Digital Sanskrit Buddhist Canon

पञ्चमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Pañcamaparivartaḥ


 



यथाधिमोक्षदृष्टधर्मलक्षणां प्रज्ञापारमितां प्रतिप्रवृत्तस्याधिमोक्षमनस्कारस्य प्रथमद्वित्रिनवावस्थानां भावकबोधिसत्त्वस्य यथाक्रममुत्साहनाय प्रत्येकं नवभिः प्रकारैरुत्तरोत्तराभिनन्दनं स्तुतिः स्तोभः प्रशंसा च बुद्धादिभिः क्रियत इत्यधिमोक्षमनस्कारानन्तरं प्रथमं स्तुतिमात्रां निर्दिशन्नाह। अथ खलु शक्र इत्यादि। त्यक्तमुक्ताशयेनाप्रत्याख्यानादपरित्यजनीया। बाह्योदकाद्युपद्रवनिराकरणाद्रक्षितव्या। आध्यात्मिकाक्षरादिभ्रंशदोषापनयनाद्गोपायितव्या। अधिमुञ्चेदित्यपरित्यागबुद्ध्या स्वीकुर्यात्। आर्थिकयेति प्रयोगतः। छन्दिकायेति आशयतः। दद्यादिति ग्रन्थार्थस्वभावायाः फलेन सह सर्वस्वदानात्। एतदेव प्रयोगमौलपृष्ठावस्थाभेदेन यथाक्रमं दर्शयन्नाह। उपनामयेत्। निर्यातयेत्परित्यजेदिति। देयदायकप्रतिग्राहकानुपलब्धिभेदाद्वा पदत्रयमुक्तम्। तद्वचनेन प्रतिपादयितुमह। तेन हीत्यादि शरीरमिति प्रतिमादिकम्। तावत्कालिकत्वेन दानात् संविभजेत्। अयमेव तयोरिति। कृपापूर्वकं दानाशयस्याधिक्येन तयोर्मध्ये सत्कारादिपुरःसरं तथागतशरीर यो दद्यात् सोऽयमेवेत्यर्थः। तद्वचनेनेदानीं परिहरन्नाह। एवमेव कौशिकेत्यादि। द्वितीयामाह। पुनरपरं कौशिको यः कुलपुत्रो वा कुलदुहिता वा यत्र यत्रेत्यादिना। पटुतरश्रद्धेन्द्रियादियोगेन पात्रीभूतत्वाद्भाजनीभूता यत्र मगधादौ देशे स्थिताः। तत इत्यगत्वा दातुः पूर्वोक्तात्पुद्गलादित्यर्थः। तृतीयामाह। पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा ये जम्बूद्वीप इत्यादिना। ग्रहणाय यत्नकरणात् समादापयेत्। गृहीतानां स्थिरीकरणात् प्रतीष्ठापयेत्। अत इत्यस्मादनन्तरार्थकारिणः पुद्गलात्। अकिलासितयेत्यनालस्येन स्वयं प्रतिपत्त्यनुष्ठानात् सम्पादयेत्। कृतोत्साहत्वादुद्युक्तोऽमुमित्युत्पादितबोधिचित्तं समासतो ग्रन्थार्थशिक्षणाद्ग्राहयेदिमां प्रज्ञापारमितामिति पूर्वेण सम्बन्धः। अज्ञानसंशयमिथ्याज्ञानयोगेन मूढं प्रति सम्यगर्थकथनात् सन्दर्शयेत्। कौशीद्याच्छन्दिकताव्यासङ्गयोगात् प्रमत्तं कुशलार्थं प्रवर्तनात् समादापयेत्। हीनाधिमुक्त्यशक्तात्मसम्भावनाकौकृत्यभीरुतायोगात् संलीनं विशिष्टवीर्यानुशंसकथनात् समुत्तेजयेत्। अविपरीतसमाधिसन्तुष्टिवीर्यप्रतिपत्तियोगात् सम्यक्प्रतिपन्नं भूतगुणाभिनन्दनात् सम्प्रहर्षयेत्। विधेयतापादनादेवं वाचानुशासन्या नेष्यति। प्रज्ञापारमितां प्रापयिष्यति। तत्र च सम्प्रजन्येन सम्यगुपलक्षणतया लयौद्धत्यदोषापनयनाद्यथाक्रमं विनेष्यत्यनुनेष्यति। अर्थमिति फलमनुशंसम्। एवञ्चेत्यनन्तरोक्तक्रमेण। अज्ञानमिथ्याज्ञानविगमाच्चितं विशोधयिष्यति। संशयज्ञाननिराकरणान्निर्विचिकित्सं करिष्यति। एहि त्वमिति आगच्छ त्वम्। बोधिसत्त्वमार्ग इति। प्रज्ञापारमितायाम्। सन्नाहप्रयोगानिवर्तनवीर्यभेदाद्यथाक्रमं शिक्षमाणश्चरन् व्यायच्छमान इति पदत्रयमुक्तम्। उपधिसंक्षय इति। समलस्कन्धाभावे धर्मकाय इत्यर्थः। तिष्ठन्तु खलु पुनः कौशिक जम्बूद्वीपे सर्वसत्त्वाः। तथा चातुर्महाद्वीपके। साहस्रे चूडिके। द्विसाहस्रे मध्यम इति हारकचतुष्टयेन यथासंख्यं चतुर्थी पञ्चमी षष्ठी सप्तमी च स्तुतिमात्रा निर्दिष्टा।  किन्तु सर्वत्र समादापयेत् प्रतिष्ठापयेदितिपर्यन्तनिर्दिष्टपदानन्तरं पूर्वोक्तहारकात्तत् किं मन्यस इत्यादि यावद्बहुतरं पुण्यं प्रसवेदित्यनुवर्तनीयम्। अष्टमीं स्तुतिमात्रामाह। तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्र इत्यादिना। अतः खलु पुनरिति दशकुशलसमादापितुः प्रतिष्ठापयितुश्च सकाशादित्यर्थः। नवमीं स्तुतिमात्रामाह। पुनरपरं कौशिकेत्यादिना। यावद्गङ्गानदीवालुकोपमत्रिसाहस्रमहासाहस्रलोकधातुसत्त्वानाञ्चतुर्ध्यानेषु प्रतिष्ठापयितुरधिकपुण्यप्रतिपादनेन। प्रथमां स्तोभमात्रामाह। पुनरपरं कौशिक यावन्तो जम्बूद्वीप इत्यादिना। चातुर्महाद्वीपके साहस्रे द्विसाहस्रे त्रिसाहस्रे च लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेदिति हारकचतुष्टयेन यथाक्रमं द्वितीया तृतीया चतुर्थी पञ्चमी स्तोभमात्रा निर्दिष्टा। सर्वत्र च हारकचतुष्टये प्रतिष्ठापयेदिति पदानन्तरं पूर्वोक्तहारकात्तत् किं मन्यस इत्यारभ्य यावद्भूतकोटिप्रभावनतायामित्येतत्पर्यन्तमनुवर्तनीयम्। षष्ठीं स्तोभमात्रामाह। तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रलोकधातावित्यादिना। सप्तमीं स्तोभमात्रामाह। पुनरपरं कौशिक य इत्यादिना अष्टमीं स्तोभमात्रामाह। पुनरपरमित्यादिना। अर्थावबोधनिपुणत्वादर्थकुशलः।



 



यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।



धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते॥



 



इति वचनात् प्रतीयमानपदार्थ एव हि प्रज्ञापारमिता कस्मादुपदिश्यत इत्यभिप्रायवानाह। इयमपि भगवन् प्रज्ञापारमितोपदेष्टव्येति। पदार्थस्वभावशून्यतानभिज्ञस्य देश्यत इत्याह। इयमपीत्यादि। ननु पदार्थप्रतिपत्तौ तत्र स्वभावशून्यताऽप्रतिपत्तिः कथमिति। तत्कस्य हेतोरित्याशङ्क्याह। उत्पत्स्यते हीत्यादि। एतदुक्तम्। "यस्मादनागते काले सादृश्यार्थेन प्रज्ञापारमिता प्रतिवर्णिकोत्पत्स्यतेऽतस्तां श्रुत्वा मिथ्याशास्त्राभ्यासेन प्रच्छादितप्रतीयमानपदार्थमायोपमस्वभावावबोधादनुत्तरबोध्यर्थी बोधिसत्त्वस्तां सम्यक्प्रज्ञापारमितामनवबुध्यमानोऽभिमतार्थभ्रंशान्मा विनष्टो भविष्यति। तस्माद्देश्यत इति। किं हेतुका किं स्वरूपा च सा येन तद्धेतुस्वभावपरित्यागात् परिह्रीयत इत्याह। कथमित्यादि। प्रज्ञापारमिता प्रतिवर्णिकेति।



 



प्रक्रान्तार्थतिरस्कारो या चार्थान्तरकल्पना।



प्रज्ञापारमितायां हि प्रोक्ता सा प्रतिवर्णिका॥



 



इत्याचार्यदिङ्नागः। एके भिक्षव। इति महायानिका एव विज्ञानवादिन इत्यर्थः। एकानेकस्वभावविरहान्निःस्वभावत्वेनानभ्यस्तसविषयपद्विज्ञानकायस्वभावत्वेनाभावितकायाः। तदेव कथयन्नाह। अभावितशीला इत्यादि। एतच्च पदत्रयमधिशीलाधिचित्ताधिप्रज्ञाशिक्षात्रयवैकल्याद्यथाक्रममुक्तम्। एतत्समर्थनार्थमाह। दुःप्रज्ञा इत्यादि। यस्मादज्ञानयोगेन दुःप्रज्ञाःसंशयज्ञानादेडमूकजातीया मिथ्याज्ञानात् प्रज्ञाप्रहीणाः। रूपविनाशो रूपानित्यतेति। रूपस्य कल्पितस्याभावो विनाशो रूपानित्यता। विकल्पस्य रूपस्य क्षणादूर्ध्वमनवस्थानं विनाशो रूपानित्यता। धर्मतात्मकस्य च रूपस्य कल्पितरूपरहितता विनाशो रूपानित्यता प्रज्ञापारमिता इत्युपदेक्ष्यन्ति। अर्थत्रयञ्चैतदावृत्तिन्यायेन द्रष्टव्यम्। मिथ्याज्ञानोपहतत्वेनात्मानमुत्कर्षयन्तीत्याह। एवञ्चोपदेक्ष्यन्ति। य एवं गवेषयिष्यति स प्रज्ञापारमितायाञ्चरिष्यतीति। यथोक्तेन च निर्देशेन धर्मधर्मिणोरनिराकरणे विपर्यस्तभावाभिनिवेशान्न मुक्तिरित्यभिप्रायवानाह। न खलु पुनः कौशिक रूपविनाशो रूपानित्यता द्रष्टव्येत्यादि। अपि तु रूपादीनां मायोपमस्वभावतैव प्रज्ञापारमिता। भावाभावादिविपर्यासाभिनिवेशमूलस्य सवासनक्लेशज्ञेयावरणस्य सम्यक् प्रहाणहेतुत्वेन तथागतत्वपदप्रापणात् प्रतिपत्तव्येति मतिः। नवमीं स्तोभमात्रामाह। पुनरपरं कौशिक यावन्त इत्यारभ्य यावद्गङ्गानदीवालुकोपमलोकधातुप्रतिष्ठितसत्त्वधातुस्रोतआपत्तिफलप्रतिष्ठापनकारिणः सकाशाद्बहुतरपुण्यप्रसवत्वप्रतिपादनेन। ननु स्रोतआपत्तिफले प्रतिष्ठापनमनाश्रवे धातौ व्यवस्थापनम्। श्रद्धादिपूर्वकं प्रज्ञापारमितापुस्तकदानं तत्सन्दर्शनादिकञ्च साश्रवं तत् कथं पूर्वकार्थकारिणः सकाशादुत्तरार्थकारिणो बहुतरं पुण्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। अतो हि कौशिक श्रोतआपत्तिफलमित्यादि। एतदुक्तम्। यस्माद्विपुलविमलानन्तगुणराशितथागतत्वादिसर्वार्यधर्माणां जिनजनन्या हेतुत्वेन सुतरामेव श्रोतआपत्तिफलमतः प्रज्ञापारमितातः सम्भवति। तस्मादस्याः पुस्तकदानादिनाऽविकलकारणस्वभावत्वात् श्रोतआपत्तिफलस्यान्यस्य च प्रतिविशिष्टस्वभावस्य बुद्धत्वादेर्दानाद्बहुतरं पुण्यं प्रसवति। प्रथमां प्रशंसामात्रामाह। पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वास्तान् सर्वान् सकृदागामिफले प्रतिष्ठापयेदित्यादिना। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्य तथैव परिहरन्नाह। अतो हि कौशिक सकृदागामीत्यादि। द्वितीयामाह। पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वास्तान् सर्वाननागामिफले प्रतिष्ठापयेदित्यादिना। पूर्वोक्ताभिप्रायेण तत्कस्य हेतोरित्याशङ्क्य तथैव परिहरन्नाह। अतो हि कौशिक अनागामीत्यादि। तृतीयामाह। पुनरपरं कौशिक यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वास्तान् सर्वानर्हत्वे प्रतिष्ठापयेदित्यादिना। यथाविहितप्रकारेण तत्कस्य हेतोरित्याशङ्क्य पूर्ववदाह। अतो हि कौशिकार्हत्वमित्यादि। चतुर्थीमाह। पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वास्तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेदित्यादिना। यथोदितविधिना तत्कस्य हेतोरित्याशङ्क्य तथैवाह। अतो हि कौशिक प्रत्येकबुद्धत्वमित्यादि। पञ्चमीमाह। पुनरपरं कौशिक यावन्ता जम्बूद्वीपे सत्त्वास्तेषामपि सर्वेषामित्यादिना। उपनामयेदिति दद्यात्। केनाशयेनेत्याह। अत्रैव प्रज्ञापारमितायामित्यादि। प्रयोगमार्गेण प्रज्ञापारमितां भावयन् दर्शनमार्गेण बृद्धिं भावनामार्गेण विरूढिं बोधिसत्त्वविशेषमार्गेण विपुलतां गतस्तथागतभूमौ परिपूरयिष्यति। बुद्धधर्मानित्यर्थभेदो वाच्यः। तस्मात् पौर्वकादिति यः कश्चिद्बोधौ चित्तमुत्पादयेत्। यश्चान्यो बोधिचित्तमुत्पाद्य पुस्तकं दद्यात्ततः पुद्गलद्वयादित्यर्थः। ननु बोधिचित्तोत्पादनपूर्वकं पुस्तकदातुरधिकार्थकारिणः सकाशात् केवलपुस्तकमात्रदातुः कथं पुण्यमहत्त्वमिति। तत्कस्य हेतोरित्याशङ्क्याह। नियतमेष इत्यादि। नियतमवश्यमेषोऽविनिवर्तनीय इत्यर्थः। एतदुक्तम्। "यस्मादवैवर्तिको बोधिसत्त्वो नियतमभिसम्बुध्य सत्त्वानां दुःखान्तकारित्वेन विशिष्टं पुण्यक्षेत्रमतस्तस्यैव पुस्तकदातुर्बहुतरं पुण्यं न तु बोधिचित्तोत्पादनपूर्वकमनियतगोत्रपुद्गलाय पुस्तकदातुरि"ति। षष्ठीमाह। तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकानामित्यादिना। एतद्धारकान्तेऽनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयेदित्यनन्तरं यश्चान्यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहितेत्यादिग्रन्थः पूर्वोक्त एवानुवर्तनीयः। सप्तमीमाह। तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातावित्यादिना तथैवात्र हारकान्ते ग्रन्थोऽनुवर्तनीयः। अष्टमीमाह। तिष्ठतु खलु पुनः कौशिक साहस्रचूडिकायां लोकधातावित्यादिना। भूयस्या मात्रयेति। अधिकेन प्रकारेणेत्यर्थः। तत्कस्य हेतोरित्यत्रापि प्रश्नपरिहारार्थः पूर्ववत् वाच्यः। नवमां प्रशंसामात्रामाह। पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वास्ते सर्व इत्यादिना। न केवलमभिसम्बुध्यान्येषामर्थकरणात्। क्षिप्राभिज्ञं बोधिसत्त्वमववदतोऽनुशासतश्च बहुतरं पुण्यं किं तर्ह्यनभिसम्बुध्यापीति प्रतिपादयन्नाह। यथा यथा भगवन्नित्यादि। तत्र चीवरं वस्त्रं। पिण्डपातो मण्डकादि। शयनं तूलिकादि। आसनं दण्डासनादि। व्याधिभिरुपहतं ग्लानं प्रत्येति गच्छति। युक्तरूपं भैषज्यं हरीतक्यादि। परिस्कारः खल्लकादि तान् कारान् कृतानिति। चीवरादीन् दत्तानित्यर्थः। सन्दृष्टफलदानसामर्थ्यान्महाफलान् करोति। जन्मान्तरे फलदानान्माहानुशंसान् करोतीति पूर्वेण सम्बन्धः। तथागतानां बोधिसत्त्वानाञ्च परमदक्षिणीयत्वेन निर्विशिष्टत्वादिति भावः। कुत एतदिति चेत्। यस्माच्चुन्दस्य कर्मकारपुत्रस्य पिण्डपातं परिभुज्य परिनिर्वाणाकाल समये भगवतैवोक्तमागमे। "मा हैतन्निमित्तं चुन्दस्य कर्मकारपुत्रस्य विप्रतिसारोऽभूत्। स त्वयानन्द चुन्दस्य कर्मकारपुत्रस्य प्रतिविनोदयितव्यः। एवञ्च स वक्तव्यः। यञ्च पिण्डपातं परिभुज्य तथागतोत्तरां सम्यक्सम्बोधिमभिसम्बुद्धः यञ्च पिण्डपातं परिभुज्य निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। द्वाविमौ पिण्डपातावसमसमफलौ। असमसमविपाकावि"ति। तुल्यफलप्रतिपादनात्तयोः समदक्षिणीयत्वमावेदितमिति। ननु भावनाभ्यासादासन्नीभावे सति कथमववादानुशासनीभ्यामासन्नीभावो निर्दिश्यत इति। तत्कस्य हेतोरित्याशङ्क्याह। एवं ह्येतद्भगवन्नित्यादि। एवं मन्यते। प्रतीत्यसमुत्पादधर्मतैषा यस्मादववादानुशासनीभ्यां विशिष्टक्षणोत्पादादासन्नीभावो भवति। भावनाबलात्तु नितरामेवेति। "बोधिसत्त्वोत्साहदातॄणां साधु साध्विति साधुकारदानेन स्तुतस्तोभितप्रशंसार्थमुपसंहरती"त्यार्यविमुक्तिसेनः। क्षिप्रतरासन्नीभावकथनादुत्साहं ददासि। अववादमुखेनानुगृह्णीषे। अनुशासनीद्वारेणानुपरिवारयसि। कथमन्यस्योत्साहवर्धनेनान्यस्यानुग्रह इति। तत्कस्य हेतोरित्याङ्क्याह। अतः प्रसूता हीत्यादि। एतदुक्तम् "यस्मादनुत्तरसम्यक्सम्बोधिचित्तोत्साहवर्धनेन निष्पद्यते बोधिसत्त्वानां महासत्त्वानाञ्जगदर्थकारिकाऽनुत्तरसम्यक्सम्बोधिस्तस्मादेषामुत्साहवर्धनात् सत्त्वानामनुग्रह"इति। एतदेव व्यतिरेकमुखेन कथयन्नाह। यदि हीत्यादि। नाभिसम्बुध्येरन्। अतो न सत्त्वार्थं कुर्यादिति शेषः। अन्वयमुखेन चाह। यस्मात्तर्हीत्यादिना। अभिसम्बुध्यन्ते तस्माज्जगदर्थकारिण इति मतिः। तत्र ते स्तुत्यादय उत्तरोत्तरपुण्यमहत्त्वस्य प्रतिपादनात्तत्स्वभावत्वेन निर्दिष्टा यथाभूतार्थाधिगममात्रलक्षणा नार्थवादादिरूपा यथोक्तप्रभेदा एव प्रतिपत्तव्याः। तथा चोक्तम्।



 



स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति।



अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते॥२०॥ इति



 



एवञ्च कृत्वा तत्र तत्र सूत्रान्तरे निदानेषु यदुक्तं सर्वबोधिसत्त्वैर्महासत्त्वैः सर्वबुद्धस्तुतस्तोभितप्रशस्तैः सार्धं भगवान् विहरतीति तदुपपन्नं भवति।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां पुण्यपर्यायपरिवर्तो नाम पञ्चमः। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project