Digital Sanskrit Buddhist Canon

तृतीयपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Tṛtīyaparivartaḥ


 तृतीयपरिवर्तः।



 



समुदये चतुर्थक्षणाकारं प्रतिपादयितुं प्रत्यात्मवेद्यत्वेन कांश्चित्कामावचरादीन् देवपुत्रान् साक्षिणः कृत्वा कांश्चिदामन्त्रितवानित्याह। यो हीत्यादि। कुलपुत्रः कुलदुहितेति शब्दः पूजावचनः। स्त्रीपुरुषयोरुपादानं शण्डोद्धृतमुष्कादीनामधिगमनिरासज्ञापनार्थम्। वर्णविशेषानङ्गीकरणं चातुर्वण्यविशुद्धिज्ञापनार्थम्। पुत्रदुहित्रभिधानं प्रव्रजितजनप्रतिरूपालापज्ञापनार्थम्। कुलग्रहणमन्वयसम्पन्नस्य सद्धर्मेऽधिकारज्ञापनार्थम्। पुनर्वा ग्रहणमुपपद्यापरपर्यायवेदनीयभागधेयापराधादकुलीनस्यापि भव्यस्यात्राधिकारज्ञापनार्थमित्यार्थविमुक्तिसेनः। इमामिति समुदयेऽन्वयज्ञानात्मिकाम्। तत्र मारो देवपुत्रमारः कामदेवः। तत्पाक्षिका देवपुत्रा मारकायिका देवताः। समुत्पन्नावतारदर्शनादवतारप्रेक्षिण्यः। अनागतावतारपर्येषणादवतारगवेषिण्यः। अवतारो दोषः। छिद्रमिति यावत्। नापीति। अपिशब्दः पूर्वापेक्षया समुच्चये। मनुष्यगतिसङ्गृहीताः सत्त्वा मनुष्याः। यक्षादयोऽमनुष्याः। विद्यमानेऽप्यायुषि कथञ्चित्प्रत्ययसान्निध्यान्मरणं विषमापरिहारेण कालक्रिया। सर्वं चैतन्न भवति। मैत्र्यादिभिः सुपरिभावितचित्तसन्ततित्वादिति मतिः। तथाहि मध्यमायां जिनजनन्यामुक्तम्। "मैत्रीकरुणामुदितोपेक्षाणामनुपलम्भयोगेन भावित्वान्मनुष्यामनुष्याद्यनवतारलाभेने"त्यादि। एतदुक्तम्। "निःस्वभावाधिमोक्षपूर्वकं चतुरप्रमाणं विभावनीयमित्येवं सर्वधर्मालम्बने समुदयेऽन्वयज्ञानमुत्पद्यत"इति। अत एवोक्तमार्यविमुक्तिसेनेन।



 



"अष्टमे हि दर्शनमार्गक्षणे प्रयोजनं बोधिसत्त्वस्य प्रमाणैरितरथा हि नवमे क्षणे सत्त्वधातुनिरपेक्षो निरोधे यतेदि"ति। निरोधे प्रथमक्षणाकारार्थमाह। पुनरपरमित्यादि। सम्प्रस्थिताः प्रणिधानाद्याशयेन प्रवृत्ताः। इयमिति दर्शनमार्गप्रतिपादिका। तं कुलपुत्रमिति अधिगतनवमक्षणदर्शनमार्गश्रवणाद्यर्थम्। समीपीभवनमुपसङ्क्रमितव्यम्। मंस्यन्ते ज्ञास्यन्ति। स एव सुपरिभावितत्वात् सर्वशून्यतानामधिगतार्थत्वेन परीतोपदेशेन शक्त इति मतिः। उद्गृह्णत इत्यादि। उत्तरोत्तरविशेषाधिगमहेतुभूतं विशिष्टमुद्ग्रहणादि कुर्वत इत्यर्थः। श्रोष्यन्तीमां प्रज्ञापारमितामिति पूर्वेण सम्बन्धः। श्रवणञ्च निरोधसत्याभिसमयसंवृत्याधिपत्याद्देशनाश्रवणाकारप्रतिभासनम्। अतोऽभिसमयाहितशक्तिकस्य वाच्युत्थितस्यान्तिकादिति वेदितव्यम्। एकानुशंसाकथनेन निरोधाकारं निर्दिश्यापरानुशंसाकथनेन तमेवाकारं द्रढयन्नाह। न च खल्वित्यादि। चशब्दः समुच्चये न केवलं पूर्वोक्तानुशंसोऽयमपर इत्यर्थः। ग्रामाद्धनुःपञ्चशतातिक्रान्तं स्थानमरण्यं गतः संप्राप्तः। एकवृक्ष एव यक्षाद्यधिष्ठितत्वेन भयहेतुः। अतस्तन्मूलं वृक्षमूलम्। मनुष्यादिरहितं गृहं शून्यागारम्। अच्छन्नमभ्यवकाशम्। महाजनो येन गतः स पन्थाः। उत्पथो यथोक्तविपरीतो मार्गः। अरण्यादूर्ध्वमटवी। तत्र तत्रारण्यादावुपसंक्रामतो गच्छतः तदेव चतुर्भिरीर्यापथैः कथयन्नाह। चङ्क्रम्यमाणस्येत्यादि। निपन्नः शयितः। अनिष्टोपनिपाताशङ्का भयम्। तत्प्रतीकाराप्रतिपत्तिः स्तम्भितत्वम्। अभूत्वा भावाद् भविष्यति। प्रबन्धप्रवृत्या उत्पत्स्यते। नेतिपूर्वेण सम्बन्धः। सर्वशून्यतानां सुपरिभावितत्वादिति मतिः। अन्यत्राप्युक्तम्। "शून्यतापरिगतो बोधिसत्त्व सर्वभयविगतो भवती"त्यादि।



 



एतदुक्तं "रूपादेर्निजरूपा प्रकृत्येव शून्यतेत्येवं सर्वधर्मालम्बने निरोधे धर्मज्ञानक्षान्तिरुत्पद्यत"इति। निरोधे द्वितीयक्षणार्थमाह।



 



अथ खलु चत्वार इत्यादि। महाराजानो विरूढकाद्याः। तात्त्विकयानत्रयसत्त्वोपलम्भमन्तरेणापि संवृत्या श्रावकादियानत्रये सत्त्वान् विनयतीत्याश्चर्यम्। अनेन च सत्यद्वयसमाश्रयेण सर्वाकारसत्त्वार्थप्रतिपादनेन समर्थकारणनिर्देशेन प्रज्ञापारमितोद्ग्रहणादीनां बुद्धत्वमेव फलमावेदितमिति ग्राह्यम्। ततश्चैतदुक्तम्। "धर्मधातुपरिणामितकुशलमूलानां फलं तथागतत्वस्य प्रापणमित्येवं सर्वधर्मालम्बे निरोधे धर्मज्ञानमुत्पद्यत"इति। वयमित्यादि। एतच्च प्रज्ञापारमिताया माहात्म्यज्ञापनाय। आत्मनः शासनोपकारकत्वज्ञापनाय भगवति कृतज्ञत्वज्ञापनाय चोक्तम्।



 



"दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयञ्च त्रिविधमशुभं कर्मे"ति। तत्कृतोपद्रवप्रतीकारेण रक्षावरणगुप्तयो यथाक्रममुक्ताः। अथवा दैवी विपद्यत्राशुभस्यैव व्यापारोऽवगम्यते नापरस्य। यथा मरकदुर्भिक्षवज्जाशन्यादिपातः। मानुषी विपद्यत्र प्राणिनां व्यापारः प्रतीयते विद्यमानोऽपि दैवस्य नावगम्यते। यतो न कर्मणा विना किञ्चिदप्यस्ति फलं यथा निष्पन्नेऽपि शस्यादौ परचक्रोपद्रवकृतो दुर्भिक्षादिः। दैवमानुषी विपद्यत्रोभयस्य व्यापारः प्रतीयते। एतावच्च कर्म दैवं मानुषञ्च। यथोक्तम्। "दैवमानुषं हि कर्म लोकं यापयती"ति तत्प्रतीकारेण रक्षावरणगुप्तयो यथाक्रममुक्ताः। संविधास्याम इति करिष्यामः। निरोधे तृतीयक्षणार्थं सम्बन्धमारचयन्नाह। आश्चर्यं भगवन्नित्यादि। इमाननन्तरोक्तानियतो रक्षावरणगुप्तिसंख्यावच्छिन्नान् दृष्टधार्मिकान् प्रत्युत्पन्नजन्मसङ्गृहीतान् गुणाननुशंसान् प्रतिलभते प्रयोगावस्थायाम्। परिगृह्णाति पृष्ठावस्थायाम्। एवं सम्बन्धमावेद्याकारार्थं प्रसूयन्नाह। किं पुनरित्यादिना। किं पुनः प्रज्ञापारमितायामुद्गृहीतायां दानाद्याः पञ्चपारमिताः संगृहीता भवन्तीति वक्तव्ये षट्पारमितावचनम्। मुख्यया प्रज्ञापारमितया गौणस्वभावया अपि प्रज्ञापारमितायाः संग्रहादित्यभिप्रायेणोक्तम्। सर्वधर्माविपरीतावबोधे हि मुख्या प्रज्ञापारमिता जायते। अतस्तयैव सर्वव्यवदानधर्माणां संग्रहादित्यभिप्रायवान् भगवानाह। एवमेतदित्यादि। एतदुक्तम्। "प्रज्ञापारमितया सर्वाकारप्रतिपक्षाणां सङ्ग्रह इत्येवं सर्वधर्मालम्बने निरोधेऽन्वयज्ञानक्षान्तिरुत्पद्यत"इति निरोधे चतुर्थक्षणाकारं निर्दिशन्नाह। पुनरपरमित्यादि। शृण्वित्यादि व्याख्यातम्। अथवा यस्मादादित एव भक्तिहेतुतया तावत्कल्याणं तस्मात् साधु शृणु। यतश्च मध्ये पुष्टिहेतुत्वात् कल्याणं तत सुष्ठु शृणु। येन च पर्यवसाने मुक्तिहेतुतया कल्याणं तेन योनिशो मनसिकुरु। अथवा मृदुमध्यादिमात्राणां दोषाणां प्रतिपक्षत्वाद्यथाक्रमं साध्वादिवचनम्।



 



यदि वा व्यञ्जनार्थोभयावधारणाद्यथासंख्यं साध्वादिवचनम्। धर्ममित्यादि। सूत्रादिधर्मं विरुद्धं ग्रहीतव्यं विग्रहीतव्यं मनसा ततो वचसा विरुद्धं वदितव्यं विवदितव्यम्। एवंप्रकारद्वयेन विरोधयितव्यं विघाटयितव्यम्। यदि वा व्यञ्जनार्थोभयविघाटघटनाद्विग्रहीतव्यमित्यादिपदत्रयं मंस्यन्त इत्यस्यानन्तरं जिनजननीभावनाभिरतं बोधिसत्त्वमारभ्येत्यध्याहार्यम्। यतस्तस्यैवानुशंसाकथनमधिकृतमनन्तरञ्च वक्ष्यति। तस्य तान्युत्पन्नोत्पन्नान्यधिकरणान्यन्तर्धास्यन्तीत्यादि। अन्तर्धास्यन्त्यदृश्या भविष्यन्ति यतो न स्थास्यन्ति। युक्त्या स्थितिं न प्रतिलप्स्यन्ते। अत एव तेषामभिप्राया मनोरथा न परिपूरिं निष्पत्तिं गमिष्यन्ति। ननूत्पन्नो वितर्कः प्रतिसमाधानमन्तरेण कथमन्तर्धास्यतीति। तत्कस्य हेतोरित्याशङ्क्याह। एवं ह्येतदित्यादि। अनेनैतदुक्तम्। धर्मतैषा यदुत प्रज्ञापारमिताभावकपुद्गलाधिष्ठानात्। स्वत एव तेषां प्रतिसमाधानमुत्पद्यत इति। उद्ग्रहीष्यतीत्यादि। व्याख्यातम्। अथवा संग्रहश्रवणाद्ग्रहीष्यति। मनसिकारणाद्धारयिष्यति। पुस्तकपठनाद्वाचयिष्यति। ग्रन्थार्थग्रहणात्पर्यवाप्स्यति। प्रत्यक्षानुमानागमाविरुद्धार्थकथनाद्यथाक्रमं प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यति। कल्पितादित्रिविधपदार्थानुत्पाददेशकत्वेन वा। पाठमात्रोपदेशादुद्देक्ष्यति। पूर्वरात्रादिकरणात् स्वाध्यास्यति। बोधिपरिणामनाद्याशयभेदादेतान्युद्ग्रहणादीनि सम्यग्विधेयानि। अधिकरणानीति विवादस्थानानि।



 



उपसंहरन्नाह। इममपीत्यादि। न केवलं वक्ष्यमाणं गुणमित्यपिशब्दः। एवं प्रज्ञापारमितायाः सर्वोपद्रवप्रशमनतेजोबलत्वं प्रतिपाद्य दृष्टान्तेनापि समर्थयन्नाह। तद्यथापि नामेत्यादि। क्वचित्पाठः परिकल्पमुपादायेति सम्भवत्कारणविशेषात् कार्यविशेषमधिकृत्य। अनेन दुर्लभत्वमाख्यातम्। स्थावरादिविषापनयनात्। सर्वविषप्रशमनीति स्वरूपं कथितम्। आशीविषेण जन्तुनेति। दंष्ट्राविषेण प्राणकेण। बुभुक्षितेनेत्यादि। बुभुक्षितः क्षुधा परिपीडितोऽपि कश्चिद्देवताराधनप्रवृत्तवन्नाहारप्रयोजनमिति तद्व्यवच्छेदार्थमाह। आहारार्थीति वचनम्। तथाविधोऽपि धैर्यमालम्ब्याहारं पर्येषत इति तद्व्युदासेनोक्तमाहारगवेषीति। प्राणकजातो जन्तुरिति सत्त्वसंख्यातो मन्डूकादिरित्यर्थः। गन्धेनेति तद्गतामिषादिगन्धेन। अनुवध्नीयादिति। बुद्ध्या भक्ष्यत्वेन स्वीकुर्यात्। अनुगच्छेदिति। पश्चात्पृष्ठतो यायात्। प्रत्युदावर्तेतेति निवृत्तिं कुर्यात्। ननु यत्र प्राणकगन्धेन न निवर्तेत् तत्र कथमोषध्या गन्धेन प्रत्युदावर्तेतेति। तत् कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। अयं वाक्यार्थः। सांवृतेऽपि कार्यकारणभावे तस्या एवौषध्याः स तादृशो भैषज्यगुणो यस्तस्याशीविषस्य तद्विषमभिभवति नान्यस्येत्येवं बलवती हि सा औषधी। भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवदिति। एतदुक्तम्। "प्रज्ञापारमितयैव बाह्याभ्यन्तरोपद्रवप्रशमनमित्येवं सर्वधर्मालम्बने निरोधेऽन्वयज्ञानमुत्पद्यत"इति। मार्गे प्रथमक्षणाकारं वक्तुमाह।



 



एवमेवमित्यादि। यानि तानीति निपातसमुदायो यानि कानिचिदित्यर्थे वर्तते। तेजसेत्यादि। प्रज्ञापारमितायाः सामर्थ्यमेव तेजो बलस्थामबलाधानानि यथाक्रमं प्रयोगदर्शनभावनाविशेषमार्गनिर्दिष्टानि। तत एवेति। यत्रैवोत्पत्स्यन्ते तत्रैवेत्यर्थः। उपरंस्यन्ति। उपशमिष्यन्ति। न विवर्धिष्यन्त इति यथाक्रमं श्रुतचिन्ताभावनाकाले वेदितव्यम्। प्रयोगाद्यवस्थासु वा ग्राह्यम्। तदेव कथयन्नाह। यत इत्यादि। यतो यत इति। यत्र यत्रैवाधिकरणस्थान इत्यर्थः। निरोत्स्यन्तेऽन्तर्धास्यन्ति न स्थास्यन्तीति पदत्रयमुपरंस्यन्तीत्यादिपदत्रयार्थम् । ननूत्पन्नो वितर्कः परप्रतिसमाधानमन्तरेण कथन्न भवतीति। तत्कस्य हेतोरित्याशङ्क्य पूर्ववत्परिहारार्थमाह। प्रज्ञापारमिताया हीत्यादि। रागादीनामित्यादिशब्दाद्दोषादीनां यावदित्यनेन स्मृत्युपस्थानाभिनिवेशादेः परिग्रहः। निर्वाणग्राहस्येति। सोपधिनिरुपधिनिर्वाणाभिनिवेशस्य। समुदाचरन्निर्वाणाभिनिवेशादेरुन्मूलनादुपशमयित्री। अथवा रागादिवासनासमुद्घातान्न विवर्धिका। एतदुक्तम् । "प्रज्ञापारमिताभावनैव रागादिनिर्वाणाभिनिवेशस्य शान्तिरित्येवं सर्वधर्मालम्बने मार्गे धर्मज्ञानक्षान्तिरुत्पद्यत"इति। मार्गे द्वितीयक्षणार्थमाह। चत्वारश्चेत्यादि। रक्षावरणगुप्तयो व्याख्याताः। यदि वाधिदैविकमाधिभौतिकमाध्यात्मिकञ्चान्तरायमधिकृत्य यथाक्रमं रक्षावरणगुप्तयो ज्ञेयाः। आपद्वा त्रिधा स्वप्रत्ययजापरा सत्त्वसंख्यातप्रत्ययजा परसत्त्वसंख्यातप्रत्ययजा च। तस्याः प्रतीकारेण रक्षावरणगुप्तयो यथाक्रममवसेयाः। एतदुक्तम्। "प्रज्ञापारमितोद्ग्रहणादिप्रवृत्तस्य तथागतादिभ्यः सर्वथा सर्वरक्षावरणगुप्तयो भवन्तीत्येवं प्रज्ञापारमितया सर्वधर्मालम्बने मार्गे धर्मज्ञानमुत्पद्यत"इति। मार्गे तृतीयक्षणार्थमाह। पुनरपरं कौशिकेत्यादि। आदेयवचश्चेति कृपया स्वयं प्राणातिपातादिविरतिपूर्वकं सर्वाकारज्ञतायां स्थित्वाऽन्येषां तत्र प्रतिष्ठापनात्। स्वयंप्रस्थितानाञ्च वर्णवादतत्समनुज्ञत्वादादेयवाक्य इत्ययमर्थोऽवसेयोऽन्यथोपादेयवचनत्वासम्भवात्। पञ्चविंशतिसाहस्रिकायामप्युक्तम्। "आत्मना च प्राणातिपातात्प्रतिविरतो भविष्यतीत्यारभ्य यावत् - परेषां वर्णवादी तत्समनुज्ञो भविष्यति"इत्येवं स आदेयवाक्यो भविष्यतीत्यादि श्रोत्रसुखकारित्वान्मृदुवचनः। यावतैवार्थो भवति तावन्मात्राभिधानान्मितवचः। संक्षेपोक्तिकुशलत्वादप्रकीर्णवचनः। न च क्रोधाभिभूतो न च मानाभिभूत इति। प्रत्युपस्थितेऽपकारनिमित्ते प्रतिघांशिकश्चेतस आघातः क्रोधः। सत्कायदृष्टिसन्निश्रयेण चित्तस्योन्नतिर्मानः। ननु प्रतिपक्षं विना दोषापगमाभावे कथं तस्यैवं गुणोदय इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। प्रज्ञापारमितैव सर्वदोषाणां प्रतिपक्षः। स च तेन भावित इति मतिः। प्राणातिपातविरत्यादौ प्रतिस्थापनात्परिदमयति। मितवचनादिना सर्वसत्त्वविषये प्रह्वीकरणात्परिणमयति। उपनाहमिति। वैरानुशयस्यानुत्सर्गः। प्रतिघांशिक एवोपनाहः। व्यापादमिति। सत्त्वेषु दुःखेषु दुःखस्थानीयेषु च धर्मेष्वाघातो व्यापादः।



 



अनुशयमिति। द्वेषाङ्गिको वैरप्रबन्धोऽनुशयः। एतदुक्तम्। "प्रज्ञापारमितापरिग्रहबलादेव बुद्धत्वाभिलाषिणा स्वयं प्राणातिपातविरत्यादिपूर्वकं सर्वाकारज्ञतायां स्थित्वा तत्रैव परेषां स्थापनं कार्यमित्येवं सर्वधर्मालम्बने मार्गेऽन्वयज्ञानक्षान्तिरुत्पद्यत"इति। मार्गे चतुर्थक्षणाकारं वक्तुमाह। एवं चरत इत्यादि। एवं चरतो मार्गेऽन्वयज्ञानक्षान्त्या विहरतः। संस्तुते वस्तुनि चेतसोऽसम्प्रमोषः स्मृतिः। अद्वेषः सर्वसत्त्वेष्वेकपुत्रप्रेमाकारतो मैत्री। आभ्यां दानादिसर्वकुशलस्यानुपलम्भयोगेन सर्वसत्त्वासाधारणतयाऽनुत्तरायां सम्यक्सम्बोधौ परिणामनाद्वयमुक्तम्। मैत्र्या व्यापारमेवाह। तस्यैवम्भवतीत्यादिना। परिभेत्स्यन्त इति व्यापादसमुदाचारेण चक्षुरादीनां विक्रियापादनात्। धक्ष्यत इति स्वरूपप्रच्युत्या दग्धो भविष्यति। वशमिति तदायत्तताम्। एतदुक्तम्। "दानादीनामक्षयं कर्तुमिच्छता सम्यक्सम्बाधौ परिणामनं स्मृत्यादिबलेन कार्यमित्येवं सर्वधर्मालम्बने मार्गेऽन्वयज्ञानमुत्पद्यत"इति। यथोक्तैरेवाकारैरन्यापदेशनिर्दिष्टैः षोडशक्षणा समुत्पद्यन्त इति नात्र विप्रतिपत्तिः।



तथाचोक्तम्।



 



आधाराधेयताऽभावात्तथताबुद्धयोर्मिथः।



पर्यायेणाननुज्ञानं महत्ता साऽप्रमाणता॥१२॥ 



परिमाणान्तताऽभावो रूपादेरवधारणम्।



तस्यां स्थितस्य बुद्धत्वेऽनुद्ग्रहात्यागतादयः॥१३॥



मैत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः।



सर्वस्य व्यवदानस्यं सर्वाधिव्याधिशातनम्॥१४॥



निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम्।



अप्राणिवधमारभ्य सर्वाकारज्ञतानये॥१५॥



स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम्।



दानादीनाञ्च सम्बोधाविति मार्गज्ञताक्षणाः॥१६॥ इति



 



अस्यापि दर्शनमार्गस्य सर्वाकारज्ञतायामुक्तं निर्वेधभागीयं ग्राह्यम्। यद्येवं तत्रापि प्रमुदितादिभूम्यभिधाने बोधिसत्त्वानां दर्शनादिमार्गस्य प्रतिपादनात्किमर्थं पुनरुपादानमिति चेत्। उच्यते। निःशेषहेतुफलाधिगमापेक्षया तथागतानां सर्वाकारज्ञतेत्यभिधानाज्जिनपुत्राणां तदुक्तो मार्गो न भवतीत्याशङ्कावारणार्थम्। तत एव हेतुमात्रमपकृष्य पृथग्जिनात्मजानां दर्शनादिमार्गात्मिका मार्गज्ञता व्यवस्थाप्यते। एवन्तु विद्वद्भिर्निरूपयितव्यम्। किङ्कारिकानुसारेणाकारा ग्रन्थार्थानुगमेन योजिता न वेति। तत्र आर्यविमुक्तिसेनादिव्याख्यामालोक्य स्वशक्त्या प्रतिपादिता एव। केचिदर्थान्तराभिसन्धिना यथोक्तेन ग्रन्थप्रबन्धेनाकारार्थमनुक्त्वा दर्शनमार्गषोडशक्षणोपलक्षणमेव केवलमनुकृतमिति वर्णयन्त्येवमुक्तानुक्तनिर्वेधभागीयाद्यर्थप्रतिपादनपरेषु ग्रन्थेषु द्रष्टव्यमिति। तैर्भावनानुक्रमाद्यनिर्देशात्काचिदभिसमयानुपूर्वी न प्रतिपादिता। अभिसमयालङ्कारकारिकार्थश्च कथं व्याख्येय इत्यपरे। भावाभिनिवेशमूलो हि रागादिक्लेशगणस्तद्विरुधश्च नैरात्म्याभ्यास इत्यतस्तं विना कथं दुःखधर्मज्ञानक्षान्त्यादिरिति चेत्। नैवं,यस्माद्यथोदितविधिना नैरात्म्यसंसूचनपराः सर्व एवामी षोडशाकाराः सन्निहितविनेयजनहिताधारचिकीर्षया त्वेवं यथाभिहितनानाप्रकाररूपेण निर्दिष्टाः सन्तोऽपि एवमभ्यस्यमानाः प्रतीत्यसमुत्पादधर्मतया दर्शनमार्गोत्पादका भवन्तीत्यवसेयमेवमन्यत्रापीति। दर्शनमार्गानन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तव्यत्वेन फलनिम्नत्वेन च विनेयप्रवृत्तेर्भावनामार्गस्य कारित्रं तावत्कथयन्नाह।



 



आश्चर्यं भगवन्नित्यादि। प्रज्ञापारमितेति वक्ष्यमाणो भावनामार्गः। परिदमनाय प्रत्युपस्थितेति। सर्वप्रकारक्लेशस्वविधेयीकरणात्सर्वतो दमनार्थेन परिदमननिमित्तमभिमुखीभूतेति प्रथमं दमनकारित्रम्। अनुनामायेति। दमनानन्तरविशिष्टे कियन्मात्रेणाधिगमेऽहंमानप्रतिषेधेनात्मोत्कर्षनिषेधात्सर्वतो नमनार्थेन परिणमनायेति द्वितीयं नमनकारित्रम्। ततोऽनन्तरं सर्वप्रकारक्लेशाभिभव इति तृतीयक्लेशनिर्जयकारित्रार्थमाह। पुनरपरं कौशिकेत्यादि। एवमुद्गृह्णन्निति। वक्ष्यमाणभावनामार्गक्रमेण। संग्राम इत्यादि। भावनाप्रहातव्यैः क्लेशैः सह विग्रहे वर्तमानैरिति। अधिमात्राधिमात्रादिप्रथमत्रिकविपक्षस्य मृदुमृद्वादिप्रथमप्रकारप्रतिपक्षाधिगमेन संग्रामशिरस्युत्कलितः समारूढो भवति। अवतरत इत्यादि पदत्रयं यथासङ्ख्यं मध्याधिमात्रादिद्वितीयत्रिकविपक्षस्य मध्यमृद्वादिप्रकारप्रतिपक्षाधिगमयोगतो वाच्यम्। सङ्ग्राममध्यगतस्येति मृद्वधिमात्रविपक्षस्याधिमात्रमृदुप्रतिपक्षलाभेन। तिष्ठत इति मृदुमध्यविपक्षस्याधिमात्रमध्यप्रतिपक्षाभिसमयात्सङ्ग्रामे स्थितस्य। निषणस्येति मृदुमृदुविपक्षस्याधिमात्रप्रतिपक्षसमत्वागमात्सङ्ग्रामे समुपविष्टस्य। सर्वेणैवैतेन नवप्रकारविपक्षप्रतिपक्षहानोपादानेन भावनामार्गस्यापुनः कर्तव्यतामाह। अस्थानमित्यसम्भवः। तदेव कथयत्यनवकाश इति। पर्यायवचनं किमर्थमिति चेदुच्यते। तदा चायत्याञ्च कस्यचित्कथञ्चिदर्थावबोधार्थम्। तेनैव चार्थाभिधाने पूर्वाश्रुतानामेवावगीतता स्यादिति तद्दोषपरिहारेण पूर्वकालं विक्षिप्तानां पश्चादागतानाञ्च तदर्थश्रवणार्थम्। दुर्मेधसां पुनःपुनस्तदर्थलक्षणार्थम्। एकशब्दानेकार्थतयाऽर्थान्तरकल्पनाव्युदासार्थम्। अन्यत्र निर्घण्टवत्ताभिः संज्ञाभिस्तदर्थसम्प्रतिपत्त्यर्थम्। धार्मकथिकानामर्थोपनिबन्धनप्रायणयोः कौशलोपसंहारार्थम्। आत्मनो धर्मप्रतिसंविदुद्भावनार्थम्। परेषाञ्च तद्वीजाधानार्थमिति पर्यायदेशनानामष्टौ प्रयोजनान्येवं सर्वत्र वाच्यम्। यत्तस्येति। यदिति निपातो य इत्यर्थे वर्तते। यो जीवितान्तरायः सोऽनवकाश इति वाक्यार्थः। जीवितान्तराय इति विज्ञानप्रबन्धोच्छित्तिः। आध्यात्मिकोपद्रवविगमानन्तरं बाह्योपद्रवोपशम इति। परोपक्रमाविषह्यत्वम्। चतुर्थं कारित्रमाह। परोपक्रमेणेत्यादिना। परो मनुष्यादिस्तस्योपक्रमः खड्गादिप्रहारदानम्। एतदुद्देशपदं निर्देशेन विभजन्नाह। सचेत्पुनरित्यादि। उद्देशवचनानां निर्देशात्पृथगभिधेयार्थो नास्तीति किमर्थमुद्देशवचनमिति चेदुच्यते। समासेन विस्तरावधारणार्थं सूत्रेण वृत्त्यर्थावधारणवत्। उद्घटितज्ञानानां विनेयानामनुग्रहार्थम्। अन्येषामायत्यामुद्घटितज्ञताहेतूपचयार्थम् । आत्मनः समासव्यासनिर्देशवशितासन्दर्शनार्थम्। अन्येषां तथाभ्यासेन तद्वीजावरोपणार्थञ्चेत्याचार्यवसुबन्धुः। संक्षिप्तमात्रे समाहितं चित्तं योगिनां तद्विस्तरार्थे सर्वत्र कथं समाहितं स्यादित्येतदर्थं निर्देशदेशना। तथा विस्तरमात्रे समाहितं चित्तं योगिनां तत्संक्षिप्तार्थे सर्वत्र कथं समाहितं स्यादित्येतदर्थमुद्देशदेशनेत्यागमः। एवं सर्वत्र प्रतिपत्तव्यम्। शस्त्रं चक्रादिकम्। पाषाणादिकमन्यत्। ननु तद्देशक्षेपणासामर्थ्यवता पुरुषेण क्षिप्तं शस्त्रादिकमन्तरा विरोधोपनिपाताभावे कथं न शरीरे निपतेदिति। तत्कस्य हेतोरित्याशङ्क्याह। महाविद्येयमित्यादि। अयमभिप्रायः। मातुरभ्यासमानाया एवं महाविद्यादिस्वभावायाः सामर्थ्येनानन्तरा गुरुत्वधर्मविरोधोपनिपातान्न तद्देहमनुप्राप्नोति शरादिकमिति। महत्त्वादिगुणयोगान्महाविद्येत्यादिपदत्रयं प्रयोगाद्यवस्थासु। अधिमुक्त्यादिमनस्कारैरधिकाभावादनुत्तरा निर्हारतया समाभावादसमा। अत्यन्तविशुद्ध्या सन्तानान्तरेणासमेन समत्वादसमसमा। महाविद्यादित्वमेवास्याः कथमिति। तत्कस्य  हेतोरित्याशङ्क्याह। अत्र हि कौशिकेत्यादि। एतदुक्तम्। "यस्मात्प्रज्ञापारमितायां मैत्र्यादिपूर्वकं शिक्षमाणो न कस्यचिद्व्यापादाद्यर्थं शिक्षते। अतो हिंसादिकस्याल्पायुष्कत्वादिहेतोरपनयनान्महाविद्यादिस्वभावे"ति। नात्मव्याबाधाय चेतयत इति। मारणादिनिमित्तमात्मनो न यतते। सर्वोपद्रवविगमानन्तरं सम्यक्सम्बोधिकारित्रं पञ्चममाह। अत्र हीत्यादिना। सम्यक्सम्बोधिमभिसम्भोत्स्यत इति तत्त्वाधिगमं साक्षात्करिष्यति। सर्वज्ञज्ञानञ्च प्रतिलप्स्यत इति तत्त्वाधिगमादुत्तरकालं सर्वधर्मविषयज्ञानमधिगमिष्यति। तदेव कथयन्नाह। तेन सोऽनुत्तरामित्यादि। चित्तानीत्युपलक्षणात्सर्वधर्मपरिग्रहः। व्यवलोकयिष्यतीति ज्ञास्यति। ननु सर्वमेव योगिज्ञानमनालम्बनमिष्यते। तत्कथं सर्वधर्मान् विज्ञास्यतीति। तत्कस्य हेतोरित्याशङ्क्याह। अत्र कौशिकेत्यादि। प्राप्तमानन्तर्यमार्गेण स वासनावरणद्वयप्रहाणात्। ज्ञातं विमुक्तिमार्गेण सर्वाकारज्ञताधिगमयोगात्। साक्षात्कृतं शुद्धलौकिकज्ञानेन निश्चयात्। एतदुक्तम्। "यथाहि सत्यस्वप्नदर्शिनो ज्ञानं परमार्थतोऽविषयमपि प्रतिनियतविषयाकारं लिङ्गागमानपेक्षञ्चाश्रयविशेषवशादुत्पद्यमानमुपदर्शितार्थप्रापकत्वेनाविसंवादि भवति। तथा योगिज्ञानं प्रज्ञापारमितायोगाभ्यासबलेन यथैव तदभूद्भवति भविष्यति चातीतं वर्तमानमनागतं वस्तुपरेण परिकल्पितं,तथैवोपदर्शितविविधाकारप्रकारप्रभेदप्रपञ्चं बहिरिव परिस्फुरद्रूपं स्फुटप्रतिभासं लिङ्गागमानपेक्षमविसंवादितयोत्पन्नं प्रत्यक्षं प्रमाणमिष्यते। अतश्चैवं भगवतः सर्वत्र साक्षाद्दर्शित्वाभ्युपगमाद्यन्न प्राप्तं न विज्ञातं साक्षात्कृतं ,तदभावेन सर्वज्ञज्ञानमुच्यते। यतो भ्रान्तिनिवृत्तावप्याकारनिवृत्तेः प्रतिबन्धाभावेनासम्भव"इति मध्यमकनयानुसारेणार्यनागार्जुनपादप्रभृतयः। श्रद्धातिशययोगेन पुण्यमहत्वाद्यत्र स्थाने तथागतादीनामधिगमो जातस्तत्पूज्यमिति बोधिकारित्रानन्तरं प्रज्ञापारमिताधारदेशपूज्यताकारित्रं षष्ठं वक्तुमाह। पुनरपरं कौशिक यत्रेयमित्यादि। अन्तश इत्यागत्या पूर्वकर्मविपाकमिति। प्रतिपक्षाभ्यासं विना नियतवेदनीयं कर्मविपाकम्। इदमेवार्थतत्त्वं दृष्टान्तेन द्रढयन्नाह। तद्यथापि नामेत्यादि। बोधेर्मण्डः सारोऽत्रेति भूप्रदेशः। पर्यङ्काक्रान्तो बोधिमण्डस्तं गतास्तत्पर्यन्तमाश्रिताः। बोधिमण्डपरिसामन्तो विदिक्स्थितवज्जकीलचतुष्टयान्तर्गतो भूमिभागः। बोधिमण्डो व्याख्यातः। तदभ्यन्तरं मध्यस्थानम्। भूमिप्रविष्टस्य मूलस्य परिसामन्तग्रहणेनोपादानात्तद्विनिर्गतो वृक्षभागो वृक्षमूलम्। न ते शक्या इति। न ते योग्या विषया इत्यर्थः। विहेठयितुं विभेत्तुम्। व्यापादयितुं विद्वेषयितुम्। आवेशयितुम्। भूतग्रहादिप्रवेशयितुम्। ननु विहेठाद्युत्पत्तिप्रतिघाते स्थानस्य व्यापाराभावात्कथं तत्र विहेठादि कर्तुं न शक्ष्यत इति तत्कस्य हेतोरित्याशङ्क्याह। तत्र हीत्यादि। अयं वाक्यार्थो ये सर्वसत्त्वानामर्थाय मृदुमध्याधिमात्रव्यापादप्रतिपक्षेण मैत्रीप्रभेदमभयमवैरमनुत्रासं स्वयं सत्कृत्य निरन्तरं दीर्घकालं भावयन्ति। परांश्चाधिकृत्य प्रकाशयन्ति। तेषां त्रैकालिकबुद्धानां तत्रोत्पादेन तत्स्थानं विशिष्टमेव जातमतोऽचिन्त्यत्वाद्धेतुप्रत्ययसामग्या भूभागमाहात्म्यात्कारणविगुणोत्पत्त्या विहेठादिकार्यं न शक्यते तत्र कर्तुं प्रतीत्यसमुत्पादधर्मताबलादिति। एवं दृष्टान्तमावेद्य दार्ष्टान्तिकमर्थमावेदयन्नाह। एवमेवेत्यादि। पूर्ववदभिप्रायेण। तत्कस्य हेतोरित्याशङ्क्याह। तथैव स्थानमाहात्म्यप्रतिपादनद्वारेण परिहरन्नाह। अनयैव हीत्यादि। चैत्यभूतो वन्दनादिना पुण्योपचयहेतुत्वात्। पितेव पितृभूत इत्युपमा वाचकभूतशब्दस्योपादानादन्यचैत्यसमानत्वेन चैत्यभूतः स पृथिवीप्रदेश इत्येके। यत्र हि नाम पुद्गलनैरात्म्यद्योतिकया ये धर्मा हेतुप्रभावा इत्यादिगाथयाधिष्ठितो भूभागः स्तूपो मतस्तत्र समस्तवस्तुनैःस्वाभाव्यप्रकाशिकाया मातुरुद्ग्रहणादिनोपेतः स्तूपो नितरामेवेत्यतः। साक्ष्येव साक्षिभूत इति तत्स्वभावत्वे चैत्यमेव चैत्यभुत इति चन्द्रगोमी। वन्दनीयो नमस्कारणात्। माननीयो गुणानुस्मरणेन बहुमानात्। मृदुमध्याधिमात्रपूजाभिर्यथाक्रमं पूजनीयोऽर्चनीयोऽपचायनीयः। श्रीपट्टबन्धादिना विशेषपदस्थापनात् सत्करणीयः। सर्वथाऽनुल्लंघनीयत्वेन गुरुकरणीयः। त्राणं सर्वोपद्रवनिवारणतया। शरणं तदाश्रयप्रयोगाबन्ध्यत्वपदस्थानतया। लयनमनवद्यरतिवस्तुतया। परायणं परमार्यत्वगमनपदस्थानतया। यथोक्तनीत्या षड्विधमेव कारित्रमवगन्तव्यम्।



 



तथा चोक्तम् ,-



 



सर्वतो दमनं नामः सर्वतः क्लेशनिर्जयः।



उपक्रमाविषह्यत्वं बोधिराधारपूज्यता॥१७॥ इति



 



कारित्रानन्तरं भावनामार्गो वक्तव्यः। स च सास्रवानास्रवभेदेन द्विविधः। तत्र सास्रवोऽधिमुक्तिपरिणामनानुमोदनामनस्कारलक्षणस्त्रिविधः। अनास्रवः पुनरभिनिर्हारोऽत्यन्तविशुद्धिस्वभावो द्विविधः। अतो यथाविमोक्षं दृष्टकुशलधर्माधिष्ठाना भावनामार्गाधिकारादादावसाक्षात्क्रियारूपाऽधिमुक्तिर्वक्तव्या। सापि स्वार्था स्वपरार्था परार्था चेति मूलभेदेन त्रिविधा सती मृदुमध्याधिमात्रभेदेन प्रत्येकं भेदात् त्रिकत्रिभिर्नवधा भवति। तद्यथा मृद्वी मध्याधिमात्रा च स्वार्थाधिमुक्तिरेवं स्वपरार्थाधिमुक्तिः परार्थाधिमुक्तिश्च। एवमेषापि नवप्रकारा मृदुमृद्वादिप्रकारभेदेन प्रत्येकं भिद्यमाना नवभिस्त्रिभिरधिमुक्तिः सप्तविंशतिप्रकारा भवति। तद्यथा। मृदुमृदुः। मृदुमध्यः। मृद्वधिमात्रः। मध्यमृदुः। मध्यमध्यः। मध्यधिमात्रः। अधिमात्रमृदुः। अधिमात्रमध्यः। अधिमात्राधिमात्रः। इति स्वार्थाधिमुक्तेर्नवप्रकारास्तथा स्वपरार्थाधिमुक्तेः परार्थाधिमुक्तेश्च वेदितव्याः। तत्र स्वार्थाधिमुक्तेर्मृदुमृदुप्रकारमधिकृत्याह। एवमुक्ते शक्र इत्यादि। दिव्याभिरिति मनोनुकूलाभिः। मुक्तकुसुमं पुष्पम्। धूपः सहजसांयोजिकादिः। गन्धो मलयादिजः। सर्वर्तुपुष्पै रचिता माला माल्यम्। शरीरोद्वर्तनप्रकारो विलेपनम्। सुवर्णादिवालुकचूर्णः। वस्त्रं चीवरम्। सितातपत्रादि छत्रम्। गरुडाद्यङ्कितो ध्वजः। वज्राद्यङ्किता घण्टा। चिह्नरहिता पताका। बहुविधाभिरिति। अनेकप्रकारखाद्यभोज्यादिभिः। शरीराणि रूपकाया इत्येके। धातव इत्यपरे। प्रतिष्ठापयेद्विन्यसेत्। परिगृह्णीयादिति। ममत्वेन स्वीकुर्यात्। धारयेदिति। चिरस्थितीकुर्यात्। तांश्चेति स्तूपान्न केवलञ्चशब्दाच्छरीराणि। तद्वचनेनैव मातुः पूजायामधिकं पुण्यमिति प्रतिपादयितुं शक्रं प्रतिप्रश्नयन्नाह। तेन हीत्यादि। सर्वज्ञतात्मभावोऽभिनिर्वर्तित इति। सर्वज्ञज्ञानाधिगमयोग्यशरीरस्वभावो निष्पादितः। कतमस्यां प्रतिपदीति। कतमस्मिन् मार्ग इत्यर्थः। प्रज्ञापारमितां विना विपर्यासाविनिवृत्त्या मुक्त्यनुपपत्तिरित्यभिप्रायवानाह। इहैव भगवन्नित्यादि। वज्रोपमेष्वग्रजप्राप्त्या योग्यतास्वभावया प्रतिलब्धा। ततोऽनन्तरमभिसम्बुद्धा। अथवाऽनुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धा। ततः सर्वज्ञता प्रतिलब्धेति योज्यम्। तत्रानुत्तरा बोधिः स्वार्थसम्पत्। सर्वज्ञता परार्थसम्पत्। तद्वचनेनैवेदानीं परिहरन्नाह। तस्मात्तर्हीत्यादि। आत्मभाव एव शरीरं तस्य वा शरीरं शिलापुत्रकस्येव शरीरमिति न्यायात्। तदेव प्रतिलभ्यत इति प्रतिलम्भस्तेन तथागत इति न संख्यां गच्छति। सर्वेषां तथागतत्वप्राप्तिरिति मतिः। कथं तर्हि तथागतः इत्याह। सर्वज्ञतायामित्यादि। अपरमपि गुणमाह। येयं कौशिक इत्यादि। सर्वज्ञज्ञानाश्रयभूत इति। अन्येषां सर्वज्ञज्ञाननिष्पत्तिं प्रतिहेतुभूतः। तदेव कथयन्नाह। एनभित्यादि। एनमात्मभावशरीरप्रतिलम्भम्। प्रभावनेति प्रकाशना। बुद्धो रूपकायादिस्वभावः। सूत्राद्यात्मको धर्मः। आर्याविनिवर्तिकादिबोधिसत्त्वसमूहः  सङ्घः। परिनिर्वृतस्यापीति। अपिशब्दात्तिष्ठतः। विस्तरेण निर्दिश्यैवमुपसंहरन्नाह। तस्मात्तर्हि कौशिकेत्यादि। ननु सर्वप्रतिविशिष्टत्वे तथागतस्य कथं कारणत्वेऽपि मातुः पूजायामधिकं पुण्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। सर्वज्ञज्ञानस्य हीत्यादि। अयं वाक्यार्थः। "प्रज्ञापारमिता ज्ञानमद्वयं सा तथागत"इति न्यायान्मुख्यतो धर्मकायस्तथागत एव प्रज्ञापारमिताऽतस्तद्द्योतिकाया मातुः पूजया सर्वज्ञज्ञानस्य धर्मकायस्य पूजनाद्वहुतरं पुण्यं प्रसवति। रूपकायप्रतिबिम्बतथागतपूजायां तु प्रतिविशिष्टधर्मकाया सङ्ग्रहान्नाधिकं पुण्यमिति। लिखित्वा पूजयतो बहुतरं पुण्यं निर्दिश्य लिख्यमानायामपि तथैव प्रतिपादयन्नाह। यः कुलपुत्रो वेत्यादि। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्य। तथैव परिहरन्नाह। सर्वज्ञज्ञानस्य हीत्यादि। द्वितीयं मृदुमध्यप्रकारं प्रतिपादयितुं प्रश्नयन्नाह। य इमे भगवन्नित्यादि। न ज्ञास्यन्तीति पुण्यसम्भारानवगमात्। महार्थिकेति। महानर्थः पुण्यसम्भारः तन्निष्पादनात्तदर्थिका। न वेत्स्यन्तीति। ज्ञानसम्भारानवबोधात्। ज्ञानसम्भारो महानुशंसस्तद्धेतुत्वेन महानुशंसा। महाफला महाविपाकेति। पुण्यज्ञानसम्भारयोर्यथाक्रमं विपाकनिष्यन्दफले रूपकायधर्मकायौ तन्निष्पादनादेवमुक्तम्। न च वेदयिष्यन्तीति। पुण्यज्ञानफलाप्रतिपत्तेः। न च पुनः श्रद्धास्यन्तीति कर्मफलादौ सम्प्रतिपत्तिविगमात्। तद्वचनेनैव प्रश्नं परिहृत्य मृदुमध्यप्रकारप्रतिपादनार्थं प्रतिप्रश्नयन्नाह। तत्किं मन्यसे कौशिक कियन्त इत्यादि। अवेत्य प्रसादेनेति। अवगम्य गुणसम्भावनापूर्वकः प्रसादोऽवेत्य प्रसादो विचिकित्साप्रहाणादित्येके। दृष्टतत्त्वस्य श्रद्धा त्रिषु रत्नेष्वार्यकान्तञ्च शीलं चतुर्थमवेत्य प्रसाद इत्यन्यः। उतरोत्तरपुण्यमहत्त्वादिकार्यं विशिष्टवीर्यातिशयादियोगादिति मत्त्वा साधूक्तत्वेनानुमतिमाह। एवमेतत् कौशिकेत्यादिना। अनेनायमर्थः कथितः। यथा वीर्यातिशयादिवैकल्यादवेत्य प्रसादलाभिनोऽधिगममहत्त्वावबोधेऽप्यल्पकास्तथा प्रज्ञापारमितापूजादि कारिणोऽल्पका इति तद्वचनेन प्रतिपादितमिति ग्राह्यम्। अन्यथा शक्रप्रश्नवचनेन न किञ्चिदुक्तं भवेदिति। अल्पतरतमादिप्रतिपादनेनानन्तरार्थं विस्तारयन्नाह। तेभ्यः कौशिकाल्पेभ्य इत्यादि। चित्तोत्पादं वृंहयन्तीति।



 



सहोदयाच्चित्तवरस्य धीमतः



सुसंवृतं चित्तमनन्तदुष्कृतात्।



क्लेशाच्च दुःखाच्च विभेति नासौ



सम्पतिकालेऽपि विपत्तिकाले॥



 



इत्यादिगुणमनुस्मृत्य प्रतिपत्त्योपस्तम्भयन्ति। उपवृंहयित्वेति सुव्वान्तप्रयोगः। आरब्धवीर्या इति। उत्तप्तवीर्याः। योगमिति। ध्यानबलाच्चित्तैकाग्रतां चरन्तीति तत्त्वावबोधेनानुतिष्ठन्ति। अविनिवर्तनीयायामिति। अचलायाम्। अध्याशयसम्पन्नानामिति।



 



आयतो विपुलो हृष्ट उपकारपरो महान्।



कल्याणश्चैवमाधिक्याच्छयो ह्यध्याशयः सताम्॥इति



विशिष्टेनाध्याशयेन युक्तानाम्। ते चेति



 



श्रोतारः। पुनरप्यत्यन्ताल्पत्वं प्रतिपादयन्नाह। सन्ति खलु पुनरित्यादि। ननु समानाभिप्रायेण सर्वेषां प्रवृत्तौ कथमेको द्वौ वाऽवतिष्ठेयातामिति। तत्कस्य हेतोरित्याशङ्क्याह। दुरभिसम्भवा हीत्यादि। दुरभिसम्भवा दुरभिगम्या। चतुर्विधनिर्वेधभागीयेषु दर्शनभावनाविशेषमार्गेषु च वीर्यातिशयवैकल्याद्धीनवीर्यैरित्यादिपदसप्तकार्थो यथाक्रमं वाच्यः। एतदुक्तम् "वीर्यातिशयासम्भवात् प्रथमतस्तुल्याभिप्रायेण प्रवृत्तावपि न सर्वेऽनुत्तरसम्यक्सम्बोधिभाज"इति । तृतीयं मृद्वधिमात्रप्रकारं कथयन्नाह। तस्मात्तर्हीत्यादि। क्षिप्रमित्याशु। सुखमित्यनायासम्। अभीक्ष्णमिति पुनः पुनः। ननु तथागतत्वार्थिना बोधिसत्त्वचर्यायां शिक्षितव्यम्। तत्कथं प्रज्ञापारमितायां शिक्षाऽस्याभिधीयत इति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहि स एवमित्यादि। अयं हि वाक्यार्थः। यस्मात् पूर्वं भगवान् बोधिसत्त्वचर्यां चरन् प्रज्ञापारमितायां शिक्षितोऽनुपलम्भयोगेन चर्यानिष्पादनार्थं तथा मया सर्वबुद्धगुणावाप्तिहेतुत्वेन प्रज्ञापारमिता प्रतिसर्तव्या। अन्यथोपलम्भाद्बोधिसत्त्वचर्याणामनिष्पत्तेर्न बोध्यधिगम इति स बोधिसत्त्वो ज्ञास्यतीति। चतुर्थ मध्यमृदुप्रकारमावेदयन्नाह। तस्मात्तर्हि कौशिकेत्यादि। कोटिश इति कोटिं कोटिं कोटिशः। सप्तरत्नमयानि।



 



मुसारगल्ववैदूर्यरूप्यस्फटिकहाटकम्।



सह लोहितमुक्ताभिरश्मगर्भैश्च वर्ण्यते॥



रत्नं सप्तविधं सर्वं प्राधान्यादथवाऽपरे।



तद्भेदा मणयः सर्वे वर्णसंस्थानलेशतः॥



 



इति वचनादेतानि सप्तरत्नानि। तन्मयास्तत्स्वभावाः। तथागतधातुगर्भानिति। तथागतधातुमध्यान्। तन्निदानमिति तद्धेतुकम्। क्वचित्ततो निदानमिति पाठः। तत्रायमर्थो धातुगर्भस्तूपपूजातस्तस्याः सकाशान्निदानं बुद्धत्वप्राप्तेः कारणं बहुपुण्यं प्रसवेदिति। बहुपुण्यमिति यदि नामाभिधर्मसमुच्चये नामभेदः कृतः "कामप्रतिसंयुक्तं कुशलं पुण्यम्। रूपारूप्यप्रतिसंयुक्तमानिज्ज्यमि"ति।  तथाप्यत्र सामान्येन कुशलं पुण्यं ज्ञेयं रूपधातावप्यस्यार्थस्य सम्भवात्। बहु भगवन् बहु सुगतेति। पुर्नबह्विति निर्दिष्टमतिवैपुल्यसिद्धये। सुगतेति तु विज्ञेयं सम्भ्रमादिविशेषतः। अभिश्रद्दधदिति। अभिसम्प्रत्ययं कुर्वाणः। अवकल्पयन्निति। मनस्यध्यारोपयन्। अधिमुच्येति। अधिमुक्तिमनस्कारेणालम्ब्य प्रसन्नचित्त इति भद्रतादर्शनादभिमुखचित्तः। बोधाय चित्तमुत्पाद्येति। अनुत्तरसम्यक्सम्बोधिनिमित्तं बोधिसत्त्वसंवरग्रहणाद्विशिष्टं चित्तं कृत्वा। अर्थमस्या विवृणुयादिति। अर्थमेवोद्धृत्य केवलं कथयेत्। मनसान्ववेक्षेतेति। परस्पराव्याहतं निरूपयेत्। यथाधिकयेत्यादि। येन मध्यमृद्वादिना प्रकारेणाधिकयाऽधिमुक्त्या सम्प्रयुक्ता या प्रज्ञा सापि यथाधिकतयात्र प्रज्ञापारमितायां परिमीमांसां परीक्षामापद्येत कुर्यात्। सद्धर्मचिरस्थितिहेतोस्तन्निमित्तम्। तदेवाह। सा बुद्धनेत्रीत्यादि। बुद्धानां नेत्री नायिका माता प्रज्ञापारमितैव। अस्याः पुस्तकवैकल्येन पाठस्वाध्यायाद्यसम्भवात् समुच्छेदो माभूत्। तथा मातरं विना सद्धर्मस्यागमाधिगमस्यान्तर्धानं माभूत्। बोधिसत्त्वानाञ्च जननीपुस्तकसद्भावेनानुग्रहोपसंहारः श्रवणादिलक्षणः कृतो भविष्यति नेत्र्यवैकल्येन। यत इति शेष इति तस्मात् स्थापयेदिति पूर्वेण सम्बन्धः। न केवलं स्थापयेदपि तु यथोक्तेनैवाशयेन संस्कारादिकं कुर्यादित्याह। ताञ्चैनामित्यादि। सर्वेण चैतेन। श्रवणादिना दशधा धर्मचरितमुक्तम्।



 



पूजना लेखना दानं श्रवणं वाचनोद्ग्रहः।



प्रकाशनाथ स्वाध्यायश्चिन्तना भावना च तत्॥



अमेयपुण्यस्कन्धं हि चरितं तद्दशात्मकम्।



विशेषादक्षयत्वाच्च परानुग्रहतोऽसमात्॥



 



इति वेदितव्यम्। पञ्चमं मध्यमध्यप्रकारमधिकृत्याह। तिष्ठन्तु खलु पुनः कौशिक कोटिश इत्यादि। जम्बूद्वीपमिति।



 



जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः।



सार्धं त्रियोजनं त्वेकम्।



 



षष्ठं मध्यमध्याधिमात्रं वक्तुमाह। तिष्ठतु खलु पुनः कौशिकायं जम्बूद्वीप इत्यादि। चातुर्महाद्वीपके लोकधातावित्यादि।



 



लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्॥



अपामेकादशोद्वेधं सहस्राणि च विंशतिः।



अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम्॥



तत्र मेरुश्चतूरत्नः सप्तहैमास्तु पर्वताः।



प्रथमतो युगन्धर ईषाधारः खदिरकः॥



सुदर्शनोऽश्वकर्णश्च विनतको निमिन्धरः।



ततो द्वीपाश्च चत्वारो दक्षिणादिदिगाश्रिताः॥



जम्बूद्वीपो द्विसाहस्रस्त्रिषार्श्वः शकटाकृतिः॥



सार्धं त्रियोजनं त्वेकं प्राग्विदेहोऽर्धचन्द्रवत्॥



 



पार्श्वत्रयं तथास्यैकं सार्धत्रिशतयोजनम्।



गोदानीयः सहस्त्राणि सप्त सार्धानि मण्डलः॥



योजनाष्टसहस्राणि चतुरस्रः कुरुः समः।



द्वीपानामन्तरालेषु यथासंख्यं मता इमे॥



देहा विदेहाः कुरवः कौरवाश्चामरावराः।



अष्टौ तदन्तरद्वीपाः शाठा उत्तरमन्त्रिणः॥



चतुर्द्वीपकरन्ध्रार्थश्चक्रवाडस्ततः पुनः।



सीमाबन्धवदायसो जातः स कृष्णपर्वतः॥



सर्वे चैते सहद्वीपा जलेऽशीतिसहस्रके।



मग्ना ऊर्ध्वञ्जलान्मेरुः भूयोऽशीतिसहस्रकः॥



अर्धार्धहानिसंयुक्ताः समोच्छ्रायघनाश्च ते।



सीताः सप्तान्तराण्येषामाद्याशीतिसहस्रिका॥



अभ्यन्तरः समुद्रोऽसौ त्रिगुणः स तु पार्श्वतः।



अर्धार्धेनापराः सीताः शेषं बाह्यो महोदधिः॥



मेरोरूर्ध्वं विमानानीति चतुर्द्वीपकः स्मृतः।



चतुर्द्वीपक एव लोकधातुश्चातुर्द्वीपकः।



सप्तममधिमात्रमृदुमाह। तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपक इत्यादिना। साहस्रे चूडिके लोकधाताविति।



 



चातुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम्।



ब्रह्मलोकसहस्रञ्च साहस्रश्चूडिको मतः॥



 



अष्टममधिमात्रमध्यं वक्तुमाह। तिष्ठन्तु खलु पुनः साहस्रे चूडिक इत्यादि। द्विसाहस्रे मध्यमे लोकधाताविति।



 



तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः।



 



नवममधिमात्राधिमात्रं निर्दिशन्नाह। तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्र इत्यादि। त्रिसाहस्रे महासाहस्र इति।



 



तत्सहस्रं त्रिसाहस्रो लोकधातुरनुत्तरः।



महाचक्रपरिक्षिप्तः समसंवर्तसम्भवः॥



 



अक्षिप्तताहंमानवासनत्वेन प्रथमतः स्वार्थाधिमुक्तेर्नवप्रकारान् निर्दिश्येदानीं स्वपरार्थाधिमुक्तेः प्रथमं मृदुमृदुप्रकारार्थमाह। तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रेत्यादि। अपूर्वाचरममिति। न पूर्वन्न पश्चाद्युगपदित्यर्थः। एतयैवंरूपया पुण्यक्रिययेति। अनन्तरोक्तया सप्तरत्नमयतथागतधातुगर्भस्तूपसत्कारादिस्वभावया पुण्यचेतनया।



 



धर्मतो बुद्धा द्रष्टव्याः धर्मकाया हि नायकाः।



 



इतिवचनाद्धर्मतास्वभावप्रज्ञापारमितापूजायां सर्वबुद्धपूजनाद्बहुतरं पुण्यमिति मत्त्वा केषाञ्चिदर्थकरणाय स्वावबोधमाह। एवमेतद्भगवन्नेवमेतत्सुगतेति। एतदेव कथयन्नाह। प्रज्ञापारमितां हीत्यादि। प्रकारान्तरेण यथोक्तमेव मृदुमृदुभेदमुदीरयन्नाह। तिष्ठन्तु खलु पुनर्भगवन्नित्यादि। पर्यायेणेति निर्देशेन। सर्ववाद्यैरिति। वीणावंशादिदशवाद्यसहस्रैः। सर्वगीतैरिति संस्कृतप्राकृतादिगीतिकाभिः। सर्वनृत्यैरिति श्रृङ्गारवीरवीभत्सादिभिः। सर्वतूर्यताडावचरैरिति। शङ्खादिध्वनयः सर्वतूर्याः। करतालवाद्यविशेषास्ताडावचराः। साधूक्तत्वेनानुमत्यर्थमाह। एवमेतत् कौशिकेत्यादि। बहुतरमित्यादिपदत्रयं प्रयोगाद्यवस्थासु। धर्मसम्भोगनिर्माणकायनिष्पादनाच्चाचिन्त्यमित्यादिपदत्रयार्थो यथाक्रमं वाच्यः। ननु तथागतस्य सर्वप्रतिविशिष्टत्वे कथं मातुः पूजायामधिकं पुण्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। प्रज्ञापारमिता निर्जाता हीत्यादि। नन्वस्यार्थस्य पूर्वोक्तत्वेनापूर्वमत्र वाच्यम्। न किञ्चित्तत्किमर्थमस्योपन्यास इति चेत्। उच्यते। यद्यप्येवं तथापि येन प्रकारेण श्रोतृजनान्तरस्य चित्तं साशङ्कमुत्पद्यते तस्य पूर्वोक्तेनापि क्रमेण निषेधनं क्रियत एव। यतो नास्त्ययं नियमोऽन्यत्रोक्तमुत्तरं चोद्यञ्चैकस्यापरस्य तदेव चोद्यमुत्तरञ्च न भवतीति। तस्मात् पुनरुक्तत्वं नाशङ्कनीयम्। एवमन्यत्रापि वाच्यम्। कलां नोपैतीति। अवस्थाभागं न प्रतिपद्यते। सङ्ख्यामिति। यथानिर्दिष्टसंख्याव्यतिरेकेण न्यूनसंख्याम्। कलामपीति पुनः कलां सूक्ष्मप्रभावम्। गणनामिति जातिविवक्षां वा। उपमामिति। सदृशावस्थाम्। औपम्यमिति। यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलावितिवचनात्। उपमागुणमौपम्यम्। उपनिसामिति। अतिकृशताम्। उपनिषदमिति हेतुभावम्। न क्षमत इति न प्रतिपद्यते। एतेन च कलादिरूपाप्रतिपत्तिवचनेन प्रज्ञापारमितातथागतधातुगर्भस्तूपपूजापुण्ययोर्दूरान्तरत्वमावेदितम्। अवयव्यणुरूपादीनामेव कलादित्वव्यवस्थापनादिति ग्राह्यम्। द्वितीयं मृदुमध्यप्रकारार्थमाह। उद्गृह्णीष्व मार्ष प्रज्ञापारमितामिति। महानुभावत्वेन क्षमादिसम्पन्नः शक्र इति तस्यामन्त्रणं मार्षेति देवपुत्राणां साधूक्तत्वेन तदेव भगवानाह। उद्गृहाण त्वमित्यादिना। ननु सांदृष्टिकप्रयोजनमन्तरेण किमर्थं प्रज्ञापारमिता गृह्यत इति कस्यचिद्वितर्क इति। तत्कस्य हेतोरित्याशङ्क्याह। यदा हीत्यादि। एवंरूपाः समुदाचारा इति वक्ष्यमाणा वितर्काः। योधयिष्याम इति। एतदेव कथयति। संग्रामयिष्याम इति। समन्वाहरेरिति मनसा,स्वाध्यायेरिति वचसा। सांदृष्टिकानुशंससन्दर्शनाज्जातप्रसादत्वेन स्तुत्यर्थमाह। महाविधेयमित्यादि। साधूक्तत्वेनानुवादार्थमाह। एवमेतदित्यादि। ननु महाविद्यादित्वं भगवत्याः कुत इति। तत्कस्य हेतोरित्याशङ्क्याह। इमां हि कौशिकेत्यादि। इदमत्र समासतोऽर्थतत्त्वम्। सर्वावरणविषप्रशमनेनातीततथागतार्थकरणान्महाविद्या। अनागताप्रमाणतथागताभिसंबोधहेतुत्वादप्रमाणा। अपरिमाणकार्यकरणसमर्थप्रत्युत्पन्नसर्वतथागताभिसंबोधनिमित्तत्वादपरिमाणा। पञ्चकषायोच्छेदकाले क्लिष्टे च लोकधातौ शाक्याधिराजस्य तत्त्वाधिगमहेतुत्वात् संसारोत्तारणार्थेन निरुत्तरा। दशकुशलादेरचिन्त्यज्ञानपर्यन्तस्य लोकप्रभावनां प्रति सर्वप्रतिविशिष्टहेतुत्वेनानुत्तरा। मातुर्निष्यन्ददेशनाधर्मसामर्थ्येन बोधिसत्त्वास्तथागतानुत्पादेऽपि प्रज्ञोपायकौशल्येन दशकुशलादिकं लोके प्रभावयन्तीति कृत्वा समाभावादसमा। तथागतसद्धर्मान्तर्धाने जिनजननीप्रभावेन लोके धर्मचर्यादिप्रवर्तनादसमैस्तथागतैः सह समत्वादसमसमेति। यथोक्तमेव व्याख्यानं युक्तरूपमन्यथा महाविद्यादित्वं यद्भगवत्यास्तत् कस्य हेतोरित्याशङ्क्याह। इमां हीत्यादि। ग्रन्थेन परिहाराप्रतिपादनान्न किञ्चिदुक्तं स्यात्। ततश्च यैर्महासुरादिपराजयमहार्थसिद्धिफलप्रदत्वान्महाविद्येयं भगवन् यदुत प्रज्ञापारमितेत्यादिग्रन्थः प्रथमतो व्याख्यातस्तैः प्रकरणार्थो न लक्षित इति लक्ष्यते। महाविद्यादित्वमन्यत्रान्यथा व्याख्यातमतो यथोक्तव्याख्यानं ग्रन्थानुगतमपि न सङ्गतमिति न मन्तव्यम्। सामयिकत्वाच्छब्दानामित्यलं प्रसङ्गेन। प्रकृतमेव पदव्याख्यानमभिधीयते। विद्यामागम्येति। प्रज्ञापारमितां प्राप्य। एते हीत्यादि। साम्प्रतमिदानीमित्यर्थः। दशकुशलाः कर्मपथा इति। प्राणातिपातादत्तादानकाममिथ्याचारमृषावादपैशुन्यपारुष्यसम्भिन्नप्रलापाभिध्याव्यापादमिथ्यादृष्टिविरतयो दशकुशलाः कर्मपथाः। चत्वारि ध्यानानीति। समापत्तिजानि रूपधातुस्वभावानि चत्त्वारि ध्यानानि। तत्र प्रथमध्यानं वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेति पञ्चाङ्गम्। द्वितीयमध्यात्मसम्प्रसादः प्रीतिः सुखं चित्तैकाग्रता चेति चतुरङ्गम्। तृतीयमुपेक्षा स्मृतिः सम्प्रजन्यं सुखं चित्तैकाग्रता चेति पञ्चाङ्गम्। चतुर्थध्यानमुपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिरदुःखासुखा वेदना चित्तैकाग्रता चेति चतुरङ्गम्। बोध्यङ्गसम्प्रयुक्तानीति। अनाश्रवाणि प्राधान्यादित्येके। प्रज्ञोपायपरिग्रहबलात्साश्रवाण्येव बोधेरङ्गानि कारणानि सम्प्रयुक्तानि तुल्यं प्रवृत्तानीत्यपरे वर्णयन्ति। प्रभाव्यन्त इति प्रज्ञायन्ते। चत्त्वार्यप्रमाणानीति। मैत्रीकरुणे सर्वथाऽद्वेषस्वभावे सत्त्वेषु यथाक्रमं सुखदुःखसंयोगवियोगेच्छे। मुदिता सम्यक्सम्प्रतिपत्तिषु सत्त्वेषु सौमनस्यलक्षणं प्रामोद्यम्। उपेक्षा तु मित्रामित्रेष्वनुनयप्रतिघविरह इत्येतान्यप्रमाणसत्त्वालम्बनत्वादप्रमाणनि। चतस्र आरूप्यसमापत्तय इति। अनन्तमाकाशमिति। अनन्तं विज्ञानमिति। नास्ति किञ्चिनेति। संज्ञा गण्डः शल्यमासंज्ञिकं मोहः। एतच्छान्तमेतत्प्रणीतं यदुत नैव संज्ञानासंज्ञायतनमित्येवं मनसिकारैर्यथाक्रममाकाशविज्ञानाकिञ्चन्य-नैवसंज्ञाना-संज्ञायतनाख्यानि। विभावितरूपसंज्ञत्वेन रूपाभावादरूपा एवारूप्याः कायचित्तसमतापादनाच्चतस्रः समापत्तयः। षडभिज्ञा इति। ऋद्धिर्दिव्यचक्षुर्दिव्यश्रोत्रं परचित्तज्ञानं पूर्वनिवासानुस्मृतिराश्रवक्षयज्ञानमिति षडभिज्ञाः। बोधिपक्षा धर्मा वक्ष्यन्ते। संक्षेपेणेत्यादि। समासेन चतुरशीते रागादिचरितानामेकैकचरितप्रतिपक्षो यावता ग्रन्थेन परिसमाप्यते तावान् ग्रन्थराशिर्धर्मस्कन्ध इति चतुरशीति धर्मस्कन्धसहस्राणि। बुद्धज्ञानमित्यादि। सर्वज्ञेयावबोधेनातिशयबुद्धिसद्भावाद्बुद्धाः परोपदेशमन्तरेण स्वयम्बोधात्,स्वयम्भुवस्तेषां ज्ञानमिति तथोक्तम्। तच्च सर्वचिन्ताविषयातिक्रान्तशक्तिरूपत्वादचिन्त्यज्ञानम्। पूर्वश्रुतेनेत्यादि। सर्वोऽयं देशनाधर्मो धर्मधातुनिःष्यन्दः प्रज्ञापारमितानिःष्यन्दः। प्राग्बुद्धोत्पादकाले श्रुतः। अनुकम्पामिति कृपाम्। इममिति। सहाख्यं लोकधातुम्। अबुद्धकबुद्धक्षेत्रोपलक्षणञ्चेदम्। बोध्यङ्गविप्रयुक्तानीति। तथागतानुत्पादे तत्रत्यानां बोध्यधिगमाभव्यत्वादित्येके। प्रज्ञोपायविकलत्वेनेत्यपरः। आश्रवक्षयज्ञानस्य तदानीमसम्भवात्पञ्चाभिज्ञाग्रहणमत्र कृतम्। दृष्टान्तेनापि मातुर्माहात्म्यं दर्शयन्नाह। तद्यथापीत्यादि। ओषधी तारा इति। ओषध्यश्च ब्रीह्यादयस्ताराश्च शुक्रवृहस्पतिप्रभृतय इति। तथोक्ताः। ओषध्य एव वा काश्चिन्निशि तारा इवावभासमानास्तथोच्यन्ते। तासाञ्चन्द्ररश्मिभिराप्यायनात् कायपरिपुष्टिः प्रभावातिशयश्चोत्पद्यते इति यथाक्रममाह। यथाबलं यथास्थाममिति। अकारान्तोऽप्यौणादिकः स्थामशब्दो ग्राह्यः । अवभासयन्तीति स्वभावं दर्शयन्ति। नक्षत्राणि चेति पुष्यादयः। दार्ष्टान्तिकमर्थमाह। एवमेवेत्यादिना। अत्ययेनेति परिनिर्वाणेन। धर्मचर्येत्यादि। सूत्रादिधर्मलिखनाद्यभियोगो धर्मचर्या। स्वपरात्मसमताऽभ्यासः समचर्या। रागाद्युपप्लवहानये प्रतिपक्षभावनाऽसमचर्या।  चतुःसङ्ग्रहवस्त्वादिसेवनं कुशलचर्या। प्रज्ञायत इति प्रवर्त्यते। प्रभाव्यत इत्यभ्यस्यते। प्रयोगाद्यवस्थाभेदेन बोधिसत्त्वनिर्जातेत्यादिपदत्रयम्। उपायकौशल्यमिति। व्याख्यातम्। अथवा शून्यतोरूकरुणे तज्जे च कर्मणि नैपुण्यम्। प्रकारान्तरेणापि मातुर्माहात्म्यमाह। पुनरपरमित्यादिना। मनसि कुर्वतामिति। संक्षेपेण समुदायरूपालम्बनात्। समन्वाहरतामिति विस्तरेण प्रत्येकावयवाभिमुखीकरणात्।



 



आवर्त्यते स एवार्थः पुनरर्थान्तराश्रितः।



 



इति वचनान्न ते विषमापरिहारेण कालं करिष्यन्तीत्यादिवचनं न पुनरुक्तमाशङ्कनीयम्। तथाहि पूर्वं दर्शनमार्गाधिकारेणोक्तमधुना तु भावनामार्गाधिकारेणेति विशेषः। राजमहामन्त्रितो वेति सम्यग्नीतिमार्गोपदेष्टा महामन्त्री। राजमहामात्र इति। हस्तिशिक्षकनायको महामात्रः उपसंक्रामेयुरिति। समीपीभवेयुः। यथापि नामेति निपातो यस्मादर्थे वर्तते। को हि नाम धातूपसर्गनिपातानां नियतमर्थं निर्देष्टुं क्षम इति वचनात्। एतदुक्तम्। "यस्मात् प्रज्ञापारमितापरिगृहीतस्तस्मात्तया परिगृहीतत्वान्न तेऽवतारं प्रतिलप्स्यन्त"इति। आलपितुकामतेति। आयातमात्रतावचनेनामन्त्रयितुकामता। अभिभाषितुकामतेति। उत्तरोत्तरकथाप्रबन्धेन वक्तुकामता। प्रतिसंमोदितव्यञ्च ते मंस्यन्त इति। राजादयः चीवरपिण्डपाताद्युपस्तम्भेन तंजिनजनन्यभियुक्तं मुदितं कर्तव्यं मंस्यन्ते। नन्वक्षयिताहंमानवासनानामालपितुकामतादेः किं निमित्तमिति। तत्कस्य हेतोरित्याशङ्क्याह। इयं हीत्यादि। प्रज्ञापारमितेति। तद्भावको बोधिसत्त्वः प्रज्ञापारमिताशब्देनोक्तस्तस्यैवानुशंसानिर्देशाधिकारात्। मैत्रोपसंहारेणेति। मित्रस्येदं कार्यं मैत्रं तस्य ढौकनमुपसंहारः। स च मायादिनापि स्यादित्याह। मैत्रचित्ततयेति। हितचित्ततयेति यावत्। करुणोपसंहारेणेति। करुणाकार्यमत्रोपचारात्करुणा तत्प्रत्यर्पणं करुणोपसंहारः। दुःखापनयनचित्ततया। एतदुक्तमार्यरत्नचूडे। "करुणादिपरिवारा प्रज्ञापारमिता भावनीये"ति वचनात्तद्भावको मैत्र्यादिसामर्थ्यादालपितुकामतादि राजादीनामिति। तथा चोक्तम्। "अन्यत्र मैत्र्याद्यभियुक्तस्य हि बोधिसत्त्वस्य सर्वे देवमनुष्याः सुप्रसन्ना भवन्ती"त्यादि। तस्मात्तर्हीति। तर्हिशब्दोऽवधारणे यस्माद्बह्वनुशंसा प्रज्ञापारमिता तस्मादेव कारणादित्यर्थः। व्याडेत्यादि। व्याडाः क्रूरग्रहा यक्षादयः। सरीसृपाः सर्पास्तत्प्रधानं कान्तारं दुर्गस्थानं तन्मध्यं गताः प्राप्ताः। स्थापयित्वा पूर्वकर्मविपाकेनेति। असम्भवत्प्रतिपक्षवेदनीयकर्मविपाकेनावतारं स्थापयित्वा त्यक्त्वेति पूर्वेण सम्बन्धः। कालान्तरानुशंसादेशनायां सन्देहवतामिदानीं सम्प्रत्ययोत्पादनार्थमाह। अथ खल्वन्यतीर्थ्यानामित्यादि। तीर्थिकप्रव्रज्यया प्रव्रजिताः परिव्राजकाः। उपारम्भाभिप्रायाणामिति। विहेठाभिप्रायाणाम्। तस्यां बेलायामिति। तस्मिन् काल इत्यर्थः। तेषां  चित्तानि व्यवलोक्येति। भगवदनुज्ञायैव तेषां विहेठनाचित्तानि ज्ञात्वा निवर्तनार्थं प्रज्ञापारमितां शक्रः प्रवर्तितवानिति ज्ञेयम्। तथा चानन्तरमेवं वक्ष्यति। मया च शक्रस्य देवानामिन्द्रस्याभ्यनुज्ञातमिति। यावन्मात्र इति प्रदेशः। उद्गृहीत इति सम्बन्धः। तेनैव द्वारेणेत्यादि। येनैव द्वारेण काष्ठादिसंस्कृतेन मार्गेण च विशिष्टभूप्रदेशेनागतास्तेनैव गता इत्यर्थः। अविदितभगवदधिष्ठानत्वेनाह। किमत्र कारणमित्यादि। नास्ति बुद्धानां भगवतामज्ञातमित्याह। अथ खलु भगवानायुष्मत इत्यादि। निवर्तनार्थमिति। प्रतिनिवृत्यर्थम्। नित्यसमाधानवैकल्यात् कथमीदृशं स्मरणं शक्रस्येत्याशङ्कायामाह। मया चेत्यादि। एषां प्रतिनिवृत्त्यर्थं प्रज्ञापारमितां प्रवर्तयेत्यनुज्ञातमभ्यनुज्ञानं शक्रस्य कृतम्। ननु महाकरुणोऽपि भगवान् कथं प्रतिहतचित्तान्नानुगृह्णातीति। तत्कस्य हेतोरित्याशङ्क्याह। नाहमित्यादि। शुक्लं धर्ममिति। तेषां मध्येऽन्यतमस्यैकस्यापि सद्धर्मश्रवणसंवर्तनीयं शुभकर्म न समनुपश्याम्यतो नानुग्रहं करोमि। न तु प्रतिघवशादिति मतिः। प्रतिहतचित्ता इति विद्विष्टचित्ताः। पुनरपि प्रत्ययोत्पादनार्थमाह। अथ खलु मारस्येत्यादि। तत्र मारो देवपुत्रमारः। चतस्रः पर्षद इति। भिक्षुभिक्षुण्युपासकोपासिकाः। नियतमत्रेति। अवश्यमस्यां पर्षदि। विचक्षुःकरणायेति। विघ्नकरणाय। चतुरङ्गबलकायमिति। अश्वः सह चतुर्भिः पदरक्षकैरयमेकाङ्गो बलकायः। हस्ती सहाष्टाभिरयं पूर्वकेण सह द्व्यङ्गः। रथः षोडशभिः सह पूर्वकाभ्याञ्चायं त्र्यङ्गः। षोडशपदातयः पूर्वकैः सहायं चतुरङ्गो बलकायः। सर्वन्यूनः। तस्य पुनर्मारस्येवंक्रमेण महान् बलकायोऽवसातव्यः। व्यूह इति समूहः। दीर्घरात्रमिति दीर्घकालम्। लब्धसम्प्रत्ययाः पूजादिकं कृतवन्त इत्याह। अथ खलु त्रयस्त्रिंशेत्यादि। विहायसेत्याकाशेन चिरस्येति चिरेणेत्यर्थः। उपावृत्तेति उपागता। अवरकेणेति स्वल्पेन तन्मात्रेणेत्यर्थः। पूर्वजिनकृताधिकारा इति। पूर्वबुद्धेषु कृतोऽधिकारः पारमिताव्यापारः श्रवणादिलक्षणो यैस्तथोक्ताः। पूर्वबुद्धैर्वा कृतो दत्तोऽधिकारो नियोगः श्रवणादिस्वभावो येषां ते तथा। कः पुनर्वाद इति। कः पुनः सन्देहः। श्रोत्रावभासगमनप्रतिविशिष्टत्वादुद्ग्रहणादेरिति मतिः। तथत्वाय शिक्षिष्यन्त इत्यादि। तथाभावस्तथत्वमनन्यथात्वेनात एव निर्देशाद्ध्रस्वत्वम्। तन्निमित्तं शिक्षिष्यन्त इत्यादिपदत्रयं प्रयोगाद्यवस्थासु वाच्यम् । तथागतपर्युपासिता इति। तथागताः परिवारप्रदानेन तदुक्तश्रवणेन च पूजादिभिश्च पर्युपासिता यैस्ते तथोक्ताः। निष्ठान्तं पूर्वं निपततीति व्यभिचारलक्षणत्वात्। पर्युपासितशब्दस्य न पूर्वनिपातः। ननु तथागतपर्युपासनादिना मातुः श्रवणादेरगृहीतसम्बद्धत्वात्कथं तेन तस्यानुमानमिति। तत्कस्य हेतोरित्याशङ्क्याह। अतो हीत्यादि। प्रज्ञापारमितातः सर्वज्ञता बुद्धत्वं प्रभाव्यते समुत्पाद्यते। अत एव ततो गवेषितव्या कारणमन्तरेण कार्यासम्भवात्। तदेव दृष्टान्तेन कथयन्नाह। तद्यथापि नामेत्यादि। एतदुक्तम्। "कारणं विना कार्यायोगेन प्रज्ञापारमितातस्तत्प्रभवत्वेन यस्मात्तथागतत्वं गवेषितव्यं ,तस्मान्मातुः श्रवणादिकं नियमेन वासनापरिपुष्टिबीजधानतया तथागतपदप्रापकं भवति। तच्चेदमीदृशं श्रवणादिकं क्वचित्कादाचित्कतया विशिष्टकारणाय च जन्मकं स्वकारणं विशिष्टमेव तथागतपर्युपासनादिकमनुमापयति। कार्यकारणयोर्यस्मादयं धर्मो व्यवस्थितः। तदतद्रूपहेतुत्वात्तदतद्रूपहेतुज"इति। अधिपतित्वेन साधूक्तमिति शक्रमनुवदन्नाह। एवमेतत् कौशिकेत्यादि। तृतीयं मृद्वधिमात्रं कथयन्नाह। न भगवान् दानपारमिताया इत्यादि। वर्णमित्यनुशंसम्। समासव्यासभेदाद्भाषते नेति सम्बन्धः। न परिकीर्तयतीति। नाममात्रोच्चारणादिति ज्ञेयम्। नामधेयञ्च परिकीर्तयतीति। बहुधा नामोच्चारणात्। "बोधिचित्ताश्रयत्वादाश्रयपरमतया। सकलवस्तुसमुदाचाराद्वस्तुपरमतया। सर्वसत्त्वहितसुखाधिकारत्वादधिकारपरमतया। निर्विकल्पज्ञानपरिग्रहादुपायकौशल्यपरमतया। अनुत्तरसम्यक्संबोधिपरिणतत्वात् परिणामपरमतया। क्लेशज्ञेयावरणनिवारणसमुदागमाद्विशुद्धिपरमतया च प्रत्येकं दानादिपारमितानां लक्षणमि"त्यार्यासङ्गः। अभ्युपगमार्थमाह। एवमेतदानन्देत्यादि। षडेव पारमिता बुद्धत्वे कारणं तत् कथमेकस्याः प्राधान्यनिर्देश इति। तत्कस्य हेतोरित्याशङ्क्याह। प्रज्ञापारमिता हीत्यादि। यस्मात् त्रिमण्डलविशुद्ध्या दानादीनां सर्वज्ञतायां परिणामेनादौ प्रवृत्तत्वात् पूर्वङ्गमाः तस्मात्तद्वर्णं भाषे नामधेयञ्च परिकीर्तयामीति। पूर्वेण सम्बन्धः। तद्वचनेन यथोक्तमर्थं प्रतिपादयितुमाह। तत्किं मन्यस इत्यादि। अपरिणामितं दानं सर्वज्ञतायामिति। अनुपलम्भयोगेन सर्वसत्त्वार्थं बुद्धत्वायानियातितं प्रज्ञापारमितयेति शेषः। तथाभूतप्रदानस्य फलोपभोगेन क्षयान्न प्रकर्षगमनमिति प्रश्नादेव गृहीतार्थः। शास्तृभावानुकारिधीः प्राह। नो हीदमिति। शीलादिष्वतिदिशन्नाह। तत् किं मन्यस इत्यादि। व्यतिरेकमुखेनैवं प्रज्ञापरिग्रहबलाद्दानादीनां पारमितारूपतां निर्दिश्य प्रज्ञायाः पारमितास्वभावं प्रतिपादयितुमाह। तत्किं मन्यसे त्वमानन्द अचिन्त्या सेत्यादि। वस्तुनोऽनुपलम्भेनाचिन्त्यफलत्वादाह। एवमेतद्भगवन्नित्यादि। औपलम्भिकपृथग्जनैश्चिन्तयितुमशक्यत्वादचिन्त्या श्रावकाद्यविषयत्वात् परमाचिन्त्या मातुः पारमितार्थमुपसंहरन्नाह। तस्मात्तर्ह्यानन्द परमेत्यादि। पूर्वङ्गमार्थं निगमयन्नाह। तस्मात्तर्ह्यानन्द सर्वज्ञतापरिणामितकुशलमूलत्वादित्यादि। दानादीनां बुद्धत्वे नयनान्नायिका। सर्वोपद्रवनिराकरणात् परिणायिका। अनेन योगेनेत्यादि। यथोक्तन्यायेन दानादीनामन्तर्गमात् प्रज्ञापारमितायां परिकीर्तितायां षट्पारमिताकीर्तनान्नैकस्या एव जिनजनन्या निर्देश इत्यर्थः। यत्तु प्रागुक्तं "प्रज्ञापारमिताया एवाहमित्यादि"तत् प्राधान्यादित्यदोषः। एतदेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामान्द महापृथिव्यामित्यादि। विरोहन्तीति वृद्धिं गच्छन्तीति। दार्ष्टान्तिकमर्थमाह। एवमेवानन्देत्यादिना। चतुर्थं मध्यमृदुमधिकृत्याह। न तावदिमे भगवन्नित्यादि। प्रज्ञापारमितायाः सर्वे गुणा इति समस्ताया मातुरमी सर्वे गुणा न भवन्ति। तस्या गुणात्यन्तप्राचुर्यादिति मतिः। कस्यास्तर्ह्यमी गुणा इत्याह। अथ हि मयेत्यादि। भगवतोऽन्तिकादस्या यः प्रदेशो मयोद्गृहीतः स चानन्तरमेवान्यतीर्थादिनिराकृतौ प्रवर्तितस्तस्यामी गुणा इत्यर्थः। सम्यक् कथनात् साधुकारमाह। साधु साधु कौशिकेति। किन्तु तावन्मात्रप्रदेशात्मिकामपि प्रज्ञापारमितां यः केवलमुद्ग्रहीष्यत्येव यावत् केवलं स्वाध्यास्यत्येव न तस्यैव केवलममी गुणा भविष्यन्त्यपि तु योऽपि लिखित्वा पूजापूर्वकं पुस्तकमात्रं धारयेत्तस्याप्यनन्तरगुणान् वदामीत्याह। न खलु पुनः कौशिक केवलमित्यादि। अनुशंसश्रवणेन जातबहुमानत्वादाह। अहमपि भगवन् तस्येत्यादि। कः पुनर्वाद इति। लिखित्वा विशिष्टोद्ग्रहणादिकारिणः कः सन्देहो यदहं रक्षादिकं करिष्यामीत्यर्थः। तथैव साधु साधु कौशिकेति साधुकारं दत्त्वा पञ्चमं मध्यमध्यं वक्तुमाह। तस्य खलु पुनः कौशिकेत्यादि। प्रतिभानमुपसंहर्तव्यमिति। युक्तमुक्ताभिधानमुत्पादयितव्यम्। छन्द इति वक्तुकामता। प्रकारान्तरेणाप्यनुशंसार्थमाह। पुनरपरं कौशिकेत्यादि। नावलीनचित्ततेति न स्तम्भितचित्तता। मा खल्वित्यादि। मा कश्चिन् मां विहठेनाभिप्रायः पर्यनुयुञ्जीत चोद्यं कुर्वीतेत्येवमवलीनचित्तता न भविष्यति। ननु सम्भवत्प्रज्ञादिप्रकर्षत्वे पुंसां चेतोगुणापरिज्ञाने कथमेवं न भवतीति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहि तस्येत्यादि। एतदुक्तम्। "वस्तूपलम्भजनितं पर्षछारद्यादिभयम्। तस्य प्रज्ञापारमितापरिग्रहबलादेव कर्मकर्तृक्रियोपलम्भाभावान्न भवती"ति। षष्ठं मध्याधिमात्रं वक्तुमाह। प्रियो भविष्यतीत्यादि। तत्र हितसुखकारि मित्रम्। अमात्यो मन्त्रिमुख्यः। मातापितृपरम्परया सम्बद्धो जनो ज्ञातिः। एकमातापितृजनितो भ्रात्रादिः सालोहितः शाक्यपुत्रीयाः श्रमणाः। सप्तममधिमात्रमृदुं निर्दिशन्नाह। प्रतिबलाश्चेत्यादि। बाहुश्रुत्यादियोगात् प्रतिबलः। प्रज्ञासम्पदा समन्वागमाच्छक्तः। सह धर्मेण निग्रहायेति। तेषां वचनेन तिरस्करणायेत्येकः। तदुक्तसाधनधर्मदूषणात् साध्यधर्मेण सह तेषां निराकरणायेत्यपरः। प्रत्यनुयोगश्चोद्यम्। तस्य व्याकरणं सम्यक्परिहरणम्। तत्र समर्थो योग्य इत्यर्थः। अष्टममधिमात्रमध्यं प्रतिपादयन्नाह। यत्र खलु पुनरित्यादि। तत्र दूराद्दर्शनेन प्रेक्षिष्यन्ते। अञ्जलिकरणाद्वन्दिष्यन्ते। समीपमागत्य पञ्चमण्डलकेन प्रणामान्नमस्करिष्यन्ति। प्रतिनियतोपादानादियन्त एवेति कदाचिद्बुद्धिः स्यादित्याह। मा तेऽत्र कौशिकेत्यादि। पेयालमिति। अनुत्तरायां सम्यक्संबोधौ ये संप्रस्थितास्तेऽपि तत्रागन्तव्यं मंस्यन्त इत्यादिपदमतिदेशनीयमित्यर्थः। तत्र ब्रह्मकायिकादयस्त्रयः प्रथमध्यानसङ्गृहीताः। परीत्ताभादयस्त्रयोऽपि द्वितीयध्यानजाः। परीत्तशुभादयस्त्रिविधाः पुनस्तृतीयध्यानस्थाः। अनभ्रकादयोऽष्टौ चतुर्थध्यानभूमिकाः। असंज्ञिसत्त्वास्तु वृहत्फलैकदेशिनः। अधिकपुण्यप्रसवार्थमुपायकौशलञ्च शिक्षयन्नाह। एवञ्च कौशिक तेन कुलपुत्रेणेत्यादि। इत इत्यस्मादित्यर्थः। तथैव कस्यचिन्मन्दमतेराशङ्कामाशङ्क्याह। मा तेऽत्र कौशिकैवं भूदिति। तदेव हारकपर्यवसाने कथयति। न तत्र कौशिकैवं द्रष्टव्यमिति। तत्राप्रहीणकामरागानुशयाः कामधातुजाः कामावचराः प्रहीणकामरागानुशया रूपरागाभिनिविष्टा रूपधातुजा रूपावचराः। नवममधिमात्राधिमात्रार्थमाह। तस्य खलु पुनः कुलपुत्रस्य वेत्यादि। तत्रेतरजनावासो गृहम्। भिक्षूणां वासस्थानं लयनम्। इष्टकादिघटितविशिष्टसंस्थानमीश्वरगृहं प्रासादः। मनुष्याद्युपद्रवाभावात्सुरक्षितः। कस्माद्गृहादिसुरक्षितमित्याशङ्क्याह। यत्र हीत्यादि। नामशब्दः प्रसिद्धवचनः। महोजस्का महानुभावाः। तदुक्तम्। "यस्मादेवं प्रसिद्धा महोजस्का यत्र गृहादावागन्तव्यं मंस्यन्ते। तस्मात्तद्गृहादि तेषामनुभावेन सुरक्षितं भविष्यती"ति। दुष्कुहकसत्त्वधातोरभिसम्प्रत्ययार्थं पृच्छन्नाह। कथं भगवन्नित्यादि। यथाभव्यतया निमित्तमाह। स चेत्कौशिकेत्यादिना। तत्रौदारमवभासं सञ्जानीत इति। महान्तं रश्म्यालोकं तत्र गृहादाववगच्छति पश्यतीति यावत्। निष्ठेति निश्चयः। आगत इत्युपचारप्राप्त्या। उपसंक्रान्त इति गृहादन्तःप्रवेशात्। अमानुषं गन्धं घ्रास्यतीति। मनुष्यलोकातिक्रान्तं विशिष्टं गन्धं घ्राणविज्ञानेनानुभविष्यति। अनाघ्रातपूर्वमिति। अननुभूतपूर्वम्। सर्वपापाकरणादध्यात्मशुद्ध्या चौक्षसमुदाचारः। विविक्तवस्त्राद्युपभोगेन बाह्यपरिशुद्ध्या शुचिसमुदाचारः। आत्तमनस्का इत्यादि। मृदुमध्याधिमात्रसौमनस्ययोगाद्वेदितव्यम्। प्रीतिरेव सौमनस्यं तज्जातं येषामिति ते तथोक्ताः। अध्युषिता इति। पूर्वस्थिताः। अपक्रमितव्यमिति गन्तव्यम्। कथं पूर्वस्थितानां यत्नमन्तरेणापसरणमिति। तत्कस्य हेतोरित्याशङ्क्याह। तेषामेव हीत्यादि। श्रियश्चेत्यादिपदत्रयम्। मृदुमध्याधिमात्रमहानुभावत्वख्यापनार्थम्। एतदुक्तम्। "महौजस्कानामेव सामर्थ्येनापसरणान्न यत्नापेक्षे"ति। अभीक्ष्णमिति पुनः पुनः। प्रसादबहुल इति। अभिसम्प्रत्ययदर्शनादभिवर्धमानश्रद्धः। पूर्वं सामान्येन सर्वत्र शुचिचौक्षसमुदाचारतां निर्दिश्य विशेषेण तात्पर्यार्थमाह। तेन खलु पुनरित्यादि। परिसामन्तक इति परिसामन्तादित्यर्थः। न कायक्लमथ इति। देशान्तरगमनादिना न कायखेदः। न चित्तक्लमथ इति। पिण्डपातवैकल्यान्न चित्तखेदः। तापाद्युपद्रववैकल्यात् स सुखमेव शयां कल्पयिष्यति। चङ्क्रमणादिकाले कण्टकादिभिरनुपद्रवात्सुखञ्च प्रतिक्रमिष्यति। सङ्गीयमानानिति परस्परं ग्रन्थार्थनिर्णयात्। एवं सर्वज्ञतेति। सर्वधर्मानुपलम्भेन बुद्धत्वम्। एवं बुद्धक्षेत्रमिति। अपगतक्षुत्पिपासापाषाणकण्टकादित्वेन यथाक्रमं सत्त्वभाजनभेदाद्विविधम्। ओजःप्रक्षिप्तं च कायसुखमिति। काये यद्बलं वाचि यत्तेजो मतौ याऽतितीक्ष्णता तदेतत्त्रयमोजःप्रक्षिप्तं यस्मिन्निति। तत्तथोच्यते। या तु कायश्रुतिः सा मुख्ये काये कायाश्रिते च वचसि मतौ च गुणकल्पनया वेदितव्या। लघु लघ्वेव चेति। अपगतगुरुकञ्च कायसुखमिति पूर्वेण सम्बन्धः। आहारगृद्ध्येति। आहाराकाङ्क्षया युक्तेति शेषः। योगाचारस्येति समाधिविशेषानुष्ठानपरस्य मनसिकारपरिस्पन्दितेनेति। मैत्र्यादिभावनोपवृंहितेन। ननु योगाचारस्य ध्यानाहारत्वान्न कवडीकाहारे बलवती गृद्धिरस्य तु लिखित्वा मातरं पूजापूर्वकं स्थापयतः। कथमिति। तत्कस्य हेतोरित्याशङ्क्याह। एवं ह्येतत् कौशिकेत्यादि। यथापि नामेति निपातो यस्मादर्थे वर्तते। तदुक्तम्। "प्रज्ञापारमिताध्यानपरिनिष्पत्तये लिखनादिष्वनुयुक्तत्वेन तस्य कायेऽमनुष्या ओज उपसंहर्तव्यं मंस्यन्त"इति। यस्माद्धर्मतैषा तस्मादोजःप्रक्षिप्तत्वेन कृताहारकृत्यवान्मृदुका चास्याहारगृद्धिर्भविष्यतीति। स्वपरसमतया स्वपरार्थाधिमुक्तेर्नवप्रकारान्निर्दिश्य परार्थाधिमुक्तेः प्रथमं मृदुमृदुप्रकारार्थमाह। इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वङ्गमं स्थापयेत्पूजयेन्नोद्गृहीयादित्यादि। अयमेव ततः स कौशिकेति। वक्ष्यमाणो यः पुद्गलः सोऽयमेव ततोऽनन्तरोक्तादनुद्ग्रहादिकारिणः सकाशादित्यर्थः। उपसंहरन् पुनराह। अयमेव ततः स कौशिकेत्यादि। बोधाय चित्तमुत्पादयितव्यमिति। अस्य प्रज्ञापारमिताधिकारे कः प्रसङ्ग इति न वक्तव्यम्। यतः शून्यताकरुणागर्भमेव बोधिचित्तं मुख्यतः प्रज्ञापारमिता। सत्कृत्याध्याशयेन श्रोतव्येति। अपनीतावगुण्ठनिकादिना नीचासनस्थेन विक्षेपदोषं परिहृत्य मोक्षकामाशयेन सद्धर्मः श्रोतव्यः। अन्तशः पुस्तकगतामपि कृत्वा स्थापयितव्येति। अस्यार्थस्य प्रथमत एव स्वार्थाधिमुक्तिहारकप्रारम्भे कथितत्वात् किमर्थमुपादानमिति न मन्तव्यम्। यतस्तत्र स्वार्थपरस्य स्थापनमुक्तमत्र तु परार्थपरस्येति विशेषः। तथा चानन्तरं वक्ष्यति। सद्धर्मचिरस्थितिहेतोरित्यादि।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायामप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तो नाम तृतीयः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project