Digital Sanskrit Buddhist Canon

चतुर्थपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Caturthaparivartaḥ


 



द्वितीयं मृदुमध्यमधिकृत्याह। स चेत् कौशिकायं ते जम्बूद्वीप इत्यादि। सर्वभूभागव्यापनात्परिपूर्णः शिखापर्यन्तकरनाच्चूडिकाबद्धः। तथागतशरीराणामिति। कर्तरि षष्ठी तैरित्यर्थः। प्रवार्यमाण इति। यमिच्छसि तं भागं गृहाणेत्यभिधीयमानः। कस्माद्विशिष्टं रूपकायं तथागतं परित्यज्य प्रज्ञापारमितापरिग्रह इति। तत्कस्य हेतोरित्याशङ्क्याह। यथापि नामेत्यादि। यस्मात्तथागतनेत्र्यां प्रज्ञापारमितायां चित्रीकारो भक्तिविशेषो विद्यते। नेमामेव परिगृह्णीयामिति पूर्वेण सम्बन्धः। चित्रीकार एवास्यां कुत इत्याह। एतद्धित्यादि। यस्मादेतद्भूतार्थिकं पारमार्थिकं शरीरं धर्मकायस्तस्य मुख्यतो द्योतनात्प्रज्ञापारमिता तथोक्ता। तस्मादत्रैव चित्रीकार इति मतिः। भूतार्थिकत्वमेव धर्मकायस्य कुतो यस्य द्योतनात्प्रज्ञापारमितायां चित्रीकार इति। तत्कस्य हेतोरित्याशङ्क्याह। उक्तं ह्येतद्भगवतेत्यादि। यस्मादुक्तं प्रदेशान्तरे भगवता धर्मकाया मायोपमाद्वयज्ञानस्वभावाः प्रज्ञापारमितात्मका बुद्धा भगवन्त इत्यनेन दृष्टान्तो निर्दिष्टः। अथ मतं स्वसंवेदनतः पूर्वक्षणभाविज्ञानमात्मानं परिछिनत्त्येवमुत्तरक्षणाभाव्यपि। तदिदमस्मादनन्तरमित्यवेत्य कारणमिदं कार्यमित्यवगच्छति। अन्यथानन्तर्यनियमो न घटते घटमानो वाऽतिप्रसङ्गदोषं विदध्यादतः कार्यकारणभावरूपेण निश्चितत्वात्कथं मायोपमाद्वयज्ञानात्मका बुद्धा भगवन्त इति। तदयुक्तमिदमस्मादनन्तरमिति यतो न स्वसंवेदनात् सिध्यति। तस्या विकल्पितविषयत्वान्नापि ज्ञानान्तरेण सिद्धिकल्पना युक्ता। निराकारेण साकारेण वा परिच्छेदायोगात्। परिच्छेदे वाऽर्थान्तरं ज्ञानस्य विषयः प्राप्नोति। स च नेष्टो भवद्भिर्ग्राह्यत्वानुपपत्तेः। न च तेनैव ज्ञानद्वयेनानन्तर्यनियमः परिच्छिद्यते। द्वयोरपि तयोर्निरुद्धत्वात्। स्यादेतत्स्वसंवेदनादेव पूर्वके ज्ञाने गृह्यमाणे कार्यं प्रत्यानन्तर्यं कारणात्मकं गृहीतं तथोत्तरस्मिन्नपि ज्ञाने गृह्यमाणे कार्यात्मकं गृहीतमेवानन्तर्यं कार्यकारणात्मकस्यानन्तर्यस्य तदभिन्नस्वभावत्वादिति। नैतदेवम्। यस्माज्जन्यजनकभावसम्बन्धोल्लेखेन वस्तुद्वयग्रहणात्कार्यकारणभावो विनिश्चितो न त्वानन्तर्यमात्रग्रहणात्। इतरथाहि घटग्रहणानन्तरं घटग्रहणे सति तद्गतानन्तर्यमात्रपरिच्छेदात्कार्यकारणभावः स्यात्। न च स्वसंवेदनस्याविकल्पकत्वेन पूर्वापरीभूतवस्तुसम्बन्धोल्लेखेन ग्रहणमस्ति। तस्मादिदमस्मादनन्तरम्भवतिति परिच्छेदाभावे कार्यकारणभावो निश्चितो न युक्तोऽतिप्रसङ्गात्। अस्मादनन्तरमिदं भवतीति विकल्पोऽपि नोपपद्यते। अनुभवनिश्चयाभावात्क्षणिकत्वादिविकल्पवदिति। मा खलु पुनरिमं लक्षणव्यञ्जनोज्ज्वलं शोभनं कायं सत्कायं हे भिक्षवः परमाणुसञ्चयस्वभावं मन्यध्वमिति साध्यधर्मः कथितः। धर्मकायपरिनिष्पत्तितो मायोपमाद्वयसाक्षात्क्रियानिष्पत्त्या निष्पन्नं मां द्रक्ष्यथेत्यनेन हेतुरुक्तः। एष च तथागतकायो भूतकोटिप्रभावितो धर्मकायपरिनिष्पत्त्या निष्पन्नो यदुत प्रज्ञापारमितातत्स्वभाव इत्यनेन पक्षधर्मोपसंहारः कृतः। एतदुक्तम्। "यो मायोपमाद्वयज्ञानभावनापरिनिष्पत्त्या निष्पन्नः स धर्मकायस्तद्यथा पूर्वबुद्धा भगवन्तः। यथोक्तज्ञानभावनापरिनिष्पत्त्या निष्पन्नश्चैष तथागतकाय"इति स्वभावहेतुः। अर्थस्यात्यन्तपरोक्षत्वेन साकारज्ञानादिभिश्च ग्रहीतुमशक्यत्वादद्वयं ज्ञानं स्वसंवेदनप्रत्यक्षसिद्धं स्वप्नादिप्रत्ययवदर्थाकारोपरक्तं भावनीयमिति स्थितम्। तस्याप्युदितविधिनैकानेकस्वभावविरहात्तत्वतो निःस्वभावत्वेन मायोपमत्वं निश्चितम्। अतोऽस्य मनसो भावनाबलात् स्फुटप्रतिभासित्वं यत्तदेव तथागतत्वमिति नासिद्धो हेतुः। सपक्षे भावान्न विरुद्ध इत्यभ्युपगतपूर्वबुद्धधर्मकायं प्रत्येष दृष्टान्तोऽन्यस्य पुनर्धर्मकायत्वाभावे प्रमाणाबाधितयथोक्तज्ञानभावनापरिनिष्पत्त्या निष्पन्नत्वविरहाच्चक्रवर्त्यादिवद्विपर्यासप्रसङ्गः। अविपर्यस्तश्चेष्यते तथागत इति विपर्यये बाधकं प्रमाणम्। परमाणूनामयोगान्नानैकान्तिकता च हेतोः। तस्माल्लक्षणव्यञ्जनोज्ज्वलो योऽयं रूपकायस्तथागतो भव्यसत्त्वैः समीक्ष्यते नासौ तात्त्विको धर्मकायः शास्ता किन्तु परमविमलानन्तगुणराशिधर्मकायाधिपत्यादेव तेषां स्वज्ञानं तथाभूतरूपकायाकारेण प्रतिभासते। येन तेऽविदितस्वज्ञानतथागतप्रतिभासरूपा बाह्योऽयं भगवानिति शास्तृबुद्ध्या विकल्पयन्तो दर्शनवन्दनादिभिरभ्युदयनिःश्रेयसभाजो भवन्ति क्रमेण। मिथ्याप्रतिभासिनोऽपि हि विकल्पस्य पारम्पर्येण हितहेतुत्वं दृष्टमेवानित्यत्वादिविकल्पबद्वस्तुसम्बन्धान्न तु क्षिप्रम्। यस्माद्यावद्भावाभिनिवेशेन ज्ञेये विज्ञानं समुपजायते तावदतस्मिंस्तद्ग्रहाद्भ्रान्तमेव तद्विज्ञानं तत्त्वदर्शनाद्दूरीभवति। तस्माद्यथा मायाकारो भाववत्प्रतिभासमानेष्वपि हस्त्यादिषु स्वनिर्मितेषु भावरूपतया सत्या एत इति नाभिनिविशते। तथा बहुशो बहुधोपायं कालेन बहुनाऽनभ्यस्तमहायानस्वरूपपेणाप्यादिकर्मिकेण सता क्षिप्रं ताथागतीमवस्थामवाप्तुमिच्छता तथागताधिपत्यभाविनि स्वज्ञानप्रतिबिम्बके रूपकायतथागते जगद्गुरावभिनिवेशयोगेन प्रतिपत्तिसारा श्रद्धा विधेयेति। तदेव कथयन्नाह। न खलु पुनर्मे भगवन् इत्यादि। तृतीयं मृद्वधिमात्रमधिकृत्याह। अपि तु खलु भगवन्नित इत्यादि। अपितुशब्दो निपातो यस्मादर्थे वर्तते। ननु भेदे सति कथं मातुः पूजया तथागतपूजेति। तत्कस्य हेतोरित्याशङ्क्याह। प्रज्ञापारमितानिर्जातत्वात्तथागतशरीराणामिति। इदमत्रार्थतत्त्वम्। यस्मादीदृशाः सर्वलोकाभ्युद्गतमूर्तयो बुद्धा भगवन्तः प्रज्ञापारमितातो निष्पद्यन्ते। तस्मान्महानुभावतया पूज्येयमिति तथागतोत्पत्तिसम्बन्धेनास्याः पूजया भेदेऽपि तथागताः पूजिता इति। यदाश्रयेण यत्पूज्यं भवति तत्पूजायां तदेव पूजितं भवति इत्येतदेव दृष्टान्तपूर्वकं स्पष्टयन्नाह। तद्यथापि नाम भगवन् सुधर्मायामित्यादि। सुधर्मा नाम देवसभा सुमेरुस्थितसुदर्शननगरस्य बहिरेव दक्षिणपश्चिमे स्थिता। यस्यां निषद्य देवाः कृत्याकृत्यं चिन्तयन्ति। कथं पुनरन्यस्य गौरवेणान्यत्र नमस्कारादिकमिति। तत्कस्य हेतोरित्याशङ्क्याह। इह हि किलासन इत्यादि। किलशब्दोऽनुस्मरणे। तत्सम्बन्धादासनपूजायां शक्रोऽपि पूजित इति मतिः। महेशाख्यहेतुप्रत्ययभूतेति। महेशाख्या चासौ महानुभावसंज्ञकत्वेन हेतुप्रत्ययभूता च यथाक्रममुपादानसहकारिकारणभेदादिति तथोक्ता।  आहारिकेत्युत्पादिका। स्थितिहेतुत्वेन तथागतशरीरमेव बुद्धत्वोत्पादकमिति कस्यचिदाशङ्कायामाह। सर्वज्ञतायाश्चेत्यादि। इदमुक्तं भवति। सर्वज्ञतापरिग्रहादेव तथागतशरीराणीत्युच्यन्ते। अतो न तान्यपूर्वसर्वज्ञतोत्पत्तिं हेतुप्रत्ययभूतानि किन्तु निष्पत्तेरूत्तरकालं स्थितिहेतुत्वेनाश्रयभूतानीति। सर्वज्ञज्ञानहेतुकेति। तथागतज्ञानहेतुका प्रज्ञापारमिता पूज्येति शेषः। उपसंहारार्थमाह तस्मात्तर्हि भगवन्ननयोरित्यादि। चतुर्थं मध्यमृदुं वक्तुमाह। तिष्ठन्तु खलु भगवन् जन्बूद्वीप इत्यादि। अपि तु खलु पुनरित्यादिकारणवचनं गतार्थमपि प्रसङ्गान्तरेणोक्तत्वान्न पुनरुक्तम्। प्रज्ञापारमिताप्रभावित्वमेवाह। तथागतशरीराणि हीत्यादिना। तस्मात्तर्हीत्याद्युपसंहारः। पञ्चमं मध्यमध्यार्थमाह। अपि तु खलु पुनर्भगवन्नित इत्यादि। इतो विपर्यासरहितायाः प्रज्ञापारमितायाः श्रवणादिक्रमेणोत्पादात्पूजार्हाणि शरीराणीत्यर्थः। तदुत्पत्त्यापि कस्मात् पूजां लभन्त इत्याह। यदुत प्रज्ञापारमितापरिभावितत्वादिति। सुविशुद्धात् कारणात् समुत्पन्नं फलं सुविशुद्धमेवोपजायत इति कृत्वा। यस्मात् प्रज्ञापारमितया महानुभावत्वोत्पादनेन परिभावितास्तथागताः सर्वथा वासितास्तस्मात्तदुत्पत्त्या पूजां लभन्त इति। एतदेव दृष्टान्तेन स्फुटीकुर्वन्नाह। तद्यथापि नाम भगवन्ननर्घमित्यादि। तत्रानर्घं प्रणीतत्वेनामूल्यार्हम्। एभिरेवंरूपैरिति। वक्ष्यमाणैरेवंस्वभावैः। धम्यमान इत्यापूर्यमाणे। निगृह्णीयादिति मन्दतामापादयेत्। न विवर्धयेदिति वृद्धिं न कुर्यात्। उपशमयेदिति समूलमपनयेत्। दह्यमान इति तप्यमाने। परिगृद्ध्य इति व्याप्ते। बाध्यमान इति पौड्यमाने। अन्धकारतमिस्रायामिति। अन्धकारगह्वरायाम्। अन्तरीक्षधारणात्। स्थापितमिति भूमिस्थापनात्। मन्दतापादनात्प्रतिहन्येत। सर्वथापनयनाद्विगच्छेत्। एभिश्चान्यैश्चेत्यादि। एतैरनन्तरोक्तैरन्यैरेवंवक्ष्यमाणैर्युक्तमित्यर्थः। अभिवर्धमानपिटकमर्बुद। उपघातस्तिमिरम्। शूलाद्यक्षिरोगः। घनता पटलम्। समुदाचरद्रूपबीजावस्थाविगमाद्यथाक्रमं निर्घातं प्रशमं गच्छेयुरिति योज्यम्। कस्तस्य स्वको वर्ण इत्याह। सचेत् पाण्डरेणेत्यादि। अन्येषामिति हरितशवलादीनाम्। समस्तं वस्त्रेण परिवेष्टयित्वा तदेकदेशेन वा बड्घेति ज्ञेयम्। परिवेष्टयित्वेत्यस्य सुव्वान्तप्रयोगेण नापशब्दता। रजोबहुलता कलुषभावस्तमपि प्रसादयेदधो नयेत्। जम्बूद्वीपे महेशाख्यशुद्धोदनस्यापीदृशरत्नासम्भवादृष्टान्तासिद्धिरिति कस्यचिदभिप्रायनिराकरणायाह। किं पुनः कौशिकेत्यादि। प्रतिविशिष्टपुण्यत्वादाह। देवेष्वित्यादि। संख्याप्रभावाभ्यां यथाक्रममल्पानि परित्तानीति द्वयमुक्तम्। तैर्मणिरत्नगुणैरित्यत्र परिभावितत्वादिति शेषः। परिनिर्वृतस्यापीति। अपिशब्दात्तिष्ठतः। प्रकारान्तरेणापि प्रज्ञापारमिताहेतुत्वेन पूजां दर्शयन्नाह। यथा च भगवन्नित्यादि। बुद्धानां धर्मदेशनेति। यस्माद्विकल्पस्य स्वाकारं बाह्यरूपेणाध्यारोप्य प्रवर्तनादतस्मिंस्तद्ग्रहेण स्वयमविद्यास्वभावस्य सद्भावेऽशेषावरणप्रहाणं न सम्भवति,तस्मान्नित्यसमाहितानामेव बुद्धानां भगवतां प्रज्ञापारमिताज्ञानप्रभावतो यथाधिमुक्तिभव्यानामसंकीर्णदेशनानिर्भासाः स्वज्ञानप्रत्ययाः समुपजायन्त इत्येवंविधप्रत्ययानुसारेण तेषां देशना भगवतां व्यवस्थापिता। अतः शुद्धलौकिकज्ञानसम्मुखीभावो मुनिनैवं प्रकाशित इत्यादिविनेयजनहिताध्यवसायेन क्वचित्सङ्गीतिकर्तृभिरुक्तः। तस्माद्विनेयशब्दज्ञाननिर्भासरूपत्वेन श्रोतृजनसम्बन्धिन्यपि देशना। यथा प्रज्ञापारमिताज्ञानाधिपत्यनिर्जातत्वाद्बुद्धानां धर्मदेशनेतिकृत्व पूज्या,तथेदानीन्तनानामपि धर्मभाणकानां देशना भगवतः परस्परावलायातत्वेन प्रज्ञापारमिताज्ञानाधिपत्यनिर्जातत्वात् पूज्येत्यर्थः। षष्ठं मध्याधिमात्रं निर्दिशन्नाह। यथा भगवान् राजपुरुष इत्यादि। अकुतोभय इति। न कुतश्चिद्भयमस्यास्तीति तथोक्तः। धर्मकायानुभावादिति। धर्मधातुनिष्यन्दप्रज्ञापारमितानुभावादित्यर्थः। सप्तममधिमात्रमृदुं वक्तुमाह। तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुरित्यादि। अष्टममधिमात्रमध्यं निर्दिशन्नाह। पुनरपरं भगव येऽप्रेमेष्वित्यादि। स्वपरोभयार्थसम्पद्भेदाद्यथाक्रमं तिष्ठन्तीत्यादिपदत्रयं वाच्यम्। अथवा धर्मकायेनासंसारमवस्थानात्तिष्ठन्ति। सम्भोगकायेन बोधिसत्त्वार्थसन्धारणाद्ध्रियन्ते। निर्माणकायेन कतिपयदिनावस्थानाद्यापयन्ति। प्रज्ञापारमितायाञ्चरितव्यमित्यादि। प्रयोगाद्यवस्थाभेदादुक्तम्। पूर्ववत् स्वहस्तमेवमेतत् कौशिकैवमेतदिति दत्त्वा मातुर्माहात्म्यमावेदयन्नाह। येऽपि ते कौशिकेत्यादि। नवममधिमात्राधिमात्रं कथयन्नाह। महापारमितेयं भगवन्नित्यादि। महत्तामेव समर्थयन्नाह। सर्वसत्त्वानां हीत्यादि। एतदुक्तम्। "यस्मान्मातुः प्रभावेन भगवान् प्रयोगावस्थायां सर्वसत्त्वानां चित्तानुष्ठानानि प्रजानाति पृष्ठावस्थायां संपश्यति,तस्मान्महत्त्वमस्या"इति। एतदेव समर्थयन्नाह। तथाहि कौशिकेत्यादि। दीर्घरात्रमिति दीर्घकालम्। प्रज्ञापारमितायां चरतीति वचनादन्यव्यवच्छेद इत्यभिप्रायवानाह। किम्भगवन्नित्यादि। नान्यास्विति दानाद्यात्मिकासु। सर्वत्रैवेत्याह। सर्वास्वित्यादि।



 



दानं निष्प्रतिकांक्षस्य निस्पृहस्य पुनर्भवे।



शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये॥



विनाऽरूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता।



सम्यक्प्रयोगो धीराणां षट्सु पारमितासु हि॥



 



इति वचनादनेन सम्यक्प्रयोगेण सर्वास्वेव बोधिसत्त्वश्चरतीत्यर्थः। प्रज्ञापारमितावचनं किमर्थमित्याह। अपि तु खल्वित्यादि। यथा च पूर्वङ्गमा भवति तथा प्रागावेदितम्। एतदेव कथयन्नाह। बोधिसत्त्वस्य महासत्त्वस्य दानं ददत इत्यादि। विपश्यत इति भावयतः। उपचयार्थमाह। न च कौशिकासामित्यादि। प्रज्ञापारमितापरिणामितानामिति। त्रिमण्डलविशुद्ध्या परिभावितानाम्। सर्वज्ञतापरिणामितानामिति। तथागतत्वे निर्यातितानाम्। अपारमिताव्यवच्छेदात्पारमितारूपेण विशेषो न चेति पूर्वेण सम्बन्धः। पारमिताशब्दवाच्यतया न च नानाकरणम्। नीलपीतादिभेदान्नानावर्णाः समविषमरूपेण नानासंस्थानाः। नानारोहपरिणाहसम्पन्ना इति। आरोहो दैर्ध्यम्। पारिणाहः पारिमाण्डल्यम्। अतद्रूपपरावृत्त्या न च छायाविशेषस्तथैवैकशब्दवाच्यत्वान्न च नानाकरणम्। तदेवाह। अपि तु छायेत्यादि। संख्यामिति व्यपदेशं। एवं त्रिविधाधिमुक्तिमनस्काराणां प्रत्येकं मृदुमृद्वादिनवप्रकारान् प्रतिपाद्योपसंहरन्नाह। महागुणेत्यादि। बह्वनुशंसस्वार्थाधिमुक्तेर्निष्पादनान्महागुणसमन्वागता। संख्याप्रमाणाविषयस्वपरार्थाधिमुक्तियोगादप्रमेयगुणसमन्वागता। अपर्यन्तसत्त्वधातूद्देशपरार्थाधिमुक्तिसद्भावादपर्यन्तगुणसमन्वागता। एतावत्येव स्वपरोभयार्थभेदेन प्रत्येकं नवप्रकारत्वेनाधिमुक्तिः सप्तविंशतिप्रकारैवेति न विप्रतिपत्तिः कार्या। तथा चोक्तम्।



 



अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका।



परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेध्यते॥१८॥



 



मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः।



सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता॥१९॥ इति



 



यथोक्तेन च ग्रन्थप्रभानेन क्रमादुत्तरोत्तराधिकानुशंसाप्रतिपादनपरेणान्यापदेशेन सर्व एवायमधिमुक्तिमनस्कारः परिदीपितः। सर्व एव स्वार्थाद्यधिमुक्तिप्रकारे मृदुमृद्वादौ प्रतिपक्षात्मकेऽधिमात्रादिर्विपक्षोऽर्थान्निर्दिष्टः। स्वार्थाधिमुक्तावुद्दिष्टः परार्थो भवति। द्वितीयायां सान्तरः प्रयोगस्तृतीयायान्निरन्तरोऽवगन्तव्यः। अन्यथाऽनुशंसकथनमात्रेऽभ्युपगम्यमाने यावाननुशंसः सम्भवति तावतः सकृदेवाभिधानाद्ग्रन्थप्रभानस्य निरर्थकता स्यादिति पूर्वाचार्याः।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां



गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project