Digital Sanskrit Buddhist Canon

षष्ठपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Ṣaṣṭhaparivartaḥ


 



सर्वबुद्धस्तुतस्तोभितप्रशस्तस्याधिमुक्तिमनस्कारस्यानुत्तरसम्यक्सम्बोधौ परिणामनं विधेयमित्यतोऽनन्तरं परिणामनामनस्कारो वक्तव्यः। स च व्यावृत्तिविषयभेदादनेकविध इत्यादौ विशेषपरिणामनामनस्कारं निर्दिशन्नाह। अथ खलु मैत्रेय इत्यादि। तत्र मैत्रेयो नाम समाधिस्तल्लाभात्कस्यचित् समाधेर्मैत्रेयत्वं फलं तदधिगमात्। पूर्वप्रणिहितमैत्रीफलाभिसमयादीदृशा वा गुणास्तेन मैत्रीविमोक्षमुखप्रभावितत्वादर्जिता येनासौ मैत्रेयो जात इति मैत्रेयः। सम्यक्प्रज्ञायोगाद्बोधिसत्त्वः सर्वाकारोपायसम्बन्धान्महासत्त्वः। बोधिसत्त्वमहासत्त्वशब्दयोः प्रज्ञोपायाभिधायितयामोघपाशसूत्रे पाठादिति। अनुमोदनापरिणामनासहगतमिति। अनुमोदनापूर्विका परिणामना तथागतानुत्तरसम्यक्सम्बोध्यनुपलम्भालम्बनेन मनस्कारेण परिणामनाद्विशेषपरिणामनामनस्कारस्तया च सहगतमिति समासः। तथाहि परकीयं दानमयादिपुण्यक्रियावस्तु वक्ष्यमाणानुमोदनामनस्कारेणानुमोद्य बोधौ परिणामयितव्यमित्ययमपि प्रकारः सम्भवति। तथा चानन्तरमेव वक्ष्यत्येवमनुमोद्यानुमोदनासहगतं पुण्यक्रियावस्त्वनुत्तरायां सम्यक्सम्बोधौ परिणामयामीति वाचं भाषेतेति। तत इति सर्वसत्त्वानां दानमयादिपुण्यक्रियावस्तुनः सकाशादित्यर्थः। अग्रमाख्यायते द्विविधाग्रतायोगात्। द्विविधाऽग्रता श्रेष्ठाग्रता चोत्तप्ततया ज्येष्ठाग्रता चाद्वितीयतयेत्याह। श्रेष्ठमाख्यायते ज्येष्ठमाख्यायत इति। श्रेष्ठाग्रतापि द्विविधा वरतया चोपायकौशलेन प्रवरतया च प्रज्ञापारमितयेत्याह। वरमाख्यायते। प्रवरमाख्यायत इति। उभाभ्यां नान्यत् प्रणीतमिति कथनायोक्तं प्रणीतमाख्यायत इति। ज्येष्ठाग्रतापि द्विविधा। उत्तमतया च समाभावात्। अनुत्तमतया चाधिकाभावादिति दर्शनायोक्तम्। उत्तममाख्यायते,अनुत्तममाख्यायत इति। आभ्यां नान्यन्निरुत्तममित्याह। निरुत्तममाख्यायत इति। यथोक्तेन च विधिना श्रावकाद्यसाधारणत्वेनासममाख्यायते। असमैर्बुद्धैः समतां प्राप्तुं हेतुत्वादसमसममाख्यायते। अनुपलम्भाकारपरिणामनामनस्कारं निर्दिदिक्षुराह। एवमुक्त आयुष्मान् सुभूतिरित्यादि। दशदिशि लोके सर्वतः सर्वत्रगतयेति। दशसु दिक्षु लोकधातौ सर्वस्मिन् पूर्वादिदिग्व्याप्त्येत्यर्थः। पूर्वपश्चिमदक्षिणोत्तरासु दिक्षु यथाक्रममप्रमेयासंख्येयापरिमाणाचिन्त्यासु स्थिता लोकधातवो यथासंख्यमप्रमेयाप्रमेयेष्वित्यादिना निर्दिष्टाः। तथोर्ध्वाधो दिशि स्थिता अनन्तापर्यन्तेष्वित्यर्थभेदो वाच्यः। अप्रमेयाप्रमेयाणामित्यादि। लौकिकवीतरागाणां शैक्षाणां,प्रत्येकबुद्धानां बोधिसत्त्वानाञ्च यथाक्रममप्रमेयासंख्येयापरिमाणाचिन्त्यापर्यन्तानां ज्ञानपथातीतत्वेनाप्रमेयादयो वेदितव्याः। छिन्नवर्त्मनामित्यादि। हतारित्वेन क्षीणास्रवत्वेन च छिन्नवर्त्मानः। निःक्लेशत्वेन वशीभूतत्वेन च छिन्नवर्त्मनयः। सुविमुक्तचित्तसुविमुक्तप्रज्ञत्वेन छिन्नप्रपञ्चभवनेत्रीकाः। आजानेयमहानागत्वेन पर्यात्तबाष्पाः। कृतकृत्यत्वेन कृतकरणीयत्वेन च मर्दितकण्टकाः। स्वपहृतभाराणामित्यादि व्याख्यातम्। अथवा सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता सर्वाकाराभिसम्बोधो मूर्धाभिसम्बोध इति पञ्चभिरभिसमयैः प्रहातव्यवस्तुप्रहाणाद्यथाक्रमं छिन्नवर्त्मनामित्यादि पञ्च पदानि। तैरेव पञ्चभिरभिसमयैः प्राप्तव्यधर्माधिगमयोगाद्यथासंख्यं स्वपहृतभाराणामित्यादि पञ्च पदानि वाच्यानि। एतस्मिन्नन्तर इति मध्ये। अनाश्रवं शीलं समाधिः प्रज्ञा च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धः। सर्वावरणप्रहाणं विमुक्तिस्कन्धः। विशिष्टज्ञानसाक्षात्करणं विमुक्तिज्ञानस्कन्धः। सर्वश्चैष श्रावकादिभिः साधारण इत्यसाधारणार्थमाह। यानि चेत्यादि। तत्र द्रव्यतः षट् पारमिताः। नामतस्तु दश भवन्ति। प्रज्ञापारमिताप्रभेदत्वाच्चतसृणां पारमितानाम्। तथाहि लोकोत्तरनिर्विकल्पकं ज्ञानं क्रमेण र्साववरणप्रहाणकारिप्रज्ञापारमिता। लोकोत्तरमार्गपृष्ठलब्धज्ञानसङ्गृहीताः पुनरुपायप्रणिधानबलज्ञानपारमिताः स्युरिति। प्राधान्यादादौ षट् पारमिताः निर्दिश्य परिशिष्टपारमितोपादानार्थमाह। बुद्धगुणसम्पदुपायपारमिता बलपारमितेति सुगमम्। अभिज्ञापारमितेति बौद्धी सर्वाभिज्ञा षष्ठी वा ग्राह्या। परिज्ञापारमिता ज्ञानपारमिता। कथं प्रकृष्टापि सती ज्ञानपारमिता न निर्विकल्पेति चेदुच्यते। यस्माज्ज्ञानपारमिता निर्विकल्पज्ञानपृष्ठलब्धं ज्ञानं येन ज्ञानेनाधिगमं परिच्छिद्य स्वयञ्च धर्मसम्भोगं प्रत्यनुभवति परांश्च परिपाचयति। तच्चैतन्निर्विकल्पज्ञाने द्वयमपि नास्तीत्यतो न निर्विकल्पा ज्ञानपारमिता। प्रणिधानपारमितेति ज्ञायत एव। सर्वज्ञज्ञानसम्पदिति। प्रमुदितादिभूमयः। या च हितैषितेति मुदितोपेक्षे। बुद्धगुणा इति। अष्टादशावेणिकबुद्धधर्मादयः। सम्यक्सम्बोधिसुखमिति। क्लेशज्ञेयावरणावासनानुसन्धिप्रहाणफलम्। सर्वधर्मैश्वर्यपारमितेति। सर्वाकारजगदर्थसम्पादनशक्नुता। अनभिभूतः सर्वाभिभूरिति मारतीर्थिकादिभिरतिरस्कृतस्तेषाञ्च कृताभिभवनः। ऋद्ध्यभिसंस्कार इति। ऋद्धिप्रातिहार्यमावर्जनपूर्वकबोधिबीजारोपणहेतुः। यच्चानावरणमित्यादि। क्लेशज्ञेयावरणप्रहाणाद्यथाक्रममनावरणमसङ्गमत एवाप्रतिहतम्। समाभावादसमम्। समेनासमनैव समत्वादसमसमम्। सर्वान्योपमातिक्रान्तत्वादनुपमम्। अनन्तज्ञानपरिच्छेदायोग्यत्वादपरिमेयं,एवं विशेषणविशिष्टं किं तदित्याह। तथागतयथाभूतज्ञानबलमिति। आदेशनादिप्रातिहार्यकरणसमर्थमेव ज्ञानमव्याहतत्वाद्बलमुक्तम्। यद्बुद्धज्ञानबलं बलानामिति। आश्रवक्षयज्ञानमेव बलं बलानां मध्ये प्रकृष्टतरम्। यद्बुद्धज्ञानदर्शनमिति। ज्ञानं सत्यादिसम्बोधिरभिज्ञाः पञ्च दर्शनम्। दशबलपारमितेति। स्थानास्थानज्ञानबलादीनि दश। चतुर्वैशारद्येति। सम्यक्सम्बुद्धोऽहमित्यादि प्रतिज्ञाने पर्यनुयोक्तुरभावेन निर्भयताकाराश्चत्वारस्तैश्चतुर्भिर्वैशारद्यैः परमसुपरिपूर्णोऽयमधिगमः सांवृतः। तात्त्विकस्त्वन्य इत्याह। यश्चेत्यादि। परमार्थाभिनिर्हारेणेति। मायोपमताभिमुखीकरणेन धर्मचक्रप्रवर्तनमिति। धर्मस्य स्वाधिगमस्य द्योतिकया प्रज्ञापारमितादेशनया चक्रवत्पुनः पुनरामुखीकरणार्थेन प्रवर्तनं विनेयसन्ताने विस्तारीकरणम्। तदेव तमोऽपनयनाद्धर्मोल्काप्रग्रहणम्। सम्यक् प्रतिबोधनाद्धर्मभेरीसम्प्रताडनम्। विनेयमनःप्रपूरणाद्धर्मशङ्खप्रपूरणम्। पौरीत्वेन धर्मशङ्खप्रव्याहरणम्। दृढसर्वावरणप्रहरणाद्धर्मशङ्खप्रहरणम्। वर्णत्वेन धर्मवृष्टिप्रवर्षणम्। विष्पष्टत्वेन विज्ञेयत्वेन च धर्मयज्ञयजनम्। मनोज्ञत्वेन सर्वसत्त्वसन्तर्पणम्। श्रवणीयत्वेन यथासुखीकरणात् सम्प्रवारणम्। ये च तत्रेत्यादि। बुद्धधर्मेषु विनयनाद्विनीताः प्रत्येकबुद्धधर्मेषु शिक्षणाच्छिक्षिताः। श्रावकधर्मेष्वधिमोक्षादधिमुक्ता इति योज्यम्। स्वबोध्यधिगमं प्रतिनियतगोत्रत्वलाभान्नियतास्तत एव सम्बोधिपरायणाः। शैक्षाणीति। प्रथमफलप्रतिपन्नकादीनां सम्बन्धीनि। अशैक्षाणीति। अर्हताम्। तत्र त्रैवाचिकादिकर्मणोपसम्पन्नो भिक्षुरेवं भिक्षुणी। त्रिशरणपरिग्रहात् पञ्चशिक्षापदपरिग्रहाच्चोपासकस्तथोपासिकेति द्विधा भेदः। त्रिशरणपरिगृहीतमुपासकं म आचार्यो धारयतु। तथा त्रिशरणगतं पञ्चशिक्षापदपरिगृहीतमुपासकं म आचार्यो धारयत्विति विनये द्विधा पाठात्। मनोभावनीयानिति। एक-द्वि-त्रि-पुद्गलान्मनःप्रसादकारिणः। निरवशेषमनवशेषमिति। अनन्तहेतुत्वादप्रमेयफलप्रदत्वाच्च यथाक्रमं वाच्यम्। ऐकध्यमित्यादि। अतीततथागतसम्बन्धेन निर्दिष्टत्वादैकध्यमेकप्रकारत्वमभिसंक्षिप्य चेतस्यध्यारोप्याप्रमेयत्वादिरूपेण पिण्डयित्वा गणयित्वा बोधिसत्त्वादि-यावत्तिर्यग्योनिसम्बन्धेन तुलयित्वा प्रमाणीकृत्य वक्ष्यमाणलक्षणयाऽग्रयाऽनुमोदनयाऽनुमोदेत। कर्तुराशयादतिशयश्रद्धातिहर्षं स्वयं तत् सर्वसम्पादनाशयातिशयं कुर्यादिति यावत्। अग्रार्थमेव कथयन्नाह। श्रेष्ठयेत्यादि। व्याख्यातमेतत्। वाचम्भाषतेति। सर्वतथागतशीलादिस्कन्धस्यानुपलम्भालम्बनेन मनस्कारेणानुमोदनासहगतं पुण्यं सर्वसत्त्वार्थमनुत्तरबोधौ परिणामयामीति वचनमुच्चारयेदित्यर्थः। आहारकमिति। उत्पादकं मम सर्वसत्त्वानां वेति शेषः। अनुपलम्भपरिणामनामनस्कारं निर्दिश्येदानीं तत्र कुचोद्यपरिहारार्थं प्रश्नयन्नाह। तत्र बोधिसत्त्वयानिक इत्यादि। यैर्वस्तुभिः परिणामयतीति। यैस्तथागतत्वादिगोत्रैर्हेतुभिर्निर्यातयतीत्यर्थः। क्वचिदनुमोदेतेति पाठः। तत्रापि परिणामनामनस्कारस्य प्रक्रान्तत्वात्परिणामयतीत्यर्थो ग्राह्यः। तथा चानन्तरमेव वक्ष्यति। कतमैर्वस्तुभिः परिणामयतीति। यैरारम्बणैर्यैराकारैरिति। आरम्बणानि शीलस्कन्धाः सर्वधर्मास्तद्ग्रहणप्रकारा एवाकाराः। तच्चित्तमिति ग्राहकविकल्पम्। अपित्विति। अपितुशब्दो निपातः किंशब्दार्थे वर्तते। तथोपलभ्येरन् यथा निमित्तीकरोतीति। वस्त्वादीन्यनिमित्तीकृत्य परिणामयितुमशक्यत्वात्तान्यतीततयाऽविद्यमानान्येवाध्यारोप्य यथोद्भावनासंवृत्या विषयीक्रियन्ते किं तत्त्वतस्तथैव समुपलभ्यन्त इत्यर्थः। यद्युपलभ्यन्त इति मतम्। तथा च सति।



 



प्रमाणव्याहतत्वेन विपर्यासो हि वस्तुनः।



उपलम्भो मरीच्यादिज्ञानवत् परिनिश्चितः॥



तस्मात्तद्बलतो वृत्तः परिणामविधिर्मतः।



आत्मात्मीयविपर्यासप्रवृत्त इव दुर्बलः॥



 



इति मतिः। विकल्पविषयस्याध्यारोपितत्वेनालीकत्वात् प्रत्ययाधीनवृत्तित्वाच्च स्वप्नमायामरीचिवन्नैवोपलभ्यन्ते तत्त्वत इत्याह। न तानि भदन्त इत्यादि। एवमपि विपर्यस्तपरिणामप्रसङ्ग इत्याह। यदि सोऽसंविद्यमानमित्यादि। स्वलक्षणविषयीकरणादारम्बणीकुर्यात्। सामान्यरूपपरिच्छेदान् निमित्तीकुर्यात्। संज्ञाया निमित्तोद्ग्रहणात्मिकायाः स्वविषयाभावेन विपर्यासोऽतस्मिं तद्ग्रहाद्भ्रान्तिः संज्ञाविपर्यासः। चित्तस्यालम्बनग्राहकविज्ञानस्य तथैव विपर्यासश्चित्तविपर्यासः। दृष्टेरेवाकारपरिच्छेदरूपायाः सन्तीरणात्मिकायाः प्रज्ञायाः पूर्ववद्विपर्यासो दृष्टिविपर्यासः। न भवेदिति कथं तस्येति पूर्वेण सम्बद्धादपितु भवेदित्यर्थः। तथा चानुपलम्भपरिणामनामनस्कारः संज्ञाविपर्यासादिरूप इति शेषः। तस्मादन्यथा संज्ञादीनां विपर्यासत्वप्रतिपादनेन प्रकृतार्थाविरोधान्न किञ्चिदुक्तं स्यात्। न त्वस्य स्वविषयाभावेन संज्ञादेर्विपर्यासत्वेऽतत्स्वभावस्यान्यस्य कथं संज्ञाविपर्यासादिरूपतेति। तत्कस्यहेतोरित्याशङ्क्याह। तथाहीत्यादि। रागोऽपीत्यपिशब्देन द्वेषादिपरिग्रहः। विकल्प्येति। अध्यारोप्य। संकल्प्येति। पुनः पुनरालम्ब्य विपर्यस्तसंज्ञादिप्रभवत्वाद्रागोऽपि संज्ञाविपर्यास इति योज्यम्। एतदुक्तम्। "यस्मादविद्यमानं नित्यत्वादिकमनित्यत्वादिधर्मयुक्ते वस्तुन्यध्यारोप्य तदेव पुनः पुनरालाम्ब्योत्पद्यमानो रागादिविपर्यस्तसंज्ञादिहेतुकत्वेन संज्ञाविपर्यासादिरूपः समुत्पद्यते। तस्मादनुपलम्भपरिणामनामनस्कारस्तथैवोत्पद्यत इति। पक्षान्तरार्थमाह। अथापीत्यादि। अथापि यथावस्तु यथारम्बणं यथाकारोऽसंविद्यमान इति शेषः। तथा बोधिस्तथाचित्तं किमसंविद्यमानमित्यध्याहार्यम्। एवमित्यभ्युपगमे सत्याह। एवमित्यादि। ग्राह्यग्राहकाश्च सर्वधर्मास्तद्वासनाः सर्वाः सर्वधातवोऽसंविद्यमानाः प्राप्ता इति मतिः। भवत्वेवं को दोष इति चेदाह। यदि चेत्यादि। एवं मन्यते। यदि यथावस्त्वादिकमसंविद्यमानं तथाबोधिचित्तादिकं तदा कतमैर्वस्त्वादिभिः कतमं चित्तादिकं क्व बोधौ परिणामयति। यावता नैव केनचित् किञ्चित् क्वचित् परिणामयत्यतः सर्वथा परिणामानुपपत्तौ परिणामविपर्यास इति। तत्त्वेन विपर्यस्तोऽप्यनित्यादिविकल्पवत् पारम्पर्येण भूतार्थप्रापकः संवृत्या वस्त्वादेर्विद्यमानत्वेन परिणामनामनस्कार इष्यत एवातो न किञ्चिदधिकं त्वयोक्तमित्यभिप्रायेणाह। नेदमार्यसुभूत इत्यादि। अथवा तस्मिन् वस्त्वारम्बणादौ पारमार्थिकाभिनिवेशविगमेन संवृत्या मायापुरुषस्येव परिणामनान्न विपर्यस्तपरिणाम इति अभिप्रायवानाह। नेदमार्यसुभूत इत्यादि। युक्तियुक्तमपि कथमादिकर्मिकस्य न वक्तव्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। यदपि हि स्यादित्यादि। अधिगमसम्प्रत्ययवैकल्याददृढत्वेन श्रद्धामात्रकं तदेव मृदुमध्याधिमात्रभेदादुक्तम्। प्रेममात्रकमित्यादि पदत्रयेण। अथवा श्रद्धामात्रकमस्तित्वगुणवत्त्वशक्यत्वेषु यथाक्रममभिसंप्रत्ययः प्रसादोऽभिलाष इत्येवं प्रेममात्रकमित्यादि त्रिधा निर्दिष्टम्। अन्तर्धीयेतेति विनश्येत्। संवृतिपरमार्थविभागाकुशलत्वादिति भावः। न वक्तव्यमेव तर्हि प्राप्तमित्याह। अविनिवर्तनीयस्येत्यादि। यो वा कल्याणमित्रोपस्तब्ध इति पृथग्जनस्यापि कल्याणमित्राधिष्ठितत्वेनोभयसत्यस्वरूपविज्ञानादिति भावः। उपसंहारार्थमाह। एवञ्चेत्यादि। एवमिति संवृतिसत्यानतिक्रमेण। पुनरपि संवृतिपक्षाश्रयेण चोद्यार्थमाह। येनेत्यादि। यदिति। अनुमोदनासहगतं कुशलमूलम्। तच्चित्तमित्यनुमोदकं परिणामनाकाले क्षीणमुपचयविनाशान्निरुद्धं प्रबन्धविनाशेन विगतं प्रकृतिविनाशाद्विपरिणतं विकारविनाशेन। तत्तस्मात् कतमत्तच्चित्तमनुमोदकं परिणामनाकाले येनानुमोदकचित्तेन परिणामयति। नैव केनचिदित्यर्थः। एवं मन्यते। एवञ्चात्र बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्तुसर्वज्ञतायां परिणामयितव्यमिति वचनेन पौर्वापर्यप्रतिपादनान्नैकस्मिन् क्षणे द्वावनुमोदनापरिणामनामनस्कारौ भवत इति प्रतिपादितम्। तस्मात् समानकर्तृत्वेक्त्वाप्रत्ययविधानादेकमेव चित्तं पूर्वमनुमोद्य पश्चात् परिणामयतीत्युक्तम्। तच्चायुक्तं यतो नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वेनानुमोदकं चित्तं परिणामनाक्षणेनास्त्यतस्तेन कथं परिणामयतीति। एवमनुमोद्येति पदमसङ्गतमिति निर्दिश्येदानीमनुमोदनासहगतं पुण्यक्रियावस्त्विति पदमयुक्तमित्यावेदयन्नाह। कतमद्वेत्यादि। एतदुक्तम्। "अनुमोदनाकारेणोत्पादादनुमोदकमेव चित्तमनुमोदनासहगतं पुण्यक्रियावस्तूच्यते। यतस्तस्मात् कतमद्वा तच्चित्तमनुमोदनासहगतं पुण्यक्रियावस्तु यच्चित्तं व्यतिरिक्तं कर्मभूतमनुमोदकं चित्तं कर्तृभूतं परिणामयति। न च तेनैव चित्तेन तस्यैव परिणामना युक्ता स्वात्मनि कारित्रविरोधादिति मतिः। अथ मतमनुमोदनाचित्तानन्तरं विशिष्टचित्तक्षणोत्पादादनुमोदनासहगतं पुण्यक्रियावस्तु यच्चित्तं प्राप्तं तत्पश्चात् परिणामनाचित्तेन परिणामयितव्यमित्ययं तस्य वाक्यस्यार्थ"इति। तथापि परिणामयितव्यमिति पदं नोपपन्नमित्याह। कथं वा शक्यमित्यादि। एवं वाक्यार्थो योजनीयः। प्रथमक्षणभाविनो विज्ञानस्य क्षणिकत्वेन द्वितीये क्षणेऽभावः। तथा द्वितीयक्षणभाविनोऽपि कारणवैकल्यादनुत्पादेन प्रथमक्षणेऽभाव इत्येवं यदा द्वयोः परिणामनीयपरिणामकयोः प्रथमद्वितीयक्षणभाविनोश्चित्तयोः समवधानसम्भवो नास्ति तत्कथं द्वितीयक्षणभाविना परिणामनाचित्तेन प्रथमक्षणभाविचित्तमनुमोदनासहगतं पुण्यक्रियावस्तु परिणामयितुं शक्यमिति। पूर्वचित्तानुत्पादता तर्हि विद्यमाना परिणाम्यत इति चेत्। आह। न च तच्चित्तस्वभावता शक्या परिणामयितुमिति। नीरूपत्वादिति भावः। भगवदार्यमैत्रेयाधिष्ठानेन शक्रः परिहरन्नाह। मा खल्वित्यादि। अयमभिप्रायः। संवृत्याभ्युपगतभावानामर्थक्रियाकारित्वेन क्षणिकत्वे सति विशिष्टोत्पत्तिक्रियासमावेशं मुक्त्वा न वै कश्चित् क्रियान्तरसमावेशः सम्भवति। अतो योगिनां विशिष्टानुमोदकचित्तानन्तरं विशिष्टतरमनुमोदनासहगतं पुण्यक्रियावस्तुचित्तमुत्पद्यते। ततोऽप्यनन्तरं तत्कुशलमूलवासनावासितं विशिष्टतमञ्चित्तं परिणामनाकारेणोदयमासादयति। प्रतीत्यसमुत्पादधर्मताबलादिति स्थितमेतद्वस्तुतत्वम्। क्षणेन व्यवहारायोगाद्बालजनानुरोधेन सन्तानापेक्षणात् सामयिकत्वेन च शब्दवृतेरेवञ्चात्र बोधिसत्त्वेन महासत्त्वेनानुमोद्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वज्ञतायां परिणामयितव्यमित्यनेन वाक्येनोक्तमार्यमैत्रेयेण कर्मकर्तृक्रियादिरूपतया। तत्र च वस्तुभागं परित्यज्य शब्दमात्रमेवं गृहीत्वा बालजनोत्त्रासकरो विकल्पो न कार्य इति। किञ्चैवमनुमोद्यानुमोदनासहगतं पुण्यक्रियावस्तु। अनुत्तरायां सम्यक्सम्बोधौ परिणामयामीति वाचं भाषेतेति प्राक् स्ववचनादार्यसुभूतिनापि संवृतिपक्षे यथोक्त एवाभिप्रायोऽभ्युपगन्तव्य इत्यभिप्रायेणाह। कथञ्चार्यसुभूत इत्यादि। यदि यथोक्ताभिप्रायो न गृह्यते,तदा गत्यन्तराभावात् कथं परिणामयितव्यम्। नैव कथञ्चित्तस्माद्यथोक्त एवाभिप्रायो ग्राह्य इत्यर्थः। तदेव कथयन्नाह। कथञ्चानुमोदनासहगतमित्यादि। परिगृह्णता सुपरिगृहीतं परिणामयता सुपरिणामितं कथं भवतीति योज्यम्। अविपर्यासलक्षणपरिणामनामनस्कारार्थमाह। अथ खल्वायुष्मान् सुभूतिरित्यादि। आरभ्येति विकल्पकेन विज्ञानेनामुखीकृत्य। अधिष्ठानं कृत्वेति। अग्रतो विषयभावेनावस्थाप्य। परिणामयामीति वाचा परिणामनाद्विकल्पेन परिणामः कृतस्तस्मात् सर्वस्यैव विकल्पस्य प्रकृत्या स्वभावप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्भ्रान्तत्वमित्यभिप्रायेणाह। कथन्न सञ्ज्ञाविपर्यास इत्यादि। परिहारार्थमाह। स चेदार्यसुभूत इत्यादि। तस्मिंश्चित्ते न चित्तसञ्ज्ञीभवतीति। परिणामकचित्ते तस्मिन् परमार्थतो न चित्ताभिनिवेशीभवति। एवं को गुणो भवतीत्याह। एवं बोधिसत्त्वेनेत्यादि। उपसंहरन्नाह। यथा तच्चित्तमित्यादि। इदं तद्वर्तमानं परिणामकञ्चित्तमित्यभिनिवेशेन तत्त्वतो यथा तच्चित्तं न सञ्जानीते न प्रतिपद्यते। तथा यदि परिणामयति तदैव सम्यगनुपलम्भहेतुप्रवृत्तत्वान्न सञ्ज्ञाविपर्यास इत्यादि योज्यम्। एतदुक्तम्। "यदि तस्य विकल्पस्याविषयस्य विषयवत्तां गृह्णीयात्तदा भ्रान्तो भवेत्। यावता मायाकारवदसौ तज्ज्ञानमविषयमविषयतयैवावगम्य विकल्पेन परिणामनेऽपि स्वरूपपरिज्ञानात् कथं भ्रान्तो भवती"ति। सामर्थ्यकथितमप्यर्थं स्पष्टयन्नाह। अथ येन चित्तेनेत्यादि।



 



मायाकारो यथा कश्चिन्निर्मिताश्वादिगोचरम्।



चेतो निर्विषयं वेत्ति तेन भ्रान्तो न जायते॥



 



इति न्यायेन परिणाम्यमानचित्तादावपि मायापुरुषस्येव वर्तनान्न विपर्यास इत्याह। स चेत् पुनरित्यादि। यच्चित्तमिति परिणाम्यमानम्। एवं सज्ज्ञानीत इति। वक्ष्यमाणक्षीणत्वादिना प्रयोगपृष्ठावस्थायां प्रतिपद्यते। एवं समन्वाहरतीति। मौलावस्थायाम्। तस्यापि चित्तस्य सैव धर्मतेति। परिणामकचित्तस्य स्वभावविरहात् सैव क्षीणात्वादिधर्मता। यैरपि धर्मैरिति वस्त्वादिभिः। येष्वपि धर्मेष्विति सर्वज्ञतादिषु। अमुमेवार्थमनागतादिहारकत्रयभेदेन दर्शयन्नाह। यथातीतानामेवमनागतानामित्यादि। स एव धर्मोऽक्षय इति। धर्मतारूपेण क्षयाभावादक्षयो बुद्धत्वम्। न धर्मो धर्मं परिणामयतीति। धर्मः परिणामनामनस्कारः पुण्यक्रियावस्तु धर्मम्। ननु परिणामयामीति शब्दोल्लेखेन परिणामनाद्विकल्पः समाक्षिप्तस्तस्य च प्रकृत्या स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्भ्रान्तत्वात्कथं न सज्ज्ञादिविपर्यास इति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहि स तामित्यादि। एतदुक्तम् "यद्यारोपितस्य तात्त्विकस्य च रूपस्य विभागं न जानीयात्तदा दृश्यविकल्प्यावर्थावेकीकृत्य स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवर्तनाद्भ्रान्तो भवेद्यावता विकल्पविषयमारोपितमारोपितात्मनाऽलीकरूपेण निश्चिन्वन् संवृत्या स्वलक्षणञ्च वस्तु निर्विकल्पकज्ञानगोचरं पृथगेव मायोपमात्मकं मायोपमात्मनाऽवितथरूपेण पश्यन् यदा परिणामनां नाभिनिविशते न च परिणाम्यमानं चित्तं परिणामकञ्चित्तं जानातीत्यपि प्रतिपद्यते। न च धर्मो धर्मं जानातीत्यवगच्छति। तदा कथं विपर्यस्तो नामे"ति। यथोक्तमेवार्थं व्यतिरेकमुखेन स्पष्टयन्नाह। स चेत् पुनरित्यादि। नन्ववबोधमन्तरेण प्रवृत्त्यसम्भवात् कथं जानानो न परिणामयतीति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहि स तां परिणामनामभिनिविशत इति। प्रमाणबाधितभावरूपां तत्वेनेति शेषः। विविक्तपरिणामनामनस्कारमाह। सचेत् पुनरस्यैवं भवति सोऽपि पुण्याभिसंस्कार इति। पुण्यं कुशलमूलान्यलोभादीनि। तस्याभिसंस्कारः तत्समुत्थापिका क्रियाचेतना। आत्मादिसम्बन्धदोषरहितत्वाद्विविक्तः। मायोपमतया सर्वोपद्रवप्रशमहेतुत्वेन शान्तः। शान्तत्वादिरूपेणाप्यभिनिवेशो विपर्यास इत्याह। स चेदेवमित्यादि। यदि शान्ता इत्याद्येवंरूपेण भावतो न सञ्जानीते तदा सम्यक् प्रवृत्तत्वादेवमियं तस्य प्रज्ञापारमितेति योज्यम्। बुद्धकुशलमूलस्वभावानुस्मृतिपरिणामनामनस्कारं निर्दिशन्नाह। यदपि तत्तेषां बुद्धानामित्यादि। यादृश एव परिणाम इति मायोपमः। तदपीति परिणामकञ्चित्तम्। संवृत्याऽविचारैकरम्यपूर्वपूर्वस्वकारणमाश्रित्य कुशलमूलस्येवोत्पादात्तज्जातिकम्। स्वसामान्यलक्षणरूपेण यथाक्रममर्थक्रियासु योग्यत्वादयोग्यत्वाच्च तल्लक्षणं तन्निकायम्। धर्मधातुस्वभावत्वात्तत्स्वभावम्। सचेदेवं संजानीत इति। निमित्तत इति शेषः। बुद्धिपूर्वकत्वाद् व्यापाराणां कथं प्रतिपद्यमानो न परिणामयतीति। तत्कस्य हेतोरित्याशङ्क्याह। न हि बुद्धा इत्यादि। निषेध्याभावे निषेधानुपपत्तौ तत्र शून्यत्वादौ तत्त्वाभिनिवेशो विपर्यास इत्यभिप्रायः। प्रकारान्तरमप्याह। यच्चातीतमित्यादि। असम्प्राप्तमिति। वर्तमानकालतां न प्रतिपन्नम्। स्वभाववैधुर्येणावस्थानानुपपत्तेः स्थितिं नोपलभ्यते। सहकारी कारणतया नैव निमित्तम्। उपादानकारणतया न विषयः। यथोक्तरूपेणालम्बनात् सचेदेवं निमित्तीकरोति। तथैव निषेधाभिनिवेशेन वस्तुतत्त्वापरिज्ञानान्न समन्वाहरति। ततो विपर्यस्तत्वान्न परिणामयतीति। अनिमित्ताकारेण तर्हि परिणामनायां काष्ठादेरपि प्राप्नोतीत्याशङ्क्याह। अथ स्मृतिवैकल्येनेत्यादि। स्मृत्यभावेन शून्यादिकं काष्ठादिभावो न निमित्तीकरोति। तथापि वस्तुत्वापरिज्ञानान्न समन्वाहरति। एवं स्मृतिवैकल्यादनवबोधाद्वा देवदत्तादिर्न मनसिकरोति किञ्चित्तथापि पूर्ववन्न समन्वाहरति। ततश्च तथैव विपर्यस्तत्वान्न परिणामयतीति वाक्यार्थः। यदि निमित्ताकारेणा निमित्ताकारेण च न परिणामस्तदा कथं तर्हि क्रियतामित्याह। अथ तन्निमितमित्यादि। एतदुक्तम् "निमीलिताक्षजात्यन्धादीनामिव प्रत्ययवैकल्येनामनसिकारमात्रान्न भावादिविपर्यासवासना प्रहीयते। असञ्ज्ञिसमापत्त्यादिव्युत्थितस्येव योगिनः पुनरपि भावाद्यभिनिवेशमूलस्य रागादिक्लेशगणस्योत्पत्तेः। न चापि विना विपर्यासप्रहाणेन पूर्वोपलब्धेषु रूपादिषु पटुतरतदनुभवाहितमनसिकारपरिवर्जनं शक्यं कर्तुम्। अस्य परिवर्जने दाहापरिवर्जनवत्। तथाह्यमी रूपादिमिथ्याविकल्पा न कण्टकादिवदुत्कील्य चेतसोऽपनेतव्याः। किन्तर्हि भावादिष्वस्तित्वविपर्यासबीजापगमात्। अतस्तदविनिवृत्तावप्रहीणतिमिरदोषस्येव पुंसोऽलीकरूपाद्यभिनिवेशः प्रवर्तमानः केन वार्येत। तच्च विपर्यासबीजं योगिनः प्रज्ञाचक्षुषा निरूपयतः सर्वधर्माणां सम्यग्ज्ञानालोकेनादर्शनान्न भवति। एवं सत्युत्खातमूला इव तरवो निर्मूलतया दुर्विकल्पाश्चेतसि तत्त्वतो न पुनर्विरोहन्तीत्येवं तन्निमित्तं तथागतकुशलमूलपरिणामकञ्च चित्तं मायोपमतया समन्वाहरति। तद्रूपेणैव तत्त्वतोऽनभिनिवेशान्न च निमित्तीकरोति"इति। उपायकौशलपरिणामनामनस्कारं कथयन्नाह। एवमत्र बोधिसत्त्वेनेत्यादि। उपायकौशलमिति। दानादीनामनुष्ठानेऽप्यनुपलम्भः। ननु भिन्नत्वादुपायकौशलशिक्षाया मातुः श्रवणादिना कः सम्बन्ध इति। तत्कस्य हेतोरित्याशङ्क्याह। नहि प्रज्ञापारमितामित्यादि। एतदुक्तम् "दानादीनामनुपलम्भेन या प्रज्ञापारमिताया परिणामनाक्रिया सैव यस्मादुपायकौशलशिक्षा तस्मान्मातुः श्रवणादिकं विना न भवती"ति। एतदेव स्पष्टयन्नाह। तत्र य एवं वदेत्यादि। स्याद्वचनीय इति वक्तव्यो भवेदित्यर्थः। ननु भिन्नत्वात्परिणामस्य प्रज्ञापारमितया सह कः सम्बन्ध। इति तत्कस्य हेतोरित्याशङ्क्याह। निरुद्धा हीत्यादि। पूर्वकुशलमूलोपार्जकचित्तचैतसिकधर्माणां तद्वासनानाञ्च तत्त्वतोऽनुत्पादान्निरुद्धा हि त आत्मभावा निरुद्धा हि ते संस्कारा इति द्वयमुक्तम्। प्रयोगमौलपृष्ठावस्थायामुपलम्भाभावेन त एव यथाक्रमं शान्ता विविक्ता विरहिता उपलब्धित इति योज्यम्। अथवा तदाकारेण निराकारेणान्याकारेण च ज्ञानेन ग्रहीतुमशक्यत्वाद्यथाक्रमं वाच्यम्। अयमभिप्रायः। परिणाम्यमानधर्माणां तद्वासनानाञ्च तत्त्वतोऽनुत्पादात् परिणामकज्ञानपथातीतत्वेन यस्मात् परिणामानुपपत्तिस्तस्माद्विकल्पेनाध्यारोप्य प्रज्ञापारमिताबलेन मायोपमधर्मताधिमोक्षादविपर्यस्तः सम्यगुपायकौशलपरिणामः शक्यते कर्तुमिति। अनिमित्तपरिणामनमनस्कारं वक्तुमाह। अपि तु खलु पुनः स पुद्गल इत्यादि। शून्यताद्येकरूपेण ग्रहणान्निमित्तीकृत्य पुनः पुनर्मनसिकरणाद्विकल्प्य च यथाभूतमपगतभावाभावादिरूपं तत्त्वं पश्चात्स्वविकल्पप्रतिभासेऽनर्थेऽयथाभूतेऽर्थाध्यवसायेन यथाभूतसञ्ज्ञी पारमार्थिकसञ्ज्ञी सन् विकल्पप्रतिभासितमर्थमुपलम्भमनुपलम्भेबुद्धत्वे परिणामयेदिति वाक्यार्थः। नन्वर्थोपलम्भाभावात् कथमेवं परिणामितम्। नाभ्यनुजानन्तीति। तत्कस्य हेतोरित्याशङ्क्याह। एष एव हि तस्येत्यादि। एतदुक्तम् "यस्मात् पुद्गलः शून्यताद्याकारतया परिनिर्वाणमनुत्तरां बोधिं निमित्तीकरोति विकल्पयति च स्वविकल्पप्रतिभासेनाकारेण तथैव चोपलभते। तस्मादध्यारोपितार्थरूपेण ग्रहणादविचिकित्स्यत्वेन तस्यैवं महानुपलम्भ इति । ननूपलम्भस्य मनःप्रसादादिकारित्वात् कथं तत्सञ्ज्ञिनः परिणामना न महार्थकरी"ति। तत्कस्य हेतोरित्याशङ्क्याह। सविष इत्यादि। अभिमतधर्मतत्त्वाधिगमभ्रंशार्थेन मरणहेतुत्वात् सविषः। सर्वसंसारदुरुद्धरदुःखहेतुत्वेन सशल्यः। आदिकर्मिकाणां मनःप्रसादादिकारित्वेऽपि प्रमाणव्याहतत्वादिति शेषः। एतदेव स्पष्टयन्नाह। तद्यथापि नामेत्यादि। तत्र परिज्ञातविषदोषरूपत्वात् पण्डिताः। विषस्वरूपाज्ञानाद्बालाः स्वरूपावगमेऽप्यनवधारितमारणशक्तित्वाद्दुःप्रज्ञाः। सुखोत्पादकत्वात् सुखकरं पर्यवसाने दुःखफलत्वाद्दुःखविपाकम्। एक इत्युपलम्भसंज्ञिनः श्रुतचिन्ताभावनावस्थासु मिथ्यावरणाद्यथाक्रमं दुर्गृहीतेनेत्यादिपदत्रयम्। मायोपमार्थस्य सविपर्यासविनिवृत्तिप्रयोजनानवगमात् सुभाषितस्यार्थमजानानाः। मायोपमपदार्थस्वरूपावधारणशक्तिवैकल्याद्यथाभूतमर्थमनवबुध्यमानाः। नन्वादिकर्मिकस्य मनःप्रसादादिकारित्वात् कथमुपलम्भः सदोषो येन तत्संज्ञिनः परिणामो नास्तीति। तत्कस्य हेतोरित्याशङ्क्याह। सविषत्वादुपलम्भस्येति। प्रमाणव्याहतत्वेनेति मतिः। नैवं शिक्षितव्यमित्युपलम्भयोगेन शिक्षा न कार्या। बुद्धानुज्ञातपरिणामनामनस्कारं निर्दिष्टुमाह। कथं पुनरनेन शिक्षितव्यमित्यादि। अनभ्याख्यातुकामेनेति तथागतनिर्दिष्टार्थानुष्ठानेन फलप्राप्तिदर्शनादतिरस्कर्तुकामेन। बुद्धज्ञानेन प्रज्ञाचक्षुषा सर्वधर्माविकल्पनविषयेण जानन्ति। बुद्धचक्षुषा सर्वाकारसर्वधर्माभिसम्बोधविषयेण पश्यन्तीति योज्यम्। यया धर्मतयेति मायोपमतया। अभ्यनुजानन्तीति। यथा सर्वमार्गानुपलम्भालम्बनेन मनस्कारेण परिणाम्यमानस्य स्वहस्तं प्रयच्छन्ति। अनपराध इति। निर्दोषत्वादकृतापराधः। अपगतोपलम्भविषयत्वान्निर्विषः परिणामः,रूपकायधर्मकायप्राप्तिहेतुत्वाद्यथाक्रमं महापरिणामो धर्मधातुपरिणामः। प्रयोगपृष्ठावस्थापुष्टत्वात् परिपूर्णः। मौलावस्थायां सम्यक् परिपूर्णत्वात् सुपरिपूर्णः। त्रैधातुकापर्यापन्नपरिणामनामनस्कारं प्रतिपादयन्नाह। पुनरपरं बोधिसत्त्वयानिकेनेत्यादि। अपर्यापन्नमिति कामादिधातुत्रयस्यानुपलम्भादप्रतिष्ठितम्। तत्र-



 



नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः।



कामधातुः स नरकद्वीपभेदेन विंशतिः॥



 



ऊर्ध्वं सप्तदशस्थानो रूपधातुः पृथक् पृथक्।



ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम्॥



 



आरूप्यधातुरस्थान उपपत्त्या चतुर्विधः।



ध्यानादूर्ध्वं ससंस्थानो रूपे सद्भावतोऽथवा॥



 



अतीतादिकालत्रयेऽप्रतिस्थितत्वादाह। नाप्यतीतमित्यादि। ननु कामादिधातावतीतादिकाले चावस्थितस्य चित्तक्षणस्य परिणामात् कथं तत्र न प्रतिस्थित इति। तत्कस्य हेतोरित्याशङ्क्याह। त्र्यध्वत्रैधातुकेत्यादि। एतदुक्तम् त्र्यध्वत्रैधातुकस्य तत्त्वेनानुत्पादादपर्यापन्नत्वे कथं तत्र स्थितः। परिणाम इति। यत्रापि धर्म इति बुद्धत्वे धर्मधातुवत् क्षयभावादविनष्टः परिणामः। अपर्यापन्न इत्यभिनिवेशो बन्धनमित्याह। अथ तमित्यादि। उपसंहरन्नाह। तत्र योऽयमित्यादि। प्रश्नमुखेन सम्यगुपदेशकत्वात्। आर्यसुभूतेः साधु साध्विति साधुकारः। अन्यथार्यमैत्रेयेणोपदिष्टत्वात् कथमन्यं प्रति साधुकारः साधुः स्यात्। नन्वविपर्यस्तधर्मदेशनाऽभावे कथं शास्तृकृत्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। यो ह्ययमित्यादि। एतदुक्तम्। "यस्मान्मायोपमतया सर्वोऽयं परिणामो धर्मधातुपरिणामस्तस्मादविपर्यस्तदेशनया बुद्धकृत्यं करोषीति। अतोऽनन्तरं महापुण्योदयपरिणामनामनस्कारो वक्तव्यः। स च मृदुमध्याधिमात्रभेदेन त्रिविध"इति। मृदुमधिकृत्याह। अस्यामेव धर्मतायामित्यादि। यावत् पञ्चानामभिज्ञानां लाभिनो भवेयुरिति। एतदुक्तम् "दशकुशलकर्मपथसेविनः सत्त्वानारभ्य यावत् पञ्चाभिज्ञानां पुण्याभिसंस्कारान्मृदुभूतात्तदनुपलम्भालम्बनमनस्कारेणानुमोदनापूर्वकपरिणामस्याधिकपुण्यत्वेन मृदूपाधिभेदान्मृदुमहापुण्योदयपरिणामनामनस्कार"इति। मध्यमावेदयन्नाह। तिष्ठन्तु खलु पुनरित्यादि। यावत् सर्वे प्रत्येकबुद्धा भवेयुरिति। एतदुक्तं"प्रथमफलस्थमारभ्य यावत् प्रत्येकबुद्धानां पुण्याभिसंस्कारान्मध्यभूतात्तदनुपलम्भालम्बनमनस्कारेणानुमोदनापूर्वकपरिणामस्याधिकपुण्यत्वान्मध्योपाधिभेदेन मध्यमहापुण्योदयपरिणामनामनस्कार"इति। अधिमात्रं वक्तुमाह। तिष्ठन्तु खलु पुनरित्यारभ्य यावत् सर्वेऽप्युपलम्भसञ्ज्ञिनः दानं दद्युरिति। गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सम्यक्सम्बोधिप्रस्थितसर्वसत्त्वानां तावद्भिरधिकैर्वा सोपलम्भैः सर्वैश्चीवरपिण्डपातादिभिस्तावतः कल्पानुपस्थानकरणपुण्यादधिमात्रभूतात्तदनुपलम्भालम्बनमनस्कारेणानुमोदनापूर्वकपरिणामस्याधिकपुण्यत्वेनाधिमात्रोपाधिभेदादधिमात्रमहापुण्योदयपरिणामनामनस्कार इति समुदायार्थः। अवयवार्थस्तूच्यते। सम्प्रस्थिता इति प्रणिधिप्रस्थानचित्ताभ्यां प्रवृत्ता इत्यर्थः। ते सर्व इति। दद्युरेतेन पर्यायेणेति वक्ष्यमाणेन सम्बन्धः। तमेव कथयन्नाह। अन्येष्वित्यादि। अन्येष्विति अपरापरेषुः। उपतिष्ठेदिति। सकृदुपस्थानं कुर्यात्। सर्वसुखोपधानैरिति। स्नानोद्वर्तनादिभिः,सर्वैः सुखसंस्पर्शविहारैरिति। यथेच्छं चङ्क्रमणादिविहारैरुपतिष्ठेदिति पूर्वेण सम्बन्धः। एतेन पर्यायेणेति। ते सर्वे सम्यक्सम्बोधिसंप्रस्थिताः सत्त्वा यथोक्तापरापरलोकधातुस्थितसर्वसत्त्वानामेतेन पर्यायेणैकैकसत्त्वक्रमेणोपस्थानात्तच्च दानमुपलम्भसञ्ज्ञिनो दद्युरिति यावत्। तान् सर्वसत्त्वानित्यादि। तानन्यान् यथोक्तलोकधातुस्थितान् सर्वसत्त्वानेकैकं परिकल्प्य कृत्वा पुनस्तानेव सर्वबोधिसत्त्वानेकैको बोधिसत्त्वस्तावतः कल्पानुपतिष्ठेदिति वाक्यार्थः। क्रमेणेत्यभिप्रायात् पूर्वहारकादस्य विशेषः। अनेन पर्यायेण दानं दद्यादिति। यथा गङ्गानदीवालुकोपमान् कल्पानेकं बोधिसत्त्वमेको बोधिसत्त्वः समुपतिष्ठेदेवं स एवैको बोधिसत्त्वोऽनेन गङ्गानदीवालुकोपमकल्पावस्थानक्रमेण तेषामपरापरनिर्दिष्टलोकधातुसङ्गृहीतानां सर्वेषां बोधिसत्त्वानां सुखोपधानार्थं दानं दद्यादेवमनन्तरोक्तक्रमेण सर्वेऽपि ते सम्यक्सम्बोधिसम्प्रस्थिता दानं दद्युः। रूपी भवेदिति। परमाणुस्वभावरूपस्कन्धः स्यात्। नमायेतेति प्राचुर्यान्न तिष्ठेत्। ननूपलम्भसञ्ज्ञिनां दानमयः पुण्याभिसंस्कारोऽप्रमेयोऽपि कथं यावदुपनिषदमपि न क्षमत इति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। एतदुक्तम् "यस्मात्तेषां सुप्रभूतं दानं दत्तं सदेकत्वादिसंख्यादिरहितमप्यप्रमेयादिसंख्यायोगादप्रमेयं सुवह्वित्यादिपरिसंख्यातं भवति। तस्मात्तद्धेतुकपुण्याभिसंस्कारः परिणामनापुण्यस्कन्धस्याप्रमेयादिसंख्यारहितस्य यावदुपनिषदमपि न क्षमत"इति। भगवदधिष्ठानेन कृतादरतया देवपुत्राः कारित्रमाहुः। यत्र हीत्यादिना। नयत्रयविनेयसत्त्वमार्गोपदेशहेतुभावव्यापारयुक्तात्वेन जगदर्थकरणान्महापरिणामः। कथमेवमित्यादिशङ्कायामाह। यत्र हि नामेत्यादि । यस्मिन्नुपायकौशले सति यस्मात्तावन्तमप्रमेयादिसंख्यावन्तं नाम प्रसिद्धं पुण्यस्कन्धमभिभवति। तस्मान्महापरिणाम इति वाक्यार्थः। सम्यग्देशनया सञ्जातप्रसादातिशयत्वेन पूजापूर्वकं प्रशंसार्थमाह। अथ खलु त्रायस्त्रिंशानामित्यादि। पुरतः समन्ताच्च यथाक्रमं प्रकरक्षेपादभ्यवाकिरन्नभिप्राकिरन्नित्यर्थभेदः। एवमन्येभ्य इति। यामादिभ्यः एवमेवेति त्रायस्त्रिशंकायिकानामिव महापरिणामोऽयमित्यादिशब्दमुदीरयन्ति। पुनः पुनरुच्चारणाद्घोषमुदीरयन्ति। एवमेव पेयालेन कर्तव्यमिति। एवमेव शब्दमुदीरयन्ति घोषमनुश्रावयन्तीति पदद्वयं सर्वत्र महापरिणामोऽयमित्यादिहारकन्तेऽतिदेशनीयमित्यर्थः। चिररात्रसञ्चितमिति दीर्घकालोपार्जितम्। महाविस्तरसमुदानीतमिति। अनेकप्रयोगयत्नसाध्यम्। पुनरपि परिणामस्य माहात्म्यार्थमाह। अथ खलु भगवांस्तानित्यादि। ननु प्रयोगादिमहत्त्वेऽपि कथं दानमयः पुण्याभिसंस्कारः स्वल्पप्रयो। दिजनितपरिणामपुण्यक्रियावस्तुनो यावदुपनिषदमपि न क्षमत इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हि ते बोधिसत्त्वा इत्यादि। प्रमाणव्याहतत्वेनोपलम्भस्य विपर्यस्तत्वादिति मतिः। अनुमोदनापूर्वकमपि सर्वमेवाधिमुक्तिमनस्कारेणोपार्जितं कुशलमूलं सर्वधर्मानुपलम्भभावनया सर्वसत्त्वार्थमनुत्तरबोधौ मायापुरुषेणेव परिणामयितव्यमित्येक एव सर्वसत्त्वानां त्रियाननिर्याणमार्गोपदेशहेतुभावव्यापारयुक्तः परिणामनामनस्कारः। कस्यचित्तु क्वचिदभिनिवेश इति तत्प्रतिपक्षार्थं यथोक्तन्यायेन मन्दबुद्धिजनानुग्रहाय द्वादशप्रकारः प्रभेदः कृतः। तीक्ष्णप्रज्ञानामवज्ञाविनिवृत्त्यर्थं नातिप्रभेदः। तथाचोक्तम्।



 



विशेषः परिणामस्तु तस्य कारित्रमुत्तमम्।



नोपलम्भाकृतिश्चासावविपर्यासलक्षणः॥२१॥



विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः।



सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः॥२२॥



त्रैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा।



मृदुमध्याधिमात्रश्च महापुण्योदयात्मकः॥२३॥इति।



 



अनुमोदनामनस्कारेण स्वपरपुण्यक्रियासमतां प्रतिलभत इत्यतोऽनन्तरमनुमोदनामनस्कारार्थमाह। अथ खल्वायुष्मन्नित्यादि। कियतेति कियन्मात्रेण प्रकारेण। न गृह्णीते न मन्यते। नोपलभत इति तत्त्वतः प्रयोगाद्यवस्थास्विति योज्यम्। न कल्पयति न विकल्पयति न समनुपश्यतीति। यथाक्रममतीतानागतप्रत्युत्पन्नानिति सम्बन्धः। अभूतपरिकल्पप्रभवत्वात्कल्पनाविठयिता वर्तमानस्वसामान्यरूपविरहाद्यथाक्रममजाता अनिर्जाताः। अतीतादागमनाभावेनानागतिकाः। अनागते गमनाभावेनागतिकाः। धर्मतेति मायोपमरूपता। इयतेति। एतावतानन्तरप्रकारेणेत्यर्थः। यथाविमुक्तिरिति। यथा क्लेशज्ञेयावरणविगतिरनुत्पत्तिलक्षणा। तत्त्वेन सांक्लेशिकधर्मायोगादबद्धानां वैयवदानिकधर्मविरहादमुक्तानाम्। यस्मादव्याहतदर्शनालोकस्य शास्तुर्यथाविभागशः प्रत्यात्मनि प्रतिभासिते तथा विभागेनैव जगद्धितविधित्सया तेन द्रष्ट्रा करुणामयेन भगवता कर्मफले प्रोक्ते। तस्मादतीन्द्रियमपि सर्वं यथादर्शनमेव स्थितमिति भावः। संसारनिर्वाणाप्रतिस्थानादसक्तानाम्। अनुमोदनाधिकारे प्रसङ्गात् परिणामयामीति। परिणामनामनस्कारः कथितः। मायोपमतया संसरणाभावादसंक्रान्तितो विनाशाभावादविनाशत इति योज्यम्। प्राणातिपातादित्रिविधकायिककर्माभावात् कायसुचरितम्। मृषावादादिचतुर्विधवाचिककर्मविगमाद्वाक्सुचरितम्। अभिध्यादित्रिविधचैतसिककर्मवियोगान्मनःसुचरितम्। पूर्ववतत् कस्य हेतोरित्याशङ्क्य तथैवाभिप्रायेणाह। तथाहि ते बोधिसत्त्वा इत्यादि। पैशुन्यपारुष्यसम्भिन्नप्रलापैरभिधानादाक्रुष्टः। दण्डादिभिस्ताडनादभिहतः। हठेन नियमकरणात् परिभाषितः। उन्नतिलक्षणेन मानेन सह वर्तनात् समान इत्येके। समानशब्दः सन्नित्यर्थे वर्तत इति केचित्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि त इत्यादि। उत्तप्तवीर्यारम्भप्रदर्शनार्थं स्थानचङ्क्रमणयोरुपादानात्तिष्ठन्तश्चङ्क्रमाभिरूढा इति द्वयमुक्तम्। अनभ्युत्साहलक्षणविषादविगमादविषीदन्तः। स्त्यानमिद्धेनेति। मोहांशिकचित्तकर्मण्यता स्त्यानं दध्याद्युपयोगनिमित्तमागम्य मोहांशिकश्चेतसोऽभिसंक्षयो मिद्धम्। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। चत्वारि ध्यानानि समापद्येरन्निति। लौकिकानि रूपधातुसंगृहीतानि चत्वारि ध्यानानि भावयेयुः। तथैव तत्कस्य हेतोरित्याशङ्क्य पूर्ववदाह। तथाहि ते बोधिसत्त्वा इत्यादि। तदयं समासार्थः संवृत्युपायेन कुशलमूलान्युपलभ्य प्रमुदितचित्तेन परमार्थतोऽनुपलम्भतयाऽनुमोदनीयानीत्यनुमोदनामनस्कार इति। तथा चोक्तम्।



 



उपायानुपलम्भाभ्यां शुभमूलानुमोदना।



अनुमोदे मनस्कारभावनेह विधीयते॥२४॥इति



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायामनुमोदनापरिणामनापरिवर्तो नाम षष्ठः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project