Digital Sanskrit Buddhist Canon

द्वितीयपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Dvitīyaparivartaḥ


 



द्वितीयपरिवर्तः।



 



सर्वाकारज्ञताधिगमो न विना मार्गज्ञतापरिज्ञानेनेति मार्गज्ञतां वक्तुमाह। तेनेत्यादि। तेन समयेन मार्गज्ञताकथनकाले पुनर्भूयोऽपि शक्रः सन्निषण इति सम्बन्धः। किम्भूत इत्याह। देवानामिन्द्रः प्रभुस्तस्यामेव यथोपवर्णितायां पर्षदि सन्निपतितः। कृतकायादिसामग्रीको विहितसम्यक्प्रणामो वा स्वासने निषणः समुपविष्टः। कुबेरधृतराष्ट्रविरूपाक्षविरूढकाश्चत्वारो लोकपालाः। सहे लोकधातावा समन्तात् पतिः सहापतिर्नायको देवपुत्रो ब्रह्मापि चतुर्थध्यानप्रभवः। "संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिरि"ति न्यायाद्यथाक्रमं प्रथमादिध्यानत्रयस्य विनाशेन तस्यैव चिरस्थायितया पतित्वाभिमानादित्येके। अपरे त्वन्यथान्यतरसत्त्वस्याभास्वरदेवनिकायाच्च्युत्वैकाकिनः शून्ये ब्राह्मे विमाने समुत्पन्नस्याहोवतान्येऽपि सत्त्वा इहोपपद्येरन्निति प्रणिधानानन्तरं पुण्यादिक्षयादपरेषां काकतालीयन्यायेन तत्र समुत्पादेऽहमेषामीश्वर इत्याद्यभिमानात्प्रथमध्यानतृतीयभूमिको ब्रह्मा सहापतिरिति वर्णयन्ति। तत्रैवं पर्षत्सन्निपाते मार्गज्ञतोत्पत्तिं प्रति योग्यताऽपादनाय देवादीनां स्वकर्मजप्रभायास्तथागतप्रकृतिप्रभाभिर्मलिनीकरणता निहतमानसन्तानेऽधिगम उत्पद्यत इति ज्ञापनाय कृताऽतो वक्रोक्त्याधारः कथित इत्याह। योऽपि चेत्यादि। स्वकर्मविपाकजः स्वशुभकर्मवासनानिर्जातोऽवभासो रश्म्यालोकः। चशब्दात् कायादिरपि। अनुभावेन शक्तिविशेषेण। तेजसा प्रभारूपेण। अधिष्ठानेन सान्निध्येनेत्येके।



 



कायवाङ्मनोव्यापाररश्मिभेदाद्वाऽनुभावादिपदत्रयमित्यपरे। अभिभूतो ध्यामीकृतोऽभूत्। अथेत्यादि। एवं मलिनीकरणेन लोकपालत्वाद्यभिमाननिरासानन्तरमित्यथशब्द आनन्तर्ये। इमानीति प्रत्यक्षरूपाणि। अन्तिकादिति सकाशात्। प्रज्ञापारमितामिति मार्गज्ञतात्मकाम्। श्रोतुकामानीति। श्रौतेन ज्ञानेनावधारयितुकामानीति। केषां सम्बन्धिनीमित्याह। बोधिसत्त्वानां महासत्त्वानामिति। उपदेशमित्यादि। श्रवणावस्थायां ग्रन्थधारणाय शिक्षणमुपदेशः। चिन्तावस्थायां गृहीतार्थाविस्मरणमववादः। भावनावस्थायां पूर्वोपार्जनानुशासनी। एतत् सर्वं बोधिसत्त्वानाम्। कथं श्रोतुकामानीत्याह। तत्कथमित्यादि। स्थातव्यमित्यादि। पदत्रयं यथाक्रमं श्रवणाद्यवस्थासु वेदितव्यम्। एवमभ्यर्थितः सुभूतिर्विगताभिमान एवोत्पादित बोधिचित्तो मार्गज्ञताधिगमे भव्य इति विषयप्रतिनियमद्वारेणाह। तेन हीत्यादि। यस्मादेव श्रोतुकामानि तेन कारणेनोपदेक्ष्यामि कथयिष्यामि। चित्तमिति। शून्यताकरुणागर्भमिति भावः। त्रियानव्यवस्थानमाभिप्रायिकं न लाक्षणिकमिति न्यायादनुत्तरसम्यक्सम्बोधिपर्यवसान एव सर्वो जन इत्यतो वीतरागेतरयोगिनापि बुद्धत्वप्राप्तये मार्गज्ञता भावनीयेति व्याप्तिमादर्शयितुं श्रावकयानादिप्रतिपन्नानामनुत्तरसम्यक्सम्बोध्यभाजनत्वेनानियतगोत्राणां प्रथमतो महाबोधावाकर्षणार्थमन्येषाञ्च प्रवृत्तानां सन्धारणार्थमित्याभिप्रायिकं वचनमाह। ये त्ववक्रान्ता इत्यादि। तुशब्दोऽवधारणे। य एवावक्रान्ताः सर्वथाऽधिगताः सम्यक्त्वनियामं स्वश्रावकादिदर्शनादिमार्गं न ते भव्या योग्या बुद्धो भवेयं जगतो हितायेत्यनुत्तरसम्यक्सम्बोधिनिमित्तं चित्तमुत्पादयितुम्। यत्र बालोऽपि जनः सक्तस्तत्र कथं विदितार्यमार्गाः श्रावका न शक्ता इति। तत्कस्य हेतोरित्याशङ्क्याह। बद्धसीमान इत्यादि। स्वमार्गनिर्दग्धनिःशेषत्रैधातुकोत्पत्तिक्लेशावरणतया यस्मात्ते श्रावकाः संसारस्रोतसो जन्मप्रवाहाद्बद्धसीमानोऽनुत्पतिधर्मतया कृतमर्यादास्ततोऽभव्या एव ते पुनः पुनरभीक्ष्णं संसरणाय जन्मग्रहणाय। ततश्चानुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयितुमभव्या इति सम्बन्धः। एतदुक्तम्।



 



यावत् संसारवासस्था भवन्ति वरसूरयः।



तावत् सत्त्वार्थमतुलं शक्ताः कर्तुमनिर्वृताः॥



 



इति वचनात्। पुनर्जन्मग्रहणे सति दानादिना सत्त्वार्थक्रियायामभ्यासाद्बोधिचित्तं सुविशुद्धं तथागतपदप्रापकमुपजायते। अतो महाश्रावकाः समुच्छिन्नक्लेशतया पुनर्जन्माख्यमूलकारणानिवृत्त्या तादृग्विधं चित्तरत्नं कार्यात्मकं नोत्पादयितुं शक्ता निर्हेतुकत्वप्रसङ्गात्। बालाः पुनर्यथोक्तविकलकारणसद्भावेन सक्नुवन्त्येवेति युक्तरूपमेवैतद्वचनं कथमाभिप्रायिकमित्याह। अपि त्वित्यादि। अपि तुशब्दो निपातः प्रस्तावेऽथशब्दार्थे वर्तते। तेषामिति महाश्रावकाणां वक्ष्यमाणानुमोदनामनस्कारेणानुमोदेऽनुमोदयामि। किमनुमोदसे। इत्याह। स चेदित्यादि।



 



यदि ते महाश्रावका बोधिचित्तान्युत्पादयेयुस्तान्यनुमोदेऽहमिति सम्बन्धः। कथं प्रतिक्षिप्यानुमोदे स चेत्याह। नाहमित्यादि। यदि नाम विनेयविशेषापेक्षयाऽऽभिप्रायिकं वचनं प्रागुक्तवानहम्। तथापि न पुनः कुशलमूलस्य बोधिचितप्रभवबुद्धत्वस्यान्तरायमसम्भवित्वेन विच्छेदं महाश्रावकाणां करोमि। कथं न करोमीत्याह। विशिष्टेभ्य इत्यादि। यस्माद्विशिष्टेभ्यः कल्याणमित्रादिभ्यो विशिष्टतमा एव बोधिचित्तादयो धर्मा अध्यालम्बितव्याः प्रतिकांक्षितव्याः। दग्धपुनर्भवक्लेशानामपि च श्रावकप्रत्येकजिनानां कथं तासु तासु गतिषु जन्म न विरुध्यत इति न वक्तव्यम्। यस्माद्योऽनन्यसत्त्वनेयस्य जन्तोरभिरतिपूर्वको हीनस्थानपरिग्रहः। स सम्यगात्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छापूर्वकस्तद्यथा कामिनां स्त्रीगुणपरिग्रहस्तथा चेश्वराद्यनधिष्ठितस्य जन्तोरभिरतिपूर्वको ग्रहोऽयं गर्भस्थानपरिग्रह इत्येवं स्वभावहेतुना क्लेशानां त्रैधातुकोत्पत्तिं प्रति सामर्थ्यं प्रतिपाद्यते। महाश्रावकास्तु सोपधिनिरुपधिसंज्ञकं बोधिद्वयं लब्ध्वा भवादुरुकरुणाप्रज्ञावैकल्येनोत्रस्तमानसाः पूर्वावेधाक्षिप्तायुःसंस्कारपरिक्षयान्निर्वाणासम्भवेऽपि प्रदीपनिर्वाणप्रख्यनिर्वाणसंज्ञिनो व्यतिवृतत्रैधातुकजन्मानश्च्युतिचित्तानन्तरं परिशुद्धेषु बुद्धक्षेत्रेष्ठनाश्रवे धातौ समाहिता एव पद्मपुटेषु जायन्ते। ततस्तेऽमिताभादिसम्बुद्धभास्करकररैक्लिष्टतमोहानये प्रबोधिता बोधिचित्तमुत्पाद्य मुक्त्यवस्थायां नरकादिचारिकामिव गतिं गच्छन्तः क्रमेण बोधिसम्भारं सम्भृत्य लोकगुरवो भवन्ति इत्यागमान्निश्चितमिति। पुनर्भवक्लेशकारणनिवृत्त्या त्रैधातुकोत्पत्तिकार्यं निवर्तते नत्वनाश्रवधातूत्पत्तिरिति कथं विरोधस्तस्मात् सर्वस्मिन् याने सर्वथैकमहायानसमवसरणदेशनैव न्याय्या लक्ष्यते। एवञ्चार्यसद्धर्मपुण्डरीकसत्यकीपरिवर्तादिषु पाठः सुनीतो भवति। "भविष्यसि त्वं शारिपुत्रानागतेऽध्वनि सम्यक्सम्बुद्धः"। तथा "एकं हि यानं द्वितीयं न विद्यते"इत्यादि। पुनरुत्त्रासपरिवर्जनार्थं केषाञ्चिद्दशधर्मकरत्नमेघादिष्वेकयानदेशनार्थो नीतार्थ इति भगवतैवं स्पष्टीकृतः। लङ्कावतारे चोक्तं "नास्ति महामते श्रावकयानिकानां श्रावकयानेन मोक्षोऽपि तु महायानपर्यवसानिका एव ते"इत्यादि। तथार्यनागार्जुनपादास्तन्मतानुसारिणश्चैकयाननयवादिन आहुः।



 



लब्ध्वा बोधिद्वयं ह्येते भवादुत्त्रस्तमानसाः।



भवन्त्यायुक्षयात्तुष्टाः प्राप्तनिर्वाणसंज्ञिनः॥



न तेषामस्ति निर्वाणं किन्तु जन्म भवत्रये।



धातौ न विद्यते तेषां तेऽपि तिष्ठन्त्यनाश्रवे॥



अक्लिष्टाज्ञानहानाय पश्चाद्बुद्धैः प्रबोधिताः।



सम्भृत्या बोधिसम्भारांस्तेऽपि स्युर्लोकनायकाः॥



 



इति। तदेवं सर्वाकाररमणीयतत्त्वनिर्देशादार्यसुभूतौ समुपजातबहुमानानां प्रसादोपबृंहणाय भगवानाह। साध्वित्यादि। अगोचरोऽप्येवमर्थो विस्पष्टवाग्भिः प्रत्यक्षेणेव प्रकाश्यत इति विस्मये साधु साध्विति द्विरभिधानम्। यदि वा स्वविवक्षितस्य व्यक्तं द्योतनात् प्रहर्षे पुनः साधुरिति वचनं शोभनमेवैतद्यद्वदसीति। खलुशब्दोऽवधारणे। यःशब्दो निपातो यस्मादर्थे वर्तते। क्वचित्पुस्तके यदिति पाठः। यस्मात्त्वमेकयानदेशनया बोधिसत्त्वानां स्वपक्षस्थिरीकरणेनोत्साहं ददासि नानानयवादिनस्त्वार्यासङ्गपादास्तदनुसारिणश्चान्यथा व्याचक्षते। येत्ववक्रान्ता इत्यादि वाक्यं नीतार्थमपि तु खल्वित्यादिवचनं नेयार्थमतो व्याप्त्यर्थो बुद्धगोत्रकानधिकृत्येति।



 



तथा।



आकर्षणार्थमेकेषामन्यसन्धारणाय च।



देशिता नियतानां हि सम्बुद्धैरेकयानता॥



 



इत्यादिना च सूत्रान्तरविरोधं परिहरन्ति। पूर्वस्मिन्नेकयानदेशनापक्षे ये श्रावकादिबोध्यधिगमपूर्विकां महाबोधिमधिगच्छन्ति ते तावत्कालं व्यपदेशेन श्रावकादिगोत्रका व्यपदिष्टाः। प्रथमतस्तु प्रमुदिताभूम्यधिगमानुक्रमेणानुत्तरबोधिभाजो महायानगोत्रका इति गोत्रभेदो न विद्यत इत्यलं प्रसङ्गेन। इदानीं मार्गज्ञतायाः स्वभावं कारित्रञ्च कथयन्नाह। कृतज्ञैरित्यादि। निष्पादितोपकारस्मरणदक्षाः कृतज्ञाः। ननु विशेषमार्गादिनाऽपरिसमाप्तकार्यत्वात् क्रियमाणोपकाराः कथमेवं वदन्तीति। तत् कस्य हेतोरित्याशङ्क्यांह। पौर्वकाणां हीत्यादि पूर्वका एव पौर्वकाः। प्रज्ञादेराकृतिगणत्वेन स्वार्थे तद्धितविधानात्। अस्मदर्थेऽस्माकं प्रयोजनेन कृतेनेत्यर्थः। श्रावकयानपुरःसरस्य धर्मचक्रस्य प्रवर्तनादिति मतिः। यथेत्यस्मदर्थ इति सम्बन्धो यदि वा यथाऽववदित इति। ब्रह्मचर्यमब्रह्मचर्याद्विरतिः।



 



वृत्तस्थः श्रुतचिन्तावान् भावनायां प्रयुज्यते।



 



इत्यनेन यथासम्भवं पञ्चशिक्षापदादिकत्वं कथयति। बोधायानुत्तरबोधिनिमित्तम्। चरन्नित्यासंसारं सत्त्वार्थकरणप्रवृत्तत्वेनोत्पादितबोधिचित्तस्य सर्वथा मार्गज्ञतया क्लेशाप्रहाणमित्यस्याः स्वभावेन क्लेशवशितामासाद्य दीर्घकालं प्रतिपद्यमानः सन्नित्यनेन स्वभावः कथितः। अन्यथाऽपरिपूर्णैव बोधिचर्या स्यादिति मतिः। अववदितो यथाववादेन दानादिषु पारमितासु। अववादः कृतोऽववादि तोऽववादं दत्त्वाऽववादकः कृत इति व्युत्पत्तिः। क्वचिदववादित इति पाठः सुगमः। अनुशिष्टोऽनुशासन्या। तत्रेति तेषु श्रावकेषु क्वचिदवस्थायाञ्चरतेति। यथोक्तस्वभावस्य भूतकोटेरसाक्षात्करणेन प्रज्ञोपायकौशलेन च दानादिभिरपरिगृहीतासमादापितापरिमोचितसत्त्वपरिग्रहणसमादापनपरिमोचनादिकर्म कुर्वता सम्भृतसम्भारेणेति कारित्रमावेदितमन्यथाऽधिगमानुपपत्त्या। अनुत्तरं ताथागतं ज्ञानमुत्पादितमधिगतम्। एवं दृष्टान्तमावेद्य दार्ष्टान्तिकमर्थमाह। एवमित्यादि। एवमिति तथेत्यर्थः। अपिशब्दान्न केवलं भगवताऽस्माभिरपि महाश्रावकैरववादानुशासनीभ्यामेवानुग्रहपरीन्दनान्यायेनानुपरिग्रहीतव्या अनुपरिवारयितव्याश्च। तथोत्तरोत्तरपरिपाकार्थं संपरिग्रहीतव्याः संपरिवारयितव्याश्चेति। चशब्दोऽवधारणार्थः। कोऽत्र प्रतिबन्धो यथा भगवान् पूर्वं बोधिसत्त्वावस्थायां श्रावकैरनुपरिगृहीतो भवद्भिरपि श्रावकैरन्ये बोधिसत्त्वास्तथानुपरिग्रहीतव्या इति। तत्कस्य हेतोरित्याशङ्क्याह। अस्माभिरपीत्यादि। अयमाशयो यथा पूर्वश्रावकैः स्वबुद्धानां बोधिसत्त्वावस्थायामस्मदर्थे ब्रह्मचर्यचरणं जातमिति पूर्वकृतोपकारावबोधकारणेन तेषां प्रत्युपकारचिकीर्षया तदन्तिकेऽस्मदर्थं ब्रह्मचर्यं चरन् भगवान् बोधिसत्त्वावस्थायां प्रियतमः शाक्यमुनिरनुपरिगृहीतः। अस्माभिरपि श्रावकैः शाक्याधिराजस्य बोधिसत्त्वावस्थायामस्मदर्थे ब्रह्मचर्यचरणं जातमिति पूर्वकृतोपकारावबोधकारणेन भगवतः प्रत्युपकाराभिप्रायाद्युष्मदन्तिकेऽनागतसत्त्वार्थं ब्रह्मचर्यं बोधिसत्त्वाः प्रियतमाश्चरन्तोऽनुपरिग्रहीतव्याः। एवं हि वयं भगवतः कृतज्ञा इति। एवमनुपरिग्रहे किं भवतीत्याह। क्षिप्रमित्यादि। अभिसम्भोत्स्यन्तेऽधिगमिष्यन्ति। क्वचिदभिसम्बुध्यन्त इति पाठः। स तु नहि तदानीमेवाभिसम्बुध्यन्तेऽनुपरिगृहीता इति ,चिन्त्यमित्येके। अविकलकारणसम्पत्त्या कार्योदयविवक्षायां वर्तमाननिर्देश इत्यपरः। यथोक्तमेव ध्यामीकरणादिकं प्रतिपत्तव्यम्। तथाचोक्तम्।



 



ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति।



विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च॥१ इति।



 



आधारादिकमेवमभिधाय श्रावकमार्गार्थमाह। अथ खल्वायुष्मानित्यादि। तेन हीति। यस्मान्मार्गज्ञताधिकारे स्वमार्गपर्यन्तगतिमासाद्य यानान्तरविनेयसत्त्वार्थं प्रत्यसाक्षात्करणेन सहेतुकमार्गोपदेशपरिचयकौशल्यात् सर्वमार्गाः परिपूरयितव्या बोधिसत्त्वेन तस्मात् कारणाच्छ्रावकमार्गं भाषिष्येऽहं कौशिक शृण्विति सम्बन्धः  यथा देवे वर्षत्यप्यवाङ्मुखे घटे न  किञ्चिदप्युदकं प्रविशति तद्वत्त्वमवाङ्मुखो भूत्वाऽप्रतिपत्त्या मा शृण्वित्याह। साधु चेति। यथोत्तानाशुचिघटे यदुदकं प्रविशति तत् सर्वमशुचीभवत्यकार्योपगतं तद्वत्त्वं विपरीतप्रतिपत्त्या श्रुतमशुचीकुर्वन् मा शृण्वित्याह। सुष्ठु चेति। यथोत्तानशुचिछिद्रघटं प्रविशत्युदकं न तु तिष्ठति तद्वत्त्वमस्थिरप्रतिपत्त्या मा शृणु किन्तु तथा शृणु यथा पटुतरानुभवद्वारेण चेतसि स्थिरीभवतीत्याह। मनसि कुर्विति। एवं हि श्रवणं सफलमित्याचार्यवसुबन्धुः। मध्यस्थोऽर्थीवभूत्वा शृण्विति यथाक्रममाह। साधु च सुष्ठु चेति। तथैव विचारको भूत्वा निरूपयेत्याह। मनसि कुर्विति। अनेन श्रोतृलक्षणमावेदितमित्यार्यदेवः। भाषिष्येऽहं त इति तवानुग्रहाय प्रकाशयिष्यामि। कथं भाषिष्य इत्याह। यथेत्यादि। यथा येन प्रकारेण प्रज्ञापारमितायां श्रावकमार्गस्वभावायां स्थातव्यं प्रतिपत्तव्यम्। एवमभ्युपगम्येदानीमाह। शून्यतायामिति। दुःखादिचतुरार्यसत्यसम्बन्धिनामाकाराणामनुपलम्भे सामान्योक्तावपि विशेषप्रतीतिः पूर्वाचार्यसम्प्रदायाद्यनुसारेण भवतीति नात्र सन्देहः। तदयं संक्षेपार्थः। तत्रोदयव्ययधर्मित्वेनानित्यतः। साश्रवस्य वस्तुनः प्रतिकूलत्वेन दुःखतः। एवं कृत्वाऽनित्योऽप्यार्यमार्गोऽनाश्रवत्वेनार्याणामप्रतिकूल इति नास्य दुःखत्वप्रसङ्गः। परेणात्मना शून्यत्वादनात्मतः। स्वयमनात्मत्वेन शान्तत इति दुःखसत्याकाराः। फलस्येव बीजं मूलहेतुत्वेन रोगतः। फलसमुदयत्वेन गण्डतः। दुःखप्रत्ययत्वेन शल्यतः। दुःखपरम्पराप्रभवत्वेनात्यर्थघातादन्यत इति समुदयसत्याकाराः। प्रत्यर्थिकभूतत्वेन परतः। प्रत्यर्थिकभावस्य प्रलोपधर्मत्वात् प्रलोपधर्मत इति। तयोरेव दुःखसमुदययोः प्रत्येकं निर्वेदाकारौ। स्वरूपानवस्थितत्वेन चलतः। हेत्वनपेक्षस्य प्रकृत्यैव भङ्गुरत्वेन प्रभङ्गुरत इति। तयोरेव प्रत्येकं विरागाकारौ। ऐहिकामुत्रिकातङ्कस्थानत्वेन भयतः। रक्षःप्रभृतीनामुपक्रमगम्यत्वेनोपसर्गतः। महाभूतसंक्षोभाशनिपाताद्युपक्रमास्पदत्वेनोपद्रवतश्चेति तयोरेव प्रत्येकं निरोधाकाराः। एवञ्च कृत्वाऽऽर्यश्रावको निर्विदे विरागाय निरोधाय च प्रतिपन्नो भवतीत्यागमार्थः कथितः स्यात्। क्लेशविसंयोगत्वेन निरात्मतः। दुःखप्रशमत्वेन शान्ततः। सुखशुचिवस्तुत्वेन विविक्ततः। नित्यहितवस्तुत्वेन शून्यानिमित्ताप्रणिहितानभिसंस्कारत इति निरोधसत्याकाराः। निर्वाणपुरपरिप्रापणार्थेन मार्गतः। निःशेषक्लेशप्रतिपक्षराशिभावेन न्यायतः। चित्तस्याविपर्यासप्रतिपादनार्थेन प्रतिपत्तितः। निरभिनिवेशनित्यस्थानगमनेन नैर्याणिकत इति मार्गसत्याकाराः। तथाच सत्यमुना क्रमेण महायाने केचिदाकाराः पर्यायतः केचिच्च स्वरूपतो निर्दिष्टा इति नाश्रावकमार्गत्वप्रसङ्गः। ततश्चैषां चतुरार्यसत्यसङ्गतानां स्वभावानुपलम्भभावनया मार्गज्ञताधिकारे श्रावकाणां मार्गो बोधिसत्त्वेन परिज्ञेय इति। अस्य चार्थसंक्षेपस्य पञ्चविंशतिसाहस्रिकायां स्पष्टमुपलभ्यमानत्वान्न विप्रतिपत्तिः कार्या। तथाचोक्तम्।



 



चतुर्णामार्यसत्यानामाकारानुपलम्भतः।



श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये॥२॥इति



श्रावकमार्गमभिधायैवमुष्मार्थमाह। तेन हीत्यादि।



 



यस्मान्निर्वेधभागीयाधिगमपुर्वकं चतुःसत्यपरिज्ञानं तस्माद्बोधिसत्त्वेनोष्माधिगमार्थं रूपं रूपस्वभावेन शून्यम्। एवं वेदनादयो या च रूपस्य शून्यता या च वेदनादीनामद्वयमेतदद्वैधीकारमित्यभेदतो भावनीयम्। अयञ्चार्थो महासन्नाहसन्नद्धेन भवितव्यमित्यनेन कथितः। तथाहि मध्यमायां जिनजनन्यामुक्तम्। "कियता बोधिसत्त्वो महासन्नाहसन्नद्धो भवति। इह सुभूते बोधिसत्त्वः शून्यतया सर्वधर्मानभेदतः प्रत्यवेक्षत"इत्यादि॥ तथाचोक्तम्।



 



रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः।



उष्माणः



 



इति मूर्धार्थमाह। न रूपे स्थातव्यमित्यादि। उपलम्भयोगेनेति भावः। एषामेव पञ्चस्कन्धानां न चक्षुपीत्यादिना न स्मृत्युपस्थानेष्वित्यादिना न श्रोतआपत्तिफल इत्यादिना च यथाक्रमं साश्रवोभयानाश्रववत्त्वेन प्रभेदं दर्शयतीति हारकार्थः। धात्वादीनाञ्च स्वरूपलक्षणमभिप्रतीतमिति न लिखितम्। यावन्न मनोविज्ञान इत्यत्र यावद्ग्रहणेन घ्राणादिविज्ञानातिदेशं करोति। न बुद्धत्वे स्थातव्यमित्यनुत्तरसम्यक्सम्बुद्धत्वे यद्याधारात्मके रूपादौ न स्थातव्यमेवं तर्हि व्यावृत्तिफलत्वात् सर्ववाक्यानां रूपादिकमिति तादात्म्येनावस्थानं प्राप्तमिति कस्यचिदाशङ्कानिषेधार्थमाह। इति हि न रूपमित्यादि। इतिशब्दस्तस्मादर्थे। हिशब्दः पूर्ववत्। तदयं वाक्यार्थो यस्मान्न्यायतोऽनुपलम्भभावनया रूपादेरसत्त्वादाधारभावनानुपपत्तिस्तस्मादेव च कारणात् स्वरूपविरहे तादात्म्येनान्यथा चोपगमो न युक्तरूपः। सन्निहितविनेयजनविपर्यासनिराचिकीर्षया तु कथञ्चिदाधारभावेन निर्देशान्न व्यावृत्तिफलमास्थेयमतो मूर्धाधिगमार्थं सर्वथानुपलम्भभावना रूपादीनां विधेयेति। तथाचोक्तम्।



 



अनुपलम्भेन तेषां मूर्धगतं मतम्॥३॥ इति



 



यावन्मनःसंस्पर्शजेति। अत्र यावद्वचनेन चक्षुर्विज्ञानादिसङ्ग्रहः। यावद्विज्ञानधातुरित्यत्र यावदुपादानेनार्थत्वादिपरिग्रहः। क्षान्त्यर्थमाह। रूपं नित्यमनित्यमित्यादि। अनित्यादिपदं व्याख्यातम्। तद्विपर्ययेण नित्यादिपदं वाच्यम्। विपक्षप्रतिपक्षभेदेन दुःखसत्याकारोपादानं प्रधानत्वात् सर्वाभिनिवेशनिवृत्तये कृतम्। शुभमशुभमिति। शुभं प्रशस्तमशुभमप्रशस्तम्। एतच्च परिशिष्टसत्याकारसूचनपरम्। यद्येवं सर्वाकारविगमे स्वभावशून्यमेव तर्हि प्राप्तमित्याशङ्कावारणार्थमाह। रूपं शून्यमित्यादि। अशून्यवस्तुप्रतिषेधेन शून्यमित्युच्यते। अतो यथोदितविधिना वस्त्वभावान्न निर्विषयप्रतिषेधोऽयुक्त इति मतिः। एतदुक्तम्। "क्षान्त्याधिगमाय रूपादौ नित्यमनित्यमित्यादिभिराकारैरुपलम्भयोगेन सर्वथावस्थानं न विधेयमित्येवम्भावनीयमि"ति।



तथाचोक्तम्।



 



क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः। इति



 



अग्रधर्मार्थमाह। श्रोतआपत्तिफलमित्यादि। असंस्कृतप्रभावितमिति। तत्त्वतोऽनुत्पादस्वभावत्वान्मार्गस्यासंस्कृतनिर्जातं फलं कार्यम्। सामान्येनाभिनिवेशनिषेधार्थमेवं निर्दिश्य विशेषेणाह। श्रोतआपन्नो दक्षिणीय इत्यादि। विशिष्टपुण्यक्षेत्रत्वेन मुख्यतो दक्षिणार्हत्वाद्दक्षिणीयः। सप्तकृत्वो भवपरम इति। कर्तव्यशेषतया परेण प्रकर्षेण यावत् सप्तवारान्संसारवासनिम्नः। अपरिनिष्ठितत्वादित्यादि। अपरिसमाप्तकार्यत्वात्सकृदेकवारम्। इमम् मनुष्यलोकमागम्य संप्राप्य दुःखस्य रागादिक्लेशगणस्यान्तं विनाशं करिष्यति। तत्रैवान्तराभवाद्यवस्थायाम्। इहैवेति। यस्मिन्नेव जन्मन्यर्हञ्जातस्तस्मिन्नेवेत्यर्थः। अनुपधिशेषनिर्वाणधाताविति। न विद्यन्त उपधयः स्कन्धाः सर्वरागादिप्रहाणावशेषीभूतत्वेन शेषा यस्मिन्निर्वाणे तत्तथोक्तम्। निर्वान्त्यस्मिन्सर्वे विकल्पा इति निर्वाणं तथता। तदेव धातुस्तदालम्बनभावेनार्याणां निष्पत्तेर्हेतुरतस्तस्मिन्निति योजनीयम्। श्रोतआपन्न इत्यादि। चतुर्विधफलस्थोपादानेन नान्तरीयकतया प्रतिपन्नकावस्थाश्चतस्त्रोऽपि ग्राह्यास्तेन श्रावकभूमिरष्टप्रकारा भवति। यस्य च पुद्गलस्य यावन्मात्रक्लेशप्रकारप्रहाणेन प्रतिपन्नकत्वादिव्यवस्था तत्प्रागेवोक्तमिति न पुनरुपन्यस्यते। प्रत्येकबुद्ध इत्याद्युद्देशपदं निर्दिशन्नाह। प्रत्येकबुद्धोऽतिक्रमेत्यादि। आत्मानमेकं प्रतिनिमित्तभूतं स्वबोधिं बुद्धवान् स्वयमिति प्रत्येकबुद्धः नैवं श्रावकेऽपि प्रसङ्गस्तस्य परोपदेशसापेक्षत्वात्। न च सम्यक्सम्बुद्धेऽपि प्रसङ्गस्तस्य सर्वाकारज्ञतायाः सर्वसत्त्वार्थोद्देशेन विशिष्टत्वात्। अनेन च नवमी प्रत्येकबुद्धभूमिरुक्ता। ग्राह्यार्थविकल्पप्रहाणेन श्रावकभूमिमतिक्रम्योल्लंध्य ग्राहकार्थविकल्पाप्रहाणेनानुत्तरबुद्धभूमिमप्राप्यानधिगम्य। तथैव बुद्धो दक्षिणीय इति। न स्थातव्यमिति पदं विवृण्वन्नाह। बुद्ध इत्यादि। पृथग्जनभूतमिति। अधिमुक्तिचर्याभूमिम्। अप्रमेयाणामित्यादि। प्रत्यक्षादिप्रमाणेन प्रमातुमशक्यत्वादप्रमेयाणाम्। एकत्वादिसङ्ख्यारहितत्वेनासङ्ख्यानाम्। एतेन यत्र क्वचिद्विनयादौ सुभद्रान्तप्रतिनियतसत्त्वार्थकरणमुक्तम्। तदाभिप्रायिकमित्युपपन्नम्। यद्वात्र लोकधातावर्थक्रियामधिकृत्य तदुक्तमन्यत्र तु निर्माणमेघैः सर्वलोकधातुषु सत्त्वार्थकारणादप्रमेयादिवचनमविरुद्धम्। अथवाऽन्यादेवेदं प्रतिविशिष्टं महायानसंज्ञितं यानान्तरं गाम्भीर्यादियुक्तमतोऽत्र विलक्षणैव देशनेति न यानान्तरेण सह विरोधो वाच्यः। तथान्यत्राप्येवंजातीयकेष्वर्थेष्वयमेव परिहारो ग्राह्यः। सत्त्वानामर्थं कृत्वेति। केषांचिद्दानादिभिरभ्युदयधर्मं निष्पाद्य परिनिर्वाप्येति श्रावकादिनिर्वाणे कांश्चिन्निःश्रेयसधर्मे प्रतिष्ठाप्य। श्रावकप्रत्येकबुद्धसम्यक्सम्बुद्धत्वनियतानिति यस्य कुशलनिर्वेधभागीयादेरधिगमान्नियमेनाभ्युदयनिःश्रेयसधर्मो प्राप्यते तत्र हेतौ स्थापनादन्यान्नियतान्नियतगोत्रस्थानिति यावत्। बुद्धभूमावित्यनेन समन्तप्रभा दशमी बुद्धभूमिः कथिता। बुद्धकृत्यमिति धर्मचक्रप्रवर्तनम्। बुद्धपरिनिर्वाणेनेति श्रावकाद्यसाधारणपरिनिर्वाणेन। एतच्च परिनिर्वाणमिष्टं निर्माणकायेन। कुत एतत्। आगमाद्युक्तितश्च। तथा हि ये समग्रस्थितिहेतवस्ते नित्यमुपरतस्थितिधर्माणो न भवन्ति। यथा संपूर्णदहनेन्धनादिसमग्रस्थितिकारणा धूमादयः। सम्यगासंसारमविकलस्थितिहेतवश्च बुद्धा भगवन्त इति। स्थितिविच्छेदव्यापकेनासमग्रस्थितिहेतुत्वेन विरुद्धस्य समग्रस्थितिहेतुत्वस्येह विधानाद्व्यापकविरुद्धोपलब्धिः। कथं हेतुसिद्धिरिति चेदुच्यते। स्थितिहेतुवैकल्यं सत्त्वार्थसंपादनशक्तिपरिक्षयान्महाकरुणाव्यपगमादायुःसंस्कारावस्थापनवशिताभ्रंशाञ्जीवितेन्द्रियविपाककर्ममर्यादानाद्बुद्धविनेयसत्त्वाभावतो वा भवेत्। तत्र शास्तुरव्याहतशक्तिज्ञानप्रतिज्ञानान्न प्रथमो विकल्पः। को हि तस्यान्यथा खङ्गादेर्विशेषः स्यात्। दीर्घकालाभ्यासेन श्रोत्रियजोटिङ्गनैर्घृण्यवत्सात्मीकृतत्वान्महाकृपायाः। न यत्नेन विना हानिर्यत्नस्तु नादोषदर्शनाद्विवृद्धतद्रसास्वादलम्पटस्य तस्यामेव बुद्धेः पक्षपातादिति। नापि द्वितीयो विकल्पः संभवति। ऋद्धिपादाभ्यासकाष्ठावसानगमनात्। न विकल्पस्तृतीयोऽपि युक्तिसङ्गतः। तथा ह्युक्तम्। "यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकाङ्क्षन् स कल्पं वा तिष्ठेत् कल्पावशेषं वा,तथागतस्यानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकाङ्क्षन् स तथागतकल्पं वा तिष्ठेत् कल्पावशेषं वेति"। जीवितफलकर्मसंक्षयोऽपि नानल्पकल्पोपचितप्राणातिपातप्रतिविरतेरभ्यस्तानन्तोपायदानपारमितस्य गुरोः सम्भाव्यते। अयं हि हेतुफलयोः धर्मो यत् प्रकृष्टाद्धेतोः प्रकृष्टं फलमप्रकृष्टाच्चाप्रकृष्टमिति। अन्यथा कारणप्रकर्षाभ्यां कार्ये तदसम्भवान्नोपकार्योपकारकभावो भवेत्। तद्गतभेदानपेक्षणात्। अस्ति च शास्तुरमितजीवितकारणमनवद्यामितपरबधविरत्यादीति कथमब्दशतमप्यनवस्थानम्। सर्वस्यैवास्य सर्वज्ञताफलमिति चेत् नाभिमुख्येन दीर्घकालजीवितफलसंवर्णनात्। प्राणातिपातविरतिदानपारमितयोर्ह्यन्वयव्यतिरेकाभ्यामनल्पमायुः फलमुपवर्णितम्। यश्च यस्याभिमुख्येन हेतुर्वर्ण्यते स परिपुष्टप्रत्ययसमवधानेन। तदुत्पादयन्नेवान्यस्यापि यदि निमित्ततां प्रतिपद्यते तदा न दोषः। न त्वसकृद्विनिश्चितं फलमपहायान्यदुत्पादयति सकृदप्यतज्जनकत्वप्रसङ्गात्। किञ्च धर्मतत्वाभ्यासवशादेव सर्वाकारज्ञतोपजायते। पुण्यसम्भारस्तु तस्य विशिष्टाश्रयोत्पादनादानुगुण्यमापद्यते। तस्मात् साहसमात्रं पुण्यपरिक्षयाद्भगवतो मरणवर्णनम्। स्यान्मतिस्तथागतविनेयसत्त्वासम्भवात् परिनिर्वाणमिति। तदत्र चिन्त्यम्। किं बुद्धरूपविनेया एव सत्त्वा विद्यन्ते किं वा रूपान्तरविनेया अपीति। यदि पूर्वः पक्षस्तदा शक्रादिरूपसन्दर्शनविनेयजनसम्भवात्ताद्रूप्येण किन्नावतिष्ठेत्। आश्रयन्ते हि दयाविधेयचेतसश्चेष्टान्तरमपि जनहितसम्पादनाय यथा भगवतैव चक्रवर्तिरूपमास्थितम्। न च शक्रादिरूपविनेयाभावोऽपि ज्ञापकाभावात्। शक्रादीनां परोपकाराभावप्रसङ्गाच्च। अपि च। एकत्र लोकधातौ बुद्धरूपविनेयजनाभावेऽपि लोकधात्वन्तरेष्वपरिमितेषु तद्भावात् किमस्य परिनिर्वाणम्। धात्वन्तरेऽपि ते न सम्भवन्तीति चेत्। तदिदमज्ञापकं नहीदं पठ्यते क्वचित् सर्वेष्वेव लोकधातुषु बुद्धरूपसन्दर्शनविनेयाः सत्त्वा न सन्तीति। अथ मतम्। नियमतो न सन्ति। सत्त्वे हि परार्थवृत्तेः किं परिनिर्वाणमिति। नन्विदमेव न सिद्धं परिनिर्वृत इति। यस्मादेकत्र धातौ बुद्धरूपसन्दर्शनविनेयासत्त्वे निर्वाणोपदर्शनविनेयजनानुग्रहविधानायोपदर्शितनिर्वृतिरप्यन्यत्राविकलं जातिबोधिधर्मचक्रप्रवर्तनाद्युपदर्शयतीत्ययं समयः।



 



यथोक्तम्।



न बुद्धः परिनिर्वाति धर्मोऽन्तर्हीयते न च।



सत्त्वानां परिपाकाय निर्वाणं तूपदर्शयेत्।



 



अन्यच्चान्येऽपि तावत् साधवो बोधिभवभाविनः। कृपादारिद्र्येऽपि सत्यधनपालनाय प्रतिज्ञातार्थनिर्वहणमवश्यं तया सर्वशक्तिपरिक्षयेणापि सम्पादयन्तो दृश्यन्ते। तथागतास्तु सकलसाधुजनचूडामणयः समुत्तीर्णभवभयाः सात्मीकृतह्रीसत्यकृपाधर्माणोऽप्रतिहतज्ञानशक्तयो न सम्पादयन्तीति कः पुनः सचेतनः श्रद्दध्यात्। प्रतिज्ञातञ्च तैः सत्त्वानामत्यन्तदुःखनिर्मोक्षणम्। तथा हि भगवता पूर्वं प्रणिहितम्।



 



अनेन पुण्येन तु सर्वदर्शिता-



मवाप्य निर्जित्य च दोषविद्विषः।



जरारुजामृत्युमहोर्मिसङ्कुलात्



समुद्धरेयं भवसागराज्जगत्। इति



 



न च जगच्छब्देन कतिपयसत्त्वग्रहणं न्याय्यम्। मा भूत सर्वसत्त्वालम्बनाभावो महाकरुणाया इति। अतश्च यावदेकोऽपि सत्त्वोऽस्ते न तावन्निर्वाणं कृपाशयस्य युक्तम्। न सम्भवत्यपर्यन्तत्वात् सर्वसत्त्वानां संसारादभ्युद्धरणमिति चेत्। अत एव दयामयस्य तदाशयस्यापर्यन्तमेवावस्थानमन्यथा न प्रतिज्ञानुरूपमनुष्ठानं भवेत्। न च महाकरुणानुरूपम्। तथा हीयं महाकरुणा सर्वसत्त्वदुःखपरित्राणेच्छाकारा तदस्याः सुभावितायाः कुतोऽकाण्ड एव विच्छेदः। स्यान्मतिः। न विच्छेदः किन्तु ये तत्कालभाविनो बुद्धविनेयाः सुभद्रान्तास्ते सर्वे विनीताः। ये चान्ये कालान्तरेण परिपक्वसन्ततयो भविष्यन्ति। तदर्थकरणायान्य एव तथागताः क्रमेणोत्पत्स्यन्ते। ततस्तद्धितसम्पादनायान्यमेव कञ्चिद्बोधिसत्त्वमभिषिच्य परिनिर्वाति। अन्यथान्तरालेऽपरार्थवृत्तेर्निरर्थकमवस्थानं भवेदिति। तदयुक्तम्। बुद्धविनेयसत्त्वाभावस्यासिद्धत्वात्। सर्वलोकधातुषु क्रियान्तरविनेयजनभावाच्च। यथोक्तं प्राक्। न चानर्थकमवस्थानं तदर्थकरणायैवावस्थानात्। यथा शाक्याधिराजस्यैव सुभद्रप्रतीक्षया कतिपयक्षणावस्थानमभूत्। स्वल्पतरः स काल इत्यपि न सम्यक्। येनाभिप्रेतफलाहितचेतसो न कालस्य दैर्ध्यमदैर्ध्यं वा गणयन्ति। कालान्तरेण परिपक्वसन्ततिष्वपर एव समर्थो भविष्यतीत्यनुत्तरम्। यस्मादेवं बोधिचित्तोत्पादनेऽपि न यत्नः प्राप्नोति बहूनां लोकाभ्युद्धरणाशयानां व्यापारदर्शनादेतैरेव व्यापृताः किमत्र मया कर्तव्यमित्याशयात्। कारुणिकत्वादिमां गणनामकृत्वा वृत्तिश्चेत्। अत्यन्तावस्थाने कस्माद्गणानामारभन्ते। युक्ता हि तस्यामवस्थायामगणना सात्मीकृतत्वाद्वृत्तिहेतोः करुणायाः।



 



तस्मात्



अल्पकल्पासंख्येयभावनापरिवर्द्धिताः।



तिष्ठन्त्येव पराधीना येषां तु महती कृपा॥



 



गुणमयमूर्तेस्तु भगवतोऽत्यन्तोच्छेदलक्षणायां परिनिर्वृताविष्यमाणायां तच्छरणार्थोऽपि नेदानीन्तनानामुपपद्यते। तथाहि त्राणार्थः शरणार्थो वर्ण्यते यश्च बुद्धं भगवन्तं शरणं गच्छति। सोऽशैक्षान् बुद्धकारकान्धर्मान् शरणं गच्छति। प्रदीपप्रवन्धस्येव बुद्धकारकाशैक्षधर्मात्मकजिनात्यन्तप्रत्यस्तमये कुतस्तेषां त्रातुं सामर्थ्यम्। सामर्थ्यसम्भवेऽनिर्वृतिप्रसङ्गः सामर्थ्यलक्षणत्वाद्वस्तुनः। अतीतार्थस्थितस्य न शक्तिर्व्याहन्यत इति चेत्। नातीतस्य ताद्रूप्येणास्तित्वे वर्तमानताप्राप्तेः। तथा च सैवाप्रतिष्ठितनिर्वाणसिद्धिः। समस्तरूपप्रत्यस्तमये वा किमवशिष्यते। अथ मतम्। तदुपदिष्टस्य प्रवचनरत्नस्य त्रातुमद्यापि सामर्थ्यमस्तीति तस्यापि सामर्थ्यमुच्यत इति। यद्येवं न मुख्यं तर्हि तच्छरणं स्यात्। न हि तत्कार्यस्य सामर्थ्यं तस्य भवति। स्वभावभेदात्। तस्य चाधुना सामर्थ्यमेकान्तेन न प्रच्युतमिष्यत इति। नानुपचरितस्तच्छरणार्थोऽस्ति। को वायमागमधराणामस्थाननिर्बन्धो यदमी निष्कारणवैरिणो युक्त्या गमान्तरोपेतमप्याभिप्रायिकमागमार्थमुल्लङ्ख्य भगवन्निर्वृतिप्रतिपादनाय सोत्साहाः सन्तिष्ठन्ते। भगवतः परिनिर्वाणाभावे कथं धातवो दृश्यन्त इति चेत्। नापि धातूनामयोगो भगवदाधिपत्यादेव तद्विनेयानां प्रसादायतनधातुप्रतिभासनात्। परमार्थस्तु धातवो नेष्यन्त एव। मायोपमज्ञानमयकायत्वान्मुनीनामकलुषधियामासंसारावस्थानाच्च। यथोक्तं सुवर्णप्रभासोत्तमसूत्रे।



 



यदा शशविषाणेन निश्रेणी सुकृता भवेत्।



स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति॥



अनस्थिरुधिरे काये कुतो धातुर्भविष्यति।



 



इत्येवं नासिद्धो हेतुः। सपक्षभावान्न विरुद्धः। अविकले कारणे सति कार्यासम्भवायोगो बाधक इति विपर्यये बाधकप्रमाणान्नानैकान्तिकः। अथ मतम्। आसंसारावस्थितौ महामुनेरव्याहतज्ञानशक्तिकस्यापरतथागतोत्पादो व्यर्थ इत्यदोषो यस्मादव्याहतज्ञानशक्तित्वेऽपि यौगपद्येनापि बहुबुद्धरूपविनेयसत्त्वार्थेषु भगवन्तस्तथागतास्तुल्यकारणवृत्तित्वाच्छिलावस्तब्धमण्डूकोद्धरणेन पृथग्जनभूमिस्थिता इव दयालवः प्रवर्तन्ते। नाप्यपरतथागतोत्पादे पूर्वतथागतज्ञानशक्तिर्व्याहतेति वक्तव्यम्। एकत्र सन्निपत्यापि तद्रूपसन्निपातविनेयजनसम्भवे सत्त्वार्थकरणात्। तथाह्येकस्याव्याहतज्ञानशक्तिसद्भावेनापरेण तत्तुल्यहेतुना तथा न भवितव्यमिति न्याय्यम्। न ह्येकः सूरिर्भूत इत्यपरैस्तत्समाननिमित्तैर्न भवितव्यम्। स्यात् मतिरेकतथागताविनेयत्वे सर्वेषामविनेय इति नैवम्। यस्मादेकस्य भगवतोऽविनेयत्वेन तुल्यसम्भारतया बहूनामपि तथागतानां प्रत्येकमेकैकरूपेणाविनेयोऽपि सन्ननिर्मितबहुबुद्धरूपविनेयः स्यामिति। तथाविधप्रणिधानादिकारणसमाक्षिप्तत्वेन युगपत्सर्वेषामेव विनेयो भवति। अत एव स्वपरिपाचितसत्त्वविनयासम्भवान्नापि श्रावकैर्वा समानत्वमवसेयम्।



 



अत एवं तद्रूपसन्निपात विनेयजनासम्भवान्नैकस्मिन् समवधानमत एव च नैकलोकधातौ युगपद्बहुतथागतोत्पत्तिः। तत्सम्भवेऽपि न विरोधोऽपगतमात्सर्येर्ष्यादिमलानाम्। तथा हि तैरित्थं प्रणिहितम्।



 



यथा यथार्थसम्पत्तिर्भव्यानामुपपत्स्यते।



तथा तथावभासोऽपि भूयादस्मत्समाश्रयात्॥



 



इत्यलमतिप्रसङ्गेन। न्यायोपपन्नतथागतनिर्माणकायपरिनिर्वाणेऽप्यस्थानानुपपत्तिरित्यभिप्रायवान् यदीत्याद्यनुवादपूर्वकमाह। तत्कथं पुनरित्यादि। यद्येवन्न स्थातव्यम्। तदानेन बोधिसत्त्वेन कथं केन पुनः प्रकारेण स्थातव्यं प्रतिपत्तव्यम्। शिक्षितव्यम्। प्रतिपत्त्या संपादयितव्यम्। किंशब्दस्य क्षेपाभिधायित्वान्नैव केनचित्प्रकारेणेत्यर्थः। तद्वचनेनैव परिहारं दापयितुमाह। तत्किं मन्यस इत्यादि। यत्तथागतस्थानं तत् किं त्वं मन्यसे बुध्यसे। यदि स कथयेत्याह। क्केत्यादि। अपि तूपालप्स्ये त्वेत्यादि। प्रथमपरिवर्ते यदुक्तं तदनेन प्रतिपादितमिति ग्राह्यम्। स्थानशब्दस्य यथारुतत्वेन दोष इत्यभिप्रायात् प्रतिवचनमाह। न क्वचिदित्यादि। ननु गृध्रकूटादौ स्थितोऽपि भगवान् कथं न क्वचित्स्थित इति। तत् कस्य हेतोरित्याशङ्क्याह। अप्रतिष्ठितमानस इत्यादि। यस्माद्बोधिसत्त्वोऽभिसम्बुध्य तत्त्वतो धर्माणामनिदर्शनादप्रतिष्ठितं मानवमानसमस्येत्यप्रतिष्ठितमानसस्तथागतः। तस्मान्न क्वचिदुपलम्भयोगेन स्थित इति पूर्वेण सम्बन्धः। तदेव कथयन्नाह। स नैवेत्यादि। संस्कृत इति। कामादिके। असंस्कृत इति। तथतादिके। तत्र न स्थितस्तत्त्वतो वस्त्वनुपलम्भात्। न च ततो व्युत्थित इति। नैवं तत्रास्थितो निर्विषयस्य नञोऽप्रयोगात्। संवृत्या स्थानमस्थानं वा प्रज्ञप्तं भगवत इति मतिः। एवमस्माभिरपि पारमार्थिकाभिनिवेशनिषेधेन संवृत्या सर्वत्रावस्थानादिकं विधीयते। यथा त्वयोक्तमतो न सर्वथाऽवस्थानानुपपत्तिरिति तद्वचनेनैव परिहरन्नाह। एवमेवेत्यादि। एवमेवेत्यनन्तरोक्तक्रमेणैवेत्यर्थः। तदेव विभाजयन्नाह। यथेत्यादिना। न स्थितः क्षणिकानित्यवस्त्वभावात्। नास्थितो निर्विषयप्रतिषेधासम्भवात्। न विष्ठितः प्रबन्धानित्यवस्तुनोऽसत्त्वान्न विसदृशीं स्थितिमनुप्राप्तः। नाविष्ठितस्तथैव प्रतिषेषासम्भवात्। एवमनेन शिक्षितव्यमिति। प्रयोगावस्थायां तथा स्थास्यामीति। तथा शिक्षिष्य इति मौलावस्थायामेवमनेन शिक्षितव्यमिति पूर्वेण सम्बन्धः। सुस्थितोऽस्थानयोगेनेति। विशेषाधिगमलाभेन सुष्ठु स्थितो मायापुरुषस्येवानभिनिवेशयोगेन पृष्ठावस्थायामेवमनेन शिक्षितव्यमित्यत्रापि सम्बन्धः। विस्तरेण प्रतिपत्तिमेवं निर्दिश्योपसंहरन्नाह। एवमत्रेत्यादि। तत्र किं भवतीत्यादि। एवम्भावनाधिगताग्रधर्मात्मकेन प्रज्ञापारमिताविहारेण विहरत्यत एव चाविरहितोऽनेन मनसिकारेण भवति। इतिशब्दः प्रकरणसमाप्त्यर्थः। तदयं वाक्यार्थः। यस्मात्तथागतेन बोधिमभिसम्बुध्य तत्त्वतो न केचिद्धर्माः समुपलब्धास्तस्मान्मायास्वभावा एवामी भावाः प्रतिभान्तीति। प्रमाणपुरुषा दर्शनकारणोपपन्नानुपलम्भभावनयाऽग्रधर्माधिगमार्थं विस्तरेण श्रोतआपत्तिफलप्रतिपन्नकत्वादिदशभूमिष्वभिनिवेशयोगान्न स्थातव्यमित्येवं भावनीयमिति।



 



तथा चोक्तम्।



दशभूमीः समारभ्य विस्तरास्थानदेशनात्।



अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि॥



तत्कस्यहेतोर्बुद्धेन बुद्धा धर्मासमीक्षणात्। इति



 



श्रावकमार्गानन्तरं प्रत्येकबुद्धानां मार्गाभिधाने न्यायप्राप्तेऽपि श्रावकेभ्यः कथं प्रतिविशिष्टास्ते येन तेषां मार्गभेद इत्याशङ्क्य वैशिष्ट्यप्रतिपादनार्थं तावदाह। अथ खलु तत्र पर्षदीत्यादि। यानि तानीति निपातसमुदायत्वेन यानि कानिचित् पूर्वोपश्रुतानीत्यर्थः। यक्षरुतानीति। तेषां यक्षाणां स्वसङ्केतप्रतीतये रुतानि। पदानि रुतसमुदायाः। मन्त्रितानि यावदाविवक्षितार्थपरिसमाप्तिर्महावाक्यानीत्यर्थः। प्रव्याहृतानि। तत्र तत्र कथामार्गे प्रश्नप्रतिवचनानि। तानि विज्ञायन्ते जल्प्यमानानीति। सङ्केतवशादुच्चार्यमाणानि। तानि सार्थकान्यवबुध्यन्ते। न पुनरिदमित्यादि। श्रावकाः परोपदेशसापेक्षाः स्वबोधिं बुध्यन्त इत्यागमः। प्रत्येकबुद्धाः पुनः स्वयं पूर्वश्रुताद्यभिसंस्कारेण परोपदेशं प्रत्यनपेक्षाः स्वबोधिमधिगच्छन्त्यतस्तेषां बुद्धाद्युपदेशनैरर्थकमित्येकं वैशिष्ट्यम्। यतस्तस्मात्कारणात् प्रत्येकबुद्धानधिकृत्य यद्भाषणादि न तत् सार्थकं विज्ञायत इति वाक्यार्थः। भाषत इत्यादि व्याख्यातम्। अथवाऽधीष्टदेशना भाषणम्। पृष्टप्रतिवचनं प्रव्याहारः। एतदेवोभयं सम्मूढानधिकृत्य देशना प्रमत्तानधिकृत्याप्युपदेशना,उपदेशः। अयञ्च वितर्को देवपुत्राणां तथागतानुभावादुत्पन्नोऽवसेयोऽन्यथा न प्रत्येकबुद्धानारभ्यार्यसुभूतिना किञ्चिदुक्तमिति तेषां कथमयं विकल्पः स्यात्। योनिशोवितर्क इत्यनुमत्यर्थमाह। न विज्ञायत इत्यादि। न विज्ञायत इति यदुक्तं तत् साधूक्तमिति शेषः। द्विरभिधानन्तु।



 



विस्मये च विवादे च कोपे दैन्येऽवधारणे।



प्रसादने प्रहर्षे च वाक्यमेकं द्विरुच्यते॥



 



इति वचनाद्यथासम्भवं विस्मयावधारणादौ ग्राह्यम्। कथं साधूक्तमित्याह। तथा हीत्यादि यस्मादश्रोतृसंस्कारकं वाक्यं ब्रुवाणः कथं नोन्मत्तः स्यादिति न्यायेन स्वयम्बोधात्स्वयंभुवां बोधाय न किञ्चिदत्र भाषणादि श्रूयते। तस्मात्तदर्थाय यद्भाषणादि तन्न विज्ञापय इति साधूक्तम्। सालापधर्मदेशनया परान् कुशले श्रावकाः प्रवर्तयन्तीति शब्दोच्चारणधर्मदेशनया श्रोतृभिः क्रियते वक्तृज्ञानसामर्थ्यावबोधः। प्रत्येकबुद्धाः पुनर्ज्ञेयावरणैकदेशग्राह्यविकल्पप्रहाणादशब्दोच्चारधर्मदेशनया स्वाधिगतज्ञानादिसामर्थ्येन परान् दशकुशलादौ प्रवर्तयन्त्यतस्तेषां ज्ञानस्य परानवबोधतया गाम्भीर्यं द्वितीयं वैशिष्ट्यमिति कृत्वा वचनात्मकमपि कार्यलिङ्गभाषणादि न किञ्चिदत्र तज्ज्ञानस्वरूपप्रतिपादनाय सूच्यते। अतद्रूपपरावृतवस्तुमात्रप्रसाधनान्निर्दिश्यते। यतस्तस्मादपि कारणान्न विज्ञायत इति साधूक्तम्। प्रत्येकबुद्धानां स्वयम्बोधात् परोपदेशनैरर्थकमित्येवं रूपं वितर्कं परिहारद्वारेण परिहरिष्यत्येवायमार्यसुभूतिरित्यस्माकं चेतो जातं यावत् तमपरिहृत्यान्यदेव ज्ञानगाम्भीर्यं कथयतीत्याहुर्देवपुत्राः। उत्तानीत्यादि। बतशब्दोऽवधारणे। पुद्गलनैरात्म्यनिर्जातत्वेन तीर्थिकानामगोचरत्वाच्छ्रावकज्ञानं दूरम्। तस्माद्दुरतरं मृद्विन्द्रियत्वेन श्रावकानामविषयत्वात् प्रत्येकबुद्धज्ञानम्। क्लेशावरणप्रहाणफलत्वेन श्रावकज्ञानं सूक्ष्मम्। तस्मादपि ज्ञेयावरणैकदेशग्राह्यविकल्पप्रहाणेन सूक्ष्मतरं प्रत्येकबुद्धज्ञानम्। परोपदेशषोडशाकारप्रभावितत्वेन श्रावकज्ञानं गम्भीरम्। तस्माच्च गम्भीरतरं स्वयम्बोधादिदं प्रत्ययतामात्रप्रभवत्वेन प्रत्येकबुद्धज्ञानम्। सूत्रान्तरेऽप्युक्तम्। "एत एव दशकुशलाः कर्मपथाः स्वयमभिसम्बोधतया गम्भीरा इदं प्रत्ययानुबोधेन च प्रत्येकबुद्धज्ञानं निवर्तयन्ती"ति। प्रविशति तत्पक्षसमाश्रयणात्। तदेवाह। देशयति। भाषत इति।



 



तथा चोक्तम्।



परोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम्।



गम्भीरता च ज्ञानस्य खङ्गानामभिधीयते॥६॥ इति



 



कथं धर्मदेशना च नामाप्रव्याहारा च येन वचनकार्यलिङ्गाभावेन ज्ञानगाम्भीर्यं सिध्यतीत्यपि न वक्तव्यम्। यतो नावितर्क्य नाविचार्य वाचं भाषत इत्यालापविक्षेपौ। अतो धर्मदेशनालापमयी महते विक्षेपाय संवर्तते। विक्षेपश्च सन्तानक्षोभं गाढमादधातीति मत्वा यथा बुद्धेन भगवता प्राग्बोधिसत्त्वभूतेनैवं प्रणिधानं प्रवर्तितम्। "प्राप्तबुद्धत्वोऽहं चिन्तामणिरिवालापमन्तरेणापि सत्त्वार्थ क्रियासमर्थो भूयासमि"ति। तथा बुद्धत्वसाम्यात् प्रत्येकबुद्धैरतस्तेषामपि स्वबोध्यधिगमावस्थायां पूर्वं प्रणिधानादिसामर्थेन यस्मिन्नर्थे येन प्रकारेण यस्य श्रवणेच्छा तस्य विज्ञाने तेनैव प्रकारेणाशब्दोऽपि सोऽर्थः प्रतिभातीत्यशब्दधर्मदेशनोच्यते। सूत्रान्तरेऽप्युक्तम्। "प्रत्येकबुद्धानां कायिकी धर्मदेशना। तथा मनसा शक्राय गाथा विसर्जिते"त्यादि। तथा चोक्तम्।



 



शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा।



स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा॥७॥ इति



 



वैशिष्ट्यमेवाभिधाय विशिष्टानामविशिष्ट एव मार्गोऽन्यथा कारणविशेषानुपपत्तेरिति प्रत्येकबुद्धमार्गं प्रकृतमाह। तेन हीत्यादिना। यस्माद्भवद्भिरेव देवपुत्रैरुक्तम्। दूराद्दूरतरं प्रविशतीत्यादि। तस्मादेव कारणादिदमवगम्यतामिति शेषः। एवं तर्हि नितरां दूराद्दूरतरादिकं प्रविशामीति मतिः। साक्षात्कर्तुकामः प्राप्तुकामः स्थातुकामो निश्चलीभवितुकामः। स नेमां क्षान्तिमनागम्येति। इमां मार्गज्ञतां धर्मनिध्यानक्षमणविषयामप्राप्य स पुद्गलो न सम्भवत्यन्यथाधिगमाभावादित्यनेन च मार्गज्ञतां सर्वमार्गविषयिणीमाह। व्याप्त्यर्थप्रतिपादनेन प्रत्येकबुद्धमार्गाधिकारादिदमुक्तम्। न केवलं ग्राह्यविकल्पस्यैव प्रहाणतः। प्रत्येकबुद्धानां योऽसौ विशिष्टो मार्गस्तत्स्वभावा मार्गज्ञता किन्तर्हि श्रावकादिमार्गस्वभावापीति। पेयालमिति। स नेमां क्षान्तिमनागम्येतिपदं सकृदागामिफलमित्यादिपदत्रयेऽतिदेशनीयमित्यर्थः। ग्राह्यविकल्पस्यैव प्रहाणमिति वचनाद्ग्राहकविकल्पाप्रहाणं प्रतिपादितम्। "तच्च ग्राह्याभावे तदग्रह"इति न्यायादयुक्तमिति वितर्कयन्त आहुः। किमित्यादि। किंशब्दो वितर्के। किंरूपाः किंस्वभावाः कीदृग्विधग्राहकविकल्पोपेताः प्रत्येकबुद्धयानधर्मभाजो। धार्मश्रवणिकाः प्रत्येकबुद्धा ग्रहीतव्या इति यावत्। परिहारार्थमाह। मायेत्यादि। अयमभिप्रायः। वस्तुधर्मो ह्येष यत् स्वलक्षणे वस्तुनि सति तद्ग्राहकं निर्विकल्पकं ज्ञानस्वलक्षणमुत्पद्यते। तदभावात्तन्नेति। ग्राहकविकल्पस्य पुनरनादिकालीननिरुध्यमानरूपादिग्राहकविकल्पज्ञानसमाक्षिप्तस्वसन्तानवासनाप्रबोधजन्मत्वान्नायं नियमो ग्राह्यविकल्पे सत्येव समुदय इति। तस्मान्मायास्वभावनिर्मितपदार्थसमाना एव ते वितथप्रख्यातिरूपग्राहकविकल्पेन सङ्गतत्वात् प्रत्येकबुद्धाग्राहकत्वेनैवेष्टव्या इति। ननु चैवंविधविकल्पेन ग्राह्यविषयं गृह्णन्तोऽपि कथमलीका इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। समाहितासमाहितावस्थायां ते प्रत्येकबुद्धा यथाक्रमं नैव श्रोष्यन्तिः न साक्षात्करिष्यन्ति ग्राहकविकल्पाकारेणेति शेषः। विकल्पोऽवस्तुनिर्भासाद्विसंवादादुपप्लव इति मतिः। अमुना च न्यायेन ग्राहकविकल्पाप्रहाणतोऽपि प्रत्येकबुद्धानां मार्गस्वरूपं कथितम्। मायानिर्मितसदृशा इति केनचिदाकारेणेति सादृश्यवचनात् सत्त्वानां मायास्वभावता निराकृतेति प्रसङ्गागतविकल्पार्थमाह। किम्पुनरित्यादि। मायोपमास्ते सत्त्वाः। किन्न ते मायावितथरूपास्ततश्च तात्त्विकसत्त्वास्तिकपरिदीपितं न सम्यक्निर्देश इति मतिः। मायोपमास्त इत्यादिना परिहारमाह। एवं मन्यते। यथा गजादे रूपेण माया मृच्छकलादिभ्यो विवेकेनानुपलम्भमानत्वान्नान्या। नाप्यनन्या। तथैवं मन्त्राद्यनुपप्लुतलोचनैर्मृच्छकलादीनामदर्शनात्। अतस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वेन वस्तुधर्मसमतिक्रमात् पुद्गलादिवत्तत्त्वतोऽस्तीति न शक्यते वक्तुम्। आबालजनप्रत्यक्षसिद्धत्वेनानुभवपथमनुप्राप्तत्वाद्विकल्पादिवत् संवृत्या च नास्तीतिन शक्यतेऽध्यवसातुम्। ततश्च येये प्रतीत्यसमुत्पन्नास्ते परमार्थतोऽस्तिनास्तित्वव्यवहारयथातिक्रान्तमूर्तयः। यथा माया तथा चामी सत्त्वादयो भावा इति स्वभावहेतुना कस्यचित्प्रसिद्धेनार्थेन प्रसिद्धोऽर्थः साध्यत इति मायात्वेनोपमिताः। न्यायतस्तु पुनस्तेऽपि सत्त्वा मायात्मका एवातो न किञ्चित्तात्त्विकसत्त्वास्तित्वं परिदीपितमिति । मायोपमाः स्वप्नोपमा इति पदद्वयम् प्रबुद्धाप्रबुद्धावस्थाविषयभेदेनोक्तम्। अद्वयमित्येकस्वभावम्। तदेव कुत इत्याह। अद्वैधीकारमिति। न विद्यते द्वैधीकारो नानात्वं यस्य तत्तथोक्तम्। सर्वोपसंहारेण व्याप्तेः प्रवर्तनादिति मतिः। तदयं वाक्यार्थो यस्मादलीकरूपतया मायोपमास्ते सत्त्वास्तस्मान्माया च सत्त्वाश्चाद्वयमेतदद्वैधीकारम्। तथा यस्मात् स्वप्नोपमास्तस्मात् स्वप्नश्च सत्त्वाश्चाद्वयमेतदद्वैधीकारमिति। तामेव व्याप्तिमादर्शयन्नाह। सर्वधर्मा अपीत्यादि। एतद्ग्रहणवाक्यं विवृण्वन्नाह। श्रोतआपन्नोऽपीत्यादि। व्याप्तावेवं प्रतिपादितायां कथं मायोपमो भगवान् सर्वाकारगुणसम्पदो हेतुरित्याह। सम्यक्सम्बुद्धोऽप्यार्यसुभूते इत्यादि। सम्यक्सम्बुद्धो रूपकायस्तथागतः। परिहरन्नाह। निर्वाणमपीत्यादि। यत्र हि नाम निर्वाणमपि प्रतिविशिष्टं धर्मकायमद्वयज्ञानस्वभावं मायास्वप्नसमानं वदामि। तत्र किं पुनरन्यं धर्मं रूपकायं न वदामि। अपि तु वदाम्येवेत्यर्थः। प्रतिषेधद्वयस्य प्रकृतार्थप्रतिपादकत्वात्। यस्माद्यथोक्तस्वभाव एव भगवानभिमुखीक्रियमाणः सर्वगुणसम्पदो हेतुः प्रमाणबाधितस्वरूपत्वेनान्यथा विपर्यास इति भावः। पुनरपि बहुलतरभावाभिनिवेशात् सत्यधर्माप्रतिपत्तिरित्याह। निर्वाणमपीत्यादि। अन्यथा तीर्थिकानामिव प्रादेशिकशून्यतासद्भावेन भावाभ्युपगमतो मुक्त्यनुपपत्तिरित्यभिप्रायवान् परिहरन्नाह। तद्यदीत्यादि। तच्छब्दो वाक्योपन्यासे। यदीत्यभ्युपगमे। तदुक्तम्। निर्वाणादन्यः कश्चित् प्रतिविशिष्टो धर्मो न सम्भवति। तथाप्यभ्युपगम्योच्यते। यदि निर्वाणादपि कश्चिदन्यो विशिष्टतरो धर्मः सम्भवेत् तदा तमपि धर्मं मायादिसदृशं वदेयमिति। तथाचाऽर्यनागार्जुनपादैरुक्तम्।



 



रागद्वेषोद्भवस्तीव्रदुष्टदृष्टिपरिग्रहः।



विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति॥



स हेतुः सर्वदृष्टीनां क्लेशोत्पत्तिर्न तं विना।



तस्मात्तस्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः॥



परिज्ञातस्य केनेति प्रतीत्योत्पाददर्शनात्।



प्रतीत्य जातञ्चाजातमाह तत्त्वविदां वरः॥ इति



 



इति हीत्याद्युपसंहारो गतार्थत्वान्न लिखितः। प्रसङ्गागतं निर्दिश्येदानीमाधारतोऽपि प्रत्येकबुद्धानां विशिष्टो मार्ग इति कथनाय प्रश्नयन्नाह। केऽस्या इत्यादि। ग्राह्यग्राहकविकल्पयोर्यथाक्रमं प्रहाणाप्रहाणमित्येवंरूपेणास्याः प्रत्येकबुद्धमार्गात्मकायाः प्रज्ञापारमितायाः कथ्यमानायाः कीदृग्विधगोत्रकाः पुद्गलाः प्रत्येषका ग्राहका भविष्यन्ति। तथागतानुभावेन विदितार्थत्वादार्यानन्दः कथयन्नाह। ते खल्वित्यादि। अविनिवर्तनीया इति निर्वेधभागीयाधिगमेनावैवर्तिकाः प्रत्येकबोधौ त एव स्वबोध्यभिलाषाद्बोधिसत्त्वाः। कायिक्या धर्म देशनयाऽबुद्धकबुद्धक्षेत्रे सत्त्वार्थकरणाभिप्रायान्महासत्त्वाः। दृष्टिसम्पन्ना वेति। मध्यप्रज्ञादृष्टिसमुपेताः। अर्हन्तो वा क्षीणाश्रवा इति प्रहीणस्वदर्शनमार्गावरणत्वेन पूजार्हाः। अनेन च पदत्रयेण प्रत्येकबोधौ यथाक्रमं समुदानीतगोत्रका धर्मताप्रतिलब्धगोत्रकास्त एव नियतगोत्रकाः पुद्गला इत्याख्यातम्। सर्वत्र च वाशब्दः परस्परविकल्पापेक्षया द्रष्टव्यः। पुनरप्यार्यसुभूतिरन्यथा प्रतिपादयान्नाह। नास्या इत्यादि। ननु स्वमार्गोपदेशपूर्वकं प्रत्येकबोधिमधिगच्छन्तोऽपि प्रत्येकबुद्धाः कथं न केचित् प्रत्येषिका इति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। अत्रेति प्रत्येकबुद्धमार्गाधिगमकाले परोपदेशनैरर्थक्यात् स्वयंबोधेन प्रत्येकबुद्धानामिति भावः। संक्षेपकथनेन विस्तरार्थसूचनान्न कश्चिदर्थः सूच्यते। विस्तरकथनेन संक्षिप्तार्थपरिदीपनान्न परिदीप्यते। यथावस्थितस्वरूपनिर्देशान्न प्रज्ञप्यते।



 



उपसंहारार्थमाह। तद्यथैवेत्यादि। तस्माद्येनैव कारणेन नैरर्थक्येन सूचनादि न क्रियते। तेनैव कारणेन कश्चित् प्रत्येषको न भविष्यति। निर्दिश्यमानाया एवाभावादिति भावः। यथाऽविद्यमानस्वभावमपि निर्मितपुष्पं प्रतिनियतदेशादिरूपेणाविचारैकरमणीयतया प्रतिभासते तद्वद्वस्तुभूताधारमन्तरेणापि प्रतिनियताधिगमधर्मप्राप्तिरिति सूचनायाऽऽधाराधिकारे निर्मितपुष्पप्रकारोपन्यासार्थमाह। अथ खलु शक्रस्येत्यादि। अस्य धर्मपर्यायस्येति। प्रत्येकबुद्धमार्गस्यास्य दशकुशलादिकर्मस्वभावस्य धर्मपर्यायस्य। यन्नुशब्दोऽवधारणे पूजार्थमेवेत्यर्थः। अभिनिर्मायेति भावनाबलादुत्पाद्य चित्तोत्पादानन्तरं तथैव कृतवानित्याह। अथ खलु शक्र इत्यादि। अभ्यवकिरदिति। आभिमुख्येन समन्तात् क्षिप्तवान्। इन्द्रमनुव्याहरणायेति। अनुशब्दो लक्षणार्थे तद्योगेन चेन्द्रशब्दात् कर्मविभक्तिः। एतदुक्तम्। "इन्द्रवचनादुत्तरकालं निर्मितपुष्पतत्त्वकथनव्याजेनाधारस्वरूपस्य प्रतिपादनाय कृष्यमाणार्थानुकारि चित्तमभूदि"ति। इमानीति सम्प्रत्यनुभूयमानानि। त्रयस्त्रिंशग्रहणं निजावासत्वात्तच्च स्वोपलम्भयोग्यदेशोपलक्षणम्। दृष्टपूर्वाणीति। अनुभूतपूर्वाणि। किमिमान्यथ सर्वाण्येव पुष्पाण्यदृष्टपूर्वाणि नेत्याह। यानीत्यादि। यद्येवं किं स्वभावानि तर्हि तानीत्याह। निर्मितान्येतानि पुष्पाणीति। एतदुक्तम्। "न मदुपलम्भयोग्यदेशेषु प्रचरन्ति सन्ति,दृष्टपूर्वाणि नाप्यस्मद्दर्शनपथातिक्रान्तदेशादानीतानि तथाविधशक्तिवैकल्यात्तस्मान्मनोमयानि निर्मितान्येतानि पुष्पाणीति। तदेव कथयन्नाह। नैतानीत्यादि। तत्र वृक्षाः पुष्पफलोपगाः मल्लिकाद्या गुल्माः। अतिमुक्तकादयो लताः। बुद्धानुभावेन विदितवितर्कत्वात् परिहरन्नाह। अनिर्जातानीत्यादि। मनसः सकाशात् प्रतिभासमानान्यपि कथमनिर्जातानीति। तत्कस्य हेतोरित्याशङ्क्याह। न हीत्यादि। यस्मान्न मनोनिर्जातानि तत्त्वतः कानिचित्पुष्पाणि ग्राह्यग्राहकभावस्यालीकत्वादिति शेषः। नापि वृक्षादिनिर्जातानि भवतैव निषिद्धत्वात्। अनिर्जातान्येतानि पुष्पाणीति वचनेन पुष्पाणां स्वरूपमप्रतिषिद्धं जन्मनिषेधात्तर्हि नित्यत्वमभ्युपगतं तच्चायुक्तमित्याह। यत्त्वमित्यादि। लतानिर्जातानीत्यत्र न वक्तव्यमिति शेषः। कुत इत्याह। यत्कौशिकेत्यादि। यस्माद्यदनिर्जातन्न तत्पुष्पम्। नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरहेण स्वरूपासम्भवत्वादिति मतिः। तत्र ग्राह्यविकल्पप्रहाणेन प्रत्येकबुद्धाधिगमं श्रावकेभ्यो विशिनष्टि ग्राहकविकल्पप्रहाणाभावेन च प्रत्येकबुद्धेभ्योऽनुत्तरबुद्धाधिगमम्। आधारेण चाधिगमस्यासाधारण्यमिति विशिष्टः प्रत्येकबुद्धानां मार्गो यथोक्तश्रावकचतुःसत्याकारानुपलम्भभावनया यथावस्तु प्रतीत्यसमुत्पादानुगतया बोधिसत्त्वेन परीज्ञेयः। तथा चोक्तम्।



 



ग्राह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः।



आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः॥८॥ इति



 



निर्वेधभागीयाधिगमे सति यथोक्तप्रत्येकबुद्धमार्ग इति निर्वेधभागीयार्थमाह। गम्भीरप्रज्ञो वतायामित्यादि। आधारतत्त्वार्थकथनेनैवोष्मार्थप्रतिपादनाद्गम्भीरप्रज्ञः। नामपदप्रज्ञप्तिं विज्ञानादिस्कन्धप्रज्ञप्तिं श्रुतमयज्ञानार्थं ग्रन्थार्थकथनान्निर्दिशति। संवृत्याभ्युपगमस्याविरोधाद्धर्मतया न विरोधयति। चिन्तामयज्ञानार्थं युक्त्या स्थिरीकरणादुत्तानीकरोति। भावनामयज्ञानार्थं ध्यानक्रमोपदेशादुपदिशति। एतदुक्तम्।"रूपादिसाङ्केतिकधर्मप्रज्ञप्तेरविरोधेन धर्मतायाः प्रतिपादनमि"त्येवं सर्वधर्मालम्बने सत्यूष्मगतमुत्पद्यत इति। निर्मितपुष्पस्वरूपाख्यानेनैव प्रतिपादनाद्गम्भीरप्रज्ञ इति। तथा चोक्तम्।



 



प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः।



ऊष्मगम् 



 



इति युक्तरूपमिति निश्चित्य स्वयमेवात्मविकल्पस्य स्वहस्तमाह। एवमेतदित्यादिना। एवञ्चात्रेति निर्मिताजातपुष्पवत् प्रत्येकबुद्धमार्गे शिक्षितव्यम्। साधूक्तत्वेनानुमत्यर्थमाह। एवमेतत् कौशिकेत्यादि। ततः किं भवतीत्याह। एवं शिक्षमाण इत्यादि। न क्वचिदुपलम्भयोगेन शिक्षत इति समुदायार्थः। अष्टभूमिष्विति। अष्टमकादिभूमिक्लेशज्ञेयावरणप्रहाणभेदेन बुद्धत्वं सर्वज्ञत्वं वेति द्वयमुक्तम्। तत्र शिक्षतेऽविपर्यासशिक्षया नियमेन तथागतत्वप्रापणात्। बुद्धत्वादिशिक्षा च सर्वधर्मपरिज्ञानपूर्विकेत्याह। यो बुद्धत्व इत्यादि। प्रसङ्गागतं निर्दिश्योष्मानन्तरं मूर्धार्थं शिक्षत इत्याह। योऽप्रमेयेष्वित्यादि। विवृद्धिरुपचयः परिहाणमपचयः। एतदुक्तम्। "रूपादेः परमार्थतो न हानिवृद्ध्याद्यर्थं शिक्षणमि"त्येवं सर्वधर्मालम्बने मूर्धगतमुत्पद्यत इति।



 



मूर्धगं रूपाद्यहानादिप्रभावितम्॥९॥ इति



 



मूर्धानन्तरं क्षान्त्यर्थं शिक्षत इत्याह। यो न रूपस्येत्यादि परिग्रहः स्वीकारः। त्यजनमुत्सर्गः। तदर्थमाध्यात्मादिशून्यताबलेन न शिक्षत इत्यर्थः। पञ्चविंशतिसाहस्रिकायाञ्चोक्तम्। "रूपस्य यावत् सर्वाकारज्ञताया अध्यात्मशून्यतां यावदभावस्वभावशून्यतामुपादायापरिग्रहत्वेने"ति। एतदुक्तम्। "रूपादेरध्यात्मबहिर्धादिशून्यतामुपादायापरिग्रहणादिकमि"त्येवं सर्वधर्मालम्बने क्षान्तिरुत्पद्यत"इति। तथा चोक्तम्।



 



अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात्।



क्षान्तिः



 



इति क्षान्त्यनन्तरमग्रधर्मार्थं शिक्षत। इत्याह। नापि कस्यचिदित्यादि। परिग्रहायेति। परिगृह्यतेऽनेनेति परिग्रहः। विधानं प्रतिषेधश्च। तदेव दर्शयन्नाह। नोत्पादाय नान्तर्धानायेति। कस्यचिद्धर्मस्येति।  सामान्याभिधाने सत्यपि हेयरूपस्यैव ग्रहणमिति जडजनाशङ्कावारणार्थमाह। यो न कस्यचिद्धर्मस्येत्यादि। सर्वज्ञताया अपीति। बुद्धभूमेरपि सर्वत्रैवाभिनिवेशो बन्धनमिति भावः। यथोक्तशिक्षायां को गुण इत्याह। एवमित्यादि। एतदुक्तम्। "रूपादेरनुत्पादनिरोधाद्याकारैः शिक्षणमि"त्येवं सर्वधर्मालम्बनेऽग्रधर्मता भवतीति।



 



तथा चोक्तम्।



रूपाद्यनुत्पादाद्याकारैरग्रधर्मता॥१०॥ इति



 



सर्वधर्मानुपलम्भतत्त्वैकरसत्त्वाद्बोधिसत्त्वस्य का सर्वज्ञतेति कांक्षा प्रश्नयन्नाह। य आयुष्मन् सुभूते इत्यादि। वाक्यावसाने कथं दानादिपारमितां विनेति शेषः।



 



तथ्यसंवृतिसोपानमन्तरेण विपश्चितः।



तत्त्वप्रासादशिखरारोहणं नहि युज्यते॥



 



इति न्यायाद्दानादिसपरिवारा रत्नचूडोक्ता सर्वधर्मशून्यताऽभ्यसनीयेत्यभिप्रायवान्। परिहारार्थमाह। एवमेतदायुष्मञ्छारिपुत्रेत्यादि। प्रत्येकबुद्धदर्शनमार्गानन्तरमैहिकामुत्रिकैर्गुणैर्युक्तो बोधिसत्त्वानां मार्गो वक्तव्य इत्याह। प्रज्ञापारमितार्यशारिपुत्रेत्यादि। प्रज्ञापारमिता बोधिसत्त्वानां दर्शनमार्ग इत्यर्थः। स समासतो लौकिकस्याग्रधर्मस्य समनन्तरमनुपलम्भः समाधिः। प्रज्ञा चात्र ससंप्रयोगा वेदितव्या। प्रभेदतः पुनस्तथैव दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानम्। एवं समुदये निरोधे मार्गे प्रतिपत्तव्यमित्येते षोडशचित्तक्षणा दर्शनमार्गः। चित्तक्षणः पुनर्ज्ञेयज्ञानोत्पत्तिपरिसमाप्तितो ग्राह्यः। केचिद्



 



अदृष्टदृष्टेर्दृङ्मार्गस्तत्र पञ्चदशा क्षणाः।



 



इति वर्णयन्ति। तदयुक्तम्। तथाहि प्रयोगमार्गे दुःखसत्याधिपतेर्यस्य धर्मस्य पूर्वविचारणामधिपतिं कृत्वा प्रत्यात्मं दुःखसत्यानुभाविज्ञानमनाश्रवं येन दुःखदर्शनप्रहातव्यं क्लेशं प्रजहाति। तदुच्यते दुःखधर्मज्ञानक्षान्तिः। येन ज्ञानेन क्षान्त्यनन्तरं विमुक्तिं साक्षात्करोति तदुच्यते दुःखधर्मज्ञानम्। दुःखधर्मज्ञानस्यानन्तरं दुःखे धर्मज्ञानक्षान्तौ दुःखधर्मज्ञाने चान्वय एष आर्यधर्माणामिति प्रत्यात्मं यत्प्रत्यक्षानुभाविज्ञानमनाश्रवं तदुच्यते दुःखान्वयज्ञानक्षान्तिः। येन ज्ञानेन तामन्वयज्ञानक्षान्तिमवधारयति तदुच्यते दुःखेऽन्वयज्ञानम्। एवमवशिष्टेष्वपि सत्येषु यथायोगं क्षान्तयो ज्ञानानि च वेदितव्यानीति षोडशक्षणिक एव दर्शनमार्गो युक्तः। पञ्चदशक्षणिकत्वे तु मार्गेऽन्वयज्ञानक्षान्तेरवधारणं न स्यात्। अदृष्टदर्शनाभावेनान्त्यो मार्गेऽन्वयज्ञानक्षणो न दर्शनमार्ग इति चेत्। यद्येवं दुःखादिसत्यत्रयेऽप्यपूर्वदर्शनवैकल्यादन्वयज्ञानक्षणो न दर्शनमार्ग इति द्वादशक्षणिक एव स्यात्। न चैतदभ्युपगमनमिति यत्किञ्चिदेतत्।



तथा चोक्तम्।



 



क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः।



मार्गज्ञतायां दृङ्मार्गः सानुशंसोऽयमुच्यते॥११॥इति



 



तत्र धर्मज्ञानक्षान्त्या धर्मज्ञानेन च ग्राह्यावबोधः। अन्वयज्ञानक्षान्त्याऽन्वयज्ञानेन च ग्राहकावबोधः। सर्वेष्वेव क्षान्तिज्ञानेष्वनिमित्तविहारी योगी वेदितव्यः। अविकलकारणस्य प्रहातुमशक्यत्वाद्दुःखदर्शनप्रहातव्यकाले समुदयः प्रहीणः। अत एव निरोधः सक्षात्कृतस्तस्य चान्यथानुपपत्त्या मार्गो भावितः। समुदयादिष्वप्येवमित्येवंकार्याभिसमयादेकक्षणाभिसमयो महायाने दर्शनमार्गो द्रष्टव्यः। प्रतिसत्यं पुनर्विपर्यासनिराकरणेन प्रतिवेधाभिसमयतः। षोडशभिरेव क्षणैरभिसमीयते। अतः प्रतिपन्नकत्वादिव्यवस्थासु व्यवस्थेत्येके। तात्त्विकभावाभ्युपगमविपर्याससमुत्थः सत्कायादिदृष्टिगणो रागादिक्लेशसमूहश्च। मुक्तिस्त्वनुपलम्भदृष्टेस्तत्परिकर्मभूतत्वेन तदर्थेव परिशिष्टाकारभावनेति यथोदितविधिना निःस्वभावा निरात्मानः शून्या इति वा सर्वधर्मान् भावयतो भावनाबलनिष्पत्तौ।



 



एकस्यानंशरूपस्य प्रत्यक्षस्य सतः स्वयम्।



कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते॥



 



इति न्यायात् सर्वाकारस्वरूपप्रतिवेधकारिज्ञानमनाश्रवं सर्वधर्मविषयमुत्पद्यते। अतः प्रतिवेधाभिसमयादेवैकक्षणाभिसमयो दर्शनमार्ग इत्यपरे। नन्वेकस्मिन्नेव क्षणे सर्वाकारस्य प्रतिविद्धत्वादाकारान्तरेण दर्शनमार्गे भावनान्तरानुपपत्तेः प्रतिपन्नकत्वादिव्यवस्था कथमिति श्रेयो निर्याणमार्गानुसारिणां मतिः। स्यादेतन्नो चेद्भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम्। शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्। यावता केनचिद्भ्रान्तिनिमित्तेन समारोपितमाकारान्तरं विद्यत इति। तद्विपर्यासं सप्रभवक्लेशसहायमुन्मूलयितुमाकारान्तरेण भावनान्तरसम्भवादष्टमकादिव्यवस्था सुस्थिता। अनेनैव चाभिप्रायेण न्यायबलादेकक्षणाभिसमयोऽपि दर्शनमार्गः षोडशलक्षणाभिसमयत्वेनोक्तः। ततश्च सर्वाकारस्वरूपग्राहित्वेऽपि विज्ञानस्य यस्मिन्नंशेऽभ्यासपाटवादिना समारोपिताकारनिराकरणे सामर्थ्यम्। तत्रैव तस्य तत्प्रतिबद्धावरणप्रहाणात् प्रामाण्यं नान्यत्र क्षणिकत्वादिवत्। एवमार्याणां पृथग्जनेभ्यः को विशेष इत्यपि न वक्तव्यम्। यावन्मात्राकारनिराकरणे तेषां ज्ञानमपगतभ्रान्तिनिमित्तम्। तावन्मात्रेणैतेषां विशेषादित्यलमतिप्रसङ्गेन। कुतो गवेषितव्येति। कस्य निर्देशात् प्रतिपत्तव्या भावयितव्येत्यर्थः। प्रसङ्गागतवचनाच्च निरूपणादिद्वारेण तथागतानुभावादेवान्यः कश्चित् क्वचिन्निर्दिशति। मुख्यतः पुनर्भगवता प्रज्ञापारमितोपदेशे सुभूतिरेवाधिष्ठित इत्यभिप्रायवानाह। प्रज्ञापारमिता कौशिकेत्यादि। परिवर्तादिति निर्देशात्। विस्मृततथागताधिष्ठानत्वेनाह। कस्यैष इत्यादि। आर्यसुभूतेरन्यथा पूर्ववत् सामर्थ्यमपश्यन्नाह। तथागतस्येत्यादि। तथागतगौरवेणात्मनो निरभिमानतां प्रकटयन्नाह। यत्कौशिकेत्यादि। इदानीमाकारकथनेन दर्शनमार्गं प्रतिपादयितुमाह। यदपीत्यादि।



 



प्रज्ञापारमिता ज्ञानमद्वयं सा तथागतः।



इति वचनात् प्रज्ञापारमितात्र तथागतः।



यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।



 



इति न्यायेन रूपादितथता रूपादिशब्देनोक्ता। आधारभावोऽपि विवक्षापरतन्त्रतयाऽवधिभावेनेत्यतोऽयमर्थो भवति। रूपादितथतायामाधारभूतायामाधेयभावान्न तथागतः पर्येषितव्यो नाप्यन्यत्रेति। अस्योपलक्षणार्थत्वादिदमपि ज्ञेयम्। न तथागते रूपादितथता नाप्यन्यत्रेति। इदञ्च पञ्चविंशतिसाहस्रिकायां स्पष्टमेवोक्तम्। "न कौशिक रूपतथतायां तथागत उपलभ्यते। न तथागते रूपतथता। न चान्यत्र रूपतथतायास्तथागतो विद्यते। न तथागतादन्यत्र रूपतथते"त्यादि। तदुभयव्यतिरिक्तपरधर्माभावात् कथं रूपादावन्यत्र च प्रज्ञापारमिता न गवेषितव्येति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। अयमत्र वाक्यार्थः। रूपादितात्त्विकमाधारभूतं न प्रज्ञापारमिताविशुद्धता विपर्यस्तत्वात्। अतो रूपाद्यविशुद्धमाधारात्मकं विशिष्टकारणं सुविशुद्धस्य तथागतस्य न भवतीति । न रूपादौ प्रज्ञापारमिता गवेषितव्या। तद्व्यतिरिक्तान्यधर्मस्य तात्त्विकत्वे तथैव विपर्यास इति नाप्यन्यत्र। किन्तु रूपादीनामयथार्थताप्रतिपत्तित एवेति। ततश्चेदमुक्तम्भवति। परमार्थतयैकत्वेन रूपादितथताबुद्धयोराधाराधेयभावो न विद्यत इति। अतस्तयोः पर्यायेणावस्थितेरननुज्ञानमित्येवं सर्वधर्मालम्बने दुःखे धर्मज्ञानक्षान्तिरुत्पद्यत इति। एकाकारश्रवणे सत्युद्घटितज्ञतया दुःखधर्मज्ञानादिक्षणचतुष्टयस्याकारान् कथयन्नाह। महापारमितेयमित्यादि। सम्यङ्निर्देशेनानुमत्यर्थमाह। एवमेतत् कौशिकेत्यादि।



 



तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः।



 



इति न्यायाद्रूपादिकारणमहत्त्वाद्यनुपपत्तौ तदालम्बननिर्जातायाः कथं प्रज्ञापारमिताया महत्त्वादिकमिति। तत्कस्य हेतोरित्याशङ्क्याह। रूपमहत्तया हीत्यादि। उत्पादस्थितिविनाशानां तत्त्वेनासत्त्वाद्रूपादीनां महत्ता। विकृतिलक्षणारूपादीनामविद्यमानत्वेन परिच्छेदकप्रमाणानुपलम्भादप्रमाणता। रूपिणामापरमाणुगतं संस्थानं परिमाणम्। अरूपिणां तल्लक्षणं परिमाणम्। तस्याकाशवद्रूपादीनां नैःस्वाभाव्येनानुपलम्भादपरिमाणता। मायोपमत्वेन रूपादीनां पूर्वान्तापरान्ताभावादनन्तता। कारणमहत्त्वादिना कार्यमहत्त्वादिकमावेद्य तत्राभिनिवेशो बन्धनमित्याह। एवं महेत्यादिनाऽनभिनिविशत इति सर्वत्र सम्बन्धः। ततः किं भवतीत्याह। तस्मादित्यादि। एतदुक्तम्। "रूपादीनां धर्मधातुस्वभावतया महत्ता तथैव तेषामप्रमाणता। पूर्ववदाकाशापरिमाणतया तेषामपरिमाणता रूपादेर्निःस्वभावत्वेन शाश्वतोच्छेदाद्यन्ताभावादनन्ततेत्येवं सर्वधर्मालम्बने यथाक्रमं दुःखे धर्मज्ञानम्। दुःखेऽन्वयज्ञानक्षान्तिः। दुःखेऽन्वयज्ञानम्। समुदये धर्मज्ञानक्षान्तिरुत्पद्यत"इति। अनन्ततार्थमेव समुदये चतुराकारप्रतिषेधमुखेन निर्दिशन्नाह। आरम्बणानन्तयेत्यादि। एतद्ग्रहणकवाक्यं विवृण्वन्नाह। कथं पुनरित्यादि। अन्तः पूर्वान्तो हेतुः। सत्ताकालो मध्ये। पर्यवसानमपरान्तो विनाशः। तत इति पूर्वान्ताद्यभावात्। उपसंहरन्नाह। अनेन कौशिकेत्यादि। पर्यायनिर्देशः। एवं प्रथमारम्बणानन्ततया हेत्वाकारं प्रतिषिध्य समुदयाकारप्रतिषेधार्थं द्वितीयारम्बणानन्ततां कथयन्नाह। पुनरपरमित्याह। पूर्वान्तापरान्तरहितत्वेनानन्ताः। सत्ताकालः परि समन्तादन्तद्वयभावेन क्षिप्तत्वात्। पर्यन्तस्तदभावादपर्यन्ताः।



 



तदेवाह। न तेषामित्यादिना। ननु यदन्वयव्यतिरेकानुविधायि यत्कार्यं तत्तस्य हेतुरिति पूर्वान्तो दृश्यते। अन्तक्षणदर्शिनां निश्चयादपरान्तोऽपि। प्रतीयमानसत्ताकं तु मध्यं नितरामेवेति। तत्कथमादिमध्यपर्यवसानानि नोपलभ्यन्त इति। तत्कस्य हेतोरित्याशङ्क्याह। नोपलभ्यते। साकारनिराकारज्ञानाभ्यां न्यायत इति शेषः। अनेनापीति। न केवलं पूर्वोक्तपर्यायेणेत्यर्थः। आरम्बणान्ततामेवं द्विधा निर्दिश्य सत्त्वानन्ततां वक्तुमाह। सत्त्वोऽनन्तोऽपर्यन्त इति। तथैव तत्कस्य हेतोरित्याशङ्क्याह। न हीत्यादि। पूर्ववदत्राप्यध्याहारः। प्रथमं सत्त्वानन्ततया प्रभवाकारप्रतिषेधः कृतः। अनादिकालाभिसंवर्धितभावाभिनिवेशेन यथोक्तसत्त्वानन्ततामनवगच्छन् द्वितीयसत्त्वानन्ततां प्रतिपादयितुमाह। कथमित्यादि। कथमिति क्षेपेण। नैव पूर्वान्ताद्यभावेन। सत्त्वानन्ततयानन्तपारमिता। किन्तर्हि संख्यादिसम्बन्धादिति मतिः। विदिताभिप्रायत्वेनाह। न कौशिकेत्यादि। गणनाऽयोगेन वेति। एकत्वादिसंख्या गणना तयासहायोगोऽसम्बन्ध इत्याकारप्रश्लेषो द्रष्टव्यः। संख्यातीतत्वेनेत्यर्थः। गणनाबहुत्वेन वेति। यथा षष्टिस्थानगता संख्याऽसंख्योच्यते तद्वदनन्तसंख्यायोगेन गणनाप्राचुर्येणेति यावत्। यद्युचितरूपेणापि प्रकारद्वयेन सत्त्वानन्तता न भवति केन पुनस्तर्हि प्रकारेणेत्याह। कथन्तर्हीत्यादि। तद्वचनेन प्रतिपादयितुमाह। तत् किं मन्यस इत्यादि। तथागतानुभावेन विदितधर्मतत्त्वस्वरूपत्वादाह। नैतदित्यादि। स्वरूपधारणाद्धर्मस्य न सत्त्व इत्यधिवचनम्। तत्त्वतो हेतुमद्धर्मस्यासत्त्वात् निर्विषयस्य प्रतिषेधासम्भवान्नाधर्मस्यापि। कथं तर्हि सत्त्व इति व्यवहारोऽतिप्रतीत इत्याह। आगन्तुकमेतदित्यादि। हेतुसमुदयप्रभवप्रत्ययाकारनिषेधादागन्तुकमित्यादि। पदचतुष्टयं प्रक्षिप्तमध्यारोपितं संवृतिमात्रमिति यावत्। एवं हेत्वादिनिषेधेऽहेतुकसत्त्वास्तित्वं कदाचित् प्रतिपद्यत इति पृच्छन्नाह। तत् किं मन्यस इत्यादि।



 



नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्।



अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः॥ इति



 



न्यायेनानित्यवस्तुसत्त्वप्रतिभासादाह। नो हीदमार्यसुभूत इति। तद्वचनमिदानीमनन्ततार्थे योजयन्नाह। यत्रेत्यादि यत्र संवृतिमात्रेण काचित्तात्त्विकी सत्त्वपरिदीपना कृता तत्र का सत्त्वानन्तताऽगणनादिसम्बन्धान्नैव काचिद्गण्यमानस्यैवासत्त्वादिति मतिः। तदेवं कथयन्नाह। सचेत् कौशिकेत्यादि। अनन्तविज्ञप्तिघोषेणेति। अनन्तसत्त्वधातुविज्ञपनशब्देन। गम्भीरनिर्घोषेणेति दीर्घकालानुबन्धिना। एतच्च पदद्वयं स्वरेणेत्यस्य विशेषणम्। स्वरश्च ताल्वादिव्यापारो ग्राह्यः। कल्पानपीति। अपिशब्दान्न केवलं स्वल्पकालम्। तत्रेति संवृतिमात्रेऽथवा वाचि सत्यामिति भावः।



 



विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा।



तद्भावादर्थसिद्धौ तु सर्वं सर्वस्य सिध्यति।



 



इत्यभिप्रायवानाह। नो  हीदमार्यसुभूत इति। ननु यथावस्तुशब्दप्रयोगाद्विवक्षापरतन्त्रत्वासिद्धेः। कथन्नैवेदमिति। तत्कस्य हेतोरित्याशङ्क्याह। आदिशुद्धत्वादित्यादि। प्रथमत एव कारणानुविधानादिदोषैरदुष्टत्वादिशुद्धत्वम्। निर्हेतुकस्वरूपधारणादोषवैकल्यादादिपरिशुद्धत्वम्। एतदुक्तम्। "सहेतुकनिर्हेतुकसत्त्वस्यासत्त्वे कथं यथावस्तुशब्दप्रयोगो येन विवक्षापरतन्त्रत्वासिद्धिरि"ति। अन्ये त्वन्यथा व्याचक्षते। व्यवहारार्थं समयः क्रियते न व्यसनितया। व्यवहारश्च सामान्यलक्षणस्यावस्तुत्वात् स्वलक्षणेनाध्यवसायाद्भवति। अतो यत्र स्वलक्षणे सङ्केतः कृतो न तेन व्यवहारस्तत्कालाननुपायित्वादिति शब्दवाच्यकल्पनाकलङ्कानङ्कितरूपत्वादादिविशुद्धत्वम्। येन च व्यवहारो न तत्र सङ्केतः कृतस्तस्य प्राग्दृष्टत्वादिति। तथैव दोषानानुलिप्तत्वादादिपरिशुद्धत्वम्। तस्माद्व्यवहारार्थं यथावस्तुशब्दप्रयोगासम्भवान्न विवक्षापरतन्त्रत्वासिद्धिरिति। एवं हि तत्त्वतो वाच्यत्वं निराकृतं न तु वस्तुरूपम्। ततश्चोद्भावनासंवृत्या गणनाऽयोगादिना सत्त्वानन्तता परिदीपितेति शक्राभिप्राय एव व्याख्यात इत्यपरे नानुमन्यन्त। अनेनापीति। न केवलं पूर्वोक्तसत्त्वानन्तताप्रकारेणेत्यर्थः। प्रकारान्तरासम्भवेनावधारयन्नुपसंहारार्थमाह। एवञ्च पुनरित्यादि। चशब्दोऽवधारणे। द्वितीयसत्त्वानन्ततया प्रत्ययाकारनिषेधः कृतः। न भगवतां धर्मदेशना विकलेत्याह। अथ खलु सेन्द्रका इत्यादि। ब्रह्मासहालोकधातुनायकः प्रजापतयो लोकपालाः। ऋषयो विश्वामित्रप्रभृतयः कियन्मात्रेण यथोक्तदेशनया ग्राह्यग्राहकनैरात्म्यं प्रतिविध्योपेत्य दानमुदानमधिगमहर्षवचनमुदानयन्ति स्मोदीरितवन्तः। तदेवाह। अहो धर्म इत्यादिना। कल्याणमित्रतयाऽऽर्यसुभूतिं शक्रादयः स्तुतवन्त इत्याह। यस्तथागतस्ये त्यादि। प्रादुर्भवत्यनेनास्मादिति वा प्रादुर्भावो दर्शनमार्गः। सुभाषितेनेति निर्दोषकथनपरेण सम्बन्धतः सूच्यते। स्वलक्षणतो देश्यते। सामान्यलक्षणतः प्रकाश्यते। तदुभयतः प्रभाव्यते। तथागतानुभावादेव समुदये द्वितीयक्षणाकारञ्च भावितवन्त इत्याह। तथागतं तामित्यादि। नियमेन तथागतपदप्राप्तेरिति मतिः। अद्याग्रेणेति। अद्यारभ्येत्यर्थः। अनयेति दर्शनमार्गात्मिकया। अविरहितः प्राप्तापरिहाणितः। विहरिष्यत्यनधिगतार्थाधिगमयोगतः। एतदुक्तम्। "प्रज्ञापारमितायां स्थितस्य वस्तुतो धर्मधातुस्वभावतया रूपादीनां तथागतत्वावधारणमित्येवं सर्वधर्मालम्बने समुदये धर्मज्ञानमुत्पद्यत"इति। बोधिसत्त्वावस्थायामस्यार्थस्यानुभूतपूर्वत्वेन स्वहस्तयन्नाह। एवमेतदित्यादि। तदेवानुभूतपूर्वत्वमाह। यदेत्यादिना। राज्ञो नगरी राजधानी। अन्तरापणमापणकवीथी। माणवेति कुलपुत्रवत्सामान्यामन्त्रणाभिधानम्। तदानीमेवं भगवतः संज्ञा। अनागतः कालोऽनागतोऽध्वा। असंख्येयैः कल्पैरिति षष्टिस्थानगता संख्याऽसंख्योच्यते। तत्संख्यावच्छिन्नैः कालैरित्यर्थः। शास्तृत्वसम्पदा विशेषयन्नाह। शाक्यमुनिरित्यादि। शाक्यकुले जन्मग्रहणात्। सर्वाकारकुशलेभ्यः संयमितात्मभावत्वेन कायवाङ्मनो मौनेययोगाच्च शाक्यमुनिः। मौनेययोगेन शास्तृत्वसम्पदो विबन्धकदेवपुत्रमारभङ्गं दर्शयति। तद्भङ्गेन प्रथमतः शास्तृत्वसम्पदो लाभात्। तथागतोऽर्हन् सम्यक्सम्बुद्ध इत्येभिस्त्रिभिः पदैः शास्तृत्वसम्पदं दर्शयति। सा च शास्तृत्वसम्पद्द्विधा। वक्तृत्वलक्षणा प्रतिपत्तृत्वलक्षणा च। तत्र यथैव ते धर्मा व्यवस्थितास्तथैव गदनात्तथा धर्मदैशिकत्वाद्वक्तृत्वसम्पदुक्ता। प्रतिपत्तृत्वलक्षणा च ज्ञानप्रहाणसम्पद्भेदेन द्विविधा। तत्रारीन् हतवानर्हन्नित्यनेन प्रहाणसम्पदुक्ता। अरयश्च रागादयः क्लेशाः सर्वकुशलधर्मोपघातार्थेन। इयञ्च प्रहाणसम्पत् पूर्वमुक्ता। तत्पूर्वकत्वाज्ज्ञानसम्पदः। सम्यगविपरीतं समन्ताद्धर्मावबोधात् सम्यक्सम्बुद्ध इत्यनेन ज्ञानसम्पदुक्ता। अविपरीतसर्वज्ञज्ञानाधिगमयोगात्। तदेवमविपरीतधर्मदैशिकत्वेन सर्वक्लेशप्रहाणेन सर्वाकारधर्मावबोधेन च शास्तृत्वसम्पदसाधारणा परिपूर्णा च भगवतः कथिता। तथाहि न बाह्यानामविपरीतधर्मदैशिकत्वप्राप्तिः। सर्वक्लेशाप्रहाणात्। तस्मादेते न भूतशास्तारः। श्रावकप्रत्येकबुद्धास्तु यद्यपि भूतशास्तारः सर्वक्लेशप्रहाणान्न तु सर्वाकारशास्तारः सर्वाकारसर्वधर्मानवबोधात्। भगवान् पुनर्यथोक्तन्यायेन भूतशास्ता सर्वाकारशास्ता चेति प्रतिपादितम्। येन सा शास्तृत्वसम्पल्लभ्यते तद्दर्शयति। विद्याचरणसम्पन्न इति। अनेन शास्तृत्वसम्पदः प्राप्तिहेतु दर्शयति। तत्र विद्या सम्यग्दृष्टिः। सम्यक्सङ्कल्पादीनि शेषाण्यङ्गानि चरणम्। यतः सम्यग्दृष्ट्या तत्त्वं दृष्ट्वा सम्यक्सङ्कल्पादिभिश्चरणभूतैर्गच्छत्यन्यथाऽपश्यन्नचरणो गन्तुमसमर्थ इति भावः। ताभ्यां सम्पन्नो युक्तः। अधिप्रज्ञं वा शिक्षा विद्या। अधिचित्तमधिशील शिक्षाचरणम्। प्रज्ञायाः पूर्वपरिकर्मभूतत्वेन पुरश्चरणं चरणमिति कृत्वा विद्यायास्तु पूर्वग्रहणं तत्परिशुद्ध्या शीलसमाध्योः परिशुद्धितः। तथा हि प्रज्ञया चक्षुषेव पश्यंस्ताभ्याञ्च शीलसमाधिभ्यां चरणाभ्यामिव गच्छन् गन्तव्यमनुप्राप्नोतीति विद्याचरणशब्देन तिस्त्रः शिक्षा निर्दिश्यन्ते। सा च तादृशी द्विविधापि शास्तृत्वसम्पत्। तां सुगतः इत्यनेनाचष्टे। तथा हि लोकोत्तरेण मार्गेण शोभनं ज्ञान प्रहाणसम्पदं गतः। सुगतः सुरूपवत्। अपुनरावृत्त्या वा सुष्ठुगतः सुगतः सुनष्टज्वरवत्। निःशेषं वा गतः सुगतः सुपरिपूर्णघटवत्। अर्थत्रयञ्चैतद्वाह्यवीतरागशैक्षाशैक्षेभ्यो विशेषणार्थम्। तथा ह्यात्मविपर्यासेन बाह्यवीतरागा न शोभनं गताः। शैक्षास्तु संसारे पुनर्जन्मग्रहणान्न सुष्ठुगताः। अशैक्षाः पुनः सर्वज्ञेयेषु ज्ञानविबन्धान्न निःशेषं गताः। अस्याश्च शास्तृत्वसम्पदो द्विविधं कर्मेति। प्रथमं भव्याभव्यलोकावलोकनं कर्म दर्शयति। लोकविदिति भव्याभव्यलोकपरिज्ञानादसौ लोकविदित्युच्यते। तथा हि भगवांस्त्रिःकृत्वो रात्रेस्त्रिःकृत्वो दिवसस्य बुद्धचक्षुषा लोकं व्यवलोकयति को हीयते को वर्धत इत्यादिभिराकारैर्द्वितीयं भव्यविनयनं कर्म दर्शयति। अनुत्तरः पुरुषदम्यसारथिरिति। भव्याभव्याल्लोकान् व्यवलोक्य भगवान् ये पुरुषा एव दम्या दमनार्हा दमयितुं वा शक्या भव्यास्तान् विनयति। तेषां सारथिभावगमनात्।  विनयनं हि सारथिभावः। असन्मार्गादपनीय सन्मार्गे प्रतिष्ठापकत्वाद्गुणविशेषाधायकत्वाच्चाश्वादिसारथिवत्। अनुत्तरग्रहणं सारथिभावविशेषणार्थम्। दुर्दमानामपि केषाञ्चित् पुरुषदम्यानां तीव्ररागद्वेषमोहमानानामार्यसुन्दरानन्दाङ्गुलीमालोरुविल्वाकाश्यपमहाराजकप्फिणप्रभृतीनां विनायक इति प्रदर्शनार्थम्। तच्च भव्यविनयनं कर्म यत्र स्थितं तद्दर्शयति। शास्ता देवानाञ्च मनुष्याणाञ्चेति। यद्यपि भगवानविशेषेण सर्वसत्त्वानां स्वर्गापवर्गमार्गोपदेशेन शास्ता। तथापि यत्र त्वार्यसत्यदर्शनं श्रामण्यफलप्राप्तिश्च प्रज्ञायते तत्र मुख्यतो यथार्थानुशासनं भगवतः शास्तृकर्मस्थितिः। तस्य च देवमनुष्या भाजनम्। अतः शास्ता देवानाञ्च मनुष्याणाञ्चेत्युच्यते। यत्रैतद्गुणमाहात्म्यं स बुद्धो भगवानिति स्वरूपकथनम्। तत्र सकलपदार्थावबोधेन प्रकृष्टा बुद्धिरस्येति बुद्धः। अकारप्रत्ययोऽत्रार्श आदेराकृतिगणत्वेन कार्यः। प्रकृष्टा च बुद्धिर्नवभिराकारैः सर्वज्ञज्ञानेन। अयत्नज्ञानेन। अनुपदिष्टज्ञानेन। सवासनक्लेशावरणप्रहाणज्ञानेन। निखिलज्ञेयावरणप्रहाणज्ञानेन। सर्वाकारसर्वसत्त्वार्थकरणशक्त्या। करुणासम्पत्त्या। अक्षयतासम्पत्त्या। अतुल्यसम्पत्त्या च। समग्रैश्चर्यादियोगेन भगवान्। पुनरपि ते देवपुत्रास्तथागतानुभावेन समुदये तृतीयक्षणाकारं प्रतिपादितवन्त इत्याह। आश्चर्यमित्यादि। तत्त्वेनानुत्पादरूपापि संवृत्या प्रज्ञापारमिता सर्वज्ञतायाः समुत्पादिकेति सर्वबालजनातिक्रान्तत्वादाश्चर्यम्। श्रावकादिभ्यो विशेषतः परमाश्चर्यम्। यावद्वचनेन दुःखे धर्मज्ञानक्षान्त्यादेरुपादानं सर्वज्ञतायेति समुदयेऽन्वयज्ञानक्षान्तेः। आहारिकेति। अनुद्ग्रहानुत्सर्गयोगेनोत्पादिका। अनुपरिग्राहिकेति। सर्वान्तरायकरधर्मानवकाशयोगेनोपस्तम्भकारिका। तथा च मध्यमायां जिनजनन्यामुक्तम्। "आश्चर्यं भगवन् यावत् प्रज्ञापारमिता सर्वाकारज्ञताया आहारिकाऽनुपरिग्राहिका। अनुद्ग्रहानुत्सर्गयोगेने"त्यादि। एतदुक्तम्। "धर्मधातुस्वभावतया प्रज्ञापारमितायां स्थितस्य बोधिसत्त्वस्य सर्वधर्माणां नोद्ग्रहत्यागभावनादिकमिति। सर्वधर्मालम्बने समुदयेऽन्वयज्ञानक्षान्तिरुत्पद्यत"इति॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां शक्रपरिवर्तो नाम द्वितीयः॥   


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project