशङ्क्याह। पूर्वमपीत्यादि। ततः पर्षद्भ्योऽपक्रान्ता इति प्रतिक्षेपचित्तेनेति शेषः प्रयोगाद्यवस्थात्रये यथाक्रमं सञ्चितेनेत्यादि वक्तव्यम्। कायासन्निधानान्न कायसामग्री। चित्तविक्षेपान्न चित्तसामग्री। प्रत्यक्षानुमानागमप्रमाणैर्यथासंख्यं न जानन्ति न पश्यन्ति न बुध्यन्ते। अत एव न वेदयन्ते परानिति शेषः। स्वरूपनिराकरणात् प्रत्याख्यास्यन्ति सामर्थ्यापह्नवात् प्रतिक्षेप्स्यन्ति। अप्रियाभिधानात् प्रतिक्रोक्ष्यन्ति। कुशलमूलानुत्पादादुपहत्याकुशलवासनोत्पादेन दग्धाः स्वल्पदानादित्रययोगादल्पपुण्याः। मृदुमैत्र्यादिसम्भवादल्पकुशलमूलाः। कर्तुकामतापनयनाद्विच्छन्दयिष्यन्ति। स्वरूपापकर्षणकरणाद्विवेचयिष्यन्ति। पुनः प्रवृत्तिनिराकरणाद्विवर्तयिष्यन्ति। सर्वेणेत्यादि। सर्वेण बुद्धरत्नादिरूपेण। सर्वं शाक्यमुनितथागतादिरूपम्। सर्वथा मृदुमृद्वादिप्रकारभेदेन सर्वमधिशीलादिप्रकारम्। उत्पादनादुपस्थितेन। विनाशाभावात्समुत्थापितेन। महानिरयेष्विति। जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरकः। तत्प्रमाणस्तदुपरिष्टात् प्रतापनस्तपनो महारौरवो रौरवः संहातः कालसूत्रः सञ्जीवश्चेत्यष्टौ महानिरयाः। तेजःसंवर्तनीति। नरकगतिमुपादाय यावद्व्रह्मलोके कश्चित् सत्त्वो नाविशिष्टो भवति तदा शून्यभाजने सप्त सूर्याः प्रादुर्भूय क्रमेणाप्मण्डलमारभ्य यावत् प्रथमं ध्यानं दहन्ति। अन्येषु लोकधातुष्विति। त्रिसाहस्रमहासाहस्रेषु प्रचुरदुःखानुभवे किं कारणमिति। तत्कस्य हेतोरित्याशङ्क्याह। यथापि नामेत्यादि सुगमः। पञ्चेति। मातृवधः पितृवधोऽर्हद्वधः सङ्घभेदस्तथागतदुष्टचित्तरुधिरोत्पादश्चेत्येतानि पञ्चकर्माण्यनन्तरमवीचिमहानिरये जन्महेतुत्वादानन्तर्याणि। कार्यकारणस्वभावैस्त्रिभिः सादृश्याभावाद्यथाक्रमं न प्रतिवर्णकापि नानुरूपाण्यपि न प्रतिरूपाण्यपीति। योज्यम्। ननु दुःखितेषु करुणाप्रवर्तनात् कथं स्थानादिनिषेध इति। तत्कस्य हेतोरित्याशङ्क्याह। धर्मदूषका हीत्यादि। अन्येषामपि स्वदोषोपादानात् कसम्बकजाताः। सस्योपघाटकतृणजातिवद्बोधिसत्त्वस्य विनाशात् कृष्णानिर्जातिकाः कृष्णसर्पवद्द्वेषवाहुल्यात् कृष्णाहिजातिकाः। अनयेन व्यसनमिति। यस्मादेवंविधपापकारिभिः सह कृपाऽविषयत्वेनावस्थाविषयविभागादिकं परिहृत्यादिकर्मिकाः संवासादिनाऽनेनेति दुराचारेण व्यसनमुपघाटमापत्स्यन्ते तस्माद्धर्मदूषका वर्जनीया इति यावत्। धर्मदूषकाः क उच्यन्त इत्याह। ये चेत्यादि। सम्भवत्प्रमाणस्याकथने किं कारणमिति। तत्कस्य हेतोरित्याशङ्क्याह। मा तथारूपस्येत्यादि। यस्मान्महन्नारककायप्रमाणं श्रुत्वा दुःखमहत्त्वं प्रतिपद्य महाभयेन सहसा प्रतिपक्षसमुदाचारादिविरोधेनोष्णरुधिरागमनादयः स्युस्तस्मान्नाख्यायत इति समुदायार्थः। मरणमात्रकं वा दुःखमागाढमाबाधं स्पृशेदिति मृदुमध्याधिमात्रभेदादुक्तम्। पश्चिमाया जनताया आलोक इति अशुक्लकर्मकारिणः। संवेगोत्पादाद्धर्मालोकः संवेग इति तद्धेतुत्वात्तथोक्तः। सुसंवृतकायकर्मवाक्कर्ममनस्कर्मणेति यथाक्रमं स्मृतिसम्प्रजन्यतामुपादाय कायिकवाचिकमानसिककुशलानुष्ठानादुक्तम्। विपरीतकरणे को दोष इति। तत्कस्य हेतोरित्याशङ्क्याह। यत्र हि नामेत्यादि। एवंरूपेणेति नैतद्बुद्धवचनमित्येवं स्वभावेनास्योपलक्षणपरत्वात्। विपरीतकायवाङ्मनस्कर्मणापीति ज्ञेयम्। प्रक्रान्तवाग्दुर्भाषितप्रकरणोपसंहारार्थमाह। कतमेनेत्यादि। अन्यथानन्तरमेवोक्तमिति कथं प्रश्नः स्यात्। मोहपुरुषा इति। स्वकेऽवतारात् स्वस्यैव विनयदर्शनादपि। औदार्यादपि। गाम्भीर्यादविरुद्धैव धर्मतेति वचनात्। यत्सूत्रेऽवतरति विनये च सन्दृश्यते। धर्मताञ्चानुलोमयतीति बुद्धभाषितलक्षणावगमेन सूत्रादिसङ्गृहीताया मातुः स्वभावानवधारणान्मूढः। स्यादेतन्निकायग्रन्थे परिमितपरिमाणसूत्रेष्वनवतारात्तथापरिच्छिन्नप्रमाणविनयपिटकेऽसंदर्शनात्तथाव्यवस्थापितपुद्गलनैरात्म्यादिधर्मताविलोमनेनाबुद्धवचनमहायानप्रतिक्षेपादमोह इति । एवं च सति,मुक्तकसूत्राण्यपि सूत्रान्तपिटकेष्वपठितत्वादबुद्धवचनान्यभ्युपेयानि स्युस्तथैकैकस्मिन् सूत्रान्तपिटकेऽन्यानि सूत्रान्तपिटकानि न सर्वप्रकारमवतरन्ति। तथैकैकस्मिन् विनयेऽन्ये विनया न सर्वप्रकारं सन्दृश्यन्ते। तथैकैकस्मिन् निकाये या धर्मता व्यवस्थापिता न साऽन्येषु निकायेषु धर्मतां सर्वप्रकारमनुलोमयतीत्येवमष्टादशभेदभिन्नानि सूत्रविनयाभिधर्मपिटकानि परस्परं ग्रन्थार्थव्यतिभिन्नानि कथं बुद्धवचनानि सिद्ध्यन्तीत्यव्यापकमेतत् बुद्धवचनलक्षणमभ्युपगच्छन्तीति मूढा एव। अथवा।



 



मनःप्रदोषः प्रकृतिप्रदुष्टे



ह्ययुक्तरूपेऽपि न युक्तरूपः।



प्रागेव सन्देहगतस्य धर्मे



तस्मादुपेक्षैव वरं ह्यदोषः॥



 



इत्यस्यार्थस्यापरिज्ञानान्मोहपुरुषाः। दूषयितव्यामिति। परस्परविरोधोद्भावनया प्रतिक्षेप्तव्यामिति पूर्ववत्। प्रतिबाधितव्यामिति प्रत्यक्षादिप्रमाणबाधनात्। अस्य तु सर्वधर्मप्रतिक्षेपस्य चतुरो हेतून् प्रतिपादयितुमाह। कोऽत्र हेतुरित्यादि। चतुर्भिराकारैरिति। माराधिष्ठानगम्भीरधर्मानधिमोक्षस्कन्धाद्यभिनिवेशपापमित्रपरिग्रहैश्चतुर्भिः प्रतिक्षेपहेतुभिरित्यर्थः। तथा चोक्तम्।



 



धर्मव्यसनहेतवः॥२६॥



 



माराधिष्ठानगम्भीरधर्मतानधिमुक्तते।



स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः॥२७॥इति



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां निरयपरिवर्तो नाम सप्तमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project