Digital Sanskrit Buddhist Canon

प्रथमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Prathamaparivartaḥ


 



अभिसमयालङ्कारालोकः।



 



ॐ नमः सर्वज्ञाय।



 



या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्।



या मार्गज्ञतया जगड्धितकृतां लोकार्थसंपादिका॥



सर्वाकारमिदं वदन्ति मुनयो विश्वं यया सङ्गताः।



तस्मै श्रावकबोधिसत्त्वगणिणो बुड्धस्य मात्रे नमः॥१॥



 



मायारूपसमानभावविदुषां मुक्तिं परां योगिनाम्।



संसारोदरवर्तिदोषनिचये संमुर्च्छितान् देहिनः॥



मैत्रेयेण दयावता भगवता नेतुं स्वयं सर्वथा।



प्रज्ञापारमितानये स्फुटतरा टीका कृता कारिका॥२॥



 



भाष्यं तत्त्वविनिश्चये रचितवान् प्रज्ञावतामग्रणी।



आर्यासङ्ग इति प्रभास्वरयशास्तत्कर्तृसामर्थ्यतः॥



भावाभावविभागपक्षनिपुणज्ञानाभिमानोन्नतः।



आचार्यो वसुबन्धुरर्थकथने प्राप्तास्पदः पद्धतौ॥३॥



 



योगाभ्यासपदार्थतत्त्वमथनाल्लोकोत्तरज्ञानिनो।



जातस्त्वार्यविमुक्तिसेनसुधियो यत्नो महान् वृत्तितः॥



एकान्तोत्थविपक्षदृष्टिशमने शास्त्राम्बुधौ बुद्धवान्।



यो लोके स विमुक्तिसेनवचसा ख्यातोऽपरो वार्त्तिके॥४॥



 



वक्तुं तत्र न मद्विधाः क्षतधियोऽपूर्वं कथंचित्क्षमाः।



संक्षुणो हि बुधौत्तमैरहरहः कोऽसौ न वस्तुक्रमः॥



ज्ञानावाहकधर्मतत्त्वविषये जाताभिलाषा वयम्।



व्याख्यां तेन परां सदर्थविषयां कर्तुं समभ्युद्यताः॥५॥



 



एवमित्यादि। सर्वत्रैव ह्यर्थसंशयेन सर्वेषां सम्बन्धाभिधेयप्रयोजनप्रयोजनावसायपूर्विका प्रवृत्तिरिति सम्बन्धादीनि प्रज्ञापारमितायां वाच्यानि। तथा हि यदि सम्बन्धाभिधेयमस्या न कथ्येत,तदोन्मत्तादिवाक्यवदसम्बन्धमनर्थकञ्चेत्याशङ्कया न कश्चित्प्रवर्तेतापि श्रोतुमिति सम्बन्धाभिधेयमस्यामवश्यं वचनीयम्। तथा सत्यपि सम्बन्धाभिधेये निष्पादितक्रिये कर्मण्यविशेषाभिधायि साधनमित्यादि-साधनन्यायमतिपततीति न्यायात्सूत्रान्तरासङ्गृहीतविशिष्टप्रवृत्त्यङ्गप्रयोजनरहितं प्रज्ञापारमितासूत्ररत्नं श्रद्धानुसारिणोऽपि श्रोतुमपि नाद्रियन्त इत्यादावसाधारणं क्रियाफलं सूत्रे प्रवृत्तिकामानां प्रवृत्तये तद्गतमेव प्रयोजनं वाच्यं नान्यगतमन्यथा ह्यसङ्गताभिधानं स्यात्। सूत्रे हि परं प्रवर्तयितुं सूत्रादौ प्रयोजनमभिधीयते न व्यसनितया। कथञ्च पुनः प्रयोजनवाक्योपदेशात्सूत्रे प्रवर्तितो भवति। यदि तद्गतमेव प्रयोजनमभिधीयते नान्यगतम्। न ह्यन्यदीयप्रयोजनाभिधानादन्यत्र कस्यचित् प्रवृत्तिर्भवेत्। सूत्रं च विशिष्टार्थप्रतिपादनपरं वचनमुच्यते नाभिधेयमात्रं नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यमतो नाभिधेयादिगतमभिधानीयम्।



 



न तु क्रियारूपं प्रयोजनम्। तथा हि सर्ववाक्यानां स्वार्थाभिधेयप्रतिपादनलक्षणक्रिया साधारणा। सा चातिप्रतीततया प्रयोजनत्वेन नोपादानमर्हति। तस्यां शास्त्रस्य व्यभिचाराभावात्। अनभिधेयत्वाशङ्काव्युदासार्थमुपदर्शनीयेति चेत्। न,अभिधेयकथनादेव तदाशङ्काया व्युदस्तत्वात्। नाप्यभिधेयविशेषप्रतिपिपादयिषया तदुपादानम्। अभिधेयविशेषप्रतिपादनादेव तस्याः प्रतिपादितत्वात्।



 



तस्य च क्रियाफलस्य फलं प्रयोजनमुपदर्शनीयम्। तेन विना क्रियाफलमात्रेण सूत्रे प्रवृत्त्यसंभवात्। तथा ह्यभिमतप्रधानफलार्थी प्रेक्षावांस्तदुपाये प्रवर्तेत,कारणमन्तरेण कार्यस्यायोगात्। अविकलारोग्यसाधनानुष्ठानेनारोग्यप्राप्तिवदुपायो ज्ञातोऽभ्यस्यमानः स्वोपेयफलदायक इत्युपायावगमाय सूत्रे प्रवृत्तिस्तस्मात्प्रवृत्त्यङ्गप्राधान्येन प्रयोजनमेवावश्यं दर्शनीयम्। तच्चोपायभूतसम्बन्धादिशून्येन ग्रन्थेनाशक्यं दर्शयितुमिति सूत्रस्य प्रयोजनप्रयोजनोपायतासंदर्शनार्थं सम्बन्धादिकथनम्। तच्च।



 



प्रयोजनप्रयोजनम्॥



 



सम्बन्धानुगुणोपायं पुरुषार्थाभिधायकम्।



परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम्॥



 



इति न्यायात् संबन्धानुगुणोपायमुपदर्शनीयम्। न पुनरशक्यं तत्साधनानुष्ठानमन्यथा ज्वरहरतक्षकचूडारत्नालङ्कारार्थमिव न प्रवर्तेत कश्चित्।



 



अनवस्थापि नैवम्। तथाह्यभिमतार्थपरिसमाप्त्या पुरुषस्याकाङ्क्षाविच्छेदादतो नापरमूर्ध्वं प्रयोजनं मृग्यमिति कोऽस्य संबन्धादिः। तत्रोच्यते। संबन्धस्तावन्न प्रयोजनात्पृथगुपदर्शनीयः। निष्फलत्वात्। स हि नाम पृथगुपादानमर्हति यो यस्मिन्नभिहितेऽपि न गम्यते। यथाभिधेयाद्यन्यतराभिधाने नेतरावगतिर्भवति। न च सम्भवोऽस्ति प्रयोजनेऽभिहिते,संबन्धो नाभिहित इति। तथा हि संप्रदर्श्यमानः शास्त्रप्रयोजनयोः साध्यसाधनभावलक्षण उपदर्शनीयो,नान्यो गुरुपर्वक्रियादिलक्षणस्तस्यार्थिप्रवृत्तेरनङ्गत्वात्। स च साध्यसाधनभावः प्रयोजनाभिधानादेव दर्शितः॥



 



तथा हीदमस्य प्रयोजनमिति दर्शयता दर्शितं भवतीदमस्य साधनमिति। न हि यो यन्न साधयति तत्तस्य प्रयोजनं भवत्यतिप्रसङ्गादिति सामर्थ्यलभ्यत्वेन नासौ प्रयोजनाभिधानात्पृथगभिधानीयः। धर्मप्रविचयार्थं सर्ववस्तुसङ्ग्रहोऽभिधेय इत्येकः। विपक्षप्रहाणाय समस्तप्रतिपक्षो निर्देश्य इत्यपरः। निरवशेषज्ञेयपरिज्ञानायाशेषाकारः कथनीय इत्यन्यः। तदेतत्रयमसत्। तथा हि प्रथमे पक्षे,समस्तवस्तुसङ्ग्रहे,न हि तदस्तीह प्रज्ञापारमितायामपूर्वं वस्तुजातं यन्न स्कन्धधात्वायतननिर्देशेनाभिधर्मपिटकादौ सङ्गृहीतमिति पुनरुक्ततादोषः॥



 



द्वितीये सर्वप्रतिपक्षसङ्ग्रह एव,कस्यचिद्विपक्षवस्तुनोऽसङ्ग्रहात्प्रतिपक्षतया श्रावकमार्गादयो भावयितव्या इत्यभिधानेऽपि न ज्ञायते कस्य प्रतिपक्षेणेति प्रतिनियतविपक्षप्रतिपक्षप्रतिपत्तेरभावादप्रतिपत्तिदोषः। तृतीयेऽप्यशेषाकारसङ्ग्रहे विकल्पद्वयं,किं वस्तुनोऽव्यतिरिक्त आकार उत व्यतिरिक्त इति। यद्याद्यो विकल्पस्तदा वस्त्वेवाकारव्याजेन सङ्गृहीतमिति वस्तुसङ्ग्रहभावी दोषः समापतति। अथ द्वितीयस्तदा विकल्पनिर्मितनिर्वस्तुकाकारमात्रस्य सङ्ग्रहात्पारम्पर्येणापि क्वचिद्वस्तुन्यप्रवृत्तेर्भाव्यमानोऽप्यसावाकारो न पुरुषार्थे युज्यत इति पुरुषार्थोपयुज्यमानार्थानभिधानादकथनदोषः।



 



तस्माद्यथोक्तार्थत्रितयसङ्ग्रहेण प्रत्येकपक्षभाविदोषानुपपत्त्या श्रावकप्रत्येकबुद्धबोधिसत्त्वतथागताधिगमसङ्गृहीतोऽविपरीतः सर्वाकारज्ञताद्यष्टाभिसमयक्रमोऽभ्युदयनैःश्रेयसधर्मावाहकः समस्तो मार्गो विविधैः प्रातिहार्यैः सकलजनानुशासकेन भगवता महाकरुणामयेन प्रज्ञापारमितायां देशित इत्यभिधेयः। यथोक्तमभिधेयमार्यशतसाहस्रिकाप्रज्ञापारमितादिसूत्रार्थं बोधिचित्ताववादादिप्रतिपत्तिरूपमष्टावस्थाभेदभिन्नं सर्वे संक्षिप्तरुचयः सत्त्वाः सुखेन संक्षेपतः प्रतिपद्यन्तामित्यष्टसाहस्रिकां भगवतीं भगवान् देशितवान्। अतः प्रतिपाद्य सन्तानगतः संक्षेपतः समस्तार्थसुखावबोधोऽसाधारणमिति क्रियाफलं प्रयोजनम्। यथोक्तमभिधेयं सर्वाकारज्ञतादिमार्गमनादिभवभाविभावाभिनिवेशविषदूषिताशयैरनभ्यस्तसमस्तभावनैरात्म्यभावनैर्हरिहरहिरण्यगर्भादिभिरनधिगतं प्रज्ञापारमिताश्रवणात् सुखेन श्रोत्रेण ज्ञानेनावधार्य,पटुतरानुभवाहितवासनाप्रभवस्मरणप्रत्यये समारोप्य,चिन्तामयेन निश्चित्य,भावनामयेन भावयन्।



 



तस्माद्भूतमभूतं वा यद्यदेवाभिभाव्यते।



भावनापरिनिष्पत्तौ तत्स्फुटाऽकल्पधीफलम्॥



 



इति न्यायात् संवृतिपरमार्थसत्याश्रयेण दानादिशुभसञ्चयवान् स्वापरार्थसंपत्सम्पादनाहितमिति निर्वेधभागीयाद्यधिगमक्रमेण सर्वप्राकारं साक्षात्कुर्यादित्यनुगुणोपायं क्रियाफलस्य फलं प्रयोजनम्। तथाचोक्तमभिसमयालङ्कारे।



 



सर्वाकारज्ञतामार्गः शासिता योऽत्र देशितः।



धीमन्तो वीक्षिषीरंस्तमनालीढं परैरिति॥२॥



स्मृतौ चाधाय सूत्रार्थं धर्मचर्याम् दशात्मिकाम्।



सुखेन प्रतिपत्सीरन्नित्यारंभप्रयोजनम्॥३॥इति



 



तथागतगुह्यनिर्देशाधिकारेण सर्वथा भाद्रकल्पिकसर्वतथागतानां रूपकायसद्धर्मकायरक्षायां कृताधिकारत्वाद्वज्रपाण्यभिषेकादौ प्रत्यर्पितशासनत्वाच्चान्येषां विशेषवचनाभावादडकवतीनिवासी दशभूमीश्वरो महावज्रधरः सर्वलोकानुग्रहाय प्रज्ञापारमितासूत्ररत्नसङ्गीतिं प्रत्यधीष्टवन्तमार्यमैत्रेयादिमहाबोधिसत्त्वगणमेवमित्याद्याहेति पूर्वाचार्याः। अन्ये त्वत्रैव परीन्दनापरिवर्ते यथेयं जम्बुद्वीपे प्रज्ञापारमिता प्रचरिष्यतीत्यादिना प्रत्यर्पितप्रज्ञापारमितात्वादार्यानन्दः सङ्गीतिकार इति मन्यन्ते। तत्रैवमिति निश्चयार्थाभिधायिना स्वानुरूपज्ञानावधारितनिखिलसूत्रार्थस्योपदर्शनपरेणैवमेतदित्यविपरीतत्वमाह। मयेत्यात्मवचनेन भगवतः सकाशात्साक्षाच्छ्रवणं श्रुतमिति श्रोतविज्ञानेनानुभववचसा च तथागतादृतेऽन्यस्यैवंभूतसमस्तधर्माधिगमसामर्थ्यवैकल्यादधिगमाभावः। एतच्च पदत्रयं भगवद्वचनादेव सूत्रारम्भे निर्दिष्टम्। तथा हि भगवति परिनिर्वृत्ते नानार्थाधिमुक्तिप्रभावितत्वाद्दुरनुबोधबुद्धत्वावाहकसौगतवचनप्रसरस्यार्थाधिगमाभावे कथं कैश्चित्सङ्गीतिः क्रियत इति विनेयजनसंदेहापनयनकारिभिस्तथागताधिष्ठानाधिष्ठितैः श्रावकादिभिः कथं भगवन्ननागते काले धर्मः सङ्गीतव्य इति पृष्टेन भगवता कृर्ताविपरीतसाक्षाच्छ्रवणेनानधिगतार्थेनापि धर्मसङ्गीतौ क्रियमाणायान्न दोष इत्यभिप्रायेणोक्तं धर्मसङ्गीतिसूत्रे। "एवं मया श्रुतमिति कृत्वा भिक्षवो मम धर्मः सङ्गीतव्य तथा संबन्धानुपूर्वी प्रतिपाद्येत्यादि"। अतोऽपि वचनाद्देशकालादिवचनम्। तथा शक्रो देवानामिन्द्रो भगवन्तमेतदवोचदित्यादिवचनं च भगवदनुज्ञयैव सङ्गीतकर्तृभिः कृतमिति नाबुद्धवचनत्वप्रसङ्गस्तथा च बुद्धवचनेनाबुद्धवचनं प्रक्षेप्तव्यमित्ययमपि दोषो दूरत एव कृतानवकाशोऽतश्च यथैव श्रुतं तथैव



सङ्गीतमित्युपपन्नम्। एवं च कृत्वा यत्कैश्चिदेवं मम देशितमिति वक्तव्ये,कस्मादेवं मया श्रुतमित्यभिहितमिति चोद्यं कृत्वा भगवद्देशनानुपपत्तेरित्यादियुक्त्यन्तरं वर्णितं तन्नितरां न राजत इति प्रतिपादितम्। नन्वाचार्यानन्देनोक्तं



"प्रदेशान्तरे सन्ति भगवता सूत्राणि मत्समक्षं भाषितानि। सन्ति देवलोके भाषितानि। सन्ति परम्पराभ्यागतानि यानि मयैवंश्रुतिकयोद्गृहीतानी"ति। तानि च सर्वाण्यधिकृत्य "ब्रूहि त्वं,महाप्रज्ञ,ब्रूहि त्वं,सुगतात्मज,धर्मचक्रप्रवर्तनसूत्रं भगवता कुत्र भाषितमि"ति महाकाश्यपवचनावसाने बुद्धगुणानुस्मरणद्रवीकृतचित्तसन्तानः साश्रुदुर्दिनवदनो व्यापिना स्वरेणार्यानन्द "एवं मया श्रुतमि"त्याह। तत्कथं मयेत्यात्मवाचकेन साक्षाच्छ्रवणमिति?। नैष दोषो,यतस्तथागताधिष्ठानदेशनायां तद्देशनावत्तत्सामर्थ्येनान्यतः श्रवनेऽपि भगवत एव सकाशाच्छ्रवणम्। अन्यतो वा श्रुत्वा धर्मधराग्रत्वादर्थनिर्णयं प्रति भगवांस्तेन पृष्टोऽतोऽर्थनिर्णयवशाद्भगवत एव सकाशाच्छ्रुतिरिति कृत्वा मयेत्याह। यत्तूक्तं यन्न्वहं सर्वमेवंश्रुतिकयोद्दिशेयमिति तद्ग्रन्थमधिकृत्येति न दोषः। एवमुपोद्घातं कृत्वेदानीं कदा कुतः कुत्र कैः सहैवं सूत्ररत्नं त्वया श्रुतमिति प्रश्नानात्मप्रामाण्यप्रतिपादनाय विसर्जयन्। देशकालपर्षद्देशकसामग्री हि देशनयाः कारणमिति निदानमाह। एकस्मिन् समये श्रुतमेकस्मिन् काल इति पूर्वेण सम्बन्धः। एतेन सर्वकालमेवंविधचिन्तारत्न‍राजसमसूत्रोपलम्भाभावात्कदाचित्कत्त्वापदर्शनेन दुर्लभत्वमस्याख्यातम्। यद्वैकस्मिन् काले मयेदं सूत्ररत्नं श्रुतमन्यदाऽन्यदिति वक्रोक्त्या स्वगतं बाहुश्रुत्यं सत्त्वार्थं प्रतिकारुणिकवैद्यराजन्यायेनाह सङ्गीतिकारः। अथवैकस्मिन् क्षणे सर्वं श्रुतमित्यर्थः। स्वप्ने देवताद्याधिपत्यादल्पीयसापि कालेन वर्षशताद्युपलम्भवद्भगवदाधिपत्यान्निखिलसूत्रार्थावभासिनः समनन्तरप्रत्ययमनोविज्ञानप्रभवश्रोतविज्ञानस्यैकस्मिन् क्षणे समुद्भवा। अनेनात्मनः प्रमाणपुरुषतामाह। यत्किञ्चिन्मम श्रोतव्यं तत्सर्वमेकस्मिन् क्षणे मया श्रूयतेऽचिन्त्यविमोक्षमुखलाभित्वान्न च विस्मर्यत इति। अत एव सङ्गीतिकारस्य पश्चात्क्रमेण प्रवृत्तायां देशनायामन्यविनेयजनवर्गानुग्रहार्थमन्तरा सदा समाधानासम्भवेन कथञ्चिदव्याकृतस्य विषयान्तरावलम्बिनश्चेतसः सम्भवेऽपि नाविकले सूत्रे सङ्गीतिरुत्तरकालं विरुध्यते। तथागताधिपत्येन सम्पूर्णनिर्भासवतः प्रत्ययस्यादावेवोपजातत्वात्। पुनस्त्वसौ शृणोत्यतृप्ततया धर्मश्रवणामृतरसेन। परिशिष्टस्यापि विनेयराशेः किमेवन्नभवतीति चेत्। भवत्येव सागरनागराजपरिपृच्छानुसारेण परिशुद्धबोधिसत्त्वगणस्य न तु सर्वेषां विशिष्टभव्यतावैकल्येन तथाविधधारणशक्त्यभावात्। कथं पुनरयमेकत्र देशनायां विभाग इति चेत्। देशना हीयं संवृत्या वर्णपदनिर्भासिज्ञानात्मिकैव। सा यथावलं सकृत्क्रमेण वा जायत इति न दोषः। अथवा



 



देशान्तरविनेयार्थं तत्स्थानां तर्पणाय च।



श्रावकानेकवासार्थमनासक्तिं च दर्शयेत्॥



देशानां चैत्यभावार्थं पुण्यार्थञ्चैव देहिनाम्।



इत्यादिज्ञापनार्थञ्च बुद्धश्चरति चारिकाम्॥ इति॥



 



परहितप्रवणमतित्वेनैकस्मिन् समये गृध्रकूटे विहरति स्मेत्युत्तरेण पदेन संबध्यतेऽन्यदान्यत्र विहरणात्।



क्लेशकर्म तथा जन्म क्लेशज्ञेयावृती तथा।



येन वैपक्षिका भग्नास्तेनेह भगवान् स्मृतः॥



 



इत्यर्थोक्त्या नैरुक्तविधानेन क्लेशादिकं भग्नवानिति भगवान्। अथवा।



 



ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः।



ज्ञानस्याथ प्रयत्नस्य षणां भग इति श्रुतिः॥



 



सोऽस्यास्तीति समग्रैश्वर्यादिमान् भगवान् विहरति स्मेति संबन्धः। राजगृहेऽन्वर्थसंज्ञके प्रसिद्धस्थानविशेषे यस्तथागतैर्जीनजननीदेशनां प्रत्यभिसम्बोधिस्थानवद्बोधिसत्त्वादिमहासन्निपातभारोद्वहनासमर्थान्यदेशत्वेनाभिकाङ्क्षितो नानारत्ननिकरो गृध्रकूटः पुण्यकामदेवादीनामष्टम्यादिषु पर्वसु यात्रां तनोतीति नैरुक्तविधानात्पर्वतः। तत्र विहरति स्म। नानाप्रकारर्द्धिप्रातिहार्येण



 लोकातिक्रान्तातिद्रूतधर्मदेशनादावर्ज्यदेशनाप्रातिहार्येणाशयानुशयपरिज्ञानात्परिपाच्यानुशासनीप्रातिहार्येण यानत्रयविनेयसत्त्वानां विशेषेण स्मरणादिकारिणां मोचनादभिमतमर्थं कुर्वन् चतुर्भिरीर्यापथदेशनासमापत्तिप्रतिसंलयनविहारैः कायवाक्कर्मधर्मसत्त्वालम्बनमनःस्वभावैरेवं विहृतवान्। ननु च भूतानद्यतनपरोक्षे काले लटः स्मशब्दयोगे विहितो न चात्र



कालः सङ्गीतिकारस्य परोक्षस्तत्कथं विहरति स्मेति प्रयोगः। सत्यं,किन्तु तदन्तरमपरोक्षे चेत्यन्येनास्य साधुत्वम्। यदि वा पूर्वव्याकरणानुरोधादन्यजनापेक्षया वा परोक्षोपलक्षणत्वाददोषः। तथामन्त्रयते स्मेत्यादिवाच्यम्। महतेति सङ्ख्यानुगुणमहत्त्वयोगात्। महानुभवेन भिक्षूणां त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेनानाघातपञ्चमेनैहिभिक्षुत्वेन चोपसम्पन्नानां भिन्नक्लेशानां समूहेन।



 



बुद्धधर्मस्तथा सङ्घो मारकोटिशतैरपि।



भेत्तुं न शक्यते यस्मात्तस्मात् सङ्घोऽभिधीयते॥



 



इति सङ्घेन सार्धं सहितः परिवृतो विहरति स्मेति सम्बन्धः। तत्र सङ्ख्यामहत्त्वमर्धेत्यादिनाह। अभिधेयार्थः सुगमः। सङ्ख्यावचनन्तु श्रावकपरिवाराणामानन्त्यात् सङ्ख्येयावधारणार्थम्। पूर्वं प्रभूतार्थस्य समाससङ्ख्याग्रहणाविस्मरणात् सुखावबोधार्थं बहुश्रवणग्रहणभीरूणां श्रोत्रावधानार्थमथवा परिमाणज्ञापनार्थमुपात्तम्। गुणमहत्त्वं सर्वैरित्यादिराह। सर्व एवात्र पूजादक्षिणागुणप्रकर्षाद्यर्हतयार्हन्तः। क्षीणाश्रवा भवाग्रादासंसारं श्रवन्तीति कामभवाविद्याश्रवा यथायोगं तत्प्रतिपक्षानाश्रवशीलादिस्कन्धलाभेन येषां ते क्षीणाश्रवाः। निर्गतः क्लेशकर्मजन्मसंक्लेशाख्यः क्लेशो येषां ते निःक्लेशाः। यथासङ्ख्यं संप्राप्तशीलसमाधिप्रज्ञाविमुक्तिस्कन्धपरिपूरिभिर्दुश्चरिततृष्णादुर्दृष्टिभवबन्धनविमुक्त्या सम्यगीर्यापथाभिज्ञाविक्रीडितदिव्यार्यविहारलाभैर्यथाक्रमं स्वयं ते लोकस्य लोकचित्तं वशीभूतम् येषाम्। स्वयं च सर्वबन्धनविगमस्वातन्त्र्याद्ये वशिनो भूतास्ते वशीभूताः। तृष्णाऽविद्यापक्षसर्वक्लेशोपक्लेशप्रहाणात्समाधिसमापत्तयश्चेतोविमुक्तिरर्हन्मार्गज्ञानं प्रज्ञाविमुक्तिरिति कृत्वा तृष्णाऽविद्यापक्षाणामभावेन यथाक्रमं रागविरागादविद्याविरागाच्चेतःप्रज्ञाविमुक्तिरतस्तल्लाभात्समापत्तिक्लेशावरणविमुक्त्या सर्वथोभयभागविमुक्ताः सुविमुक्तचित्ताः सुविमुक्तप्रज्ञाः। शोकपरिदेवादिभयानामात्मानुवादपरानुबाददुर्गतिजीविकादण्डाश्लोकमरणभयानां लाभालाभाद्यष्टलोकधर्मोपलेपभयस्य



स्वाधिगमपरिपन्थीभूताज्ञानसंशयमिथ्याज्ञानभयानाञ्चाभावाद्यथाक्रमं दुःखभयलोकधर्माज्ञानाशंकाविगमान्निर्भयत्वेनाजानेयाः। त्रैविद्यादित्वविशिष्टधर्माधिगमयोगान्महाप्रधानभावेन महानागाः। शीलसमाधिप्रज्ञापरिपूर्या कृतमवश्यकर्तव्यं सर्वदुःखप्रमोक्षादिकृत्यम्। कृतञ्चानुषङ्गिकं कर्तव्यं स्वेच्छाप्रतिबद्धवृत्तिधूतगुणादिकं करणीयं यैस्ते कृतकृत्याः कृतकरणीयाः। दुःखाद्यार्यसत्यचतुष्टयाधिगमाद्यथास्वं परिज्ञेयप्रहातव्यसाक्षात्कर्तव्यभावयितव्यानामभावेनापहृताः सर्वथापनीताः स्कन्धक्लेशप्रतिज्ञोद्योगभारा यैस्तेऽपहृतभाराः। भगवतः पश्चादनुप्राप्तो हिताहितप्राप्तिपरिहारलक्षणो द्विविधः स्वकोऽर्थो विद्याविद्याधिगमप्रहाणाभ्यां यैस्तेऽनुप्राप्तस्वकार्थाः। परिसमन्ताद्यथासम्भवमार्यमार्गेण क्षीणानि भवेन सह पुरुषसंयोजनात्प्रतिघादिनवसंयोजनानि येषां ते परिक्षीणभावसंयोजनाः। सम्यगविपरीतमासमन्ताज्ज्ञानमाज्ञा तत्त्वावबोधस्तया सुष्ठुविमुक्तं सर्वबन्धनविसंयुक्तं चित्तं येषां ते सम्यगाज्ञासुविमुक्तचित्ताः। सर्वत्र चेतसि नवानुपूर्वविहारसमापत्तिलक्षणे स्वातन्त्र्याद्वशिनस्ते चेतःपरमपारमिं स्वगोत्रप्रहर्षपर्यन्तगतिं प्राप्ताश्चेति सर्वचेतोवशिपरमपारमिप्राप्ताः। अतस्तैरेवंभूतैर्भिक्षुशतैरिति तृतीयान्तेन सर्वथा सम्बन्धः कार्यः। सर्वेऽर्हन्तः,कुतः क्षीणाश्रवत्वात्। क्षीणाश्रवाः निःक्लेशत्वादेवं यावत् सम्यगाज्ञासुविमुक्तचित्ताः। सर्वचेतोवशिपरमपारमिप्राप्तत्वादेवं पूर्वपूर्वस्योत्तरोत्तरं कारणमतः सर्वपुरुषार्थपरिसमाप्तत्वान्नापरं विशेषणं वाच्यमित्येके। हतारित्वादर्हन्तः प्रहीणक्लेशावरणत्वात्। क्षीणाश्रवाः पुनराश्रवक्षयप्रयासात्मकक्लेशाभावान्निःक्लेशाः। तदेवमेभिः पदैर्दोषात्यन्तप्रहाणलक्षणं गुणामभिधायेदानीं प्रतिपक्षलक्षणं गुणं वशीभूतैरित्यादिनाह। अभिज्ञादिवैशेषिकगुणाभिनिर्हाराभ्यामशैक्षशमथविपश्यनाभ्यां योगात्रैलोक्यानुग्रहक्षमत्वेन सत्त्वार्थधुरि नियोक्तुं भगवता वशीभूताः। सर्वप्रकारतृष्णादृष्टिबन्धनविमोक्षाद्यथाक्रमं सुविमुक्तचित्ताः सुविमुक्तप्रज्ञाः। अकुटिलमृजुना मार्गेण यावद्गम्यगमनादाजानेयाः क्लेशसङ्ग्रामविजयित्वान्महानागाः पुनर्जेतव्याभावात्कृतकृत्याः। युक्तरूपकार्यसम्पादनात्कृतकरणीयाः। पौनर्भाविकदुःखानुपार्जनादपहृतभाराः। निर्वाणसाक्षात्करणादनुप्राप्तस्वकार्थाः। भवहेतुसमुद्वातात्परिक्षीणभवसंयोजनाः। दर्शनभावनामार्गनिष्ठोत्कर्षात्सम्यगाज्ञासुविमुक्तचित्ताः। वैशेषिकाभिज्ञादिगुणवशित्वस्वगोत्रोत्कर्षगमनात्सर्वचेतोवशिपरमपारमिताप्राप्ता इति तथैव संबन्धः। पूर्वपूर्वस्योत्तरोत्तरं कारणम्। "विशेषणनिष्ठाभिधाने च न पुनर्विशेषणं वाच्यमतो नापर्यवसानदोष "इति वार्त्तिककारः। धर्मधराग्रत्वाद्यथोक्तसंख्यान्तर्गतोऽपि नैवंगुणयुक्त इत्याह॥



 



एकेत्यादि। नित्यस्य कार्यकारणलक्षणवास्यवासकभावानुपपत्तेः शुभाशुभवासनाभिः पूर्णोऽनित्यस्तदनुरूपां गतिं चातिगृह्णातीति नैरुक्तविधानात्प्रबन्धतया एकः पुद्गलः। यदुतशब्दो निपात उपदर्शनपरः। आकाङ्क्षितायुर्भवत्वित्यायुष्मान् हितसुखपूजावाचकः। सर्वागमधारणबुद्धोपस्थानेन प्राप्तहर्षत्वादानन्दः। तदुक्तमेष आयुष्मानार्यानन्दो देशनाकाले श्रोत-आपन्नत्वेन यथोक्तगुणवैकल्यादेनमेकं पुद्गलं स्थापयित्वा परित्यज्येति। परिसमाप्तकार्यत्वेन स्वहितैषितया तथागताधिष्ठानेन सर्वसम्पत्तेश्च।



 



पञ्चादीनववैकल्यारतिरागाभिघट्टतः।



लाभादितृष्णाप्रियताऽनुकम्पागुरुगौरवैः॥



कौतुहलाद्विशेषार्थमापत्त्या रत्नकारणात्।



चैत्यादिवन्दनार्थं च भिक्षुश्चरति चारिकामिति॥



 



पञ्चदशचारिकाकारणवैकल्यात्स्वयं न क्वचिद् गच्छन्ति केवलं कृतज्ञताधर्मगौरवादिभिर्भगवतोऽन्तिके सदा विहरन्तीति निजत्वात्स्वेयं महाश्रावकपर्षदुक्ता।



 



गंभीरामितसूत्रान्तरत्नश्रवणतृष्णया।



लोकधातुष्वनन्तेषु भ्रमन्ति कृतिनो यतः॥



तद्यानभाषणादेव वहवस्ते समागताः।



तेनैवागमसूत्रेषु न पठ्यन्ते जिनात्मजाः॥ इत्येके।



 



पदपरमविस्तररुचिसत्त्वानुग्रहार्थं देशितार्यशतसाहस्रिका। सर्वार्थसङ्ग्रहेण मध्यरुचिविपञ्चितज्ञसत्त्वानुकम्पायार्यपञ्चविंशतिसाहस्रिका देशिता। तस्याश्च सर्वार्थोपसंहारेणोद्घाटितज्ञसंक्षिप्तरुचिसत्त्वहितोदयेनार्याष्टसाहस्रिका भाषितेति। अतस्तदनुसारेण दृष्टधर्मसंक्षिप्तरुचिभिक्षुभिक्षुण्युपासकोपासिकापर्षत्। तथा शुद्धाध्याशयिनः साभोगानिमित्तविहारिणोऽनाभोगानिमित्तविहारिणो नियतचर्याप्रतिपन्नाः सम्यगेकजातिप्रतिबद्धाश्चेत्येवमप्रमेयमहाबोधिसत्त्वपर्षदपि ज्ञेयेत्यपरे। तथा चाहाचार्यदिङ्नागः।



 



इत्थमष्टसहस्रीयमन्यूनार्थैर्यथोदितैः।



ग्रन्थसंक्षेप इष्टोऽत्र त एवार्था यथोदिताः॥ इति॥



 



तथा तदनुसारेणैव मन्दभाग्यानां परिवाराद्यभावे दौर्मनस्यनिवृत्त्यर्थमल्पेच्छतानुरागार्थं च स्वयं भगवान् धर्मासनं प्रज्ञाप्य समाहितैरेव गम्यमिदं सूत्ररत्नमिति दर्शयन् वज्रपर्यङ्केनातिघाटितत्वादिदोषरहितेनोपविश्य,ऋजुना कायेन धर्मचक्रमुद्राबन्धपूर्वकं नासाग्रदृष्टिन्यासादेकाग्रामभिमुखीं स्मृतिं विधाय सर्वसमाधिसङ्ग्रहात्समाधिराजं नाम समाधिं समापाद्योत्थितस्ततो मैत्रीकरुणानयनाभ्यामिमं लोकं दुःखार्तमभिसमीक्ष्य मृदुमध्याधिमात्रभेदेन यथाभव्यतया च सर्वत्रगा बुद्धत्वपर्यवसानफला देशनेयमिति विनेयवर्गं बोधयन्,यथायोगमङ्गप्रत्यङ्गेभ्यः सर्वरोमकूपेभ्यः प्रकृतिप्रभायाश्च षष्टिरश्मिकोटीनियुतशतसहस्रनिर्माणेन दशसु दिक्षु गङ्गानदीवालुकोपमांल्लोकधातूनवभास्य सर्वसत्त्वांश्चानुत्तरसम्यक्संबोधौ नियतान् कृत्वा जिह्वेन्द्रियेणेमं त्रिसाहस्रमहासाहस्रलोकधातुं व्याप्य तस्मात्स्फुरितानेकरश्मिसमूहेषु पद्मगर्भतथागताधिष्ठानपूर्वकं षट्पारमिताप्रतिसंयुक्तधर्मदेशनया पूर्ववत्सत्त्वार्थकरणात्तदर्थिजनसंनिपाताय मातृदेशनानिमित्तमव्याहतं दर्शितवान्। तदनु तथैवं पर्षछारद्यादिसर्वभयविगमात्,सिंहविजृम्भितं नाम समाधिं समापाद्याशुद्धे स्थाने संवृतिपरमार्थसत्यविभागाकुशले च श्रोतरि[न]कथनीया जीनजननीति धर्मभानकानवबोधयंस्तादृशमृद्ध्याभिसंस्कारमभिसंस्कृतवान् येनाष्टादशमहानिमित्तपूर्वकं तथैव सर्वलोकधातुसङ्गृहीताष्टाक्षणविनाशात्,स्थानपरिशोधनेन तत्र ते सत्त्वा देवमनुष्यसभां गता यामुपपद्य जातिस्मराः प्रीतिप्रमोदेन स्वस्वबुद्धक्षेत्रेषूपसंक्रमणादिपूर्वकं बुद्धान् भगवन्तो नमन्ति स्म। सर्वे च सत्त्वा व्यपगतचक्षुरादिवैकल्यदोषा दशकुशलकर्मपथसेविनश्चतुर्ब्रह्मविहारनिरतास्तृतीयध्यानसमापन्ना इव सुखलाभिनो जीनजननीश्रवणयोग्या भूत्वैवंरूपया प्रज्ञया समन्वागता भवन्ति स्म। यदेवमुदानमुदानयन्ति स्म। साधु दमः साधु शमः साधु संयमः साधु चीर्णोब्रह्मचर्यावासः।



 



साधु प्राणिभूतेष्वविहिंसेति द्विविधं समाधिप्रातिहार्यम्। तदनु भगवान् प्राप्तसमस्तज्ञेयाधिपत्येनेयं प्रज्ञापारमिता देशयितुं शक्यत इति कथयन् विनेयानामादरोत्पादनाय पूर्ववत् सर्वलोकधातूनभिभूय प्रभावर्णश्रीतेजोभिर्यथाक्रमं स्थानभासनतपनविरोचनं सर्वपर्वतानभिभूय सुमेरुः पर्वतराज इव कृतवान्। तथैवेदृशैरेवेयं बोद्धुं देशयितुं च शक्यते न मादृशैरिति यत्नं न कुर्युर्विनेयास्ततो मनुष्या एव सर्वं सम्पादयितुमलमित्युत्साहसंजननार्थमेतल्लोकधातुसत्त्वात्मभावसमानमात्मभावं प्राकृतमुपदर्शितवान्। ततो जातप्रसादातिशयैर्देवमनुष्यैर्भूतार्थभावनाभ्यासात्,कालान्तरेणेदृशमेव धर्माधिगमं पश्यद्भिर्भगवान् पुष्पादिभिः पूजितः। यथा देयाः परिभुज्यन्ते तथा सुपरिणमितवस्तुपरिभोगाच्चित्तप्रसादेन पुण्याभिवृद्धौ प्रमृष्टकायादितया प्रज्ञासम्भारो विनेयानां सुखेनोत्पद्यत इत्यनुग्रहार्थं तानि च पुण्यादीनि त्रिसाहस्त्रमहासाहस्रलोकधातुप्रमाणसर्वालङ्कारशोभनकूटागाररूपेणैतल्लोकधातोरतीवशोभाकारेण स्वमूर्ध्नि भगवताधिष्ठितानि। तथाच तान्यधिष्ठाय क्षपिताहम्मानवासनानामेकाभिलक्ष्यधर्मदेशनायां दौर्मनस्यादिना सम्यक्प्रतिपत्तिवैकल्यमिति पूर्ववत् सर्वलोकधातुस्थसत्त्वानां पुरतः सर्वर्थोद्ग्रहणाद्यर्थं तथा सर्वसत्त्वसमताप्रवृत्तावप्युत्तरत्र यथाभव्यतया चिरक्षिप्रादिभेदेन केषाञ्चिदधिगमव्याकरणादावनुनयाद्याध्यारोपपूर्वकं नास्मासु चित्तान्यथात्वं कार्यमिति प्रदर्शनार्थं सर्वाकारधर्मदेशनापरं सममात्मभावं प्रदर्शितवान्। सुगतराज इति द्विविधमृद्धिप्रातिहार्यम्। तदनु संक्लिष्टलोकधातूत्पादात्संभवत्प्रज्ञादिप्रकर्षत्वाच्च सर्वबुद्धैर्न समानोऽयं भगवानिति सर्वाकारजगदर्थकरणाय मन्दधीजनाशङ्कामपाकुर्वन् समानप्रस्थानसंभारपरिपूर्णबोधिसत्त्वानां प्रतिबुद्धक्षेत्रमनुत्तरसम्यक्संबोधिसंभवात्सर्वबुद्धैः सह संभारधर्मकायाभ्यां जगतश्चार्थचर्यया समता सर्वबुद्धानान्नायुर्जातिप्रमाणत इत्यात्मनस्तुल्यतां कथयंस्तथा नानालोकधातूत्पन्नकृतप्रणिधानस्वविनेयबोधिसत्त्वानामविपरीतसमस्तप्रवचनरत्नसूत्रदेशनया संभारपरिपूरणोपायोपदेशार्थं तथा स्मितमकरोद्भगवान् येनान्योन्यं सर्वलोकधातुस्थसत्त्वाः सर्वथोन्मूलितातुल्यत्वसंशयबीजाः सपर्षत्समूहानितरेतरलोकधातवीयबुद्धान् भगवन्तः समुपलभ्य तुल्यतां प्रतिपन्नाः। तथा महावभासादिनिमित्तोपालंभपूर्वकं गुर्वायत्तया न सहसागमनं युक्तमिति तदर्थं दशदिग्लोकधातवीयजिनात्मजास्तान् स्वस्वतथागतानुपसंक्रम्य पदाभिवंदनपुरःसरा एव कल्यायमनुभाव इति प्रश्नस्य विसर्जनानन्तरं प्रशंसावाक्यश्रवणेन विदितस्वाधिपतिभद्राशयास्तादृग्विधसपरिवारभगवद्दर्शनाद्यर्थं गमिष्यामो वयं भगवन्त इत्यालोच्य गृहीतस्वाधिपतिधर्मगौरवप्रेषितपूजार्थनानारत्नपद्मवार्त्तासंदेशाल्पाबधातादिपरिपृच्छावचनाः पञ्चकषायोत्सादत्वादस्य लोकधातोरप्रमादविहारिणो भविष्यथेत्यनुशासनीं प्रतिगृह्यान्तरालवर्तिबुद्धानां पूजामभिनिवर्तयन्तोऽपरिमितपरिवाराः समागम्यानुष्ठितपादवन्दनपूर्वकपूजाप्रसराः स्वस्वस्थानीभूय कथितस्वस्वतथागतवार्त्तावचनाः पद्मानि निर्यातितवन्त इति द्विविधं धर्मावभासनप्रातिहार्यम्। तदनु भगवांस्तानि पद्मान्यपरिशुद्धलोकधातूत्पादेऽपि तद्दोषानुपलेपज्ञापनाय सद्धर्मपूजार्थं प्रहितानीति कृत्वा स्वस्वदिक्षु प्रक्षिप्य तेषु च पद्मेषु तथागताधिष्ठानपूर्वकजिनजननीदेशनयानुत्तरसम्यक्संबोधौ सर्वसत्त्वान् नियतीकर्तुं सद्धर्मपूजायामुपनाम्य समागतं यथाभव्यं महाबोधिसत्त्वादिसंनिपातमवगम्यादिमध्यान्तकल्याणत्वादियुक्तां प्रज्ञापारमितां देशितवानिति निदानं प्रतिपत्तव्यम्। अत्र तूद्घटितज्ञसंक्षिप्तरुचिसत्त्वानुग्रहदेशनाधिकारान्नोक्तम्। तदुक्तं यदा भगवान् राजगृहे महानगरे गृध्रकूटे पर्वते यथोक्तपर्षदा परिवृतो धर्मं देशयन् विजहार तदा भगवतः सकाशात्तत्रैव स्थाने तया पर्षदा सार्धमेवं मया सूत्ररत्नं श्रुतमिति सर्वैरप्येतैर्लोकव्यवहारानुवर्तनात् सङ्कीर्तितदेशादिभिः सङ्गीतिकारेणात्मप्रामाण्यप्रतिपादनाद्विनेयानाम् सादरश्रवणचिन्तनादिकमुक्तम्। तथा चाहार्यदिङ्नागः।



 



श्रद्धावतां प्रवृत्त्यङ्गं शास्ता पर्षच्च साक्षिणी।



देशकालौ च निर्दिष्टौ स्वप्रामाण्यप्रसिद्धये॥



सङ्गीतिकर्त्ता लोके हि देशकालोपलक्षितम्।



समाक्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति॥ इति।



तत्र



प्रयोजनं सपिण्डार्थं पदार्थमानुसन्धिकः।



सचोद्यपरिहारश्च वाच्यः सूत्रार्थवादिभिः॥



 



इति पञ्चभिराकारैः सूत्रं व्याख्यातव्यमिति व्याख्यायुक्तौ निर्णीतम्। इत्यभिहितमेव प्रयोजनम्। अतः श्रोतृजनसुखप्रतिपत्तये कृतविभागार्थस्य च शास्त्रस्य सुकरं व्याख्यातृणां व्याख्यानमिति समासनिर्देशेन पिण्डार्थस्तावदभिधीयते। तत्र बुद्धत्वार्थिनो बोधिसत्त्वस्य चित्तोत्पादादिसर्वाकारपरिज्ञानादौ फलनिर्देशेन सर्वाकारज्ञता कथिता। सा न विना श्रावकमार्गादिपरिज्ञानेनेति तदनु मार्गजता। सापि न सर्ववस्तुपरिज्ञानमन्तरेणेति तदनन्तरं सर्वज्ञता। ततः सर्वथैवंप्राप्तत्रिसर्वज्ञतावशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानप्रकारसङ्ग्रहेण त्रिसर्वज्ञताभावनयाऽधिगम्य सर्वाकाराभिसम्बोधं विशेषमार्गेण प्रकर्षपर्यन्ताधिगमलाभान्मूर्धाभिसमयमासाद्य व्यस्तसमस्तभेदेन विभावितानर्थान् प्रगुणीकृत्य निश्चयाय साक्षात्करोतीति विदित्वानुपूर्वाभिसमयम् पुनरपि स्वभ्यस्तीकरणाय विभावितैकक्षणाभिसंबोधानन्तरं द्वितीये क्षणे धर्मकायाऽभिसंबोधं सम्यगधिगच्छतीति समासतोऽष्टाभिसमयः प्रज्ञापारमितायां पिण्डार्थः।



 



तथाचोक्तम्।



प्रज्ञापारमिताऽष्टाभिः पदार्थैः समुदीरिता।



सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः॥४॥



सर्वाकाराभिसंबोधो मूर्धाप्राप्तोऽनुपूर्विकः।



एकक्षणाभिसंबोधो धर्मकायश्च तेऽष्टधा॥५॥ इति।



 



समासनिर्दिष्टस्य व्यासतश्चाख्यानात्स्वाख्यातत्वमिति पुनरपि व्यासतः पिण्डार्थोऽभिधीयते। तत्र सम्यक्संबोधिमधिगन्तुकामेनादौ शून्यताकरुणागर्भं बोधिचित्तं प्रणिधिप्रस्थानस्वभावं द्विविधमुत्पाद्य चित्तोत्पादतदाक्षिप्तधर्मनिष्पत्तये संप्राप्तगुणपरिपालनार्थेनाभिवृद्ध्यर्थं प्रतिपत्त्यादिष्वववादग्रहणानन्तरं श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रद्धादिलक्षणकुशलमूलादूर्ध्वं चतुःसत्यप्रतिवेधानुकूलं चतुर्विधनिर्वेदभागीयं लौकिकभावनामयन्निश्चित्य प्रतिपत्तिमतो यथोक्तनिर्वेदभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तिराधारेण धर्मधातुस्वभाविनैव बोधिसत्त्वेन सर्वधर्मालंबन्नपूर्वकं सर्वसत्त्वाग्रताचित्तमहत्वं प्रमाणमहत्वमधिगममहत्वं चाधिकृत्य प्रतिपत्तिः प्रवर्तत इत्यभिलक्ष्यस्थानीयस्त्रिविधः समुद्देशो ध्येयः। तदनु तत्प्राप्तये त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताऽधिष्ठाना च क्रियाप्रतिपत्तिरित्येवं यथावत्प्रयोगदर्शनभावनाविशेषमार्गस्वभावानां सन्नाहादिप्रतिपत्तीनां मध्ये वीर्यरूपतया प्रथमतः सन्नाहप्रतिपत्त्या सन्नह्य प्रस्थानप्रतिपत्त्या समस्तमहायानधर्माभिरोहणपूर्वकं संभारप्रतिपत्त्या सम्भृतसंभारेण निर्याणप्रतिपत्तिरधिगन्तव्येत्येवं बुद्धत्वावाहकधर्माधिगमानुक्रमेण प्रकाशनात्तथागतानामिति प्रथमपरिवर्तसङ्गृहीता सर्वाकारज्ञता।



 



तथाचोक्तम्।



चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम्।



आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः॥६॥



 



आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये।



सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः॥७॥ इति।



 



तदनु सर्वाकारज्ञताधिगमो न विना सर्वमार्गाधिगमनमिति मार्गज्ञतां दर्शयितुं स्वप्रकृतिप्रभाभिर्दवादीनां वैपाकिकप्रभाया मलिनीकरणेन लोकपालत्वाद्यभिमाननिराकारणाद्वक्रोक्त्या निहतमानसंतान एव पुद्गलोऽधिगमेऽस्या भाव्य इत्याधारकथनानन्तरं स्वविषयप्रतिनियमादिकमभिधाय मार्गज्ञताऽधिकारे सर्वे मार्गाः परिपूरयितव्या इति श्रावकप्रत्येकबुद्धमार्गप्रतिपादनपूर्वकमैहलौकिकादिगुणैरुपेतो महानुशंसो बोधिसत्त्वानां दर्शनमार्गो भगवताभिहितः। ततोऽनन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तव्यत्वेन फलनिम्नत्वेन च विनेयप्रवृतेस्तस्य कारित्रमादौ निर्दिश्य साश्रवानाश्रवरूपेण द्विविधो भावनामार्ग इत्यधिमुक्तिपरिणामनानुमोदनाभेदेन त्रिविधसाश्रवभावनामार्गमध्ये काञ्चनपिण्डमिव धातुभ्यः पुण्यमभिसंस्करोतीत्यादावधिमुक्तिमनस्कारमुक्ता तद्भावकबोधिसत्त्वोत्साहनायैवमधिमुक्तेर्बुद्धादिभिः स्तुत्यादयः क्रियन्त इत्युत्तरोत्तराभिनन्दनरूपाः स्तुतस्तोभितशंसिताः कथिताः। तदनु सम्यक्संबोधेस्तत्पुण्यमुपकरणीकरोति सुवर्णकार इवाभरणमिति परिणामनामनस्कारपूर्वकं स्वपरपुण्यक्रियासमताप्रतिलाभार्थमनुमोदनामनस्कारमभिधाय प्रयोगविशुद्धिभेदेन द्विविधोऽनाश्रवो भावनामार्ग इति प्रथममभिनिर्हारलक्षणं प्रतिपाद्य द्वितीयोऽत्यन्तविशुद्धिलक्षणो देशित इति। द्वितीयपरिवर्तमारभ्य यावदष्टमपरिवर्ते। य एवमस्य बोधिसत्त्वस्य महासत्त्वस्य भगवन्नवबोध इयमस्य प्रज्ञापारमिता। भगवानाह। अत्यन्तविशुद्धत्वत्सुभूत इति एतत्पर्यन्तेनोक्ता बोधिसत्त्वानां मार्गज्ञता।



 



तथाचोक्तम् -



ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ।



महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः॥८॥



 



कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः।



परिणामेऽनुमोदे च मनस्कारावनुत्तमौ॥९॥



 



निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः।



विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता॥१०॥ इति।



 



ततः सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यगिति सर्वज्ञतां दर्शयितुं प्रज्ञया संसारादीनवदर्शनेन कृपया च सत्त्वार्थकरणपारतन्त्रेण बोधिसत्त्वानां भवशमानवस्थानाद्व्यतिरेकनिर्देशेन चैवं श्रावकप्रत्येकबुद्धानामिति निर्देशपूर्वकं तत्समर्थनार्थमेवान्वयव्यतिरेकतया निमित्तानिमित्तग्रहणाज्जीनजनन्या निर्दिष्टदूरेतरभावेनोपलम्भानुपलम्भाभ्यां विपक्षप्रतिपक्षौ निर्दिश्य तयोर्विभावनायां पुनरन्वयमुखेनैव बोधिसत्त्वानां प्रयोगकथनादनन्तरं तत्समताप्रतिपादनपूर्वको ध्येयो दर्शनमार्गोऽभिहित इत्यष्टमपरिवर्ते। आयुष्मान् सुभूतिराहेत्यारभ्य यावन्नवमपरिवर्ते नापि कस्यचिद्धर्मस्य प्रवर्तनं वा निवर्तनं वैवमियं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितेत्ये तत्पर्यन्तेनोक्ता श्रावकप्रत्येकबुद्धानां सर्वज्ञता। तथाचोक्तम्।



 



प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः।



अनुपायेन दूरत्वमुपायेनाविदूरता॥११॥



 



विपक्षप्रतिपक्षौ च प्रयोगः समताऽस्य च।



दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते॥१२॥ इति।



 



तदनु परिज्ञातत्रिसर्वज्ञतावशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानप्रकारसङ्ग्रहेण त्रिसर्वज्ञतां भावयतीति सर्वाकाराभिसंबोधं दर्शयितुमाकारविशिष्टप्रयोगैर्भावयितव्या यथासंख्यं गुणदोषादानत्यागेन लक्षणज्ञानपूर्वकमुत्पन्नमोक्षभागीयकुशलमूलेनेत्याकारादीन्निर्दिश्य विवर्धितमोक्षभागीयस्योत्साहिनो निर्वेधभागीयाद्यधिगमद्वारेण प्राप्तशैक्षावैवर्तिकबोधिसत्त्वगणधर्मस्य बुद्धत्वनिमित्तसंसारनिर्वाणसमताभावनापूर्वकं निष्पादितस्वबुद्धक्षेत्रविशुद्धावुपायकौशलेन यथाभव्यतयाऽनाभोगाद्बुद्धकृत्यं प्रवर्तत इति निर्वेधभागीयादयो देशिता इति नवमपरिवर्ते। एवमुक्त आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्। महापारमितेयम् इत्यारभ्य यावद् विंशतितमपरिवर्ते। ते ते बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेनेत्ये तत्पर्यन्तेनोक्तो बुद्धादीनां यथासम्भवं सर्वाकाराभिसंबोधः।



 



तथाचोक्तम्।



आकाराः संप्रयोगाश्च गुणा दोषाः सलक्षणाः।



मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः॥१३॥



समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा।



सर्वाकाराभिसंबोध एष सोपायकौशलः॥१४॥ इति



 



तदनन्तरं प्राप्तसर्वाकाराभिसंबोधस्य विशेषमार्गेण प्रकर्षपर्यन्तोऽधिगम इति मूर्धाभिसमयं दर्शयितुं यथासंख्यमुष्मादिचतुर्विधनिर्वेधभागीयस्वभावलिङ्गविवृद्धिर्निरूढिचित्तसंस्थितिप्रतिपादनपूर्वकं प्रवृत्तिनिवृत्तिपक्षाधिष्ठानौ द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ च यथाक्रमं द्वौ द्वौ ग्राह्यग्राहकविकल्पाविति प्रहेयतया चतुर्विधविपक्षं तत्प्रहाणावस्थाविशेषं चोपदेयतया चतुर्विधं प्रतिपक्षं प्रत्येकं दर्शनभावनामार्गं निर्दिश्य बुद्धत्वप्राप्तेरव्यवधानेनानन्तर्यसमाधिरुभयसत्याश्रितोपायकौशलेन निराकरणीयविप्रतिपत्त्या सह देशित इति विंशतितमपरिवर्ते सचेद्बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपीत्यारभ्य यावदेकोनत्रिंशत्तमपरिवर्ते कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमिताऽपरिमाणतानुगन्तव्येति एतत्पर्यन्तेन सकारणेनोक्तो मूर्धाभिसमयस्तथाचोक्तम्॥



 



लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः।



चतुर्द्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः॥१५॥



प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि।



आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः॥१६॥



 



"मूर्धाभिसमय"इति। तदनु प्राप्तमूर्धाभिसमयो व्यस्तसमस्तत्वेनाधिगतानर्थाननुपूर्वीकृत्य स्थिरीकरणाय विभावयतीति सर्वधर्मसङ्ग्राहकदानादित्रयोदशप्रकारतयैकोनत्रिंशत्तमपरिवर्ते सिंहनादनदनतया प्रज्ञापारमिता नदनतानुगन्तव्येत्येकेनैव पदेन सकारणेनोक्तोऽनुपूर्वाभिसमयस्तथाचोक्तम्। "त्रिधा दशधा वानुपूर्विक"इति। तदनन्तरं विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेवाधिगतानां धर्माणामविपाकानश्रवसर्वधर्मैकक्षणलक्षणादिचतुर्विधभेदादेकेनैव क्षणेनाभिमुखीकरणमिति तत्रैव परिवर्ते सर्वधर्माकोप्यतया प्रज्ञापारमिताऽकोप्यतानुगन्तव्येत्येकेनैव पदेन सकारणेनैकक्षणाभिसंबोधो दर्शितः। तथाचोक्तम्।



 



एकक्षणाभिसंबोधो लक्षणेन चतुर्विधः॥१७॥ इति।



 



तदनु विभावितैकक्षणाभिसंबोधस्य द्वितीये क्षणे धर्मकायाभिसंबोध इति त्रिविधमनन्तराभिसंबोधं बोधिसत्त्वानां निर्दिश्य परिशिष्टकायत्रयं तथ्यसंवृत्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभावितं बुद्धबोधिसत्त्वश्रावकादिगोचरं व्यवस्थापितमिति कथनाय "विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतमि"ति न्यायात् तदव्यतिरेकेऽपि पृथग् लोकोत्तरेण मार्गेण प्राप्यते न तु क्रियत इत्यकृत्रिमार्थेन मायोपमविज्ञानमयसर्वधर्मप्रतिपत्त्याधिगतः स्वाभाविकः काय इति तत्कथनपूर्वकमवश्यमेवाभ्युपगन्तव्या योगिसंवृत्त्या विशिष्टार्थप्रतिभासजननद्वारेणाश्रयपरावृत्त्या परावृत्ता धर्मदेशनाद्यर्थक्रियाकारिणोऽद्वयाश्चित्तचैताः। सर्वाकारस्तथागतानामेव गोचरो ज्ञानसंभारजः सव्यापारो धर्मकाय इत्यभिधानानन्तरं नानासूत्ररत्नश्रवणाभिलाषिभिर्दशभूमिप्रविष्टैर्महाबोधिसत्त्वैः सह परमानवद्यमहायानधर्मसंभोगप्रीतिसुखोपभोगादप्रमेयपुण्यसंभारसंभृतं लक्षणानुव्यञ्जनविराजितगात्रं सांभोगिककायं प्रतिपाद्य यथाभव्यतयाशेषजगदर्थक्रियाकारी सर्वथाऽऽभावाग्रादनुपरतप्रबन्धः शाक्यमुनितथागतादिरूपो निर्माणकायः पुण्यज्ञानसंभारांशज एव श्रावकाद्युपलम्भयोग्यो देशित इत्येकोनत्रिंशत्तमपरिवर्ते। एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेनेत्यारभ्य यावदनुत्तराणां च बुद्धधर्माणां परिपूरिरिति परिवर्तपर्यवसानेनोक्तो बुद्धानां भगवतां धर्मकायाभिसंबोधः।



 



तथाचोक्तम्।



स्वाभाविकः ससांभोगो नैर्माणिकोऽपरस्तथा।



धर्मकायः सकारित्रश्चतुर्धा समुदीरितः॥१८॥ इति।



 



तदनन्तरं सदाप्ररुदितबोधिसत्त्ववत्प्रतिपत्तिः कार्येति विनेयजनबोधनाय तत्पूर्वयोगकथामुखेन कल्याणमित्रारागणपूर्वकप्रज्ञापारमितायोगानुशंसां दर्शयितुमुपसंहारद्वारेण मध्यमप्रतिपत्त्या यथोक्ताभिसमयक्रमप्रतिपादनपरमेव परिवर्तत्रयं देशितम्। तत्पुनः सुगमत्वाच्चाभिसमयालङ्कारकारिकया न सङ्गृहीतमित्यपरप्रकारद्वयेन समुदायार्थस्याभिधास्यमानत्वादेकस्तावत्समुदायार्थः।



 



इदानीं पदार्थादिव्याख्यानेन सूत्रार्थोऽभिधीयते। तत्र इति वाक्योपन्यासे। खलुशब्दो वाक्यालङ्कारे। शोभनाऽरणाविहारिणां मध्येऽग्रा भूतिश्चेतसः संपत्तिर्यस्य स सुभूतिः। सदेवके लोके पूजादिभिः स्थाविर्यप्राप्तत्वात्स्थविरः। इह क्वचितथागतानां कायव्यापारात्मकपाण्याद्यधिष्ठानेन देशना। तद्यथा दशभूमकादेः सूत्रस्य देशना। क्वचिद्वचनाधिष्ठानेन तद्यथाऽजातशत्रुशोकविनोदनसूत्रादेः। क्वचिन्मनोऽधिष्ठानेन तद्यथा समन्तभद्रचर्यानिर्देशसूत्रादेरित्यार्यसुभूत्यधिमुक्तानामनुग्रहपरीन्दनाभ्यां सम्यक्परिग्रहादिक्रमेण महायाने विनयनात्स्ववंशानुपच्छेदार्थमचिन्त्यो वा तथागतानामुपायकौशलप्रभावो यस्मात् सर्वथाशक्तेनापि देश्यत इति प्रभावसंदर्शनविनेयानामनुग्रहार्थं प्रज्ञापारमिताभाषणं प्रति वागधिष्ठानद्वारेणार्य-सुभूतिमन्यमनस्कमभिमुखीकरणार्थं भगवानामन्त्रयते स्मामन्त्रितवान्। कथमित्याह। प्रतिभात्वित्यादि। धर्मदेशनाधिकाराद्विद्यमानत्वेऽपि हे सुभूते विशिष्टधर्मार्थनिरुक्तिप्रतिभानं प्रतिसंवित्सर्वथा ते तवाभिमुखी भवतु। बोधौ सर्वधर्मासक्ततायां स्वार्थसंपदि सत्त्वमभिप्रायो येषां ते बोधिसत्त्वाः। श्रावका अपि स्युरेवमित्याह। महासत्त्वा इति। महत्यां परार्थसंपदि सत्त्वं येषां ते महासत्त्वाः। महत्त्वं चान्यथापि तीर्थिकसाधुजने च स्यादिति बोधिसत्त्वग्रहणम्। अतस्तेषां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामारभ्येति। प्रथमकल्पासंख्येयनिर्यातोऽधिमुक्तिचर्यां विवर्धयन् संभृतपुण्यसंभारो बोधिसत्त्वः शुभे देशे पर्यङ्कमाभुज्य बुद्धबोधिसत्त्वालम्बनपूर्वकं प्रज्ञापारमितानयं सर्वधर्मनैरात्म्य द्योतकं मूलचित्तेन नामतः समालक्ष्य तस्यैव पदप्रभेदं परिवर्तादिभेदादनुचरचित्तेन निरूपयेत्। तथाष्टाभि समयावस्थाभेदेन सङ्ख्याग्रहणाद्गणनया। प्रत्यभिसमयं स्वरूपनिश्चयात्तुलनयाऽध्यारोपापवादाभावान्मीमांसा प्रत्यक्षानुमानप्रमाणोपपन्नत्वात्प्रत्यवेक्षणतयेत्येवं प्रज्ञापारमितार्थश्चतुर्भिराकारैर्व्यञ्जनानि तु व्यस्तसमस्तानि यथाक्रमं निरर्थसदर्थतयेत्येवमाकाराभ्यां विचारणाचित्तेन विचारयेत्। तदनु यथाविचारितं तन्निमित्तमवधारणाचित्तेनावधृत्य यथाविचारितमेवार्थं नामालंबके मूलचित्ते सङ्कलनचित्तेन प्रक्षिप्य यदर्थं प्रयुक्तो भवति तच्छन्दसहगतेनाशास्तिचित्तेन भावनां कुर्यादित्येवमादिश्रुतचित्तभावनामयज्ञानोदयक्रमेण सर्वाकारज्ञानाधिगमात्पारं प्रकर्षपर्यन्तमेतीति विगृह्य क्विपि सर्वापहारलोपेऽनित्यमागमशासनमित्यलुकि तत्पुरुषे कृति बहुलमित्यलुकि च कर्मविभक्तेः कृते पारमिस्तद्भावः पारमिता। प्रज्ञाया धर्मप्रविचयलक्षणायाः पारमिता मुख्या बुद्धो भगवान्मायोपमं ज्ञानमद्वयम्। तत्प्राप्त्यनुकूलत्वेन तु पदवाक्यसमूहो ग्रन्थो दर्शनादिलक्षणो मार्गश्च गौणी प्रज्ञापारमिता। तथाचाहाचार्यदिङ्नागः



 



प्रज्ञापारमिता ज्ञानमद्वयं सा तथागतः।



साध्या तादर्थ्ययोगेन ताच्छब्द्यं ग्रन्थमार्गयोः॥इति।



 



अतस्त्रिविधामपि तत्सम्बन्धिनीं प्रतिवर्णिकोपदेशरहितां प्रज्ञापारमितामेव प्राधान्यादधिकृत्येत्यवधारणम्। न तु तेषामेवेति बोधित्रयेऽस्या नान्तरीयकत्वेनाधिकारात्। तथाह्यत्रैव वक्ष्यति श्रावकभूमावपि शिक्षितुकामेनेयमेव प्रज्ञापारमिता श्रोतव्येत्यादि सर्वाकारपरमपुरुषार्थोपयुक्ताधिगमकमस्य प्रतिपाद्यमानत्वात्तत्र च बोधिचित्तं कुलपुत्रबीजभूतं तदेव फलभूतं सारं सर्वबुद्धधर्माणामित्यार्यगण्डव्यूहादिनिर्देशाद्यथा येन परार्थालम्बनसम्यक्संबोधिकामतालक्षणद्वाविंशतिप्रभेदभिन्नबोधिचित्ताधिगमप्रकारेण बोधिसत्त्वा महासत्त्वास्त्रिविधामपि प्रज्ञापारमितान्निर्यायुर्निश्चित्य प्राप्नुयुरिति स्वालम्बनस्वरूपप्रभेदश्चित्तोत्पादस्तत्प्रभेद एव च सूत्रार्थ इति दर्शयितुं स्वयं भगवता मन्त्रणाद्वारेण समासतः प्रज्ञापारमिता देशिता। तदयं संक्षिप्तो वाक्यार्थो यथा सर्वप्रकारबोधिचित्ताधिगमप्रकारेण बोधिसत्त्वा महासत्त्वास्त्रिविधामपि प्रज्ञापारमितां यथासम्भवं श्रुतादिज्ञानोदयक्रमेण सम्यक् प्राप्नुयुस्तथा तेषां सम्बन्धिनीं प्रज्ञापारमितामेवारभ्य व्यासतो भाषणाय चतुर्विधा प्रतिसंवित्ते,तव,सुभूते,संमुखीभवत्वित्येवमार्यसुभूतिं स्थविरं भगवानामन्त्रितवानिति। विस्तारतस्तु



 



तत्रादौ गोत्रसामर्थ्यात् कृपाबीजप्रबोधतः।



प्रयोगाशयसंपत्त्या बोधिचित्तपरिग्रहः॥



 



इति न्यायाद्गोत्रादिसामर्थ्येन बोधिसत्त्वसंवरसमादानादिना शून्यताकरूणागर्भबोधिचित्तमुत्पाद्य सम्यक्संबुद्धो भूत्वा यथाभव्यतया परार्थं प्रति त्रियानधर्मदेशनादिभिर्यत्नं कुर्यामिति प्रणिधानं कृत्वा प्रतिपत्त्या सम्पादयेदिति। परार्थालम्बनः सहेतुफलः सम्यक्संबोध्यधिगमकामतालक्षणः। गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते,तथा भेदोऽनयोर्ज्ञेयो यथासंख्येन पण्डितैरिति प्रणिधिप्रस्थानस्वभावेन द्विविधो बोधिचित्तोत्पादः।



 



ननु



महोत्साहा महारम्भा महार्थार्थमहोदया।



चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः।



 



इति वचनाच्चेतनासंप्रयुक्तं चित्तं विशिष्टविषयप्रतिभासमुत्पद्यमानं चित्तोत्पादः। सम्यक्संबोधिकामता च तत्प्रार्थना कुशलो धर्मछन्दश्चैतसिक इति कथं स चित्तोत्पादो भवेत्। सत्यमेतत्। किन्तु दुःखार्णवनिमग्नं जगदत्राणमभिसमीक्ष्य तदुद्धरणाभिप्रायः कुशलधर्मछन्दक्षणायां प्रार्थनायां सत्यां संबुद्धत्वाय चित्तमुत्पादयतीति कारणेनात्र कार्यं निर्दिष्टमेवं छन्दप्रार्थनस्य बोधिसत्त्वस्य सर्वे कुशलधर्मा वृद्धिं यान्तीति ज्ञापनाय चोपचारः समाश्रित इत्यदोषः। प्रणिधानं वा प्रार्थना सम्यक्संबोधिकामता। तत्सहचरितचित्तोत्पादः प्रार्थनयातिदिश्यते। प्रार्थना प्रधाना हि चित्तोत्पादावस्थेति कृत्वा। एवञ्च प्रणिधानसहगतं तच्चित्तमुत्पद्यते बोधिसत्त्वानामित्युपपन्नं भवति। अथ केयं सम्यक्संबोधिः कश्च परार्थो यत्कामतात्मको यदर्थश्चित्तोत्पाद इति चेत्। उच्यते यथार्यपञ्चविंशतिसाहस्रिकासूत्रान्ते सम्यक्संबोधेः समासनिर्देशो यदाह। "सर्वाकारं शारिपुत्र सर्वधर्मानभिसंबोद्धुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां योगः करणीय"इति। तत्रायं तस्या व्यासनिर्देशो यदाह। "इह शारिपुत्र बोधिसत्त्वेनास्थानयोगेन प्रज्ञापारमितायां स्थित्वा दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुपलब्धिमुपादाये"त्यादि। तत्रायं परार्थस्य समासनिर्देशो यदाह। "दशसु दिक्षु प्रत्येकं गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास्तान् सर्वाननुपधिशेषे निर्वाणधातौ परिनिर्वापयितुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यमिति"। तत्रायं तस्य व्यासनिर्देशो यदाह। "मत्सरिणः सत्त्वान्दाने दुःशीलान् शीले व्यापादबहुलान् क्षान्तौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यमि"त्यादि।



 



तथाचोक्तम्।



चित्तोत्पादः परार्थाय सम्यक्संबोधिकामता।



समासव्यासतः सा च यथासूत्रं स चोच्यते॥१९॥ इति।



 



तत्रायं तस्य प्रभेदः। तत्र प्रथमश्चित्तोत्पादश्छन्दसहगतो बोधिसत्त्वानां पृथिवीसमः सर्वाकारसर्वधर्माभिसंबोधस्य संभारप्रसवप्रतिष्ठाभूतत्वात्। द्वितीय आशयसहगतः कल्याणसुवर्णोपमः षट्पारमितासङ्गृहीतस्य हितसुखाशयस्यायतितदात्ययोर्विकारभजनादासम्यक्संबोधिशय आशय इति कृत्वा। तृतीयोऽध्याशयसहगतः शुक्ल पक्षनवचन्द्रोपमः। सर्वशुक्लपक्षधर्मोत्तरोत्तरविवृद्धिगमनेनाधिक आश्रयोऽध्याशय इति कृत्वा। एते च त्रयो मृदुमध्याधिमात्रतयाऽऽदिकर्मिकसंभारभूमिसङ्गृहीताः। चतुर्थः प्रयोगसहगतो ज्वलनोपमस्त्रिसर्वज्ञताप्रयोगस्येन्धनान्तरविशेषेणेवाग्नेरुत्तरोत्तरविशेषगमनात्प्रकृष्टो योगः प्रयोग इति कृत्वा। अयञ्च प्रथमभूमिप्रवेशप्रयोगमार्गसङ्गृहीतोऽधिमुक्तिचर्याभूमिप्रतिबद्धः। पञ्चमो दानपारमितासहगतो महानिधानोपमः। सर्वथाऽमिषसम्भोगेनाप्रमेयसत्त्वसंतर्पणेऽप्यपर्यादानात्। षष्ठः शीलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानामाश्रयभावेन ततः प्रसवनात्।सप्तमः क्षान्तिपारमितासहगतो महार्णवोपमः सर्वानिष्टोपनिपातैरक्षोभ्यत्वात्। अष्टमो वीर्यपारमितासहगतो वज्रोपमः संप्रत्ययदार्ढ्येनाभेद्यत्वात्। नवमो ध्यानपारमितासहगतः पर्वतोगमः सर्वथालम्बनविक्षेपेणानिष्कम्प्यत्वात्। दशमः प्रज्ञापारमितासहगतो महाभैषज्योपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात्। एकादश उपायकौशलपारमितासहगतः कल्याणमित्रोपमः सर्वावस्थासु सत्त्वार्थापरित्यागात्। द्वादशः प्रणिधानपारमितासहगतश्चिन्तामणिसदृशो यथा प्रणिधानं फलसमृद्धेः। त्रयोदशो बलपारमितासहगत आदित्योपमो विनेयजनस्य परिपाचनात्। चतुर्दशो ज्ञानपारमितासहगतो मधुरसङ्गीतिघोषोपमो विनेयावर्जनकरधर्मदेशकत्वात्। एते च दश यथाक्रमं प्रमुदितादिदशभूमिसङ्गृहीता दर्शनभावनामार्गगोचराः। पञ्चदशोऽभिज्ञासहगतो महाराजोपमोऽव्याहतप्रभावत्वेन परार्थानुष्ठानात्। षोडशः पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोशस्थानत्वात्। सप्तदशो बोधिपक्षधर्मसहगतो महामार्गोपमः सर्वार्यपुद्गलयातानुयातत्वात्। अष्टादशः शमथविपश्यनासहगतो यानोपमो युगनद्धवाहित्वात्संसारनिर्वाणान्यतरापातेन सुखसंवाहनात्। एकोनविंशतितमो धारणीप्रतिभानसहगतः प्रस्रवणोपमः सर्वथोदकधारणाक्षयोद्भेदसाधर्म्येण श्रुताश्रुतधर्मधारणा दपर्यान्तदेशनोद्भेदत्वात्। एते च पञ्चबोधिसत्त्वभूमिषु विशेषमार्गसङ्गृहीताः। विंशतितमो धर्मो दानसहगत आनन्दशब्दोपमो मोक्षकामानां विनेयानां प्रियश्रावणात्। अयञ्च बुद्धभूमिप्रवेशप्रयोगमार्गसङ्गृहीतो बोधिसत्त्वभूमिप्रतिबद्धः। एकविंशतितम एकायनमार्गसहगतो नदीस्रोतः सदृशो ज्ञानज्ञेययोः समताधिगमेनोरुकरुणाप्रज्ञोपायतयाऽसंभिन्नपरकार्यक्रियत्वात्। अयञ्च बुद्धभूमिसङ्गृहीतो मौलावस्थाप्राप्तः। द्वाविंशतितमो धर्मकायसहगतो महामेघोपमस्तुषितभुवनवासादिसन्दर्शनेन निर्माणकायतया सर्वसत्त्वार्थक्रियाणां तदधीनत्वात्। अयमपि निर्विकल्पकतथागताधिपत्यप्रवृत्तनिर्माणाद्युपलब्धेर्विनेयपरिकल्पितशुद्धलौकिकज्ञानपृष्ठावस्थाप्राप्तो बुद्धभूमिसङ्गृहीत इत्यादिकर्मिकभूमिमारभ्य यावद्बुद्धभूमिसङ्गृहीत इत्यतोऽर्थाधिगमानुक्रमेण यथोक्तानुपूर्व्या,इयानेव प्रभेदो न न्यूनो नाधिको नाप्यन्यथानुपूर्व्या प्रतिपादनीय इति प्रतिपादितं भवति। एवंक्रमेण द्वाविंशतिभेदभिन्नबोधिचित्ताधिगमद्वारेण यथा बोधिसत्त्वा महासत्त्वास्त्रिविधामपीत्यादिना पूर्ववत्सम्बन्ध इति।



 



तथाचोक्तम्।



भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः।



वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः॥२०॥



नृपगञ्जमहामार्गयानप्रस्रवणोदकैः।



आनन्दोक्तिनदीमेघैर्द्वाविंशतिविधः स च॥२१॥इति।



 



अयमवश्यं पृथग्जनबोधिसत्त्वतथागतभूमिभेदेन हेतुफलात्मकः प्रभेदो ज्ञेयः। तथाहि।



 



सूत्रालंकारे



चित्तोत्पादोऽधिमोक्षोऽसौ शुड्धाध्याशयिकोऽपरः।



वैपाक्यो भूमिषु मतस्तथावरणवर्जितः॥



करुणामूल इष्टोऽसौ सदा सत्त्वहिताशयः।



 



इति वचनाद्धेतुफलालम्बनात्मक एव चित्तोत्पाद उत्पाद्यः कथितः। तस्य प्रभेदोऽपि क्रियमाणस्तथाकर्तव्योऽन्यथा हेतुमात्रप्रभेदान्न तस्य सर्वथा प्रभेद इत्यपरिपूर्ण एव प्रभेदः स्यादित्येके। अन्ये तु महाराजोपमादय एवाष्टौ चित्तोत्पादा बोधिसत्त्वभूमिषु विशेषमार्गसङ्गृहीता इति वर्णयन्ति। सर्वप्रकारबोधिचित्तोत्पादप्रभेदप्रतिपादको ग्रन्थः पञ्चविंशतिसाहस्रिकातो ज्ञापकत्वेनेह प्राचुर्यभयान्न लिख्यते। अत्र तूद्वटितज्ञसंक्षिप्तरुचिसत्त्वानुग्रहेण प्रवृत्तत्वाद्देशनाया इति कृत्वा नोक्तः। यथोक्तसत्त्वार्थप्रभेदोऽवश्यमेव प्रतिपत्तव्या यतः पञ्चविंशतिसाहस्रिकार्थोपसंहारेण प्रवृत्तमिदं सूत्ररत्नमिति प्रागेव प्रतिपादितम्।



 



तथाचाहाचार्यदिङ्नागः।



 



इत्थमष्टसहस्रीयमन्यूनार्थैर्यथोदितैः।



ग्रन्थसंक्षेप इष्टोऽत्र त एवार्था यथोदिताः॥



 



इति सर्वाकारतथागतज्ञानगम्यत्वेन गंभीरायां प्रज्ञापारमितायामात्मनोऽशक्तिवदप्रहीणज्ञेयावरणत्वेनार्यसुभूतेरप्यशक्तिं सम्भावयन्नार्यशारिपुत्रोऽध्येषणामात्रावगमादविदिततत्सामर्थ्याधिष्ठानोऽथेत्यादिना वितर्कयति। एतदिति वक्ष्यमाणं वितर्कजातं तदेवमित्यादिनाह। किंशब्दो वितर्के। आत्मीयेन स्वप्रतिबद्धवृत्तिना। तद्विषये तु न परकृतेन तस्यात्मीयेनापि तु स्वकेन स्वकृतेन। प्रज्ञा धर्मप्रविचयः। प्रतिभानं युक्तयुक्ताभिधानम्। तयोर्बलस्याव्याहतसामर्थ्यस्याधानेनापूर्वकरणेन। प्रकारान्तरेणाप्याह स्वकेनेत्यत्राप्यात्मीयेनेति द्रष्टव्यम्। प्रज्ञाप्रतिभानबलस्य व्यवस्थितस्याधिष्ठानेन विशेषकरणेनोपदेक्ष्यति। उताहो शब्दः पक्षान्तरद्योतकोऽथ बुद्धानुभावेनेति। एवं मन्यतेऽचिन्त्यत्वादुपायविशेषस्य कदाचिदनेनापूर्वज्ञानमधिगतं व्यवस्थितस्योत्कर्षो वा कृतस्तथागताधिष्ठानं वा प्राप्तमन्यथाहमिवार्यसुभूतिरशक्तः न चारणाविहारिणामग्रत्वेन विशेषसद्भावाद्भाषत इत्यपि शक्यते वक्तुम्। ममापि प्रज्ञावतामग्रत्वविशेषसद्भावाद्भाषणप्राप्तेः। न चारणासमाधेर्देशनायां व्यापार इत्यार्यशारिपुत्रस्य भावः। मृद्विन्द्रियतया न सहसाऽपूर्वज्ञानादिकं कर्तुं शक्यतेऽचिन्त्योपायंसद्भावेऽपीति पाश्चात्यमेव विकल्पं दर्शयन्नाह। अथेत्यादि श्रावकाणां समन्वाहृत्य परचित्तज्ञानं नान्यथेति बुद्धानुभाववचनेनासमन्वाहारज्ञानमुक्तम्। इदमनन्तरोक्तमेवंरूपं यथोक्तविकल्पत्रयस्वभावम्। चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पः सा च चित्तस्योदारिकतेति वितर्कम्। चेतसा संवृत्या तद्रूपानुकारिणा ज्ञात्वा वक्ष्यमाणमेतदुक्तवान्। तदेवाह यत्किञ्चिदिति।



 



सूत्रं गेयं व्याकरणं गाथोदानावदानकम्।



इतिवृत्तकं निदानं वैपुल्यञ्च सजातकम्।



उपदेशाद्भुतौ धर्मौ द्वादशाङ्गमिदं वचः।



 



तत्र भाषन्ते श्रुतमयज्ञानोत्पादाद्बोधिबीजावरोपणार्थं यतो ग्रन्थमुदीरयन्ति। देशयन्ति चिन्तामयज्ञानोत्पादात्परिपाचनार्थं यतोऽर्थं प्रकाशयन्ति। उपदिशन्ति भावनामयज्ञानोत्पादात्परिमोचनार्थं यतो ग्रन्थार्थनिश्चयोत्पादनतः संप्रकाशयन्ति। तदेवमुदीरयन्तीत्यादिपदत्रयं भाषन्त इत्यादेर्यथाक्रमं व्याख्यानम्। पुरुषकारोऽधिष्ठानं तद्धेतुकत्वात्स सर्वो भाषणादिरुपचारात्पुरुषकारशब्देनोक्तः। ननु श्रावकैरपि स्वाधिगमधर्मता साक्षात्कृता। तत्कस्मान्न स्वशक्यैव सर्वं भाषणादि क्रियत इत्याशङ्क्य तत्कस्माद्धेतोरिति स्वयमेव प्रश्नः कृतः। परैः क्रियमाणे नीरसिकत्वादिदोषोदयादित्येके। तदनन्तरं कथाविच्छेददोषपरिहारार्थं शारद्येन प्रष्टुमशक्नुवतामनुग्रहार्थमेकाग्रीकृतचेतसां वचनेनेर्यापथभेदाद्विक्षेपदोषपरिहारार्थं चेत्यपरे। यो हीत्याद्युत्तरम्। तत्र धर्मेऽभिधेये निर्वेधभागीयाधिगमद्वारेण धर्मदेशनायां सत्यां शिक्षमाणा दर्शनमार्गाधिगमेन तामधिगमधर्मतां साक्षात्कुर्वन्ति। भावनामार्गाधिगमेन धारयन्ति। सर्वं तदधिगतार्थविषयं देशनाधर्मसूत्रादिधर्मतयाधिगमेनाविरुद्धम्। तदविरुद्धप्रकाशनात्। तस्मात्तथागतधर्मदेशनाया एवोपचारनिर्दिष्टपुरुषकारस्वभावाया एष सदृशः स्यन्दो निष्यन्दस्तदनुरूपं फलं यत्सूत्रादि ते श्रावका उपदिशन्तस्तामागमधर्मतामधिगमधर्मतया न विरोधयन्ति। उपदिशन्त इति चोपलक्षणाद्भाषमाणा देशयन्त इत्यपि ग्राह्यं तथाप्रकृतत्वात्। अनेनैतदाह नित्यसमाधानोपायकौशलवैकल्यादधिगतार्थविषयमपि धर्मं स्वाधिगमाविरुद्धं भाषितुमसमर्थाः प्रागेवानधिगतार्थविषयमतो बुद्धानुभाव एव द्रष्टव्यः। तथा



 



कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता।



परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम्॥



 



इति न्यायान्नाप्यभ्यूह्यो देशयितुं शक्यत इति प्रसङ्गागतं निर्वर्त्येदानीमुत्पादितप्रथमादिबोधिचित्तो यथाकालं बोधिसत्त्वोऽपि दानादिकुशलधर्माभ्यासेन पुण्यसम्भारमुपार्जयन्।



 



ध्यानेऽभिज्ञाभिनिर्हाराल्लोकधातून् स गच्छति।



पूजार्थमप्रमेयानां बुद्धानां श्रवणाय च॥



अप्रमेयानुपास्यासौ बुद्धान् कल्पैरप्रमेयैः।



कर्मण्यतां परामेति चेतसस्तदुपासनात्॥



 



इति चित्तकर्मण्यताबलेन स्थितः समाधौ।



 



धर्मश्रोतसि बुद्धेभ्योऽववादं लभते तदा ।



विपुलं शमथज्ञानवैपुल्यगमनाय सः॥



 



इति न्यायादेवंप्रवृत्तबोधिसत्त्वस्य सम्बन्धनार्थं भगवदुक्तवचनपूर्वकमववादमार्यसुभूतिर्बोधिसत्त्व इत्यादिनाह,बोधिसत्त्वो बोधिसत्त्व इत्यस्मिन्नर्थे प्रज्ञाबलेन बोध्यालम्बनाद्बोधिश्चासौ महाकृपाशयेन सत्त्वालम्बनात् सत्त्वश्चेति बोधिसत्त्व इत्युक्तः। यथाऽशुभालम्बनसमाधिरशुभेति। प्रदेशान्तराभिहितस्यापि बोधिसत्त्वस्य ग्रहणार्थं वीप्सयाभिधानम्। कतमस्य कल्पितादिरूपस्याधिवचनमाभिमुख्येन व्यपदेशः परमार्थतोऽपि तु न कस्यचिदित्यर्थः। तदेवाह॥



 



नाहं भगवंस्तन्धर्ममिति कल्पितादिरूपम्। तत्त्वतोऽववदनीयस्यानुपलम्भात्॥



 



अववादविषयस्तर्ह्यस्तीत्याह। तमपीत्यादि प्रज्ञापारमिता प्रतिपत्त्यादिदशप्रकारधर्मस्वभावा। तथाह्यववादविषयमधिकृत्य पञ्चविंशतिसाहस्रिकायामुक्तम्। "कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ्चरितव्यम्। भगवानाह। इह शारिपुत्र बोधिसत्त्वो बोधिसत्त्वं तन्नाम च न समनुपश्यतीत्यादि"। बोधिसत्त्वधर्मं वेति यस्य धर्मस्य बोधिसत्त्व इत्यधिवचनम्। तं धर्मम्। अविन्दन् श्रुत्या। अनुपलभमानश्चिन्तया। असमनुपश्यन् भावनया। अथवा प्रतिनियतार्थेन सह प्रत्यासत्तिनिबन्धनाभावान्निराकारेण ज्ञानेनाविन्दन्। वस्तुभावमन्तरेणापि स्वप्नादौ भावात्साकारेणानुपलभमानः। अत‍एवोभाभ्यामसमनुपश्यन् कतमस्यां प्रज्ञापारमितायां प्रतिपत्त्यादि दशप्रकारायां प्रथमं सम्प्राप्तगुणपरिपालनार्थेनापरिहाणिमुपादाय शिक्षणेनाववदिष्यामि। ततः पश्चादप्राप्तगुणप्राप्तिमुपादायानुशासिष्यामि। सर्वथा तत्त्वतो नैव किं तूद्भावनासंवृत्याऽववादं इत्यर्थादाक्षिप्तं भवति। तथा चात्रैवानन्तरं वक्ष्यति एषोऽववाद इत्यादि। स पुनर्विषयभेदाद्दशधा ज्ञेयः। तत्र यथोक्तप्रभेदबोधिचित्तप्रतिपत्तौ संवृत्तिपरमार्थसत्यानतिक्रमेण श्रावकाद्यसाधारणतयाऽनुपलम्भयोगेन वर्तनमिति शिक्षणं प्रतिपत्त्यववादः। दुःखे फलभूतरूपादिशून्यताप्रज्ञापारमितयोस्तु तथा रूपत्वादैकात्म्यमिति। समुदये शून्यताहेतुभूतरूपाद्योरव्यतिरिक्तत्वेन रूपादिः समुदयनिरोधसंक्लेशव्यवदानधर्मा इति। निरोधे शून्यतायामुत्पादनिरोधसंक्लेशव्यवदानहानिवृद्ध्यादिरहितायान्न रूपं यावन्न विद्योत्पादो नाविद्यानिरोधो न बुद्धो न बोधिरिति। मार्गे दानादिपारमिताभिरात्मनोऽध्यात्मशून्यतादीनां बहिर्द्धाशून्यतादिभिः पूर्वान्तापरान्तयोश्च परस्परं न युक्तायुक्तत्वेन प्रतिपत्तिरित्युपदेशः सत्याववादः।



 



बुद्धे बुद्धबोध्योरेकलक्षणत्वेन बुद्धकरकधर्मलक्षणसर्वाकारज्ञतायामनुपलम्भरूपाद्ययोजनेनालम्ब्यालम्बकसमताज्ञानमिति। धर्मे त्रिसर्वज्ञतासङ्गृहीतसमस्तवस्तुप्रतिपक्षाकारसङ्ग्रहैः सर्वधर्माणां सङ्गृहीतानां निःस्वभावतेति। सङ्घे बुद्धरत्नान्तर्गतत्वेनार्हद्वर्ज्येषु फलस्थप्रतिपन्नकभेदेन सप्तसु महापुरुषेषु प्रत्येकबुद्धेन सहाष्टसु मृद्विन्द्रियादिभेदेन विंशतिसंख्यावच्छिन्नेष्वार्यावैवर्तिकबोधिसत्त्वशैक्षेष्वनुत्पादतया प्रवृत्तिरित्युपदेशो रत्नत्रयाववादः। आरब्धवीर्यतया यथोक्तार्थानुष्ठानं प्रति कायादिसुखल्लिकत्वेन कस्यचिदभिनिवेशः स्यादित्यसक्तौ कायादीनामस्वभावतया देशनाववादः। चिरतरकालाभ्यासेनापि समीहितार्थानिष्पत्तावुत्रसनजातीयस्य परिखेदः स्यादित्यपरिश्रान्तौ रूपादेर्यावत्सम्यक्सम्बोधेरमननतया देशनाववादः। दशदिगवस्थितबुद्धादिभ्यः प्रत्यर्थं मार्गोपदेशे गृह्यमाणे चित्तावलीनता स्यादिति। प्रतिपत्सम्परिग्रहेधर्माणां प्रकृत्यजातत्वेन शिक्षणमववादः। मांसवैपाकिकदिव्यप्रज्ञाधर्मबुद्धचक्षुषां यथासंख्यं प्रतिनियतवस्तुसर्वसत्त्वच्युत्युपपत्तिसर्वधर्माविकल्पानां सर्वार्यपुद्गलाधिगमसर्वाकारसर्वधर्माभिसम्बोधविषयाणां तथतयैकत्वेन प्रतिपत्तिरिति शिक्षणं पञ्चचक्षुरववादः। ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृत्याभिसंस्कारिकदिव्यचक्षुराश्रवक्षयज्ञानाभिज्ञानां पृथिवीकम्पनादिसर्वलोकधातुस्थसूक्ष्मेतरशब्दश्रवणसरागादिपरचित्तज्ञानस्वपरपूर्वानेकजात्यनुस्मरणसर्वरूपदर्शनक्लेशज्ञेयावरणप्रहाणकारित्राणामादिशान्तत्वेनावबोध इति देशनाऽभिज्ञाववादः। चतुःसत्यसङ्गृहीतषोडशक्षणस्वभावं दर्शनमार्गं धर्मान्वयज्ञानक्षान्तिज्ञानात्मकं सर्वधर्मनिःस्वभावबोधेन मायाकार इव सर्वत्रानभिनिविष्टमूर्तिस्तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन योगौ विभावतीति देशना दर्शनमार्गाववादः। संस्कृतासंस्कृतयोरेकरूपत्वेन परस्परमशक्यव्यतिरेकप्रज्ञप्तिवद्यथोक्तदर्शनमार्गसम्मुखीकृतवस्त्वव्यतिरेकालम्बनाद्दर्शनभावनयोरपृथग्भाव इति न लाक्षणिकं भावनामार्गव्यवस्थानमथ च स तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन विभाव्यते प्रतीत्यसमुत्पादधर्मतयेति देशनाभावनामार्गाववाद इत्येवन्दशविधोऽववादो ग्रन्थसंक्षेपस्यात्रेष्टत्वात्प्रज्ञापारमिताशब्देनोक्तः। तथाहि पञ्चविंशतिसाहस्रिकायां प्रत्यववादं स्पष्ट एव ग्रन्थो निर्दिष्टो ज्ञापकत्वेन च विस्तरभयान्न लिख्यते। तदेवमववादेन किम्भूतो बोधिसत्त्वोऽववादनीय इत्याह। अपितु खलु पुनरित्यादि स चेदिति निपातो यद्यर्थे। एवमिति बोधिसत्त्वप्रज्ञापारमितानुपलम्भेन। अववादविषये दशप्रकारे भाष्यमाणे चित्तन्नावलीयते न सङ्कोचायते यतो न विषीदति न मुह्यति,अत‍एव श्राद्धत्वेन धर्मभजनादादौ नोत्रस्यत्यस्थानत्रासेन देश्यमाने न संलीयते नालस्यायते। यतो न विषादमापद्यते न कातरभावं याति। अत‍एव प्राज्ञत्वेन तत्त्ववेदिनां मध्ये न संत्रस्यति सन्ततित्रासेन। उपदिश्यमाने नास्य विपृष्ठीभवति न विप्रतिसारीभवति,मन एव मानसम्। यतो न भग्नपृष्ठीभवति न पृष्ठं चित्तं भग्नं भवति अत‍एव श्रद्धाप्रज्ञाभ्यां योगात्पर्यवसाने न संत्रासमापद्यते। सर्वथाऽनिश्चयत्रासेन। अथवा भाषणादिकाले यथाक्रमं ग्रन्थार्थोभयावधारणान्नावलीयते न संलीयते न विषीदति। कुतो यस्मात्प्रत्यक्षानुमानागमप्रमाणैरविरुद्धस्वविषयार्थपरिच्छेदान्न विषादमापद्यते,नास्य विपृष्ठीभवति मानसं न भग्नपृष्ठीभवति। अत एवादिमध्यपर्यवसाने नोत्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यत इति योज्यम्। एष एवेति। यो बोधिसत्त्वः संवृतिपरमार्थविभागकौशल्याद्यथोक्ताववादे चित्तावलीनत्वादिरहितः  स एष एवेत्यर्थः। एष एवेति लक्षणमनुक्त्वा कथं प्रज्ञापारमिता प्रत्यवमृष्यत इति चेदुच्यते,यस्यार्थस्य भाषणादौ चित्तावलीनत्वादि न करोति सोऽर्थः। प्रज्ञापारमिता प्रतिपत्त्यादिदशप्रकारा कथितैवेत्यर्थाक्षिप्तपरामर्षणाददोष इति,उपसंहरन्नाह। स चेदित्यादि,स बोधिसत्त्वो यद्यनन्तरोक्ताववादेन यथोक्तविषये स्थितिमान् भवति तदास्य बोधिसत्त्वस्यैषैव प्रार्थितार्थप्राप्तिकर्तव्यतोपदेशोऽववादानुशासनी वेदितव्या। तदेवङ्कृत्वा बोधिचित्ततदाक्षिप्तधर्मस्वभावप्रज्ञापारमितायां या प्रतिपत्तिरनुपलम्भाकारा,तस्या यदालम्बनं चत्वार्यार्यसत्यानि। य आश्रयस्त्रीणि शरणानि। यो विशेषगमनहेतुरसक्तिः योऽव्यावृत्तिगमनहेतुरपरिश्रान्तिः। योऽनन्ययानगमनहेतुः प्रतिपत्सम्परिग्रहः। योऽपरप्रत्ययगामित्वहेतुः पञ्च चक्षूंषि। यः सर्वाकारज्ञतापरिपूरिहेतुः षडभिज्ञाः। यो निष्ठाहेतुर्दर्शनभावनामार्गौ तत्सर्वमववादप्रकरणे निर्दिष्टमेतावतैव सर्वोऽर्थः सम्पन्न इति यथोक्तानुपूर्वीनिर्दिष्टो दशविधोऽववादः। तथाचोक्तम्।



 



प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु।



असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे॥२२॥



चक्षुःषु पञ्चसु ज्ञेयः षड्स्वभिज्ञागुणेषु च।



दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः॥२३॥ इति।



 



किन्तु सङ्घरत्ने मृद्विन्द्रियादिबोधिसत्त्वानामयं प्रभेदो ग्राह्यः,वक्ष्यमाणमार्गज्ञतासङ्गृहीतषोडशक्षणदर्शनमार्गमाश्रित्य। पञ्चदशसु दर्शनमार्गचित्तक्षणेषु श्रद्धाधर्मानुसारिभेदेन प्रथमफलप्रतिपन्नको द्विविधः। ततो यः कामवीतरागः स षोडशे दर्शनमार्गचित्तक्षणे श्रोतआपन्नः। ततो भावनामार्गे यावच्चतुर्थक्लेशप्रकारप्रहाणाद्देवमनुष्यकुलङ्कुलत्वेन स एवान्यो द्विविधः। ततः कामावचरपञ्चप्रकारक्लेशप्रहाणेन द्वितीयफलप्रतिपन्नको मृदुतीक्ष्णेन्द्रिय एवैकः श्रद्धादृष्टिप्राप्तः। ततः कामावचरषट्प्रकारक्लेशप्रहाणात्सकृदागामी। ततः स एवैकजन्मावशेषत्वाद्देवेष्वेकवीचिकोऽपरः। ततः कामावचरसप्ताष्टक्लेशप्रकारप्रहाणातृतीयफलप्रतिपन्नकः पूर्ववच्छ्रद्धादृष्टिप्राप्तः। ततो यः कामावचरनवमक्लेशप्रकारप्रहाणादनागमीत्युच्यते स पञ्चधा वेदितव्यः। तत्रोपपत्तिसंयोजनप्रहाणादभिनिर्वृत्तिसंयोजनाप्रहाणादन्तराभवमभिनिर्वर्तयन्नेवाभिनिर्वृत्ते चान्तराभवे मार्गसम्मुखीभावेन दुःखान्तप्राप्तावन्तरापरिनिर्वापी। उभयसंयोजनाप्रहाणाद्रूपधातावुपपद्य दुःखान्तप्राप्तावुपपद्य परिनिर्वापी। तथैवोपपन्नोऽभिसंस्कारेण मार्गसम्मुखीभावलाभाद्दुःखान्तप्राप्तावभिसंस्कारपरिनिर्वापी। तद्विपर्ययादनभिसंस्कारपरिनिर्वापी। ऊर्ध्वश्रोताश्च पञ्चमः स पुनरकनिष्ठपरमो भवाग्रपरमश्च। तत्राकनिष्ठपरमः प्लुतार्धप्लुतसर्वस्थानच्युतत्वेनाकनिष्ठप्रवेशस्त्रिविधः। भावाग्रपरमस्तु रूपवीतरागो दृष्टधर्मे शमः कायसाक्षीति द्विविधः। ततो भावाग्रिकाष्टमक्लेशप्रकाराणां प्रहाणादर्हत्वफलप्रतिपन्नकः। ततः श्रावकपिटकमेवावलम्ब्य स्वमार्गसंमुखीकरणादबुद्धोत्पादे प्रत्येकबुद्ध इति विंशतिः। तथाच पञ्चविंशतिसाहस्रिकायामयमर्थो विस्तरेणोक्तः। अवैवर्तिकचक्रसूत्रे तु बोधिसत्त्वश्रद्धानुसारिणमारभ्य यावद्बोधिसत्त्वप्रत्येकबुद्ध इति पुद्गलव्यवस्थानं स्पष्टतरार्थं भगवतोक्तमिति तत्रैवावलोकनीयमत्रास्माभिर्विस्तरेण नोपन्यस्तं किं पिष्टं पिष्येति। तथाच प्रथमद्वितीयफलस्थं चतुर्थफलप्रतिपन्नकञ्च पुद्गलं सुगमत्वेनासङ्गृह्योक्तम्।



 



मृदुतीक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलङ्कुलौ।



एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः॥२४॥



प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा।



दृष्टधर्मशमः कायसाक्षी खङ्गश्च विंशतिः॥२५॥ इति।



 



लब्धाववादस्यैवमादिकर्मिकस्य।



सम्पूर्णपुण्यसम्भारस्ततो धीमान्दृढाशयः।



श्रद्धाद्यैः कुशलैर्धर्मैः परिभावितसन्ततिः॥



ज्ञानसम्भारसिद्ध्यर्थं कल्पासङ्ख्येयनिर्गमात्।



स्थिराभिज्ञोऽववादेन चर्याभूमौ प्रवर्तते॥



 



इति कृत्वाऽधिमुक्तिचर्याभूमिपरिशोधनार्थं श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रद्धादिलक्षणकुशलमूलादूर्ध्वञ्चतुः सत्यप्रतिवेधानुकुलानि चतुर्निर्वेधभागीयानि लौकिकभावनामयानि वक्तव्यानि। श्रावकाद्युष्मादिभ्यश्चैषामनित्यादिलक्षणवस्त्वालम्बनविशेषाद्धर्मदर्शनप्रतिपक्षत्वेनानभिनिवेशाद्याकारविशेषाद्यानत्रयाधिगमहेतुत्वविशेषादुपायकौशलकल्याणमित्रलक्षणसम्परिग्रहविशेषाद्विशेषो वक्तव्यः। तथा संक्लेशवस्त्वधिष्ठानः प्रतिपक्षवस्त्वधिष्ठानश्चेति द्विविधो ग्राह्यविकल्पः। द्रव्यसत्पुरुषाधिष्ठानः प्रज्ञप्तिसत्पुरुषाधिष्ठानश्चेति द्विविधो ग्राहकविकल्प इति वक्ष्यमाणमूर्द्धाभिसमयसङ्गृहीतदर्शनभावनामार्गप्रहातव्यैश्चतुर्भिर्विकल्पैर्यथासङ्ख्यं संक्लेशभाज्ज्येतानि निर्वेधभागीयानीति वक्तव्यम्। तथा यथोक्तविकल्पसंयोगञ्च भजतां सतां प्रत्येकमेषां मृदुमध्याधिमात्रभेदेन विशिष्टता च वक्तव्येति पञ्चविधो विशेषः। श्रावकादीनामुष्मादिचतुर्विधकुशलमूलं रूपणादिलक्षणवस्त्वात्मकचतुःसत्यालम्बनमात्मदर्शनप्रतिपक्षत्वेनानित्यादिभिराकारैः स्वयानाधिगमहेतुभूतं सम्परिग्रहरहितं स्वबोधिपरिपन्थभूतश्चतुर्विधो विकल्पो न भवतीति कृत्वा तेन संसृष्टमप्यसंसृष्टमुत्पद्यत इति व्यवस्थाप्यते। यतस्तथा चोक्तम्।



 



आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात्।



चतुर्विकल्पसंयोगं यथास्वं भजतां सतां॥२६॥



श्रावकेभ्यः सखङ्गेभ्यो बोधिसत्त्वस्य तायिन।



मृदुमध्यादिमात्राणामूष्मादीनां विशिष्टता॥२७॥इति ,



 



तत्र मृदुन ऊष्मगतकुशलमूलस्यालम्बनार्थमाह॥ पुनरित्यादि पुनरपरमिति प्रकारान्तरेण प्रज्ञापारमितोपदेशसूचनम्। प्रज्ञापारमितायामिति सामान्यश्रुतावप्यनित्यतादिवस्त्वालम्बनलक्षणायामित्यर्थः। तथाहि प्रदेशेन्तरे "भगवताभिहितं सूत्रं भिक्षवः सूत्रान्तरानुसारेण व्याख्यातव्यमिति"। पञ्चविंशतिसाहस्रिकायाञ्च मृदूष्मालम्बनमधिकृत्योक्तम्। "इहायुष्मञ्छारिपुत्र बोधिसत्त्वो रूपमनित्यमिति रूपं दुःखमिति रूपं शून्यमिति रूपमनात्मे"त्यादि। एतावांस्त्वत्र विशेषो यदुत संक्षेपनिर्देशः। तत्र पुनः प्रत्येकं सत्यमधिकृत्य विस्तरनिर्देश इति न सन्देहः कार्यः। चरतेत्यसमाहितेन ज्ञानेन भावयतेति समाहितेन। एतदुक्तमनित्यादिषोडशाकारं दुःखादिचतुःसत्याधारं वस्त्वालम्बनमिति। तत्केनाकारेणालम्बनीयमित्याह। एवमित्यादि। एवमिति वक्ष्यमाणक्रमेण तेनापीत्यादि न केवलं ज्ञेयस्यात्यन्तपरोक्षत्वादालम्बनं न मन्येत येनाप्याकारेणाभिनिवेशादेर्निषेधात्मकेन बोध्यावाहकज्ञानरूपेणालम्ब्येत तेनापि न मन्येताभिनिवेशं न कुर्यादित्यर्थः। धर्मतामुखेनानभिनिवेशाद्याकारेणेति यावत्। इदमुक्तं भवति श्रावको रूपणादिलक्षणं वस्त्वालम्बते। तस्यानित्यतादय आकारा भवन्त्यात्मदर्शनप्रतिपक्षत्वात्। बोधिसत्त्वः पुनरनित्यतादिलक्षणं वस्त्वालम्बते। तस्यानभिनिवेशादय आकारा भवन्ति धर्मदर्शनप्रतिपक्षत्वादिति। ननु यद्यभिनिवेशाभावोऽनभिनिवेश एवं सत्यभावत्वात् प्रतिपक्षो न युज्यते। अथ यन्नाभिनिवेशस्तदा चक्षुरादिष्वपि प्रसङ्ग इति चेत्। उच्यते,यथा विपक्षस्तथाभिनिवेशः। यथा प्रतिपक्षस्तथानभिनिवेशः। कथञ्च विपक्षः। यथाऽसत्यपरिकल्पनासमुत्थितावस्तिनास्तिग्राहौ। कथञ्च प्रतिपक्षः।



 



यथा तयोरभावः। कथञ्च तयोरभावः। यदि तौ तत्त्वतो न स्त इति ज्ञातौ भवतः। तथा चानन्तरं वक्ष्यति स चेदायुष्मञ्च्छारिपुत्र तत्राचित्ततायामित्यादि ननु प्रमाणोपपन्नेऽनभिनिवेशाद्याकारे कथं प्रेक्षावतो नाभिनिवेश इत्याह। तत्कस्य हेतोरिति तत्कस्माद्धेतोः। अथवा यदेतदभिनिवेशाकरणं तत्कस्यार्थस्य हेतोः प्रयोजनादित्यर्थः। उत्तरार्थमाह। तथाहीत्यादि। यस्मादेकानेकस्वभाववैधुर्याच्चित्तस्य प्रकृतिः स्वभावोऽनुत्पादता प्रभास्वरा विधमितसर्वासत्संकल्पान्धकाराऽतोऽनभिनिबेशाद्याकाराव्यतिरिक्तं चित्तं तत्त्वतोऽचित्तम्। एवं मन्यते चित्तस्य नैःस्वाभाव्यात्तदव्यतिरिक्तोऽनभिनिवेशाद्याकारः कथं तत्त्वतोऽभिनिवेशस्थानीय इति। पर्युदासेऽथ प्रसज्ये वाचित्तमिति नञः प्रयोगेऽपि सदसन्मात्रमननानुबन्धेन विपर्यासाविनिवृत्तिं पश्यन्नाह। अस्ति तच्चितं यच्चित्तमचित्तमिति। यच्चित्तमनभिनिवेशाद्याकाराव्यतिरिक्तं तच्चित्तं तत्त्वतोऽचित्तमिति यदुच्यते,तत्किमचित्तमस्तीति सम्बन्धनीयम्। न्यायेन वस्तुनोऽसत्त्वान्न पर्युदासे नञः प्रयोगोऽपि तु प्रसज्ये। तत्रापि सदसन्मात्रप्रज्ञप्तिरपि। नास्तीत्यभिप्रायवान् सुभूतिस्तेनैव परिहारं प्रतिपादयितुकामः प्रतिप्रश्नक्रियया शारिपुत्रमाह,किं पुनरित्यादिना चित्ताभावमात्रमचितं तद्भावो याऽचित्तता। तत्राचित्ततायां किमस्तिता भावो विद्यते वाऽनुपलब्धिलक्षणप्राप्ता। अथोपलभ्यते चोपलब्धिलक्षणप्राप्ता। एवं नास्तिता वेति योज्यं ,पूर्वो वाशब्द उत्तरापेक्षया। उत्तरश्च पूर्वापेक्षयेति ज्ञेयम्।



 



अजातस्य स्वभावेन शाश्वतोच्छेदता कुतः।



स्वभावे हि विकल्प्यान्ते धर्मभेदविकल्पनाः।



पत्रलेखादिविन्यासः केनचिद्व्योम्नि शक्यते।



कर्तुं नैव तथाऽजाते धर्मभेदविकल्पनाः।



 



इत्यभिप्रायवानाह नह्येतदित्यनन्तरोक्तमुभयं इदानीं तद्वचनमेव परिहारे योज्यन्नाह। स चेदित्यादि,अपि तु शब्दः क्षेपेणैवेत्यर्थः। पर्यनुयोगश्चोद्यं ,तमेवाह। यदायुष्मानित्यादिना। एवं मन्यते,यद्यचित्ततायामस्तिता वा नास्तिता वा न विद्यते नोपलभ्यते वा तत्कथं तवैष पर्यनुयोगोऽस्ति "तच्चितं यच्चितमच्चित्तमिति"। तत्रापि ह्यचित्तमिति चित्ताभावमात्रमेवाभिप्रेतमतः सदसद्रूपेणास्तित्वसमारोपो नैव घटत इति। चित्तस्य धर्मिणोऽसत्त्वे निर्विषयस्य नञोऽप्रयोगादचित्ततापि नास्तीत्याह। का पुनरेषेत्यादि "नहि संवृतिसोपानमन्तरेण तत्त्वप्रासादशिखरारोहणं विपश्चित"इति योगिसंवृत्या प्रतिविधातुमाह। अविकारेत्यादि,पारम्पर्येणैवाऽचित्तताऽभ्यस्यमाना बुद्धभूमावविकारपरिनिष्पत्तिं प्रति हेतुत्वादविकारा। अविपर्यासपरिनिष्पत्तिहेतुत्वाच्चाविकल्पा। एवञ्चाधिगमाविरुद्धमुक्तमित्याह। अथेत्यादि साधु साध्विति सम्भ्रमाद्द्विरभिधानम्। यथा येन प्रकारेण। अपिनामशब्दः पूजावाचकः। यस्य समाधेः प्रभावात्परेषां सन्ताने स्वपरव्यावाधनार्थेन रणयन्तीति रणाः क्लेशा न जायन्ते सोऽरणासमाधिस्तद्विहारिणां मध्येऽग्रतायां निर्दिष्टः सन्निर्दिशस्याचित्ततामिति विभक्तिविपरिणामेन योज्यम्।



 



ननु च बुद्धाधिष्ठानात् सोपायकौशलामपि प्रज्ञापारमितां निर्दिशतः कोऽतिशयो यतस्तद्विदुषोऽपि शारिपुत्रस्य सुभूतिं प्रति साधुकारः साधुः स्यात्। न कश्चित्,किन्तु तयोर्विनेयानामनुग्रहाय माहात्म्यद्योतनादनागतविनेयसन्देहापनयनाय। तथागताधिष्ठानादेव वाविवादपूर्वकः साधुकारः इत्यदोषः। माहात्म्यमेवाचित्तताया दर्शयन् कश्चिदनियतगोत्रकोऽपि तीक्ष्णेन्द्रियतया निर्वेधभागीयावस्थायामप्यचिन्त्योपायविशेषादवैवर्तिकत्वे नियत इत्याह। अतश्चेत्यादि यतस्तेनापि बोधिचित्तेन मन्यते। अतोऽनभिनिवेशाद्याकारात्। चकारादनित्यतादिलक्षणवस्त्वालम्बनात्। उपपरीक्षितव्या निश्चेतव्यः। अष्टम्यां तु भूमौ सर्वेषामेव नियतत्वेनावैवर्तिकत्वव्यवस्थानमित्यदोषः। अविरहितश्चापरिहानियोगात् प्रज्ञापारमितया निर्वेधभागीयरूपया वेदितव्यः। न केवलमविनिवर्तनीय उपपरीक्षितव्य इति चकारः। एवमालम्बनाकारावभिधाय मृदूष्मणोर्हेतुत्वविशेषार्थमाह। श्रावकभूमावपीत्यादि विशिष्टावस्थाप्राप्तमेव ज्ञानं भूमिस्तत्र शिक्षितुकामेन प्रतिपत्तिं कर्तुकामेन इयमेवेति निर्वेधभागीयप्रदिपादनपरा मुख्यतः। श्रोत्रविज्ञानेन तदाकृष्टेन च मनोविज्ञानेन ग्रन्थार्थयोः परिच्छेदाच्छ्रोतव्या। चिन्तामयेन मनसिकरणादुद्ग्रहीतव्या। भावनामयेन प्रतिपत्त्या सम्पादनाद्धारयितव्या। समादानेन पुस्तकवाचनाद्वाचयितव्या। आगमाधिगमलाभात् पर्यवाप्तव्या। व्याख्यानादिनाऽन्येभ्यः प्रकाशनात्प्रवर्तयितव्या। सर्वत्र च श्रवणादौ सम्यक्प्रयोगपृष्ठचित्तसम्पादनाच्छिक्षितव्यम्। मौलचित्तेन तु समाधानकरणाद्योगमापत्तव्यम्। लिङ्गस्य लोकाश्रयत्वाद्योगशब्दो नपुंसकलिङ्गत्वेनोक्तः। उपायकौशल्यसमन्वागतेनेति।



 



पूरये बुद्धधर्माणां सत्त्वानां परिपाचने।



क्षिपप्राप्तौ क्रियासिद्धौ वर्त्माच्छेदे च कौशलम्॥



उपायो बोधिसत्त्वानामसमः सर्वभूमिषु।



यत्कौशल्यं समाश्रित्य सर्वार्थान् साधयन्ति ते॥



 



इति वचनाद्यथोक्तार्थाशुपरिप्रापकः संवृतिपरमार्थाश्रितश्चेतोविशेष एवोपायकौशलं। तेन समन्वागतेन युक्तेन सर्वबोधिसत्त्वधर्मसमुदागमायेति सर्वेषां बोधिसत्त्वानामेव धर्माः श्रावकाद्यसाधारणा मार्गज्ञतालक्षणास्तेषां समुदागमाय प्रतिलाभाय योगः समाधिः करणीयः। क्वचित्तु सर्वबुद्धधर्मसमुदागमायेति पाठः। स चायुक्तः। अनन्तरमेव वक्ष्यति। सर्वे बोधिसत्त्वधर्मा इत्यादि। ननु श्रावकयानेऽपि बोधिसत्त्वधर्मा दानादयो निर्दिष्टा एवेत्याशङ्क्याह। तत्कस्य हेतोरिति। इहैव हीत्याद्युत्तरम्। हिशब्दो यस्मादर्थः। यत्रेति येषु बोधिसत्त्वधर्मेषु। एवं मन्यते। श्रावकादिधर्मास्तत्पिटके विस्तरेणाभिहिता बोधिसत्त्वधर्मास्तु प्रसङ्गात्। इह पुनर्बोधिसत्त्वधर्मा एव विस्तरेण निर्दिष्टाः श्रावकधर्माः प्रसङ्गादिति। अनुत्तरायां सम्यक्सम्बोधाविति। नास्त्युतरं प्रधानं यस्याः सेयमनुत्तरा सम्यगविपरीता सर्वाकाराभिसम्बोधिः सम्यक्सम्बोधिर्बुद्धभूमिरिति यावत्। सर्वबुद्धधर्मसमुदागमायेति । सर्वेषां बुद्धधर्माणां सर्वाकारज्ञतालक्षणानामधिगमाय। श्रावकयानेऽपि बुद्धधर्मा निर्दिष्टा इत्याशङ्क्याह। तत्कस्य हेतोरिति। तथैवोत्तरार्थमाह। इहैव हीत्यादि श्रावकभूमावपीत्यारभ्य यावदन्तेन योगमापत्तव्यमित्यनेनैतदुक्तम्। यानत्रयाधिगमप्राप्तये मृदूष्मगतं कुशलं हेतुरिति। अयं च हेतुभावः सर्वेषामेवोष्मादीनां वेदितव्यः। मध्यस्यालम्बनार्थमाह। योऽहं भगवन्नित्यादि। बोधिसत्त्वनामधेयमिति। पूर्वं यस्यार्थस्य बोधिसत्त्व इति नाम तस्यानुपलम्भो नाहं भगवंस्तं धर्मं समनुपश्यामीत्यादिनोक्तः। साम्प्रतम्।



 



नाममात्रमिदं सर्वं संज्ञामात्रे प्रतिष्ठितम्।



नाभिधानात् पृथग् भूतमभिधेयं प्रकल्प्यते॥



 



इति कृत्वा यदेतद्बोधिसत्त्व इति नामस्वरूपमववदनीयं तस्यानुपलम्भो देशित इति शेषः। न वेद्मीत्यादि व्याख्यातम्। अथवाऽतीतं न वेद्मि वर्तमानं नोपलभेऽनागतं न समनुपश्याभ्यध्वशून्यत्वात् सर्वधर्माणामिति योज्यम्। अववादविषयं नाम तर्ह्यस्तीत्याह। प्रज्ञापारमितामपीति। नाममात्रामित्यभिप्रायः। बोधिसत्त्वमितिनामस्वरूपं। नामधेयस्य प्रकृतत्वात्। कौकृत्यमिति। संवेदननिष्ठत्वाद्विषयस्थितेरनुपलम्भादेतत्कौकृत्यञ्चेतसो विप्रतिसारिता। तदेवाह योऽहमित्यादिना। आयव्ययमिति। विधिरायो व्ययो निषेधः।



 



विधानं प्रतिषेधं च मुक्ता शब्दोऽस्ति नापरो।



 



व्यवहार इति कृत्वा पदद्वयेनैव सर्वसङ्ग्रहादेतावन्मात्रकमुक्तम्। एतदुक्तं तत्त्वेनायव्ययविनिर्मुक्तत्वविशिष्टं रूपाद्यालम्बनमिति। तत्केनाकारेणालम्बनीयमित्याह। अपि त्वित्यादि। तदपि नामधेयमालम्बनं न स्थितं प्रबन्धरूपेण।



 



निषेध्याभावतः स्पष्टं न निषेधोऽस्ति तत्त्वतः।



न च निर्विषयः साधुप्रयोगो विद्यते नञः॥



विकल्पापाश्रयत्वे वा सांवृतः स्यान्न तात्त्विकः।



 



इति न्यायान्नास्थितं न विष्ठितं प्रबन्धविसदृशत्वेन तथैव नाविष्ठितम्। संवृत्या प्रतिभासमाननामधेयस्य कथं प्रबन्धतद्वैसदृश्यानुपपत्तिरिति। तत्कस्य हेतोरित्याशङ्क्याह। अविद्यमानत्वेनेत्यादि। तत्त्वत इति शेषः। संवृत्या न दोष इत्यभिप्रायः। उपसहरन्नाह। एवं तदित्यादि। एतदुक्तं धर्मतामुखेन प्रबन्धतद्वैसदृश्यापगततत्त्वमाकार इति। अधिमात्रस्यालम्बनार्थमाह। स चेदित्यादि। एवं गम्भीरायामिति नाममात्रत्वेन प्रज्ञप्तिमात्रस्वभावायामन्यतीर्थ्यैः स्वैश्चानिश्रयभीरुभिरलब्धगाधायाम्। एतदुक्तं प्रज्ञप्तिमात्रत्वविशिष्टं दुःखादिसत्यमालम्बनमिति। तत्केनाकारेणालम्बनीयमित्याह। अधिमुच्यत इत्यादि। सा प्रज्ञप्तिर्न केनचिद्धर्मेण कुशलादिना वाच्येत्यधिमुच्यते,अध्यालम्बते।



 



आयतो विपुलो हृष्ट उपकारपरो महान्।



कल्याणश्चैवमाधिक्यादाशयोऽध्याशयः सताम्॥



 



इत्यध्याशयेनाविरहितो युक्तः स बोधिसत्त्वः प्रज्ञापारमितयाऽधिमात्रोष्मस्वभावया मुख्यतः। अन्यत्राप्येवं प्रकरणवलात् प्रज्ञापारमितार्थो वेदितव्यः। स्थितः प्राप्तापरिहाण्याऽविनिवर्तनीयायामष्टम्यां बोधिसत्त्वभूमौ तत्कार्यावैवर्तिकत्वलाभात्। सुस्थितस्तदुपादानयोग्यत्वेनोत्तरोत्तरविशेषाधिगमलाभादप्राप्तापरिहाण्या। एतच्च द्वयमनभिनिवेशयोगेनेत्याह। अस्थानयोगेनेति। एतदुक्तं धर्मतामुखेनाकारोऽवाच्यतेति। पञ्चविंशतिसाहस्रिकायाञ्चाधिमात्रोष्मालम्बनाकारमधिकृत्योक्तम्।



 



"यापीयं भगवन् धर्मसाङ्केतिकी प्रज्ञप्तिर्यदुत बोधिसत्त्व"इति विस्तरेण यावद्बुद्ध इति। "सापि न केनचिद्धर्मेण वचनीया कुशलेन वाऽकुशलेन वा"यावद्भावेन वाऽभावेन वा। तद्यथापि नाम स्वप्न इत्यादि। तस्मान्न सन्देहः कार्य इत्यालम्बनाकारवन्निर्विकल्पकज्ञानाग्नेः पूर्वरूपत्वादुष्मगतमिवोष्मागतं त्रिविधम्। दर्शनमार्गासन्नतरत्वमसत्यन्तराये भवतीति। मोक्षभागीयादस्य विशेषो वेदितव्यः। तथाचोक्तम्।



 



आलम्बनमनित्यादि सत्याधारं तदाकृतिः।



निषेधोऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये॥२८॥



रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते॥



 



इति उष्मानन्तरमिदानीं मृदुनो मूर्धगतकुशलस्यालम्बनार्थमाह। पुनरपरमित्यादि। प्रज्ञापारमितायां मुख्यतो मूर्धस्वभावायाञ्चरता भावयतेति व्याख्यातमथवा प्रयोगपृष्ठचित्तेन चरता मौलचित्तेन भावयतेति योज्यम्।



 



न रूपे स्थातव्यमित्यादि। तत्र रूपेणालक्षणं रूपम्। अनुभवलक्षणा वेदना। निमित्तोद्ग्रहणात्मिका संज्ञा। चित्ताभिसंस्कारलक्षणाः संस्काराः। अवबोधनलक्षणं विज्ञानम्। तत् पुनस्त्रिविधं रूपम्। कल्पितं रूपं ग्राह्यग्राहकरूपेण कल्पितत्वात्। विकल्पितं रूपमसद्भूतपरिकल्पेन ज्ञानमेव तथा प्रतिभासत इति विकल्पितत्वात्। धर्मतारूपं तत्त्वतोऽरूपमेव शून्यतारूपेण परिनिष्पन्नत्वात्। एवं वेदनादयोऽपि वाच्याः। यथौदारिकसंक्लेशभाजनाद्यर्थधातुतो रूपादीनामियानेवमनुक्रमः। तत्र रूपादौ तत्त्वतोऽसत्त्वेन वस्तूपलम्भयोगान्न स्थातव्यं चेतसः प्रतिष्ठानं न कार्यमिति यावत्। एतदुक्तं यस्मात् स्वभावशून्यतया रूपादीनां रूपादिस्वभावेनापगतस्वभावता। तस्मादस्थानार्हत्वविशिष्टं रूपाद्यालम्बनमिति। कस्मादेवमालम्बनमिति तत्कस्य हेतोरित्याशङ्क्याकारं व्यतिरेकमुखेनाह। सचेद्रूपे इत्यादिना। एवं मन्यते। आलम्बनग्रहणप्रकार एवाकारः संविन्निष्ठा च विषयस्थितिरित्याकारानुरूपमेवालम्बनं ग्राह्यम्। अतो यदि रूपेऽनित्यादिभिराकारैस्तिष्ठति तदा रूपाभिसंस्कारे रूपाभोगविकल्पे चरति। एवञ्च न चरति प्रज्ञापारमितायां मुख्यतो मृदुमूर्धस्वभावायामेवं वेदनादिष्वपि योज्यम्। एतदुक्तं धर्मतामुखेनाकारश्चैवं विधो ग्राह्यो यदुत परमार्थेन रूपादिसर्वधर्मशून्यतयोः परस्परमेकं रूपमिति। तत्र शून्यतायामनित्यत्वादीनामभावेन रूपादौ न नित्यानित्यादिभिराकारैः स्थानं विधेयमिति। तथा हि मृदुमूर्धाकारमधिकृत्य पञ्चविंशतिसाहस्रिकायां व्याख्यातम्। "रूपमेव शून्यता शून्यतैव रूपमेवं यावद्या च भगवन्ननित्यतायाः शून्यता न साऽनित्यते"त्यादि। अभिसंस्कारमन्तरेणभावनानुत्पत्तेः कथं पुनरभिसंस्कारे चरन्न चरतीति।



 



तत्कस्य हेतोरित्याशङ्क्याह। न हीत्यादि। एवं मन्यते विकल्पोऽभिसंस्कारः प्रज्ञापारमिता च निर्विकल्पा। तत्कथं विकल्पे तत्त्वाभिनिवेशेन चरन् प्रज्ञापारमितायां चरति। केवलं मायापुरुषेणेव चरितव्यमिति। न परिगृह्णाति नापि योगमापद्यते नापि परिपूरयत इति पदत्रयं यथासङ्ख्यं प्रयोगमौलपृष्ठावस्थासु द्रष्टव्यम्। प्रज्ञापारमितामिति मुख्यतो मृदुमूर्धस्वभावां,न निर्यास्यतीत्यादि। अपरिगृहीतमग्रहणार्हमभिसंस्कारं परिगृह्णन् स्वीकुर्वाणो न निर्यास्यति सर्वाकारज्ञतायामिति योज्यम्। सर्वाकारज्ञता चात्र त्रिसर्वज्ञतासामान्यात् सर्वज्ञताशब्देनोक्ता यथासम्भवमेवमन्यत्रापि। कथमग्रहणार्होऽभिसंस्कार इति चेत्। तत्कस्य हेतोरित्याशङ्क्याह। रूपं हीत्यादि। एवं मन्यते। अभिसंस्कारविषयस्वभावा रूपादयो न्यायतोऽसत्त्वेनापरिगृहीताः प्रज्ञापारमितायामतस्तद्विषयोऽभिसंस्कारो वितथप्रतिभासित्वान्न ग्राह्य इति। तदेव दर्शयन्नाह। यश्च रूपस्यापरिग्रहो न तद्रूपमित्यादि। विधिप्रतिषेधयोर्भिन्नविषयत्वादितिभावः। प्रज्ञापारमितायामपि तत्त्वाभिनिवेशो न कार्यो विपर्यासप्रसङ्गादित्याह। सापीत्यादि उपसंहरन्नाह। एवं हीत्यादि। हिशब्दोऽवधारणे। एवमेवेत्यर्थः। एवमालम्बनाकारनिर्यातं मृदुमूर्धगतं समाधिमाह। अयमित्यादिना। "सर्वधर्मैरूपादिभिरपरिगृहीतो यः समाधिरन्वर्थसंज्ञकः स तथोक्तः। विपुलो धर्मधातुवैपुल्येन,पुरस्कृतो यथोक्तालम्बनाकारविशेषाभ्यां चेतसः पुरतो वर्तना"दित्यार्यविमुक्तिसेनः। अत‍एव क्वचिदपुरस्कृत इति पाठो न ग्राह्यः। अप्रमाणनियतः सर्वाकारज्ञताप्रतिनियमात्। उरुकरुणाप्रज्ञायोगेन वाऽप्रमाणसत्त्वार्थकरणे नियतत्वादप्रमाणनियतः। असाधारणोऽगम्योऽन्येषां यथोक्तालम्बनादिपञ्चविधवैशिष्ट्यात्। मध्यस्यालम्बनार्थमाह। सापि सर्वज्ञतेति। अपि शब्दादनित्यतादिशून्यतानां परिग्रहः। अपरिगृहीता कुत इत्यादि। न हीत्यादि। निमित्तमसाधारणं रूपं तत्त्वेनान्योन्यमेक रूपत्वान्नास्त्यतोऽग्रहणमिति यावत्। एतदुक्तं धर्मधातुरूपतयाऽनित्यतादिसर्वाकारज्ञताशून्यतानां स्वस्वभावेन निःस्वभावत्वात् परस्परमेषामेकात्म्येनानिमित्तत्वविशिष्टं रूपाद्यालम्बनमिति। निमितग्रहे को दोष इत्याह। स चेदित्यादि। यदि निमित्ततो ग्रहीतव्या भवेत्तदा स्वशासने निमित्तग्रहेण दीर्घकालं मुक्तिमपश्यन्निर्विणः सन्नैवेह शासने श्रेणिकसंज्ञकः परिव्राजकस्तपस्वी श्रद्धामनिमित्तयोगेनाभिसंप्रत्ययं प्रतिलभेत। निमित्तग्रहस्य तुल्यत्वादिति भावः। तदेव कथयन्नाह। अत्र हीत्यादि। अत्रानिमित्ते तथागतत्वावाहकत्वेन सर्वज्ञज्ञाने तन्निमित्तमधिमुच्याधिमोक्षमनस्कारं कृत्वा मृद्विन्द्रियत्वेन श्रद्धया मार्गानुसरणाच्छ्रद्धानुसारी प्रादेशिकेन पुद्गलनैरात्म्यज्ञानेनावतीर्णः  सोऽवतीर्योत्तरकालं न रूपादि निमित्ततो मनसिकरोति। "नापि तत्रानिमित्तभावनायामुत्पन्नेन प्रीतिसुखेन तद्भावकं ज्ञानं निमित्ततः समनुपश्यति। तत्र प्रीतिः सौमनस्यं चैतसिकं ,सुखं प्रस्रब्धिः कायिकी। स हि लौकिकवीतरागः प्रथमद्वितीयध्यानान्यतरसन्निश्रयेणावतीर्ण"इति भदन्त विमुक्तिसेनः।



 



केनाकारेणालम्बनीयमित्याह। नाध्यात्ममित्यादि। अध्यात्मरूपस्योपात्तभूतभौतिकस्याध्यात्मिकायतनस्य तद्भावकं ज्ञानमध्यात्मशून्यतया न समनुपश्यति निमित्तत इति शेषः। बहिर्धा रूपस्यानुपात्तभूतभौतिकस्य बाह्यायतनस्य बहिर्धाशून्यतया। अध्यात्मबहिर्धारूपस्य तदुभयस्य शरीरस्योभयशून्यतया। रूपादन्यत्र तर्हि पश्यतीत्याह। नाप्यन्यत्रेत्यादि। एवं धर्मभावनाभिनिविष्टः कथमसौ वक्तव्य इत्याह। अत्रेत्यादि। अत्रास्मिन् पदपर्याये योगस्थानविशेषेऽधिमुक्तिचर्याभूमौ स्थितः श्रेणिकोऽधिमुक्त इति वक्तव्यो नाधिगत इति। यतः श्रेणिकोऽत्र सर्वत्रानिमित्ते सर्वज्ञज्ञाने तत्त्वानधिगमेन श्रद्धानुसारीत्युच्यते। तीक्ष्णेन्द्रियत्वेन तत्त्वाधिगमे तु धर्मानुसारी भवतीत्यभिप्रायः। कथं पुनर्मृद्विन्द्रियोऽप्येवमधिमुक्त इत्याह। धर्मतामित्यादि। पूर्वावेधबलात् प्रज्ञापारमिताधर्मतामविसंवादेन प्रमाणीकृत्यैवमनिमित्तत्वेनाधिमुक्त इति। तस्मात्तेन न कश्चिद्धर्मोऽध्यारोपतः परिगृहीतो नापि विद्यमानत्वेनोपलब्धो यं धर्ममुपादेयत्वेन गृह्णीयात्,स्वीकुर्यात्। मुञ्चेद्वा हेयत्वेन। आस्तां तावदन्यं निर्वाणमपि न स मन्यते। तत्त्वतो न बुध्यते। एतदुक्तं स्वभावप्रतिषेधेनास्वीकारो रूपादीनां धर्मतामुखेनाकार इति। तत्र श्रेणिकोदाहरणम्। तस्य तीर्थिकसम्बन्धेन समाधिव्युत्थितस्याधिमोक्षबलेनैव तदर्थप्रत्यक्षसाक्षित्वज्ञापनार्थम्। अधिमात्रस्यालम्बनार्थमाह। इयमपीत्यादि,इयमिति। वक्ष्यमाणा न केवलं पूर्वोक्तेत्यपिशब्दः। तदेव दर्शयन्नाह। यद्रूपमित्यादि। यदिति यस्मादर्थे निपातः। रूपादीनां निमित्तासमीक्षणादिति भावः। श्रावकवत्तर्ह्यनुपलम्भेन सर्वनिरोधे बोधिसत्त्वो निर्वायादित्याह। न चेत्यादि। चशब्दोऽवधारणे।



 



असंलीनेन कायेन वेदनामधिवासयन्।



प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः॥इति।



 



निर्वाणस्य महायाने प्रतिषिद्धत्वात्। सद्धर्मपुण्डरीकसूत्रप्रामाण्येन तावत्कालं सत्त्वार्थं प्रति प्रस्रब्धिमुपादाय नैवान्तरा मध्ये श्रावकवदनिमित्तत्वसाक्षात्करणेन महोपायकौशल्यबलात् परिनिर्वाति। निर्वेधभागीयावस्थायां श्रावकपरिनिर्वाणस्यासद्भावात् क्रमेणेति शेषः। अपरिपूर्णैरिति कियन्मात्रेणाप्यन्येषां भावात् सर्वाकारानिष्पन्नैर्यावद्बुद्धधर्मैरिति योज्यम्। तथागतबलादयो वक्ष्यन्ते। तस्मादित्याद्युपसंहारः। एतदुक्तं स्वभावाभावतयैव नीलादिनिमित्तादर्शनविशिष्टं तत्त्वतो रूपाद्यालम्बनमिति। केनाकारेणालम्बनीयमित्याह। पुनरपरमित्यादि एवमिति। वक्ष्यमाणक्रमेण। उपपरीक्षितव्यं भावनाकाले यथावधृतार्थप्रत्यवेक्षणात्। उपनिध्यातव्यं श्रुतचिन्ताकाले युक्त्यागमाभ्यान्निरूपणात्। कतमैषेति रूपादिस्कन्धानां मध्ये कतमा। अथवा किं द्रव्यं गुणः कर्म सामान्यं समवायो विशेषो वेत्यर्थः। कस्य चैषेति किमात्मनो धर्मस्य वा सम्बन्धिनी। अपि तु रूपादीनामनुत्पन्नत्वान्न काचिन्नापि कस्यचिदित्यर्थः।



 



यद्येवमभावस्तर्हीत्याह। किं यो धर्म इत्यादि। निर्विषयस्य नञोऽप्रयोगादभावस्तत्त्वतः प्रज्ञापारमिता न भवतीति भावः। स चेदित्याद्युपसंहारः। प्रज्ञापारमितयाऽधिमात्रमूर्धस्वभावयाऽधिगमादविरहितो वेदितव्यः। एतदुक्तं "सम्यग्धर्मप्रविचयत्वेन प्रज्ञया सर्ववस्तुनोऽनुपलम्भतया निरूपणादविद्यमानप्रज्ञापारमितास्वभावत्वं धर्मतामुखेनाकार"इत्यालम्बनाकारवच्चलकुशलमूलमूर्धत्वान्मूर्धगतं त्रिविधम्। तथाचोक्तम्॥



 



रूपादावस्थितिस्तेषां तद्भावेनास्वभावता॥२९॥



तयोर्मिथः स्वभावत्वं तदनित्याद्यसंस्थितिः।



तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः॥३०॥



अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम्।



परीक्षणञ्च प्रज्ञायाः सर्वस्यानुपलम्भतः॥३१॥इति



 



मूर्धानन्तरमिदानीं मृदुनः क्षान्तिगतकुशलस्यालम्बनार्थं प्रश्नपूर्वकमाह। किं कारणमित्यादि। रूपस्वभावेनेत्यालम्ब्यत इति शेषः। एतदुक्तम्। यदा रूपादिकं विरहितं रूपादिस्वभावेनालम्ब्यते तदा किं कारणं प्रज्ञापारमितया मुख्यतो मृदुक्षान्तिस्वभावयाऽविरहितो वेदितव्य इति। प्रतीत्यसमुत्पादधर्मतेयं यदुतास्मिन् सतीदं भवतीत्यभिप्रायेण रूपमेवेत्युत्तरमावेदयन्नाह। अन्यथा यदा रूपमेव विरहितं रूपस्वभावेनेति प्रश्ने रूपमेव विरहितं रूपस्वभावेनेत्युत्तरं न युक्तं स्यात्। कथं पुनः स्वभावेन विरहितं रूपादीत्याशङ्क्य प्रज्ञापारमितायाः स्वभावविरहितत्वप्रतिपादनेनैवान्येषां स्वभावविरहितत्वं प्रतिपादितमिति। तदर्थमाह। प्रज्ञापारमितालक्षणेन सामान्यरूपेण विरहिता प्रज्ञापारमिता विशेषरूपेणापि लक्षणेनेत्यपिशब्दः विपर्यासविनिवृत्तिफलत्वाद्देशनायाः लक्ष्यलक्षणं तर्ह्यस्तीत्याह। लक्षणस्वभावेनेत्याह लक्षणं सामान्यं लक्ष्यो विशेषः। तयोस्तर्हि स्वभावोऽस्तीत्याह। स्वभावलक्षणेनेति।



 



लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम्।



तत्त्वं प्राज्ञप्तिकी युक्ता लक्ष्यलक्षणसंस्थितिः॥



 



इति भावः। एतदुक्तम्। "शून्यतया तल्लक्ष्यलक्षणयोरेकत्वेनास्वभावत्वविशिष्टं रूपाद्यालम्बनमि"ति। केनाकारेणालम्बनीयमिति प्रश्नपूर्वकमाकारार्थमाह। किं पुनरित्यादि। अत्रास्मिन्नालम्बने संवृत्या यः शिक्षिष्यते स किन्निर्यास्यति सर्वज्ञतायां तन्निमित्तमृदुक्षान्तिगतकुशललाभेनेति भावः। धर्मताऽविरुद्ध एवोक्त इत्यभ्युपगमार्थमाह। एवमेतदित्यादि। निर्यास्यतीति रूपादीनामभाव एव स्वभावता संवृतिपरमार्थमुखेनाकारस्तस्य भावनयेति यावत्। कथं पुनर्मृदुक्षान्तिगतकुशले शिक्षमाणः सर्वाकारज्ञतायां गमिष्यतीति। तत्कस्य हेतोरित्याशङ्क्य मध्यस्यालम्बनार्थमाह। अजाता हीत्यादि। उत्तरोत्तरालम्बनविशेषादिभिरधिगमविशेषे नियमेन यास्यतीति भावः। आद्यो हिशब्दोऽवधारणे। अजाता एवेत्यर्थः। कुतो,यस्मात् क्षणिकानित्यतया जातिधर्मनिरोधेनानिर्याता न निर्वाणं गताः सर्वधर्मा इति प्रकृत्यस्वभावत्वेनानुत्पादानिरोधविशिष्टं रूपाद्यालम्बनमिति यावत्। केनाकारेणालम्बनीयमित्याह। एवञ्चरत इत्यादि। एवमनन्तरोक्तेन न्यायेन चरतो भावयतः सर्वगत्यर्थावबोधार्था इति कृत्वा। आसन्नीभवतीति शीघ्राधिगमप्राप्तेर्निकटवर्तिनी स्यात्। सत्त्वपरिपाचनायेति कुशलधर्मनियोजनात् सत्त्वपरिपाकायेत्यादि। सर्वधर्मस्वरूपावबोधेन कायादीनां सर्वाकारविशुद्धिरिति विशुद्धिहेतुत्वाद्विशुद्ध्याकारेण हेतुमुखेनाभ्यसनात्कायपरिशुद्धिर्भवति परिशुद्धं त्रिविधं कायकर्म। चित्तपरिशुद्धिः परिशुद्धं त्रिविधं मनस्कर्म। स्थानस्थोत्तप्तपूर्णत्वेन निष्पत्तेर्द्वात्रिंशन्महापुरुषलक्षणपरिशुद्धिः। सत्त्वभाजनयोः परिशुद्धता बुद्धक्षेत्रपरिशुद्धिः।



 



निर्वेधभागीयावस्थायां सर्वथाऽसम्भवात् कियन्मात्रेणेति भावः। एवमित्याद्युपसंहारः। अधिमात्रस्यालम्बनार्थमाह। सचेद्रूप इत्यादिना। एवं मन्यते । यावदभिनिवेशयोगेन निमित्तग्रहाच्चरति तावन्निमित्तक्लेशा बोधिसत्त्वा इति वचनादुपलम्भमूले संसारक्लेशे पततीति। तत्र रूपं कार्यभूतम्। रूपनिमित्तं सहकारिकारणम्। रूपं निमित्तमुपादानकारणम्। उत्पादो जन्म। निरोधः क्षणिकानित्यतया। विनाशः प्रबन्धानित्यतया। शून्यमुभयोरभावः। अनुपायकुशलो विपर्यासप्रवृत्तत्वाद्वेदितव्यः। व्यतिरेकमुखेन निर्दिश्यान्वयमुखेनाह। कथमित्याह। एवञ्चरन्नित्याद्युपसंहारः। स्वसामान्यलक्षणानुपपत्त्या सर्वधर्माणामनिमित्तत्वविशिष्टं रूपाद्यालम्बनमिति। एवं चरन् बोधिसत्त्वश्चरति प्रज्ञापारमितायामधिमात्रक्षान्तिस्वभावायाम्। केनाकारेणालम्बनीयमित्याह। स हि चरन्नित्यादि।



 



विधानं प्रतिषेधञ्च तावेव सहितौ पुनः।



प्रतिषेधं तयोरेव सर्वथा नावगच्छति॥



 



इति भावः। कथं पुनरनवगमे भावनेति। तत्कस्य हेतोरितीत्याशङ्क्याह। सर्वधर्मा हीत्यादि। यस्मात् प्रकृत्यैव रूपादिनिमित्तानामाश्रयरहितत्वेनाधिमोक्षमनस्कारानधिमोक्षतत्त्वमनस्कारापरिज्ञानमिति धर्मतामुखेनाकारेणालम्बनादधिमोक्षणास्वीकृतत्वादनुपगतास्तत्त्वमनस्कारेण चागृहीतत्वादनुपात्ताः। इत्यालम्बनाकारवदपायाभावेनाधिमात्रधर्मक्षमणात् क्षान्तिगतं त्रिविधम्। तथाचोक्तम्।



 



रूपादेरस्वभावत्वं तदभावस्वभावता।



तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता॥३२॥



तन्निमित्तानधिष्ठानाऽनधिमुक्तिरसंज्ञता।इति।



 



अत‍एव "क्षान्तिलाभ्यनपायग"इति वचनाद्बोधिसत्त्वाः क्षान्तिं नोत्पादयन्तीति यदुक्तमाचार्यपादैस्तच्चिन्त्यम्। बोधिसत्त्वानां क्षान्त्यधिगमवचनात्,कर्मायत्ततयेत्यभिप्रायात् क्षान्तिलाभी नापायं गच्छतीत्यपि सूत्रं न विरुध्यते। अवश्यञ्चैतद्विज्ञेयम्। तथाहि भगवदादेशेन शारिपुत्रादयोऽपि सुन्दरनन्दं गृहीत्वा नरकचारिकां गता इति प्रदेशान्तरे पठ्यते। क्षान्त्यनन्तरमिदानीं मृदुनोऽग्रधर्मगतकुशलस्यालम्बनार्थमाह। अयमित्यादि। सर्वधर्मा नोपादीयन्ते येन समाधिना सर्वधर्मानुपादानो नाम समाधिस्तत्त्वतः समाधिस्वरूपं रूपाद्यालम्बनमयमिति सम्बन्धः। केनाकारेणालम्बनीयमित्याह। अनेनैवेत्यादि। स्वप्रणिधिपुण्यज्ञानधर्मधातुबलेनानाभोगात्सर्वलोकधातुषु यथाभव्यतया समाधेर्व्यापारः प्रवर्तत इति कार्यमुखेनाकारेणालम्बनात् क्षिप्रमनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्यते। मध्यस्यालम्बनार्थमाह। बुद्धानुभावेनेत्यादि। बुद्धानुभावप्रक्रमेऽपि पुनस्तद्वचनं प्रतिभानविशेषाभिद्योतनार्थमथवा विनेयानां तत्स्मरणदृढीभावार्थम्। व्याकृतोऽयमिति। धर्मतैषा सम्यक्प्रतिपन्नसमाधेर्योगिनो बुद्धैर्व्याकरणं क्रियत इति व्याकरणहेतुत्वविशिष्टरूपाद्यालम्बनात्। तथागतैरित्यादि।सर्वाकाराविपरीतधर्मदैशिकत्वेन परार्थसम्पदा तथागताः। सवासनक्लेशज्ञेयावरणप्रहाणयोगात् स्वार्थसम्पदाऽर्हन्तः। सम्यक्सम्पद्द्वयावाहकमार्गाधिगमात्सम्बुद्धाः। अनेनेति मध्याग्रधर्मगतेन। केनाकारेणालम्बनीयमित्याह। स तमपीत्यादि। न समनुपश्यति निर्विकल्पेन चेतसा। न च तेन मन्यते सविकल्पेन तत्त्वतोऽसत्त्वात्। अहं समाहित इति लब्धसमाधिकः समापत्स्य इत्यादयः प्रयोगमौलपृष्ठभाविनो विकल्पाः कालत्रयभाविनो वा। सर्वेणेत्यादि "द्वे ह्यमू सर्वते वस्तुसर्वताऽकारसर्वते"ति वचनात्। सर्वेणातीतादिवस्तुभेदेन सर्वं स्कन्धादिविषयं विकल्पजातं वस्तु। सर्वथा मृदुमृदुनापि प्रकारेण। सर्वं सवासनसर्वप्रकारम्। न संविद्यते सर्वविकल्पानुपपत्त्या विदितसमाधिस्वरूपस्य बोधिसत्त्वस्याऽहं समाहित इत्यादिज्ञानानुत्पत्त्या धर्मतामुखेनाकारेणाभ्यसनान्न सम्भवति। अधिमात्रस्यालम्बनार्थमाह। येनायुष्मन् सुभूते समाधिनेत्यादि। अधिमात्राग्रधर्मगतेन। शक्यः स समाधिर्दर्शयितुमिति। किं बोधिसत्त्वादीनां विवेकरूपेणेति भावः। क्वचित्कतमेनेति पाठः। तत्र शक्यः स समाधिर्दर्शयितुमिति तस्यैव प्रश्नयितुर्वचनमसङ्गतमिति चिन्त्यम्। नो हीदमित्याद्युत्तरम्। धर्मतया समाधिबोधिसत्त्वप्रज्ञापारमितार्थत्रयस्य परस्परमेकं रूपमित्यशक्यपृथगुपदर्शनविशिष्टरूपाद्यालम्बनान्नैवेत्यर्थः। कथं पुनर्भाव्यमानोऽपि दर्शयितुमशक्य इति। तत्कस्य हेतोरित्याशङ्क्याकारप्रतिपादनेनोत्तरमाह। तमपीत्यादिना। सर्वधर्माविद्यमानत्वेन समाधेरविकल्पनं परमोपाय इति धर्मतामुखेनाकारेणालम्बनात्तं समाधिं न जानाति निराकारेण चेतसा प्रत्यासतिनिबन्धनाभावात्। न सञ्जानीते साकारेण वस्तुभावमन्तरेण स्वप्नादौ भावात्। न केवलमाकारमित्यपिशब्दः। इदन्तया दर्शनस्य विकल्पाधीनत्वादितिभावः। सर्वानुपलम्भे भाव्यभावकभावनाऽनुपपत्तिरित्यभिप्रायेण शारिपुत्रो न जानातीत्याद्याह। संवृत्या न दोष इति मत्वा सुभूतिराह। न जानातीत्यादि। तमेवाभिप्रायम्। तत्कस्य हेतोरित्याशङ्क्याह। अविद्यमानत्वेनेति। तत्त्वत इति शेषः। प्रयोगादयस्तु मायापुरुषस्येव पूर्वावेधवशादित्याद्याकूतम्। धर्मताऽविरुद्धकथनात्साधुकारार्थमाह। साध्वित्यादि। प्रतिभाति ते तव तन्निर्भासिज्ञानोदयेन। उपदिशसि परेषां तदालम्बनकथनात्। एवञ्चात्रेत्याद्युपसंहारः। चशब्दोऽवधारणे। एवमेवात्र निर्वेधभागीय इत्यर्थः। कथं पुनरनेन क्रमेण शिक्षितव्यमिति। तत्कस्य हेतोरित्याशङ्क्याह। एवं हीत्यादि। प्रज्ञापारमितायां निर्वेधभागीयस्वभावायाम्। इत्यालम्बनाकारवल्लौकिकसर्वधर्माग्रत्वादग्रधर्माख्यं त्रिविधम्। तथाचोक्तम्।



 



समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः॥३३॥



मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना।



इति निर्वेधभागीयं मृदुमध्याधिमात्रतः॥३४॥इति



 



एतदुक्तम्। एवं कृतधर्मप्रविचयः समाहितचित्तश्च सर्वधर्मनैरात्म्यं भावयन् क्रमेण यदा पृथग्भूतार्थाभिनिवेशाभावादीषत्स्पष्टज्ञानालोकेन मनोमात्रमेव पश्यति तदाऽस्योष्मगतावस्था। स एवात्रालोकलब्धो नाम समाधिरुच्यते महायाने। यदा तस्यैव धर्मालोकस्य वृद्ध्यर्थं नैरात्म्यभावनायां वीर्यारम्भेण मध्यस्पष्टो ज्ञानालोको भवति,तदा मूर्धावस्था। स एव वृद्धालोको नाम समाधिः। यदा तु चित्तमात्रावस्थानेन स्पष्टतरो बाह्यार्थाभिनिवेशाभावो ज्ञानालोको जायते। तदा क्षान्त्यवस्था। ग्राह्याकाराभावानुप्रवेशात्तत्त्वार्थैकदेशप्रविष्टो नाम समाधिः। यदा पुनरर्थग्राहकविक्षेपानाभासो ज्ञानालोको निष्पद्यते,तदा लौकिकाग्रधर्मावस्था। स एवानन्तर्यो नाम समाधिः। सर्वाश्चैता अवस्था दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिरुच्यते। अस्याञ्च भूमौ वर्तमानो बोधिसत्त्वः पृथग्जनोऽपि सर्वबालविपत्तिसमतिक्रान्तोऽसंख्येयसमाधिधारणीविमोक्षाभिज्ञादिगुणान्वितो रत्नमेघे पठ्यत इति निर्वेधभागीयानामेवमालम्बनाकारहेतुत्वविशेषान्निर्दिश्य चतुर्विकल्पसंयोगार्थं सर्ववस्त्वधिष्ठानं प्रथमं ग्राह्यविकल्पमाह। एवं शिक्षमाण इत्यादिना। किमिति भावः। उद्भावनासंवृत्या शिक्षत इत्यभिप्रायेणाह। एवं शिक्षमाण इत्यादि। अविदितभगवदभिप्रायः शारिपुत्रः पृच्छति। तत्त्वेन कतमस्मिन् धर्मे शिक्षत इति। तत्र वस्तुमात्राधिष्ठानविकल्पेन विपर्यासानुषङ्गात्परमार्थतो न क्वचिदित्याह भगवान्न कस्मिंश्चिद्धर्मे शिक्षत इति। शिक्षमाणोऽपि कथं न शिक्षत इति। तत्कस्य हेतोरित्याशङ्क्याह। न हीत्यादि सांक्लेशिकधर्मयोगाद्बालाः,वैयवदानिकधर्मविरहात्पृथग्जनाः। त एव चैवंविधधर्माधिमुक्तिबाहुश्रुत्यविगमादश्रुतवन्तः। एवं मन्यते। यथाऽविद्याविकल्पबलाद्विद्यमानत्वेनोपलम्भादभिनिविष्टास्तथा न संविद्यन्तेऽतः संवृत्या शिक्षमाणास्तत्त्वतो न शिक्षन्त इति। यदि तथा न संविद्यन्ते,अर्थात्तर्ह्यन्यथा विद्यन्ते। तथा च भावग्रहाद्दोष इत्यभिप्रायेणाह। कथन्तंर्हीत्यादि। प्रवृत्तिविपर्यासनिराकरणाद्यथाभिनिविष्टास्तथा न संविद्यन्त इति। यदि नामैवमुक्तं तथापि तत्त्वतो न सन्तीत्याह। यथेत्यादि। यथा न्यायतो न संविद्यन्ते तथाऽविचारैकरम्यत्वेन संवृत्या विद्यन्तेऽविद्यमानतैव विद्यमानतेति यावत्। एवमित्याद्युपसंहारः। एवमविद्यमाना यतस्तेन कारणेन नैरुक्तविधानात् संवृत्या विपरीतज्ञानमज्ञानमविद्येत्युच्यत इत्यनेनाविद्याविकल्पोऽभिहितः। रूपादिस्कन्धविकल्पार्थमाह। तानित्यादि वस्तुमात्राधिष्ठानेन सर्वेऽपि तत्प्रतिबद्धा विकल्पाः। सम्बद्धा इति ज्ञापयितुं पूर्वेण सम्बन्धः कथितः। एवमुत्तरत्रापि ज्ञेयम्। कथमभिनिविष्टा इत्याह। तैरित्यादि। तत्त्वेनासंविद्यमानाः सर्वधर्मा रूपादिस्कन्धास्तद्विकल्पनयाऽभूतपरिकल्पादध्यारोपिताः,कल्पिताः। नामरूपाभिनिवेशविकल्पार्थमाह। ते तान् कल्पयित्वेत्यादि। शाश्वतोच्छेदयोरन्तयोरभिनिविष्टास्तान्नामरूपादीन्धर्मांस्तदभिनिवेशविकल्पान्नित्यस्यार्थक्रियाविरहात्संवृत्याऽनित्या एवेति लौकिकेन श्रुतादिमयेन ज्ञानेन न जानन्ति।



 



अज्ञानात् कल्पितं पूर्वं पश्चात्तत्वार्थनिर्णये।



यदा न लभते भावमेवाभावं तदा कुतः॥



 



इति भावनया न पश्यन्ति लोकोत्तरेण तस्मात्तत्वेनासंविद्यमानान्नामरूपादीन्सर्वधर्मास्तदभिनिवेशबलात्कल्पयन्ति। अन्तद्वयसक्तिविकल्पार्थमाह। कल्पयित्वाद्वावन्तावभिनिविशन्त इति। तत्सक्तिविकल्पादिति भावः। संक्लेशव्यवदानाज्ञानविकल्पार्थमाह। अभिनिविश्येत्यादि। अभिनिवेशहेतुं तन्निमित्तमुपलम्भं निश्रित्य निमित्तीकृत्वा सांक्लेशिकवैयवदानिकधर्मस्वरूपाज्ञानविकल्पबलेनातीतान् यावत्प्रत्युत्पन्नान्धर्मान् कल्पयन्ति। आर्यमार्गाप्रतिष्ठानविकल्पार्थमाह। ते कल्पयित्वा नामरूपेऽभिनिविष्टा इति। दर्शनादिमार्गास्थित्यभिनिवेशादिति भावः। तत्र नाम वेदनादयोऽरूपिणः स्कन्धाः,रूपं रूपस्कन्धः। उपलम्भविकल्पार्थमाह। तैरसंविद्यमानाः सर्वधर्माः कल्पिता इति। तदुपलम्भाभिनिवेशादिति भावः। आत्मादिविकल्पार्थमाह। ते तानसंविद्यमानानित्यादि।



 



आत्मनि सति परसंज्ञा,स्वपरविभागात्परिग्रहद्वेषौ।



अनयोः सम्प्रतिबद्धाः सर्वक्लेशाः प्रजायन्ते॥



 



इत्यात्माद्यभिनिवेशादविपरीतं धर्मपुद्गलनैरात्म्यलक्षणं यथाभूतं मार्गं दर्शनादिकं पूर्ववन्न जानन्ति,न पश्यन्ति। विशुद्ध्युत्पादादिविकल्पार्थमाह। यथाभूतं मार्गमजानन्त इति। न निर्यान्ति न निर्गच्छन्ति। त्रैधातुकात्संसारात्। यतो न बुध्यन्त इत्यादिना। विशुद्ध्युत्पादाद्यभिनिवेशाद्भूतकोटिमग्रार्थेन तत्त्वम्। तेन कारणेन बाला इति व्यपदेशं सङ्ख्यां गच्छन्ति प्रतिलभन्ते। प्रतिपक्षवस्त्वधिष्ठानं द्वितीयं ग्राह्यविकल्पमाह। ते सत्यं धर्मं न श्रद्दधतीत्यादिना। अविपरीतार्थेन सत्यं धर्मं प्रतिपक्षलक्षणं तदभिनिवेशविकल्पयोगेन विपरीतप्रतिपत्त्या स्वरूपाननुभवान्न श्रद्दधति नाधिमुञ्चेयुः। व्यतिरेकमुखेन विपरीतप्रतिपत्तिमेवाह। न खलु पुनरित्यादिना। कञ्चिद्धर्मं वैयवदानिकं ग्राह्यविकल्पेनेति शेषः। स चैवं विषयभेदान्नवप्रकारो भवति। तद्यथा राश्यर्थविकल्पः। आयद्वारार्थविकल्पः। गोत्रार्थविकल्पः। उत्पादार्थविकल्पः। शून्यतार्थविकल्पः। पारमितार्थविकल्पः। दर्शनमार्गविकल्पः। भावनामार्गविकल्पः। अशैक्षमार्गविकल्प इति। तथाचोक्तम्।



 



द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः।



मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः॥३५॥ इति



 



तत्र सर्ववस्तुक एव प्रथमो ग्राह्यविकल्पो व्यवदानवस्तुक एव द्वितीय इत्ययमनयोर्ग्राह्यविकल्पयोर्विशेषः। एवञ्च कृत्वोच्यते। यः प्रथमो ग्राह्यविकल्पो द्वितीयोऽपि स इति पूर्वपादकः। यस्तावत्प्रथमो द्वितीयोऽपि सः। तद्यथा सर्ववस्तुकः प्रथमो ग्राह्यविकल्पः स्याद्वितीय एव न प्रथमस्तद्यथा व्यवदानमात्राधिष्ठानो द्वितीयो ग्राह्यविकल्प इत्येके। प्रथमः संक्लेशवस्त्वधिष्ठानो द्वितीयो व्यवदानवस्त्वधिष्ठानोऽन्योन्यव्यवच्छेदरूपत्वादनयोर्भेद इत्यपरः। पुद्गलद्रव्याधिष्ठानं प्रथमं ग्राह्यविकल्पमाह। एवमित्यादिना। एवमनन्तरोक्तक्रमेण ग्राह्यविकल्पद्वयमकृत्वा शिक्षते किम्प्रथमविकल्पनेनेति भावः। विकल्पावरणस्य तुल्यत्वादिति। भगवानाह न शिक्षत इति। तत्त्वेनेति शेषः। संवृत्या त्वादिकर्मिकस्यैवंशिक्षाऽन्यथानुपपत्तेरित्याह। एवं शिक्षमाण इत्यादि। सर्वज्ञतायां शिक्षत इत्यादिपदत्रयं यथाक्रमं प्रयोगाद्यवस्थासु वेदितव्यम्। सचैवं विषयभेदान्नवप्रकारो भवति। तद्यथा। स्वतन्त्रात्मविकल्पः। एकात्मविकल्पः। कारणात्मविकल्पः। द्रष्ट्राद्यात्मविकल्पः। संक्लेशाधारात्मविकल्पः। वैराग्याधारात्मविकल्पः। दर्शनमार्गाधारात्मविकल्पः। भावनामार्गाधारात्मविकल्पः। कृतार्थाधारात्मविकल्प इति। प्राज्ञप्तिकपुरुषाधिष्ठानं द्वितीयं ग्राहकविकल्पम्। तस्मिन् विकल्पे चोद्यपरिहारद्वारेणाह। यो भगवन्नित्यादिना। प्राज्ञप्तिक एव पुरुषो ग्राहक इत्यभिनिवेशे वितथप्रख्यातिरूपत्वान्मायास्वभावः पुरुषो मायापुरुषः प्राज्ञप्तिक एवेति। तस्यापि शिक्षा प्राप्ता न चैवमचेतनत्वादपरिज्ञानेऽपि शिक्षायां सर्वेषां शिक्षाप्राप्तेर्मुक्तिरयत्नसिद्धेत्यभिप्रायेण य इत्यादि वदतस्तस्य कथं निर्देष्टव्यमुत्तरं भवेदित्यर्थः। वितथप्रख्यातिरूपं समानं रूपादीनामतो गत्यन्तराभावान्मायापुरुषेणेव शिक्षितव्यम्। न चायत्नसिद्धा मुक्तिरित्यभिप्रायवानाह। तेन हीत्यादि। यस्मात्त्वमेवं पृच्छसि तस्मात्त्वामेवात्र प्रश्ने प्रतिप्रक्ष्यामि प्रतिप्रश्नं करिष्यामि। साध्वित्यादि। साध्वेवं भगवन्नित्यभ्युपगमं कृत्वा,इत्येवं भगवतः सकाशादश्रौषीत्। श्रुतवान्। कथमेवं श्रुतवानित्याह। भगवानित्यादि। विसर्जयन्नाह। नहीत्यादि। नैव तदन्यत्वं भगवन् यस्मान्नान्या सा माया। नान्यत्तद्रूपादि। रूपाद्येव माया मायैव रूपादि। एकानेकस्वभावैधुर्यात्तत्त्वतोऽनयोर्निःस्वभावत्वे वितथप्रख्यातिरूपं समानमिति भावः। मायारूपाद्योरेकत्वप्रतिपादने सति मायापुरुषेणेव शिक्षितव्यमिति प्रतिपादनायाह। तत्किं मन्यस इत्यादि। "अत्रैषा पञ्चसूपादानस्कन्धेषु मायोपमेषु बोधिसत्त्व इति संज्ञा निमित्तोङ्ग्रहणम्। वस्तुसमेतमहमिति ज्ञानं समज्ञा। ज्ञेयज्ञानयोर्ग्राह्यग्राहकप्रकाराभिनिवेशविज्ञापनं प्रज्ञप्तिः। विविधपरोपात्तानुपात्तवस्तुसम्बन्धव्यवहरणं व्यवहार"इत्यार्यविमुक्तिसेनः। "गोत्रावस्थायां बोधिसत्त्व इति संज्ञा संज्ञैव केवला। चित्तोत्पादावस्थायां जानातीति ज्ञं समं ज्ञं चित्तं प्रवृत्तिनिमित्तं यस्या बोधिसत्त्व इति संज्ञायाः सेयं समज्ञा सर्वसत्त्वसमज्ञाननिमित्ता। सप्तसु प्रयोगभूमिषु सर्वधर्मप्रज्ञप्तिमात्रताप्रतिवेधात् प्रज्ञप्तिः। अष्टम्यादौ निमित्तानाभोगमार्गलाभाद्व्यवहारमात्रेणाभिलाप्याद्व्यवहार"इति भदन्तविमुक्तिसेनः। रूपादिव्यतिरिक्तबोधिसत्त्वानुपपत्त्याऽभ्युपगमार्थमाह।



 



एवमेतदित्यादि। सम्भ्रमे द्विरभिधानम्। तेन हीत्याद्युपसंहारः। यस्मादेवं तेन कारणेन गत्यन्तराभावाद्यथा कर्ममायाजनितः संसारस्तथा लोकोत्तरा अपि धर्मा ज्ञानमायाजनिता इत्यनभिनिवेशयोगान्मायापुरुषेणेवानुत्तरायां सम्यक्सम्बोधौ शिक्षितव्यमित्युपपन्नम्। न चायत्नसिद्धा मुक्तिर्यतो ज्ञातमेव तत्त्वं मोक्षावाहकं नाविज्ञातमिति भावः। मायापुरुषत्वे संक्लेशव्यवदानव्यवस्था कथमिति। तत्कस्य हेतोरित्याशङ्क्याह। स एव हीत्यादि। पञ्चोपादानस्कन्धाः। साश्रवा रूपादयोऽनाश्रवपञ्चस्कन्धपरिग्रहाय पञ्चस्कन्धाश्चेत्यध्याहार्यम्। यथादर्शनमेव संक्लेशव्यवदानव्यवस्था मायापुरुषत्वेऽपीति भावः। कथम्पुनर्मायोपमत्वमिति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। उक्तोऽप्यर्थः प्रकारान्तरेणाशङ्क्यमानो न पुनरुक्तम्। इति पुनरुक्ततादोषो नोद्भावनीयः। सर्वत्रैवं ज्ञेयम्। उक्तं भगवतेति। अत्र पञ्चोपादानस्कन्धेषु बोधिसत्त्व इति संज्ञादिवचनादनन्तरमेव मायोपमं रूपादिकमुक्तं भगवता। षडिन्द्रियं चक्षुरादि सविज्ञानविषयमिति शेषः। यतोऽनन्तरं वक्ष्यति ते पञ्चस्कन्धा इति। यद्विज्ञानं तत् षडिन्द्रियम्। ज्ञानस्यैव तदाकारेण प्रतिभासनात्। षडिन्द्रियञ्च पूर्ववद्ग्राह्यमिति। प्राज्ञप्तिकपुरुषाधिष्ठानग्राहकविकल्पः प्रतिपादितः। स चैवं विषयभेदान्नवप्रकारो भवति तद्यथा स्कन्धप्रज्ञप्तिविकल्पः। आयतनप्रज्ञप्तिविकल्पः। धातुप्रज्ञप्तिविकल्पः। प्रतीत्यसमुत्यादप्रज्ञप्ति विकल्पः। व्यवदानप्रज्ञप्तिविकल्पः। दर्शनमार्गप्रज्ञप्तिविकल्पः। भावनामार्गप्रज्ञप्तिविकल्पः। विशेषमार्गप्रज्ञप्तिविकल्पः। अशैक्षमार्गप्रज्ञप्तिविकल्प इति। तथाचोक्तम्।



 



द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः।



स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा॥३६॥इति



 



चतुर्विकल्पसंयोगं निर्दिश्येदानीमुपायकौशलकल्याणमित्रस्वभावं संपरिग्रहमावेदयन्नाह। मा भगवन्नित्यादि। नवयानसम्प्रस्थिता इति। प्रत्यग्रं महायाने प्रवृत्ताः। इममिति,गाम्भीर्यौदार्यालम्बनादिविशेषेण विशिष्टम्। उत्त्रसिषुरित्यादि। तत्रास्थानत्रास उत्रास उन्मार्गवत्। सन्तत्या त्रासः सन्त्रासः। उत्पन्नभयस्याप्रतिविनोदनात्। सन्त्रासनिश्चयगमनं सन्त्रासापत्तिः। पापमित्रहस्तगता इति। संवृतिपरमार्थविभागमकृत्वा निरवधिकालाभ्यस्तोपलम्भानिराकरणेन सहसैवानुत्पादादिदेशको नरकादिफलसद्धर्मप्रतिक्षेपपापस्य हेतुत्वात्पापमित्रं तस्य हस्तगता ग्रहणयोग्यतां गता इत्यर्थः। व्यतिरेकमुखेन कथितोऽर्थोऽन्वयमुखेन कथ्यमानः सुदृढो भवतीत्याह। कल्याणमित्रहस्तगता इति। चित्तानवलीनत्वानुत्रासादिनोपायकौशल्येन यथाशयं क्षितीशेष्टराज्ञीमरणनिवेदनन्यायेन मात्सर्यादिधर्मवियुक्तः समस्तवस्तुनैरात्म्यादिदेशकः सुगतिफलादिप्रापकत्वेन कल्याणमित्रं तस्य हस्तगता इति पूर्ववत्। कानीत्यादिना कल्याणमित्रस्वरूपः प्रश्नः। उत्तरमाह। य एनमित्यादि। ये पुद्गला देवदत्तादिकमेनं पुद्गलं दानादिपारमितासु संवृतिपरमार्थसत्यानतिक्रमेण हितप्राप्त्या पूर्ववदववदन्त्यनुशासति। ये चास्मै देवदत्तादिकायाहितपरिहारेण मारकर्माण्युपदिशन्ति। कथमित्याह। एवमित्यादि। एवं मारदोषा मारस्यान्तराया बुद्धवेषेणोपसङ्क्रम्य किं तेऽनुत्तरया बोध्येत्यनागतार्थविवेचनता। इमे मारदोषास्तथैव किं ते प्रज्ञापारमितायां लिखनाद्यनुष्ठानेनेति वर्तमानार्थविवेचनता। तद्विच्छिन्दनाबलेन यथाक्रमं स्वीकृतत्यागकर्मार्थमाह। एवं मारकर्माणामित्यादि बुद्धा च यत्कार्यं तदाह। तानि त्वयेत्यादिना। इमानीत्याद्युपसंहारः। महासन्नाहसन्नद्धस्येति। सन्नाहप्रतिपत्त्या वक्ष्यमाणया युक्तस्य महायानसंप्रस्थितस्येतिप्रस्थानप्रतिपत्त्या तथैवान्वितस्य महायानसमारूढस्येति। तयैव महायानमुत्कलितस्य। तथाह्यादौ तया प्रस्थितः पश्चादारूढ इष्यते। तथाचोक्तम्।



 



चित्तानवलीनत्वादि नैःस्वाभाव्यादिदेशकः।



तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः॥३७॥ इति



 



"सूत्रं सूत्रान्तरानुसारेण व्याख्यातव्य"मिति भगवद्वचनादेव पञ्चविंशतिसाहस्रिकानुसारेण पूर्वाचार्यवसुबन्धुप्रभृतिव्याख्याक्रममाश्रित्याभिसमयालङ्कारकारिकानुरोधेन च भावाध्याहारादिपदं कृत्वा तथा सामान्यशब्दस्यापि प्रकरणादिबलेन विशेषे वर्तनाद्विवक्षापरतन्त्रत्वेन यथोक्तार्थे प्रवचनाविरुद्धे शब्दानां वर्तनात्तत्प्रतिषेधे वचनाभावेन च कारणेन ग्रन्थानुगतमेव व्याख्यातमिदम्। अतः कथमग्रन्थानुगममेवं व्याख्यानमिति न मन्तव्यम्। अन्यथा यद्ययं न्यायो नाश्रीयते तदा प्रवचनव्याख्यैव न स्यात्। शब्दानां सामयिकत्वेनानेकार्थवृत्तौ प्रतिनियतार्थपरिग्रहे सन्देहात्। किञ्चार्यासङ्गप्रभृतीनामेवेदं व्याख्यानं लिख्यत इति प्रमाणीकर्तव्यम्। तथाहि श्रूयते। विदितसमस्तप्रवचनार्थो लब्धाधिगमोऽप्यार्यासङ्गः  पुनरुक्तबाहुल्येनापुनरुक्तप्रदेशेऽपि प्रत्येकपदव्यवच्छेदादर्शनेन गाम्भीर्याच्च प्रज्ञापारमितार्थमुन्नेतुमशक्तो दौर्मनस्यमनुप्राप्तस्ततस्तमुद्दिश्य मैत्रेयेण भगवता प्रज्ञापारमितासूत्रं व्याख्यातमभिसमयालङ्कारकारिकाशास्त्रञ्च कृतम्। तच्छ्रुत्वा पुनरार्यासङ्गेनाचार्यवसुबन्धुप्रभृतिभिश्च व्याख्यातमित्यलं प्रसङ्गेन। निर्वेधभागीयानन्तरं प्रतिपत्तिमतो यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तेराधारं धर्मधातुस्वभावकमावेदयन्नाह। यद्भगवानेवमित्यादि एतदुक्तम्। यद्भगवानेवमाह बोधिसत्त्वस्य महासत्त्वस्येत्यादि। यच्च सूत्रान्तरेषु महासत्त्वो इत्युच्यते। तत्र पूर्वके वाक्ये तेषु च सूत्रान्तरेषु धर्मधातुस्वभावत्वे बुद्धधर्माणां कः प्रतिष्ठार्थः पदार्थो बोधिसत्त्व इति। उत्तरं वक्तुमाह। अपदार्थ इत्यादि। बोधिसत्त्वो बुद्धधर्माणां पदार्थो बोधिसत्त्वपदार्थो यः स तत्त्वतोऽपदार्थोऽप्रतिष्ठार्थोऽगोत्रमिति यावत्।



 



अधिगममनन्तरेण मुक्त्यनुपपत्तेरधिगच्छन् बुद्धधर्मान् कथमपदार्थो बोधिसत्त्व इति। तत्कस्य हेतोरित्याशङ्क्याह। सर्वधर्माणां हीत्यादि। यस्मात् सर्वधर्माणां वस्तुतन्निमित्ताभिनिवेशाभावेनाऽसक्ततायां सत्यामन्यथाधिगमानुपपत्त्या बुद्धधर्माधिगमाय मायापुरुष इति शिक्षते। तस्मात् कथं तत्त्वतः प्रतिष्ठार्थ इति भावः। संवृत्या पुनः प्रतिपत्तिधर्मस्यावस्थान्तरभेदेन धर्मधातुस्वभाव एव बुद्धधर्माधारो बोधिसत्त्वस्त्रयोदशविधो गोत्रमिति निर्दिश्यते। तत्रादौ तावच्चतुर्विधलौकिकनिर्वेधभागीयानामुत्पादाधारः। ततो लोकोत्तरदर्शनभावनामार्गयोः ततस्तदुत्पत्तिबलेन चौरनिष्कासनकपाटपिधानवत् समकालं समस्तप्रतिपक्षोत्पादविपक्षनिरोधयोस्ततस्तदनुपलब्ध्या तयोर्विपक्षप्रतिपक्षयोर्निरोधोत्पादयुक्तविकल्पापगमस्य। ततः पूर्वप्रणिधानदानाद्युपायकौशल्यबलेन संसारनिर्वाणाप्रतिष्ठानलक्षणयोः प्रज्ञाकरुणयोस्ततस्तदुत्पत्त्या श्रावकाद्यसाधारणधर्मस्य। ततो यथाशयमवतारणाद्यभिसन्धिद्वारेण यानत्रयं प्रतिष्ठापनलक्षणपरार्थानुक्रमस्य। ततो यावदासंसारं निर्निमित्तानाभोगपरकार्यज्ञानस्य चाधारः। ततश्चैवमधिगमानुक्रमादियमानुपूर्वी। अनया च सर्वाधिगमधर्मसङ्ग्रहादियानेव निर्देशो न न्यूनो नाप्यधिकः। तथा संवृत्याधारभावस्याक्षिप्तत्वादयं सर्वोऽर्थोऽत्र प्रज्ञापारमितायामाक्षिप्त एवेत्यवगन्तव्यम्। पञ्चविंशतिसाहस्रिकायाञ्च प्रत्यर्थमाधारमधिकृत्य निर्दिष्टो ग्रन्थो नेह ज्ञापकत्वेन प्राचुर्यभयाल्लिख्यते। तथाचोक्तम्।



 



षोढाऽधिगमधर्मस्य प्रतिपक्षप्रहाणयोः।



तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह॥३८॥



शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च।



ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते॥३९॥ इति 



 



यदि धर्मधातोरेवार्यधर्माधिगमाय हेतुत्वात्तदात्मको बोधिसत्त्वः प्रकृतिस्थमनुत्तरबुद्धधर्माणां गोत्रं धर्मतासंज्ञकम्। तदा धर्मधातोः सामान्यवर्तित्वादिदं प्रकृतिस्थं गोत्रमनादिकालायातं धर्मताप्रतिलब्धमिदं समुदानीतं पूर्वकुशलमूलाभ्यासप्रतिलब्धमिदं नियतं श्रावकप्रत्येकबुद्धतथागतगोत्रं महद्भिरपि प्रत्ययैरहार्यत्वादिदमनियतं श्रावकादिगोत्रं प्रत्ययैर्हार्यत्वादिति गोत्रभेदो न युज्यते। यथा श्रावकयानाद्यधिगमक्रमेणालम्बेत तथार्यधर्माधिगमाय धर्मधातोर्हेतुभावेन व्यवस्थापनाद्गोत्रत्वेन व्यपदेश इति समाधिरथवा यथैकमृद्द्रव्याभिनिर्वृत्तैकतेजःपरिपक्वाधारघटादेराधेयक्षौद्रशर्करादिभाजनत्वेन भेदस्तद्वद्यानत्रयसङ्गृहीताधिगन्तव्याधेयधर्मनानात्वेनाधारनानात्वं निर्दिष्टमिति न दोषः। तथाचोक्तम्।



 



धर्मधातोरसम्भेदाद्गोत्रभेदो न युज्यते।



आधेयधर्मभेदात्तु तद्भेदः परिगीयते॥४०॥ इति



 



निरुक्तं तु गुणोत्तारणार्थेन धर्मधातुर्गोत्रं तस्माद्धि ते गुणा रोहन्ति प्रभवन्तीत्यर्थः। एवञ्च कृत्वोच्यते। असंस्कृतप्रभाविताः सर्वार्यपुद्गला इति। ननु चादावेव गोत्रं वक्तव्यं तत्पूर्वकत्वाच्चित्तोत्पादस्य मोक्षनिर्वेधभागीयानाञ्चेति कथमेवमुक्तम्। सत्यमर्थोनुपूर्व्येषा। इयं तु प्रतिपादनानुपूर्वी यत्कार्यं प्रतिपाद्य पश्चात्कारणं निर्दिश्यत इत्यदोषः। आधारानन्तरं यथोक्तप्रतिपत्त्याधारस्य बोधिसत्त्वस्य किमालम्बनमित्यालम्बनार्थमाह। यस्मात्सर्वधर्माणामेवावलम्बनस्थानीयानामनुबोधार्थेन सम्यगुभयसत्यानतिक्रमावलम्बनेन याऽसक्तता तस्यां सत्यामालम्बनविशुद्धिगमनेनानुत्तरां सम्यक्सम्बोधिमभिसम्बुध्यते नान्यथाऽतो बोध्यालम्बनप्रयोजनेन सर्वप्रकारस्वार्थसम्पादनाद् बोधिसत्त्व इत्युच्यते। तत्रादौ तावत् सामान्येन सर्वधर्मान् कुशलाकुशलाव्याकृतान् यथाक्रमं श्रामण्यताप्राणातिपाताव्याकृतकायकर्मादय इति त्रिधा विभिद्योपादेयपरित्यागोपेक्षास्थानीयत्वेन विभावयति। ततः पुनर्लौकिकमार्गसङ्गृहीताः पञ्चोपादानस्कन्धादयो लौकिकाः। सम्यगार्यमार्गेण सङ्गृहीताश्चतुर्ध्यानादयो लोकोत्तरा इति चिन्तयति। तत्रात्मग्रहाप्रतिपक्षत्वेन लौकिकाः पञ्चोपादानस्कन्धादयः साश्रवाः। लोकोत्तरास्त्वात्मदर्शनप्रतिपक्षत्वेन स्मृत्युपस्थानादयोऽनाश्रवा इति हेयोपादेयतया निरूपयति। ततोऽनाश्रवानादाय हेतुप्रत्ययाधीनकामादिधातुसङ्गृहीता बोधिपक्षादयः संस्कृताः संवृत्या। कारणानपेक्षधातुत्रयापर्यापन्नतथतादयोऽसंस्कृताः परमार्थत इति द्विधा ध्यायति। ततोऽसंस्कृतप्रभाविताः सर्वार्यजनसन्तानप्रभवचतुर्ध्यानादयः साधारणधर्माः। सम्यक्सम्बुद्धसन्तानोदयधर्मिदशबलादयोऽसाधारणा धर्मा इति द्विधा भावयतीत्येवमधिगमानुक्रमेण सर्वधर्मा मायोपमतया यथावदियन्त एवालम्ब्यन्त इत्यालम्बनमेकादशविधं ज्ञेयम्। यथोक्तालम्बनक्रमप्रतिपादनग्रन्थपञ्चविंशतिसाहस्रिकायां स्पष्ट एवेति न विप्रतिपत्तिः कार्या। तथाचोक्तम्।



 



आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः।



लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः॥४१॥



साश्रवानाश्रवा धर्माः संस्कृतासंस्कृताश्च ये।



शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः॥४२॥इति



 



ये तु धर्मधातुमेव सदा विशुद्धमद्वयं ज्ञानमालम्बनं मन्यन्ते तैः सदा विशुद्धत्वादुत्तरोत्तरविशुद्धिविशेषगमनं कथमिति वक्तव्यम्।



 



"अब्धातुकनकाकाशशुद्धिवच्छुद्धिरिष्यत"।



 



इति चेत्। एवन्तर्हि शुद्धं तात्त्विकं ज्ञानमिति प्रतिपक्षाभिनिवेशादर्थाक्षिप्तो विपक्षाभिनिवेशः। अतो विपक्षप्रतिपक्षविकल्पप्रहाणाभावात्प्रादेशिकशुद्धिप्रसङ्गः। ननु च त्वत्पक्षे सर्वाकारज्ञतायाः सुभूतेऽभाव आलम्बनमित्यालम्बननिष्ठा कथमिति चेत्। अदोषः। "यतो न्यायानुयायी भावो नास्तीत्यभावस्तथा संवृत्तिरुच्यते। तस्याश्च प्रच्छादिततत्त्वरूपायाः क्रमेण मायोपमत्वप्रतीतिरेव शुद्धिः। एवञ्च कृत्वा प्रकृतिप्रधानं गोत्रम्। विकृतिप्रधानमालम्बनमुभयं तूभयत्राप्रतिषिद्धमित्याधारालम्बनयोर्लक्षणभेदः। बहुवक्तव्यं चालम्बनव्यवस्थानमित्यलं प्रसङ्गेने"त्यार्यविमुक्तिसेनः। आलम्बनानन्तरमेवालम्बनप्रतिपत्तेर्बोधिसत्त्वस्य कः समुद्देशः। इति समुद्देशार्थमाह। यत्पुनरित्यादि केन कारणेन केन प्रयोजनेन बोधिसत्त्वः सन्महासत्व इत्युच्यते। उत्तरमभिधातुमाह। महत इत्यादि। महतः सत्त्वराशेरित्यपरिमितस्य सत्त्वसमूहस्य सामान्येनाभिधानम्। एकोऽप्यनादिसंसारप्रवृत्तिमहत्त्वेन महान् भवेदिति राशिग्रहणम्। सत्त्वनिकायस्येति प्रतिपन्नकफलस्थनिकायादिभेदेन विजातीयव्यावृत्त्या सत्त्वसामान्यात् सत्त्वसभागसङ्गृहीतस्य विशेषेणाभिधानम्। अग्रतां कारयिष्यतीति। सर्वसत्त्वाग्रताचित्तमहत्त्वं तदुद्देशेन प्रवृत्तत्वादधिगम्य पश्चात्तत्प्राप्तुकामानां सत्त्वानामग्रतां धर्मदेशनादिना निष्पादयिष्यति। तेनार्थेनेति। तेन कारणेन बोधिसत्त्वो महत्सत्त्वं चित्तमस्येति महासत्त्व इति। चित्तमहत्त्वे सति प्रहाणं महदिति। प्रहाणमहत्त्वप्रतिपादनाय गुर्वायत्ततयाऽनुज्ञामार्गणं प्रत्याह शारिपुत्रो ममापीत्यादि। सोऽर्थो मम भगवन् प्रतिभासते। येनार्थेन बोधिसत्त्वः सन्महासत्त्व इत्युच्यते इति वाक्यार्थः। न केवलं भगवत इत्यपि शब्दः। अनुज्ञातार्थमाह। प्रतिभात्वित्यादि। यस्यार्थस्य कथनायेदानीं साम्प्रतमवसरं कालं मन्यसे। सोऽर्थः प्रतिभातु सम्यगभिमुखीभवतु। लब्धानुज्ञो महत्या इत्याद्याह। तत्राहङ्काराधारार्थेनात्मा। आहितोऽहङ्कार एतस्मिन्निति कृत्वा। सीदनात्मकत्वात् सत्त्वो जीवितेन्द्रियवशेनानिकायसभागापरिसमाप्तेर्वर्तत इति जीवः। पुनः पुनर्गतिषु लीयत इति पुद्गलः। आविर्भवतीति भवः। तिरोभवतीति विभवः। नास्तीदानीमभूत्पूर्वमित्युच्छेदः। अस्ति यत्स्वभावेन न तन्नास्तीति शाश्वतः। आत्मात्मीयाकारेण पञ्चस्कन्धदर्शनं स्वकायः। एवमाद्यानां दृष्टीनामिति। यथोक्तदृष्टिप्रमुखानां मिथ्याशीलव्रतपरामर्शादिदृष्टीनामात्मादिधर्मसन्तीरणाकाराभिनिवेशस्वभावानां प्रहाणाय सवासनपरित्यागाय धर्मं देशयिष्यति। प्रहाणाधिगममहत्त्वं प्राप्येति भावः।



 



अन्यथा परोक्षोपेयतत्त्वस्य "तदाख्यानं हि दुष्करम्"। इतिशब्दस्तस्मादर्थे रागाद्यशेषदोषप्रहाणे विशिष्टोऽधिगम इत्यधिगममहत्त्वं तथैवाह। बोधिसत्त्वो महासत्त्व इति भगवन्नुच्यते। यदपीत्यादिना न केवलमन्यदित्यपिशब्दः। बोधिचित्तमिति बोध्यर्थं चित्तं प्रणिधिप्रष्ठानात्मकं चित्तमिति यावत्। सर्वज्ञताप्रवणं चित्तं सर्वज्ञताचित्तमाधिमोक्षिकमधिमुक्तिचर्याभूमिसङ्गृहीतम्। निर्विकल्पकलोकोत्तरज्ञानप्रतिवेधादनाश्रवं चित्तं शुद्धाध्याशयिकं सप्तसु प्रयोगभूमिषु निर्निमित्तानाभोगवाहित्वेनासमं चित्तं वैपाकिकमष्टम्यादौ। असमैर्बुद्धैः समं तुल्यं चित्तमसमसमं चित्तं सर्वावरणवर्जितं बुद्धभूमिगतम्। अथवानुत्पादरूपबोधिस्वभावीभूतं चित्तं बोधिचित्तम्। तदेव च योगिसंवृत्त्या आदर्शादिज्ञानसम्बन्धेन कथञ्चिद्व्यावृत्त्या सर्वज्ञताचित्तमित्यादि चतुर्धा व्यपदिश्यते। सर्वमप्येतदसाधारणमगम्यं सर्वश्रावकप्रत्येकबुद्धानाम्। तत्राप्येवंविधे चित्ते महार्थत्वात् पक्षपातार्हेऽसक्तोऽनभिनिविष्टोऽपर्यापन्नोऽस्थित इत्यनेनाधिगममहत्त्वमावेदितम्। सुतरामन्यत्रेत्यपिशब्दः। अनभिनिविश्यास्थित्वा च भावनानुपपत्तेः कथं द्वयमेतदिति तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। यस्मात्तदनन्तरोक्तं सर्वज्ञताचित्तं पूर्वोक्तसर्वचित्तोपलक्षणपरं सक्तिप्रतिपक्षभूतमनाश्रवं स्थितिपक्षभूतमपर्यापन्नं तस्मान्मायापुरुषस्येव भावनेति भावः। तद्यदपीत्यादिनिगमनमनाश्रवत्वेऽपि वस्तुसद्भावादनभिनिवेशादिरयुक्त इत्याह। केन कारणेनेत्यादि। उत्तरार्थमाह। अचित्तत्वादिति तत्त्वेनानुत्पन्नत्वात्। शारिपुत्र आहेत्यारभ्य यावदग्रतायां निर्दिष्टो निर्दिशसीति व्याख्यातम्। अर्थान्तरप्रसङ्गेनागतत्वात् पुनरुक्तिदोषो न भवति। तथा चाहाचार्यदिङ्नागः।



 



आवर्त्यते स एवार्थः पुनरर्थान्तराश्रितः। इति



 



"तदेवमजितं जयोद्देशसाधर्म्येण त्रिविधः प्रतिपत्त्युद्देशो बोधिसत्त्वस्य निर्दिष्टो वेदितव्यः। आलम्बनादुद्देशस्य को विशेषः। तादात्विकमालम्बनं समीपवर्ति। आमुत्रिकविप्रकृष्टस्तूद्देशः। शरसन्धानलक्ष्यवेधसाधर्म्येणे"त्यार्यविमुक्तिसेनः। तथाचोक्तम्।



 



सर्वसत्त्वाग्रता चित्ताप्रहाणाधिगमत्रये।



त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयम्भुवाम्॥४३॥इति



 



उद्देशानन्तरमिदानीं तन्निष्पत्तये प्रतिपत्तिर्वक्तव्या। सा च त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना। सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया प्रतिपत्तिः। न धर्मकायाभिसमये फलत्वेन तत्र क्रियाऽसम्भवात्। तत्र "सन्नाहप्रस्थानप्रतिपत्ती यथासंख्यं पारम्पर्येण साक्षात्प्रयोगस्वभावे सम्भाराधिमुक्तिचर्याभूमिसङ्गृहीते। सम्भारप्रतिपत्तिर्दयामारभ्य धारणीपर्यन्तेन साक्षात्प्रयोगमार्गस्वभावाधिमात्राग्रधर्मसङ्गृहीता। प्रथमप्रमुदिताभूमिस्वभावा सम्भारप्रतिपत्तिदर्शनमार्गात्मिका। द्वितीयादिभूमिस्वरूपा भावनामार्गस्वभावा प्रतिपक्षात्मिका च सम्भारप्रतिपत्तिरुभयमार्गगोचरा। निर्याणप्रतिपत्तिर्भावनामार्गाधिष्ठाने"त्यार्यासङ्गः। एवं प्रयोगदर्शनभावनामार्गस्वभावानां प्रतिपत्तिलक्षणानां सन्नाहप्रस्थानसम्भारनिर्याणानां मध्ये वीर्यरूपतया सन्नाहप्रतिपत्तिं प्रथमां दर्शयितुमाह। अथ खल्वायुष्मानित्यादि। पूर्णो मैत्रायणीपुत्र इति पूर्णस्यैव मैत्रायणीपुत्र इति संज्ञान्तरमथवा मैत्रायण्याः स्वमातुः पुत्रो मैत्रायणीपुत्रः। यदिदमिति। अनन्तरमिदं यद्वस्तु। महासन्नाहसन्नद्ध इति सन्नाहप्रतिपत्त्या युक्तः। सा चेयमर्थाक्षिप्ता सन्नाहप्रतिपत्तिः। यदुत दानपारमितायां चरतो बोधिसत्त्वस्य धर्मदानादिदानात् दानपारमितासन्नाहः। तस्यैव श्रावकादिमनस्कारपरिवर्जनाच्छीलपारमितासन्नाहः। तस्यैव सर्वाकारज्ञता धर्माणां क्षमणरोचनव्युपपरीक्षणसर्वजनाप्रियवादित्वसहनात् क्षान्तिपारमितासन्नाहः। तस्यैवोत्तरोत्तरकुशलमूलाभिवृद्ध्यर्थं छन्दादिजननाद्वीर्यपारमितासन्नाहः। तस्यैव यानान्तराव्यवकीर्णचित्तैकाग्रतया तत्कुशलमूलानुत्तरसम्यक्सम्बोधिपरिणामालम्बनाद्ध्यानपारमितासन्नाहः। तस्यैव मायाकारसंज्ञोपस्थानेन देयदायकप्रतिग्राहकानुपलम्भात् प्रज्ञापारमितासन्नाह इत्येवमिदं प्रथमं सन्नाहप्रतिपत्तेर्दानपारमिताषट्कम्।



 



एवं तस्यैव शीलपारमितायां चरतो द्वितीयं,क्षान्तिपारमितायां तृतीयं,वीर्यपारमितायां चतुर्थं,ध्यानपारमितायां पञ्चमं ,तस्यैव प्रज्ञापारमितायां चरतः षष्ठमिति। एवमेते षट् षट्का भवन्ति। सन्नाहानां षट् साधर्म्याद्दानादिसाधर्म्याच्च षट् सन्नाहप्रतिपत्तयोऽभिधीयन्ते। पञ्चविंशतिसाहस्रिकायाञ्च सन्नाहप्रतिपत्तिप्रतिपादने दानादयः षट् षट्काः स्पष्टमुपलभ्यन्त एवेति न विप्रतिपत्तिः कार्या। तत्रादौ भोगनैरपेक्ष्याच्छीलसमादानं करोति। शीलानुरक्षी क्षमो भवति। खेदसहिष्णुरारब्धवीर्यः। कौशीद्यविगमाद्ध्यानं निष्पादयति। सम्पन्नध्यानो लोकोत्तरां प्रज्ञां प्रतिलभत इत्येवं दानादीनामधिगमानुसारेण निर्देशोऽतिप्रतीत इत्ययमेव क्रमः।



 



तथाचोक्तम्।



दानादौ षड्विधे तेषां प्रत्येकं सङ्ग्रहेण या।



सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिता॥४४॥इति



 



कृतसन्नाहस्यैवं प्रस्थानमिति प्रस्थानप्रतिपत्तिं द्वितीयां कथयन्नाह। महायानसंप्रस्थितो महायानसमारूढश्चेति। यानशब्दस्य कर्मकरणसाधनत्वादादौ प्रस्थानप्रतिपत्त्या महायाने हेतुफलात्मके धर्मे सम्प्रस्थितः। पश्चादुत्तरोत्तरविशेषाधिगमान् महायानसमारूढ इति पदद्वयम्। सा चेयमर्थाक्षिप्ता प्रस्थानप्रतिपत्तिः। यदुतादौ चित्तस्थिरीकरणात्स्वाकारलिङ्गनिमित्तैर्ध्यानारूप्यसमापत्तिव्यवस्थानं प्रस्थानं भवति। ततः स्थिरीभूतचित्तस्य पुण्यज्ञानाभ्यास इति। देयदायकप्रतिग्राहकादित्रिमण्डलविशुद्ध्या षट्पारमिताप्रस्थानम्। ततः सम्भृतपुण्यज्ञानस्य तत्त्वाधिमोक्ष इति दर्शनभावनाऽशैक्षविशेषमार्गस्वभावार्यमार्गप्रस्थानम्। ततो धर्मताप्रवणस्य यथाशयं परार्थ इति मैत्र्यादिचतुरप्रमाणप्रस्थानम्। ततः परार्थप्रवृत्तस्योपलम्भो बन्धनमित्यनुपलम्भयोगप्रस्थानम्। ततो निःस्वभावयोगवतः कथं प्रवृत्तिरिति कर्मकर्तृक्रियानुपलम्भेन मायापुरुषस्येव सर्वत्र त्रिमण्डलविशुद्धिप्रस्थानम्। तत एवं परिशुद्धचारिणः स्वसाध्ये यत्न इति सर्वसत्त्वाग्रताचित्तमहत्त्वादित्रिविधोद्देशप्रस्थानम्। ततः कृतोद्देशप्रयत्नस्य परचित्तपरिज्ञानादौ वीर्यमिति दिव्यचक्षुरादिषडभिज्ञाप्रस्थानम्। ततः प्राप्ताभिज्ञस्य बुद्धत्वोत्साह इति सर्वाकारज्ञता प्रस्थानं भवति एवमधिगमानुक्रमेण नवधैव सम्यग्व्यवस्थितिलक्षणसमस्तमहायानधर्माक्रमणस्वभावा प्रस्थानप्रतिपत्तिः। पञ्चविंशतिसाहस्रिकायाञ्च यथोक्तप्रतिपत्तिप्रतिपादको ग्रन्थो ग्रन्थप्राचुर्यान्नेह ज्ञापकत्वेन लिख्यते।



 



तथाचोक्तम्।



ध्यानारूप्येषु दानादौ मार्गमैत्र्यादिकेषु च।



गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु॥४५॥



उद्देशे षड्स्वभिज्ञासु सर्वाकारज्ञतानये।



प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी॥४६॥इति।



 



तस्मादिति। सन्नाहप्रस्थानप्रतिपत्तिभ्यां युक्तत्वात्। सङ्ख्यामिति व्यपदेशम्। एतदुक्तम्। "यस्मात् सन्नाहप्रस्थानप्रतिपत्तिभ्यां युक्तः तस्मान्महासत्त्वव्यपदेश"  इति। कृतप्रस्थानस्यैवं सम्भार इति सम्भारप्रतिपत्तिस्तृतीया सप्तदशप्रकारा वक्तव्या।



 



तथाचोक्तम्।



दयादानादिकं षट्कं शमथः सविदर्शनः।



युगनद्धश्च यो मार्ग उपाये यच्च कौशलम्॥४७॥



ज्ञानं पुण्यञ्च मार्गश्च धारणीं भूमयो दश।



प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः॥४८॥इति



 



अतस्तां प्रतिपादयितुं प्रश्रयन्नाह। सन्नद्ध इत्यादि। कियतेति कियत्सङ्ख्यावच्छिन्नेनार्थान्तरेण धर्मेण युक्त इत्यध्याहार्यम्। यतः सन्नाहप्रतिपत्त्या करुणादिसम्भारेण च युक्तो महासन्नाहसन्नद्ध इति। पञ्चविंशतिसाहस्रिकायां भगवता व्याख्यातम्।



 



तत्रार्थाक्षिप्तसन्नाहप्रतिपत्त्या युक्तो महासन्नाहसन्नद्ध इत्यानन्तरमावेदितमधुना करुणादिसम्भारेणेत्यदोषोऽध्याहारपदस्यार्थं विसर्जयन्नाह। इहेत्यादि। इहेति वाक्योपन्यासे। एवं भवतीति। एवञ्चित्तमुत्पद्यते। तदेवाह। अप्रमेया इत्यादिना। प्रत्यक्षादिप्रमाणेन प्रमातुमशक्यत्वादप्रमेयाः। यथाशयं यानत्रयनिर्वाणप्रापणात्परिनिर्वापयितव्याः। असङ्ख्येया इत्येकत्वादिसङ्ख्यारहिताः। एतदुक्तं "कृपया विहीनस्यानुपायवतः परेषां क्वचिदप्रतिष्ठापनेन निर्वपणासम्भवादिदमर्थादाक्षिप्तं भवति। करुणया पीड्यमानस्य दानादिभिः षड्भिः पारमिताभिरुपायभूताभिरनुगृह्य दानपारमितया तदात्वसुखोपसंहारेण शीलपारमितायाऽयतिसुखोपसंहारेण सहिष्णोरुत्साहिन एकाग्रचित्तस्यैकान्तिकफलप्राप्तिमुपादाय क्षान्तिवीर्यध्यानपारमिताभिरैकान्तिकसुखोपसंहारेण प्रज्ञापारमितयाऽत्यन्तिकसुखोपसंहारेण चात्मनः षट्पारमितास्ववस्थानवत्तत्र समादापननिवेशनप्रतिष्ठापनैर्विक्षेपात्प्रतिष्ठापयितव्या मये"ति। एवञ्च सप्तसम्भारा निर्दिष्टा भवन्ति। यदुत करुणासम्भारो दानसम्भारः शीलसम्भारः क्षान्तिसम्भारो वीर्यसम्भारो ध्यानसम्भारः प्रज्ञासम्भार इति। तत्रापि समाधिलाभात् कर्तृकर्मोपलम्भो नास्तीत्याह। न च ते सन्तीत्यादि। एवं तर्ह्यनुपलम्भ इत्याह। स तानित्यादि। स करुणादिसम्भारेण युक्तो बोधिसत्त्वोऽप्रमेयांस्तावतोऽसङ्ख्येयांस्तान् सत्त्वान् परिनिर्वापयति संवृत्या। यद्येवमुपलम्भस्तर्हि प्राप्त इत्याह। न चेत्यादि। परमार्थतोऽनुपलम्भादिति भावः। कथं पुनरेकस्योपलम्भानुपलम्भाविति। तत्कस्य हेतोरित्याशङ्क्याह। धर्मतैषेत्यादि। यथा मायाधर्मता यथादर्शनं सत्या,न्यायेनासंघटनादसत्या अतस्तां तर्कविस्यन्दासन्दूषितां सार्वलौकिकीमाभासमात्रगमनतां दृष्टान्तत्वेनोपादाय गृहीत्वा तथाधर्माणां रूपादीनामेषा धर्मता। भिन्नविषयव्यावृत्त्यपेक्षा प्रकल्पितत्वेनोपलम्भानुपलम्भस्वभावाऽविरुद्धा स्याद्भवेत्। एकविषयव्यावृत्त्यपेक्षोभयधर्मकल्पनायां दोष इति भावः। एतच्च द्वयमन्योन्यविपर्यासनिराकारणायाभिहितं न तत्त्वतो यथोक्तं प्रागित्यनेन शमथसम्भारो निर्दिष्टः। प्राप्तशमथस्य विदर्शनेति विदर्शनासम्भारमाह । यथापीत्यादिना। दक्षो निपुनः। मायाकारान्तेवासी तच्छिप्यः। मुख्यतो मायानिर्माणस्थानत्वाच्चतुर्महापथग्रहणम्। जनकायं सत्त्वसमूहम्। अभिनिर्मीते निर्माणं करोति। अन्तर्धानमित्युपसंहारम्। तदनन्तरोक्तमर्थजातम्। तत् किं मन्यसे किं बुध्यस इति सामान्येन प्रश्नं कृत्वा।



 



अथैवं मन्यस इत्याह। अपि न्वित्यादि। अपिशब्दः सम्भावनायामेवमित्यर्थेनुशब्दः। तत्र तस्मिन् जनकायमध्ये। केनचिन्मायाकारादिना कश्चिद्देवदत्तादिर्हत आयुषो दुर्बलप्रयोगात्। मृतः सर्वथोच्छेदात्। नाशितः कायस्यापचयप्रयोगात्। अन्तर्हितोऽदृश्यत्वापादनादिति मन्यसे। तत्त्वतो धर्मिणोऽसत्त्वादेतत् सर्वं न सम्भवति। यथादर्शनं तु भवत्येवेति भावः। विदिताभिप्रायत्वेनाह। नो हीदमिति। तत्त्वत इति शेषः। प्रसाधितदृष्टान्तार्थमभिमतार्थं योजयन्नाह। एवमित्यादि। विस्तरेण निर्दिश्यैवमुपसंहरन्नाह। स चेदित्यादि। इममित्यनन्तरम्। एवमिति संवृतिपरमार्थसत्यानतिक्रमेण। यदुक्तं कियतेति तस्य परिहारादियतेति वचः। एतदुक्तमियता करुणादिसम्भारेणापि योगान्महासन्नाहसन्नद्धव्यपदेश इति। विदर्शनया शून्यतालम्बनेन श्रावकादिबोधौ पातादतोऽनन्तरं युगनद्धसम्भारमाह। यथाहमित्यादिना। भगवतो भाषितस्येति। धर्मतैषा सुभूते धर्माणामित्यादि। वतशब्दोऽवधारणे। एवं मन्यते येन प्रकारेण मायाधर्मस्य व्यापित्वेन भगवतो भाषितस्य धर्मतैषेत्यादेरर्थमाजानामि। तेन प्रकारेण मायाधर्मतानभिनिवृत्तेरसन्नाहसन्नद्ध एवायं बोधिसत्त्व इति। अविपरीतत्वेनाभ्युपगमादाह। एवमेतदित्यादि। ननु विदर्शनया सर्वाकारज्ञता गगनगञ्जादिसमाधिभिश्च सत्त्वार्थप्रतिसन्नद्धोऽपि कथमसन्नद्ध इति। तत्कस्य हेतोरित्याशङ्क्याह। अकृता हीत्यादि। न्यायेन कारकहेतोरभावादकृता। विनाशहेतोरसत्त्वेनाविकृता उभयसहकारिप्रत्ययानुपपत्तेरनभिसंस्कृता। अभूतप्रादुर्भावं तद्विशेषगमनं फलप्राप्तिसंमुखीकरणं चाधिकृत्य यथाक्रमं वा त्रीणि पदानि। युक्त्युपेतत्वेनाभ्युपगमादाह। एवमेतदित्यादि। ननु बन्धमोक्षसद्भावे कथमेवमेतदकृतादिकमिति। तत्कस्य हेतोरिति। कस्यचिच्चोद्यमाशङ्क्याह। तथाहीत्यादि। अन्यथाऽभ्युपगम्य विचारायोगादसङ्गतमेतत्स्यात्। एवमन्यत्रापि वक्तव्यम्। अध्यारोपिताकारप्रवृत्तत्रैधातुकचित्तचैत्तकल्पनया बन्धाभावादबद्धं रूपम्। यथोक्तकल्पनाविकल्पनाविवेकेन मोक्षाभावाच्चामुक्तम्। तत्त्वतो रूपादीनामसत्त्वात्। धर्मस्य तर्हि बन्धमोक्षौ भवत इत्याह। रूपतथतापीत्यादि। धर्म्यभावे धर्मतानुपपत्ते रूपादिशून्यता न बद्धा न मुक्ता। यथादर्शनं तु रूपादितत्तथतयोर्बन्धमोक्षौ भवत इति भावः। सुभूत्यभिप्रायानवगमाच्चोद्यद्वारेणाह। रूपमित्यादि। पृच्छतोऽयमभिप्रायः। रूपादितत्तथताऽबद्धाऽमुक्तेति वदसि। नैवं वक्तव्यं सामान्येन प्रत्यक्षादिबाधोपनिपातादिति। अथ विशेषेण स तर्हि वक्तव्य इत्याह। अथ कतमत्तदित्यादि। विचारविमर्दासहिष्णुत्वेन बुद्धबोधिसत्त्वादिरेव मायापुरुष इत्यभिप्रायवान् सामान्येनाह। यदायुष्मन् पूर्ण मायापुरुषस्येत्यादि। कथमेवं प्रत्यक्षत्वादिबाधोपनिपातो न भवतीति। तत्कस्य हेतोरित्याशङ्क्याह। असद्भूतत्वादित्यादि। न्यायेन कल्पितस्य रूपादेरसद्भूतत्वादलीकत्वाद्विकल्पितस्य विविक्तत्वात् स्वरूपविरहाद्धर्मतास्वभावस्यानुत्पन्नत्वादजातत्वादबद्धाऽमुक्तेत्येके। प्रत्यक्षानुमानागमप्रमाणैरप्रतिभासमानतत्त्वोत्पत्त्यादिनिराकरणादसद्भूतत्वादिपदत्रयमित्यपरः।



 



निर्भासते हि यद्रूपं नैव तत् प्रतिषिध्यते।



वेद्यमानस्य नो युक्तं कस्यचित्प्रतिषेधनम्॥



 



इति न्यायाद्यथादर्शनं बन्धमोक्षस्य व्यवस्थापनात् कुतः प्रत्यक्षादिबाधेति भावः। अयमित्याद्युपसंहारः। महासन्नाहोऽसन्नाह इति यथाक्रमं कृपाप्रज्ञाबलात्। संवृतिपरमार्थयोरिति शेषः। निरुत्तरस्तूष्णीं स्थित इत्याह। एवमित्यादि। ननु शमथविदर्शनयोर्विरुद्धत्वात् कथमेकत्र सम्भव इति चेत्। नैवं,तथाहि यदा शमथेनालम्बने चित्तं स्थिरीकृतं भवति। तदा प्रज्ञया विचारयतः सम्यग्ज्ञानालोकोत्पादादन्धकारमिवालोकोदये सत्यावरणमपहीयते। अत एवानयोश्चक्षुरालोकवत्सम्यग्ज्ञानोत्पादं प्रत्यन्योन्यानुगुण्येनावस्थितत्वान्नालोकान्धकारवत् परस्परं विरोधः। नहि समाधिरन्धकारस्वभावः। किन्तर्हि चित्तैकाग्रतालक्षणः। स च समाहितो यथाभूतं प्रजानातीति वचनादेकान्तेन प्रज्ञानुकूलत्वादविरुद्ध इति युगनद्धमार्गसम्भारान्वितस्योपायकौशलादिकमित्युपायकौशलादिसम्भारप्रतिपादनाय प्रश्नं कर्तुमुपोद्धातयन्नाह। एवं भगवन्नित्यादि। एवं प्रागुक्तक्रमेण महासन्नाहसन्नद्धः सन्महायानसंप्रस्थितो भवतीति यदुच्यते। "तत्र महायानं न ज्ञायत इति प्रज्ञाकरुणाप्रयोगः। तयोरन्यतराव्यतिरेकं विपक्षातिक्रममवस्थाननिश्चयं प्रतिपक्षप्रयोगप्रश्रब्धिमधिगन्तारं चाधिकृत्य यद्यथा यतो येन यत्र यो निर्यास्यतीति कतमदित्यादिव्यपदेशेन षट्प्रश्ना"इत्यार्यविमुक्तिसेनः। तत्रोपायकौशलादिसम्भारान् प्रतिपादयितुं प्रथमं प्रश्नं विसर्जयन्नाह। महायानमित्यादि।



 



पञ्चधर्माः स्वभावश्च विज्ञानान्यष्ट एव च।



द्वे नैरात्म्ये भवेत्कृत्स्नो महायानपरिग्रहः॥



 



इत्यार्यलङ्कावतारवचनेऽपि सम्भारप्रकरणबलादप्रमेयताया,उपायकौशलादिसम्भारात्मिकाया महायानमित्येतदधिवचनं मुख्यतो व्यपदेशः। कथं पुनरुपायकौशलादिसम्भारोऽप्रमेय इत्याह। अप्रमेयमित्यादि। प्रत्यक्षादिप्रमाणापरिच्छेदेन यथोक्तमेव वस्त्वप्रमेयम्। एतदुक्तम्। युगनद्धमार्गसम्भारवतः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः सत्त्वार्थकरणादुपायकौशलसम्भारः। विदितोपायकौशलस्य ज्ञानाभ्यास इति ज्ञानसम्भारः। स पुनरध्यात्मादिशून्यताभेदेन विंशतिविधो वेदितव्यः। तत्रेयं विंशतिविधा शून्यता। यदुताध्यात्मिकानां चक्षुरादीनामकूटस्थाविनाशितां प्रकृतिमुपादायाध्यात्मशून्यता॥१॥ बाह्यानां रूपादीनां तथाप्रकृतिमुपादाय बहिर्धाशून्यता॥२॥ आध्यात्मिकबाह्यानामायतनानां तथाप्रकृतिमुपादायाध्यात्मबहिर्धाशून्यता॥३॥ तत्राध्यात्मिकमायतनं यदिन्द्रियरूपसङ्गृहीतम्। बाह्यं यद्विषयरूपसङ्गृहीतम्। आध्यात्मिकबाह्यं यदिन्द्रियाधिष्ठानसङ्गृहीतम्। तद्ध्याध्यात्मिकञ्च चित्तेनोपात्तत्वाद्बाह्यञ्चानिन्द्रियसङ्गृहीतत्वात्। एतच्च शून्यतात्रयमधिमुक्तिचर्याभूमौ। सर्वधर्मशून्यतया शून्यताया आध्यात्मादिशून्यतालम्बनज्ञानस्वभावाया अपि शून्यत्वेन शून्यताशून्यता सर्वधर्मशून्यताज्ञानमत्र सर्वधर्मशून्यता तेन च शून्यता शून्या। तस्य ग्राहकविकल्पप्रहाणादियं प्रयोगमार्गे॥४॥ दशानां दिशां दिग्भिः शून्यत्वेन महाशून्यता। तासां महासन्निवेशत्वादियं सर्वत्रगार्थेन प्रथमायां भूमौ॥५॥  परमस्य निर्वाणस्य निर्वाणार्थरूपशून्यत्वेन परमार्थशून्यता तस्य विसंयोगमात्रत्वादियमग्रार्थेन द्वितीयायाम्॥६॥ संस्कृतस्य त्रैधातुकस्य कामादिधातुशून्यत्वेन संस्कृतशून्यता। तस्यापरिनिष्पन्नस्वभावत्वेन शक्यप्रतिपक्षत्वात्। इयं निष्यन्दाग्रार्थेन तृतीयायाम्॥७॥ असंस्कृतस्यानुत्पादानिरोधानन्यथात्वस्य तेन शून्यत्वादसंस्कृतशून्यता। अनुत्पादादीनामुत्पादादिप्रतियोगिप्रज्ञप्तिनिमित्ताभावात्। इयं निष्परिग्रहार्थेन चतुर्थ्याम्॥८॥ अन्तस्यान्तेन शून्यत्वादतीतान्तत्वेनात्यन्तशून्यता। अन्तोभागस्तत्रोच्छेदशाश्वतान्तयोर्मध्ये न तदस्ति किञ्चिद्येन तयोर्भागव्यवच्छेदनिमित्तत्वेन स्वभावो व्यवस्थाप्येत। इयं सन्तानाभेदार्थेन पञ्चम्याम्॥९॥ आदिमध्यापर्यवसानानान्तैः शून्यत्वेनानवराग्रशून्यता। आद्यादीनां धर्मतानुस्यूतत्वेनात्यन्तिकत्वादियं निःसंक्लेशविशुद्ध्यर्थेन षष्ठ्याम्॥१०॥ अवकिरणच्छोरणोत्सर्गलक्षणस्यावकारस्य विपर्ययेणानवकारस्तस्य तेन शून्यत्वादनवकारशून्यता। अवकिरणादेरक्रियारूपत्वेनानुत्सर्गप्रज्ञप्तिनिमित्तत्वायोगादियमनानात्वार्थेन सप्तम्याम्॥११॥



सर्वार्यैरकृता प्रकृतिस्तस्यास्तया शून्यत्वात्प्रकृतिश्रून्यता। तस्याः संस्कृतासंस्कृतविकाराविकारानापत्तेः॥१२॥ धर्मस्य धर्मेण शून्यत्वात् सर्वधर्मशून्यता। सर्वधर्माणां संस्कृतासंस्कृतराश्योरितरेतरापेक्षत्वेन स्वभावापरिनिष्पन्नत्वात्॥१३॥ एतच्च शून्यताद्वयमहीनानधिकार्थेन निर्विकल्पक्षेत्रपरिशुद्धिवशिताद्वयाश्रयत्वेन च  फलभूमित्वात् प्रतिवेधपरिकर्मभेदेनाष्टम्याम्। रूपणादिलक्षणस्य रूपादेस्तल्लक्षणशून्यत्वाल्लक्षणशून्यता। लक्षणव्यवस्थानस्य सामान्यविशेषप्रज्ञप्तिमात्रत्वात्॥१४॥ अतीतादीनां धर्माणामतीतादिष्वध्वस्वितरेतरविपर्ययानुपलभ्यत्वेनानुपलम्भशून्यता। अध्वनां भावप्रज्ञप्तिमात्रत्वात्॥१५॥ एतच्च शून्यताद्वयं ज्ञानवशिताश्रयत्वेन तथैवनवम्याम्। नास्ति सांयोगिकस्य धर्मस्य स्वभावः प्रतीत्यसमुत्पन्नत्वादिति संयोगस्य तेन शून्यत्वादभावस्वभावशून्यता सामग्रीमात्रं भाव इति कृत्वा॥१६॥ भाव स्योपादानस्कन्धलक्षणस्य तेन शून्यत्वाद्भावशून्यताराश्यर्थो हि स्कन्धार्थो राशिश्चापदार्थत्वान्नोपादानलक्षणस्य भावस्य निमित्तं भवितुमर्हतीति कृत्वा॥१७॥ एतच्च शून्यताद्वयं कर्मवशिताश्रयत्वेन पूर्ववद्दशम्याम्। अभावस्यासंस्कृतस्य शून्यतादेस्तेन शून्यत्वादभावशून्यता वस्तुधर्मेणावरणादिना तत्प्रज्ञप्तेः॥१८॥ स्वभावस्य शून्यताख्यस्यार्याणां ज्ञानेन दर्शनेन वाकृतकत्वात् स्वभावशून्यता। ज्ञानदर्शनस्य यथाभूतार्थद्योतकत्वात्॥१९॥ उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्माणां धर्मतेति परेण कर्त्रा शून्यत्वात् परभावशून्यता। शून्यताधिष्ठानो हि पुरुषव्यापारः केवलं विघातायेति कृत्वा॥२०॥ एतच्च शून्यतात्रयं यथाक्रमं सवासनक्लेशावरणाप्रहाणाश्रयत्वेन सवासनज्ञेयावरणप्रहाणाश्रयत्वेन स्वयम्भूत्वार्थेन च बुद्धभूमौ वेदितव्यम्। अनया तु दिशा प्रकरणानामानुपूर्वीविकलानां प्रकरणार्थो वाच्यः। "ये हि परप्रतिषेधमुखेन शून्यतामेव केवलं वर्णयन्ति। न त्वेषामभिसमयानुपूर्वी काचिदस्तीति तेषां प्रकरणार्थ एव वाच्यो न मुख्यः शास्त्रार्थ इत्यनेन शून्यताप्रकरणानां गतगन्तव्यानुपूर्वीवैकल्यादुद्देशभ्रंशसम्भव"इत्यार्यविमुक्तिसेनः। किं पुनरिदं निर्विकल्पकं ज्ञानमालम्बते शून्यतामित्येके। सर्वधर्माणां स्वभावशून्यतालम्बनं तदित्यपरे। एतदेव च न्याय्यम्। यद्यज्ज्ञानं तत्तत् सर्वधर्मस्वभावशून्यतालम्बनं तत्त्वेन। तद्यथा स्वप्नेऽश्वादीनां स्वभावशून्यतालम्बनं ज्ञानम्। ज्ञानञ्चेदं निर्विकल्पकं विवादपदमारूढं मन इति स्वभावहेतुः।



 



"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति"।



 



इति नासिद्धो हेतुः। सपक्षभावान्न विरुद्धः। सर्वधर्माणां तात्त्विकस्वभावस्य पश्चान्निराकरिष्यमाणत्वान्नाप्यनैकान्तिकः। ननु च यदालम्ब्यते तन्नास्ति। तद्यथा द्विचन्द्रादि। सर्वधर्मस्वभावशून्यतापि चेयमालम्ब्यमाना तथैव नास्तीति सर्वधर्मास्तित्वमापद्यत इति चेददोष एषः। यस्मान्न देवदत्तप्रख्यस्याभावस्यापवादान्तस्य हन्तरि यज्ञदत्तप्रख्ये स्वभावे समारोपान्ते तच्छून्यतया हते पुनः प्रादुर्भाव इति। किञ्चालम्बनं तत्त्वतोऽसिद्धम्।



 



"संवृत्या संविन्निष्ठा हि विषयस्थितिरिति"विरुद्धमित्येवमादिदोषोऽवाच्यः। शून्यतालम्बनपक्षे तु निःस्वभावगोचरं ज्ञानं शून्यतायाश्च संस्कृतत्वं प्रसज्यते। यथाक्रमं ज्ञानतच्छून्यतर्योभावाभावत्वेन परस्परव्यतिरेकाव्यतिरेकविकल्पात्। आदर्शादिज्ञानभेदेन तु पुनर्बहुवक्तव्यज्ञानसम्भारव्यवस्थानामेषा दिक् प्रभेदश्च प्रसङ्गादभिहितो न त्विदानीमेव समस्तज्ञानसम्भाराधिगमः परिशिष्टाभिसमयक्रमनिर्देशात्। एवमन्यत्रापीति वेदितव्यम्। ज्ञानाभ्यासवतः प्रज्ञापरिशुद्ध्या सम्यक्समाध्यादिभिः सत्त्वार्थकरणात् पुण्यमिति पुण्यसम्भारः। कृतपुण्यज्ञानाभ्यासस्य वस्तुपरीक्षामार्गादौ यत्न इति मार्गसम्भारः। मार्गान्वितस्याकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वादित्यादिना तेन तेनाक्षरविचित्रीकारेणानल्पकल्पधर्मदेशनाहेतोः स्मृतेरपर्युपयोगात् स्मृतिर्हि ग्रन्थार्थधारणेन धारयतीति कृत्वा धारणीसम्भार इति। एतच्चोपायकौशलसम्भारादिपञ्चकं पञ्चविंशतिसाहस्रिकायामपि महायानशब्देन विस्तरतो निर्दिष्टमिति न सन्देहः कार्यः। प्राप्तधारणीकस्योत्तरोत्तराधिगमप्रतिष्ठायोगेन तज्जगुणाधारयोगेन चाधिगमावस्थाविशेषा भूमय इति भूमिसम्भारं प्रतिपादयितुम्। यदपि सुभूते एवं वदसि कथं वा तत्सम्प्रस्थितो वेदितव्य इत्यादि चोद्यवचनं सम्बन्धार्थमुच्चार्योत्तरार्थमाह। पारमिताभिः सम्प्रस्थित इति। दशभूमिसङ्गृहीताभिर्दशभिरतिरिक्ततराभिर्दानादिपारमिताभिः क्रमेण सम्यक् सम्प्रस्थित इति फलनिर्देशाद्भूमिसम्भारः कथितः। एतदुक्तम्। तत्र यदा निरात्मानः सर्वधर्मा इति। भावनया निरंशत्वात्।



 



सर्वात्मना धर्मधातोः प्रतिवेधेऽपि निश्चयोत्पादनापेक्षया सर्वत्रगार्थेन प्रतिवेधात् सर्वधर्मनिःस्वभावतासाक्षात्कारि स्फुटतरं ज्ञानमुत्पद्यते। तदा बोधिसत्त्वः सम्यक्त्वन्यामावक्रान्तितो दर्शनमार्गं प्रतिलभते। अत्र च रागप्रतिधमानाविद्याविचिकित्साः सत्कायान्तग्राहमिथ्यादृष्टिपरामर्शशीलव्रतपरामर्शाश्च कामधातौ चतुःसत्यभेदेन चत्वारिंशद्भवन्त्येवंरूपारूप्यधातौ त एव चतुःसत्यदर्शनप्रहतव्याष्टप्रकारप्रतिघवर्जिता द्वासप्ततिः। समुदायेन द्वादशोत्तरं क्लेशशतं दर्शनप्रहेयं प्रहीयते। सत्यानामेकाभिसमयादतः प्रमुदिताया भूमेः प्रथमः क्षणो दर्शनमार्गः। ततोऽन्ये द्वितीयादयः क्षणा यावद्वज्जोपामाख्य आनन्तर्यमार्गो यस्मादनन्तरं समन्तप्रभा बुद्धभूमिरवाप्यते। सर्वोऽसावग्रार्थेनेत्यादिना धर्मधातोः प्रतिवेधाद्भावनामार्गोऽभिधीयते। तत्र च षोडशक्लेशा यथासम्भवं क्रमेण प्रहीयन्ते। तद्यथा रागो द्वेषो मानोऽविद्या सत्कायदृष्टिरन्तग्राहदृष्टिश्चेति कामावचराः षट्। रूपारूप्यावचरास्त एव दश द्वेषवर्जिता इति दर्शनभावनामार्गे परिकर्मधर्मभेदेन प्रमुदितादिदशभूमिव्यवस्थानम्। तत्र च यद्भूमेर्ये परिकर्मभूता धर्मा यावन्न परिपूर्यन्ते तावत्तद्भूमिः। परिपूरौ तु भूम्यन्तरं वेदितव्यम्। तत्रेमे परिकर्मभूता धर्माः पञ्चविंशतिसाहस्रिकायां निर्दिष्टाः। तद्यथा सर्वकुशलमूलसमुदानयनं ,सत्त्वार्थे महायानधर्मपरिग्रहः। चतुरप्रमाणभिनिर्हरणम्। निर्विकल्पप्रयोगेन सर्वस्वपरित्यागः। कल्याणमित्रारागणम्। श्रावकयानादिनिरपेक्षतयाऽशेषसद्धर्मालम्बनपर्येष्टिः। सदा गृहवासानभिरतिः। सर्वथानुत्तरबुद्धकायमनसिकाराविरहः। यथावत्सूत्रादिधर्मप्रकाशनम्। प्रतिज्ञातार्थनिष्पत्तिश्चेत्येभिर्दशभिर्धर्मैः सर्वथोत्पाद्यमानत्वात् परिकर्मभिः कारणविशेषैः स्वभावानुपलम्भतया कृतविशेषलक्षणपरिकर्मभिरेव प्रथमाऽपूर्वधर्मतत्त्वाधिगमेन प्रमोदलाभात् प्रमुदिता भूमिः प्राप्यते।



 



तथाचोक्तम्।



लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा।



आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता॥४९॥



त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषिणा।



सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा॥५०॥



धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते।



ज्ञेयञ्च परिकर्मैषां स्वभावानुपलम्भतः॥५१॥इति



 



सर्वथा परिशुद्धं श्रावकप्रत्येकबुद्धमनस्कारपरिवर्जितं कुशलधर्मसङ्ग्राहकं सत्त्वार्थक्रियासंवरशीलम्। परकृतोपकारस्याविप्रणाशनम्। सत्त्वानामन्तिकेऽव्यापादादिचित्तता। सत्त्वपरिपाचनादावविप्रतिसारः। एकसत्त्वस्यापि कृतशो दीर्घकालं नरकादिवासोत्साहः। सर्वजननम्रता। गुरूणामन्तिके तद्वचनानुष्ठानेन शास्तृसञ्ज्ञा। अनन्यकर्मणो दानादिपारमितासूद्योगपर्येष्टिश्चेत्येवं परिकर्मणा पूर्ववत्। कृतपरिकर्मविशेषेणाष्टप्रकारधर्मेण द्वितीया सर्वदौःशील्यमलापगमाद्विमला भूमिरधिगम्यते



तथाचोक्तम्।



 



शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा।



गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम्॥५२॥इति।



 



सर्वबुद्धभाषितधर्मधारणाभिप्रायः। कुशलमूलादिनिरपेक्षतया सद्धर्मप्रकाशनम्। बुद्धक्षेत्रपरिशोधनकरधर्माणां तत्रैव परिणामना। सत्त्वार्थकरणाय न जातु चित्खेदापत्तिः। श्रावकप्रत्येकबुद्धमनस्कारादिभिः स्वपरापेक्षया लज्जा चेत्येवं पञ्चधापरिकर्मणा। पूर्ववत् कृता न च बुध्यमानस्वभावपरिकर्मणा तृतीया लोकोत्तरज्ञानावभासकरणात् प्रभाकरी भूमिरवबुध्यते।



 



तथाचोक्तम्।



अतृप्तता श्रुते दानं धर्मस्य च निरामिषम्।



बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता॥५३॥



ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम्। इति



 



श्रावकादिमनस्कारविवेकः। उपलम्भयोगेनाप्राप्तबोधेरप्यनिच्छा। प्राप्तेनापि प्रणीतवस्तुनाऽमननता। गम्भीरधर्मक्षान्तिनिध्यानाद्यपरित्यागः। सर्वशिक्षाणामपरित्यजनम्। कामचित्तस्यानुत्पादः। सर्वधर्माणामनभिसंस्कारः। स्वशरीराद्यग्रहणता। कुशलधर्मालम्बनचित्तासङ्कोचः। सर्ववस्त्वमनसिकारश्चेत्येवं परिकर्मणा। पूर्ववद्दशप्रकारेण चतुर्थी सकलक्लेशेन्धनदहनज्वालयोपेतत्वादर्चिष्मती भूमिरभिरुह्यते।



तथाचोक्तम्।



 



वनासाऽल्पेच्छता तुष्टिर्धूतसंलेखसेवनम्॥५४॥



शिक्षाया अपरित्यागः कामानां विजुगुप्सनम्।



निर्वित्सर्वास्तिसन्त्यागोऽवलीनत्वानपेक्षते॥५५॥इति



 



लाभाद्यर्थं गृहिप्रव्रजितैः संवासः। श्राद्धकुलानुपदर्शनम्। जनाकीर्णनगरादि। स्वप्रशंसनपरनिन्दने। दशाकुशलकर्मपथाः। श्रुताद्यभिमानः पराप्रणमनम्। कुशलाकुशलविपरीताभिनिवेशः। सत्कायदृष्ट्यादिमतिः। सर्वरागादिक्लेशाभिमुखीकरणं चेत्येवंलक्षणान् दशधर्मान् बोधिनिबन्धकत्वेन विवर्जयन्नर्थादाक्षिप्तविपर्ययधर्मेण दशप्रकारपरिकर्मणा पूर्ववत् पञ्चमी सुष्ठु दुःखेन जीयत इति सुदुर्जया भूमिराक्रम्यते।



 



तथाचोक्तम्।



संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम्।



आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान्॥५६॥



मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम्।



विवर्जयम् समाप्नोति दशैतान् पञ्चमीं भुवम्॥५७॥इति



 



दानादिषट्पारमितापरिपूरणेन श्रावकप्रत्येकबुद्धाभिलाषस्य स्वभावानुपलम्भोत्त्रासचित्तस्य च याचकजनप्रार्थनासङ्कोचचित्तस्य स्वरसप्रवृत्तसर्वार्थत्यागदौर्मनस्यस्य दारिद्यादर्थिजनप्रतिक्षेपचित्तस्य वर्जनेनेत्येवं द्वादशभिः परिकर्मभिः पूर्ववत् षष्ठी सर्वबुद्धधर्माभिमुखी भूमिराज्ञायते।



 



तथाचोक्तम्।



दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात्।



शिष्यखङ्गस्पृहात्रासचेतसां परिवर्जकः॥५८॥



याचितोऽनवलीनश्च सर्वत्यागेऽप्यदुर्मनाः।



कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते॥५९॥ इति



 



शून्यताऽनिमित्ताऽप्रणिहितत्रिविमोक्षमुखज्ञानाद्यथाक्रममात्मसत्त्वजीवग्रहाभावः। त्रिमण्डलविशुद्धदशकुशलकर्मपथपरिपूर्याधिमोक्षादेकपुद्गलग्रहवर्जनम्। दुःखार्त्त सर्वजनालम्बनकृपाप्रतिवेधादुच्छेदग्रहायोगः। बुद्धक्षेत्रपरिपूरिमुपादाय सर्ववस्त्वनुपलम्भाच्छाश्चतग्रहविनिवृत्तिः। सर्वधर्मसमतावगमान्निमित्तग्रहानुपपत्तिः। महायानत्वेनैकयानावबोधाद्धेतुग्रहत्यागः। नामरूपाद्यनुत्पादपरिज्ञानात् स्कन्धग्रहवियोगः। गम्भीरधर्मनिध्यानक्षान्त्यवगमात् धातुग्रहोच्छेदः। सर्वधर्माणां महायानोपायमुखेन प्रकाशनादायतनग्रहविश्लेषः। सर्वकल्पनोच्छेदात्रैधातुकप्रतिष्ठानग्रहविच्छेदः। निमित्तोद्ग्रहणसत्कायादिदृष्टिरागादिक्लेशवर्जनात् सक्तिग्रहविरहः। शमथभावनाबलादालीनचित्तग्रहविवेकः। प्रज्ञाकौशल्याद्बुद्धदृष्टिनिश्रयारूपता। धर्मनैरात्म्यभावनाचित्तोपशमाद्धर्मदृष्टिनिश्रयास्वभावता। उभयसत्याश्रितरूपाद्यप्रतिघातज्ञानोदयात् सङ्घदृष्टि निश्रयानुदयः।



अभिनिवेशास्थानज्ञानलाभाच्छीलदृष्टिनिश्रयाभवनम्। सम्यग्धर्मप्रविचयार्थं यथेष्टसमकालसर्वबुद्धक्षेत्रगमनाच्छून्यताविवादग्रहाप्रसवः। उपलम्भाभिनिविष्टसत्त्वधातूत्तारणाय यथानुरूपं सर्वत्र स्वात्मभावदर्शनाच्छून्यताविरोधोद्भावनाग्रहोत्सृष्टिश्चेत्येवं विंशतिप्रकारेण परिकर्मधर्मेण पूर्ववत् कृतविशेषलक्षणपरिकर्मणाऽधिगतेन यथोक्तविंशतिप्रकारधर्मकलङ्कापगमात् सप्तमौ सम्यगनाभोगमार्गोपसर्गात् सुष्ठु दूरङ्गतत्वाद्दूरङ्गमा भूमिः समीयते। तथा च हेयमधिकृत्योक्तम्।



 



आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः।



निमित्तहेत्वोः स्कन्धेषु धातुष्ठायतनेषु च॥९०॥



त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता।



रत्नत्रितयशीलेषु तदृष्ट्यभिनिवेशिता॥९१॥



 



शून्यतायां विवादश्च तद्विरोधश्च विंशतिः।



कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम्॥९२॥इति



 



तथाचोपादेयमधिकृत्योक्तम्।



त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता।



करुणामनना धर्मसमतैकनयज्ञता॥९३॥



अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा।



कल्पनायाः समुद्घातः सञ्ज्ञादृक्क्लेशवर्जनम्।।९४॥



शमथस्य च निध्यप्तिः कौशलञ्च विदर्शने।



चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च॥ ९५॥



सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम्।



सर्वत्र स्वात्मभावस्य दर्शनञ्चेति विंशतिः॥६६॥इति



 



यथावत्सर्वसत्त्वचित्तचरितज्ञानम्। नानालोकधातौ  सत्त्वार्थमृद्ध्यभिज्ञाभिः क्रीडनम्। आधारबुद्धक्षेत्रसुवर्णादिभावपरिणामः। सर्वाकारधर्मपरीक्षणार्थं तथागतारागणम्। दिव्यचक्षुषो निष्पत्तिः। आधेयबुद्धक्षेत्रसत्त्वपरिशोधनम्। सर्वत्र मायोपमतावस्थानम्। सत्त्वार्थदर्शनाद्बुद्धिपूर्वकजन्मग्रहणञ्चेत्येवमष्टप्रकारधर्मेण परिकर्मणा पूर्ववदष्टमीनिमित्ताभोगाप्रकम्प्यत्वादचला भूमिरनुभूयते।



 



तथाचोक्तम्।



सर्वसत्त्वमनोज्ञानमभिज्ञा क्रीडने शुभा।



बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे॥६७॥



अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः।



मञ्चिन्त्य च भवादानमिदं कर्माष्टधोदितम्।॥६८॥ इति



 



अनन्तप्रणिधानम्। देवादिसर्वसत्त्वरुतज्ञानम्। नद्युषमिताक्षयप्रतिभानम्। सर्वजनप्रशस्तगर्भावक्रमणम्। राजादिस्थानम्। आदित्याद्यन्वयः। मात्रादिसम्बन्धज्ञातिः। स्वविधेयपरिवारः। शक्राद्यभिनन्दितोत्पादः बुद्धादिसञ्चोदननिष्क्रमणम्। चिन्तामणिसदृशाश्वत्थवृक्षादिः। सर्वबुद्धधर्मस्वभावगुणपरिपूरणञ्चेत्येवं सम्पत्तिलक्षणैर्द्वादशभिः परिकर्मभिः पूर्ववत्कृतपरिकर्मविशेषैर्नवमी धर्मदेशनाकौशलतोऽनवद्यत्वात् साधुमती भूमिः साक्षात्क्रियते। तथाचोक्तम्।



 



प्रणिधानान्यनन्तानि देवादीनां रुतज्ञता।



नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा॥९६॥



कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः।



नैष्क्रम्य बोधिवृक्षाणां गुणपूरे स्वसम्पदः॥७०॥ इति



 



गोत्रभूमिः श्रावकादिगोत्रस्याष्टमकभूमिः प्रथमफलप्रतिपन्नकस्य। दर्शनभूमिः श्रोतआपन्नस्य। तनुभूमिः सकृदागामिनः। वीतरागभूमिरनागामिनः। कृताविकल्पभूमिरर्हतः। विशेषवचनाभावेन श्रावकभूमिः प्रतिपन्नकत्रयस्य। प्रत्येकबुद्धभूमिः प्रत्येकबुद्धानाम्। बोधिसत्त्वभूमिश्च यथोक्ता बोधिसत्त्वानां नवविधेत्येवं नवभूमीरतिक्रम्य दशम्यां पुनः भूमौ बोधिसत्त्वो बुद्ध एव वक्तव्यो न च सम्यक्संबुद्ध इति। पञ्चविंशतिसाहस्रिकायां वचनाद्यत्र बुद्धभूमौ येन कर्मवशिताश्रयत्वादिना ज्ञानेनावतिष्ठते,सा तेन प्राप्या दशमी धर्माम्बुप्रवर्षणाद्धर्ममेघा बोधिसत्त्वभूमिः।



 



तथाचोक्तम्।



नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते।



येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः॥७१॥ इति



 



विस्तरेण तु निर्दिष्टो भूमिसम्भारः पञ्चविंशतिसाहस्रिकायां ग्राह्यो ग्रन्थविस्तरप्राचुर्यान्मयेह न विस्तारित इत्यलं प्रसङ्गेन। दर्शनभावनामार्गात्मक एव भूमिसम्भार इति तदनन्तरं तस्य विपक्षप्रहाणावस्थाभेदेन प्रतिपक्षसम्भारत्वं प्रतिपादयितुं तृतीयादिप्रश्नपरिहारद्वारेणाह। त्रैधातुकादित्यादि। तत्रादौ वस्तुमात्रप्रतिपक्षाधिष्ठानग्राह्यविकल्पद्वयस्य द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पद्वयस्य च। दर्शनमार्गे प्रहाणाद्विपक्षभेदेन तत्प्रतिपक्षावस्थाऽधिगमाद्यथाक्रमं चतुर्विधप्रतिपक्षसम्भारप्रतिपादनपरं त्रैधातुकान्निर्यास्यतीत्यादि वाक्यचतुष्टयं संवृतिसत्याश्रयेण योज्यम्। तदनु भावनामार्गे वस्तुमात्रप्रतिपक्षाकाराधिष्ठानद्विविधग्राह्यकविकल्पस्य। द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानद्विविधग्राहकविकल्पस्य च प्रहाणाद्विपक्षभेदेन तत्प्रतिपक्षावस्थाधिगमादपरं चतुर्विधप्रतिपक्षसम्भारं यथासङ्ख्यं परमार्थसत्याश्रयणोक्तं क्रियाप्रतिषेधात्प्रतिपादयन्नाह। अपित्वित्यादि। स्थानप्रतिषेधमेव स्पष्टयति। अपि तु स्थास्यति सर्वज्ञतायामस्थानयोगेनेति। तत्र स्थानं वस्तूपलम्भः करणादिभिः प्रतिष्ठानं चेतसस्तत्प्रतिषेधादस्थानम्। अत्र विचार्यते। यदि तावत् स्थानाभावोऽस्थानमेवं सत्यभावत्वात् प्रतिपक्षो न युज्यते। अथ यन्न स्थानं तथा चक्षुरादिष्वप्यतिप्रसङ्ग इति। यथानभिनिवेशो व्याख्यातस्तथेदानीमपि नयो द्रष्टव्य इति न प्रतन्यते। त्रैकालिकवस्तुप्रतिषेधान्न निर्यात इत्याद्यभिधानम्। भूतार्थाभ्यासेन निर्याणात् कथमेवमिति। तत्कस्य हेतोरित्याशङ्क्याह। यश्चेत्यादि। उभाविति। यो बोधिसत्त्वो येन च मार्गेण निर्यायात् तौवेतौ तत्त्वेनोपसंहरन्नाह। एवमित्यादि। संवृत्या त्वस्तीति भावः।



 



तथाचोक्तम्।



प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः।



ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये॥७२॥ इति



 



यथोक्तानुपूर्व्या संवृतिपरमार्थसत्यानतिक्रमेण समस्तमहायानानुष्ठानेन संह्रियते। समुदागमभावेन महाबोधिरेभिः करुणादिभिरिति करुणादयः सम्भारा इति सप्तदशप्रकारा सम्भारप्रतिप्रत्तिः। सम्भृतसम्भारस्यैवमजितजयप्राप्त्या निर्याणमिति निर्याणप्रतिपत्तिश्चतुर्था वक्तव्या। सा पुनर्विषयभेदेनाष्टधेत्यादौ प्राधान्यादुद्देशनिर्याणम्। तत्पुनः सर्वसत्त्वाग्रताचित्तमहत्त्वनिर्याणम्। प्रहाणमहत्त्वनिर्याणम्। अधिगममहत्त्वनिर्याणञ्चेति त्रिविधम्। अतस्त्रिविधोद्देशनिर्याणमधिकृत्याह। महायानमित्यादि।



 



आलम्बनमहत्त्वञ्च प्रतिपत्त्योर्द्वयोस्तथा।



ज्ञानस्य वीर्यारम्भस्य उपायकौशलस्य च॥



उदागममहत्त्वञ्च महत्त्वं बुद्धकर्मणः।



एतन्महत्त्वयोगाद्धि महायानं निरुच्यते॥इति



 



सप्तविधमहत्त्वयोगान्महायानं सफलो बोधिसत्त्वमार्गः लोकप्रसिद्धमात्रस्यैवायथार्थाभिसम्बोधिफलं महायानम्। तस्यैव बन्धत्वादितरथा हि महायानस्य प्रतिपक्षभावनावैयर्थ्यं स्यात्। अतोऽभूतपरिकल्पमात्रत्वाद्वितथप्रख्यातिरूपं सदेवमानुषासुरं लोकं तत्प्रतिपक्षत्वेनासत्यार्थतया स्वरूपपरिज्ञानादभिभवाद्यस्मान्निश्चयेन गन्तव्यं स्थानं सर्वसत्त्वाग्रतादिमहत्त्वं यास्यतीति तस्मान्महायानमुच्यत इति वाक्यार्थः। समताधिगममन्तरेणोद्देशनिर्याणासम्भव इति। तदनन्तरं समतानिर्याणं दर्शयितुमाह। आकाशेत्यादि। आकाशमिव समतया शून्यतया सकलज्ञेयमण्डलव्यापिनिर्मलज्ञानत्वान्महत्तद्यानम्। सत्त्वार्थमन्तरेण पुण्योपचयाभावान्न समतावगमनं सम्यगिति तदनु  सत्त्वार्थनिर्याणमाह। यथेत्यादिना। महायाने सत्त्वानामवकाश इति वचनात्तेन महायानेन तेषामर्थो निर्यातव्य इत्यावेदितमन्यथाऽर्थक्रियाशून्यत्वेनावकाशानुपपत्तेः। अनेनेत्याद्युपसंहारः। पर्यायेणार्थान्तरेणानेन। आभोगे सत्यविकलसत्त्वार्थो न



 



निष्पद्यत इत्यतोऽनन्तरमनाभोगनिर्याणं वक्तुमाह। नैवास्येत्यादि। आगमोऽतीतात्  निर्गमोऽनागते,  स्थानं वर्तमाने। आगमाद्यभावादयत्नसिद्धं निर्याणमिति भावः। शाश्वतोच्छेदरहितावस्थाधिगमं विनाऽनाभोगनिर्याणं न भवतीत्यतोऽनन्तरमत्यन्तनिर्याण दर्शयितुमाह। एवमस्येत्यादि। एवमिति वक्ष्यमाणक्रमेण। पूर्वान्तः शाश्वतः। उच्छेदोऽपरान्तः तद्विनिर्मुक्तोऽन्योऽपि नास्तीत्याह। नापि मध्य इति। एवमिति यदुक्तं तत्कथयन्नाह। त्र्यध्वेत्यादि। यस्मात् प्रकृतिपरिनिर्वृतत्वेन सर्वधर्माणां त्र्यध्वशून्यं तद्यानं तस्मान्महायानत्वेन पूर्वान्तत्वाद्यभाव इति वाक्यार्थः। धर्मताऽविरुद्धार्थकथनात् साधुकारमावेदयन्नाह। साध्वित्यादि। उपसंहरन्नाह। एवमित्यादि। अत्यन्तनिर्याणमपि यानत्रयप्रतिविशिष्टावस्थाप्राप्तिं विना न सम्पद्यत इत्यतोऽनन्तरं प्राप्तिनिर्याणमाह। अत्र शिक्षित्वेत्यादिना। अत्रेति  महायाने। सर्वज्ञता यानत्रयात्मिका सर्वार्यपुद्गलाधिगमहेतुत्वज्ञापनार्थमनुप्राप्तेत्यभिधानम्। शब्दान्यथात्वजनितविभ्रमादार्यपूर्णोऽयमित्याह। प्रज्ञापारमितायाः कृतशः प्रयोजनेन प्रतिभातु त इत्यादिना प्रारम्भ एवाधीष्टो नित्यसमन्वाहारमन्तरेण ज्ञानदर्शनासम्भवादन्यथापि स्यादित्यार्यसुभूतिराह। नाऽहं भगवन्नित्यादि। व्यतिक्रम्येत्युल्लंध्य तथागताधिष्ठितस्य विपरीतदेशनानुपपत्त्या नो हीदमित्याद्याह। अनुलोमेति। अनुकूलं प्रज्ञापारमितार्थस्य महायानस्वभावत्वादिति भावः। सर्वाकारगम्भीरधर्मदेशनाशक्तिमात्मनोऽपश्यन्नाह। बुद्धानुभावाद्भगवन्निति। तच्च प्राप्तिनिर्याणं प्राप्यप्रापकतदुभयसम्बन्धप्रतिषेधलक्षणम्। अतः प्राप्यप्रतिषेधमधिकृत्याह। अपि त्वित्यादि। अपि तुशब्दः क्रमार्थः। आद्यादित्वेन सप्तम्यन्तात्तसिः। पूर्वान्तत इत्यादौ ज्ञेयः। नोपैतीति बोधिसत्त्वं कञ्चित् प्राप्यं रूपादिस्वभावमिति शेषः। तस्यैव प्राप्यस्य बोधिसत्त्वस्याविद्यमानत्वादिति भावः। ननु रूपादिप्रतिभासो बोधिसत्त्वः कथमविद्यमान इति तत्कस्य हेतोरित्याशङ्क्याह। रूपापर्यन्ततयेत्यादि।



 



"धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते"।



 



इति न्यायाद्धर्मधातुवत्तत्स्वभावीभूतानां यस्माद्रूपादीनामपर्यन्ततया बोधिसत्त्वापर्यन्तता तस्माद्बोधिसत्त्वं नोपैतीति भावः। प्रापकप्रतिषेधमधिकृत्याह। रूपमित्यादि। रूपादीनां न्यायेनासत्त्वात्तदात्मकप्रापकबोधिसत्त्वोपलम्भाभाव इति भावः। यद्येवमनुपलम्भस्तर्हि तत्त्वमित्याह इदमित्यादि। इदमपि नोपैतीत्यपि न विद्यते। निर्विषयस्य नञोऽप्रयोगादतो वस्तुतोऽसत्त्वान्नोपलभ्यते। सामान्येन निर्दिश्यैवमात्मानमधिकृत्याह। एवं भगवन्नित्यादि। एवमिति प्राप्यप्रापकप्रतिषेधेन "द्वे ह्यमू सर्वते वस्तुसर्वता। आकारसर्वता चे"ति न्यायात्। तत्र सर्वेणेति स्कन्धादिवस्तुरूपेण। सर्वमिति बाह्याध्यात्मिकवस्तुस्वभावम्। सर्वथेति अध्यात्मशून्यतादिभिराकारप्रकारैः। पुनः सर्वमिति व्यस्तसमस्तप्रकारम्। बोधिसत्त्वधर्ममिति। बोधिसत्त्व एव प्राप्यप्रापकलक्षणो धर्मो रूपादिस्वभावस्तमनुपलभमानः सन्। तदुभयसम्बन्धप्रतिषेधमाह। प्रज्ञेत्यादिना। साकारनिराकारज्ञानाभ्यां यथासङ्ख्यं न समनुपश्यामि नोपलभे। प्रत्यक्षानुमानाभ्यां वा तत्प्रतिपादनार्थमेवाह। सर्वज्ञतामिति। उपसंहरन्नाह। सोऽहमित्यादि। कतमं प्रापकं बोधिसत्त्वं कतमेन प्राप्यापायमुखेन कतमस्मिन् सम्बन्धे सर्वाकारज्ञतालक्षणे किंशब्दस्य क्षेपाभिधायित्वात्। नैव कञ्चित् केनचित् क्वचिदित्यर्थः। कुतो यस्मात् बुद्ध इत्यादि। प्राप्योऽत्र बुद्धशब्देनोक्तः। प्रापकसम्बन्धस्योत्तरपदद्वयेनाभिधानाद्यतो यदेव प्रक्रान्तं तदेवोपसंह्रियते। यथावस्तुशब्दप्रयोगेण संज्ञामात्रसद्भावात् सत्यं वस्तु स्यादित्याह। तच्चेत्यादि।



 



नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते।



तस्य पूर्वसदृष्टत्वात् सामान्यं तूपदेक्ष्यते।



 



इति न्यायाद्यथावस्तु तन्नामधेयमनभिनिर्वृत्तत्वान्नात्पन्नम्। किमिवेत्याह। यथा आत्मेति। तदेव कथयति। आत्मेत्यादिना। अर्थक्रियाऽसमर्थत्वात् खरविषाणवत्तस्य संवृत्याप्यनभिनिर्वृत्तत्वेनात्यन्ततया नास्त्यात्मा। अथ चात्मेति व्यपदेशः। यद्येवं न्यायेनास्वभावत्वे सर्वधर्माणां कतमत्तद्रूपमित्याशंक्याह। यदित्यादि। यस्मादनभिनिर्वृत्तं तस्माद्ग्राह्यग्राहकभावविगतं तत्त्वेन तदविचारैकमनोहरं संवृत्या रूपम्। एवं ग्राह्यग्राहकभावेनानभिनिर्वृत्तिस्तर्हि पारमार्थिको धर्म इत्याह। एवमित्यादि न्यायेनैषां सर्वधर्माणामस्वभावता या सैवानभिनिर्वृत्तिर्या चानभिनिर्वृत्तिः स्वरूपधारणवैकल्यान्न ते धर्माः। प्रसाधितमर्थं निगमयन्नाह। तदित्यादि। तत्तस्मात् किंशब्दस्य क्षेपाभिधायित्वान्नैवेत्यर्थः। अभिनिर्वृत्तिस्तहि धर्म इत्याह। न चान्यत्रेत्यादि। सर्ववस्तुनोऽभिनिवृत्तेप्रतिषिद्धत्वादनभिनिर्वृत्तितोऽन्यत्रापि निर्वृत्तौ धर्मो नैवोपलभ्यते। सर्वधर्माः प्रज्ञापारमितामार्गस्वभावाः। बुद्धधर्माः प्राप्यलक्षणाः। बोधिसत्त्वधर्माः प्रापकबोधिसत्त्वप्रज्ञप्तिनिबन्धना रूपादयः। यो वाऽन्यः कश्चित् सामान्यधर्मो बोध्यर्थं चरेत् स नैवोपलभ्यत इति विभक्तिविपरिणामेन सम्बन्धः। कः पुनरेवं प्रज्ञापारमितायामभियुक्त इत्याह। स चेदित्यादि। चरत्यसमाहितज्ञानेन,भावयति समाहितेन। उपपरीक्षते युक्त्या व्यवस्थापयति। स्मरणप्रत्ययेऽवस्थापनादुपनिध्यायति। ननु रूपाद्युपलम्भेन कथं प्रज्ञापारमितामुपपरीक्षत इति। तत् कस्य हेतोरित्याशङ्क्याह। यस्मिन्नित्यादि। यस्माद्यस्मिन् काले रूपादीनिमान्धर्मान् प्रज्ञापारमितायां तन्निमित्तं व्युपपरीक्षते नैःस्वभाव्याकारेण तस्मात्तस्मिन् काले न रूपमुपैति न प्रतिपद्यते। अतो नोपगच्छति न स्वीकरोति। यतो नोत्पादं न निरोधं वा समनुपश्यति। उत्पादव्ययनिर्मुक्तस्यान्यस्यासत्त्वादिति भावः। न त्वैकात्म्येऽनुत्पादानिरोधोपलम्भ एव रूपोपलम्भोऽतः कथं न रूपमुपैतीति तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। यस्माद्यावनुत्पादाव्ययौ न तौ रूपं संवृत्या रूपस्यैव प्रतिभासनात्। तत्र भाव एव क्षणस्तिथिधर्मा नाशो व्ययस्तत्प्रतिषेधादव्ययः। यतः संवृत्या नानात्वमिति। तस्मादनुत्पादाव्ययौ रूपं च परमार्थतोऽनुत्पादाव्ययस्यैव स्थितेरद्वयमनुत्पादाद्येकरूपमेतत्। यतोऽद्वैधीकारमपगतद्विधाभावकारकप्रमाणम्। यद्येवं कथं पुना रूपव्यपदेश इत्याह। यत्पुनरित्यादि। अद्वयस्य न्यायेनानुत्पादादिरूपस्यैषा रूपमित्युद्भावना संवृत्या गणना संज्ञा कृता सङ्केतिता। सर्वाकारज्ञताऽधिगमेन विना न प्राप्तिनिर्याणमिति तदनु सर्वाकारज्ञतानिर्याणं दर्शयितुमाह एवं भगवन्नित्यादि। एवं सर्वाकारमिति सम्बन्धः। प्रज्ञापारमितायां सर्वाकारज्ञतायां निर्यातुमिति शेषः। सर्वाकारं नैःस्वभाव्याद्याकारं क्रियाविशेषणमेतत्। सर्वधर्मान् रूपादीन् व्युपपरीक्षमाणस्तस्मिन् समयेऽभिसमयकाले न रूपमुपैतीत्यादिप्रसङ्गान्तरेण पुनरावर्तितमिति न पुनरुक्ततादोषः। एवं सति सत्त्वार्थदुःखचर्याद्यनुपपत्तिरित्यभिप्रायवानाह। तेन हीत्यादि। यतो रूपाद्यनुत्पादाव्यययोरद्वयत्वं तस्मात् कारणात्। यथाभाषितस्य न रूपमुपैतीत्यादिवचनस्यार्थमाजानामि। तथा बोधिसत्त्वोऽप्यनुत्पादस्तस्यापि रूपादिस्वभावत्वात्। भवत्वेवमित्यभ्युपगमे दोषार्थमाह। यदि चेत्यादि। किंशब्दः क्षेपेऽनुत्पादविरुद्धत्वान्नैव चरतीत्यर्थः। यानि दुःखानि सत्त्वानां कृतशः प्रयोजनेन प्रत्यनुभवितुमुत्सहते। किमर्थं वा तानि नैवेत्यर्थः। सत्त्वाद्यभावादिति भावः। नाहमित्यादिनोत्तरमाह। एवं मन्यते। यदि बोधिसत्त्वोऽनुत्पादः। परमार्थतो नैव दुष्करचर्यां चरतीत्यापद्यते। तदा तत्त्वेन चर्यानुपपत्तेः सिद्धसाध्यता। अथ संवृत्या तदा नानुत्पादस्तर्हि बोधिसत्त्वस्तस्योत्पादप्रतिपादनात्तत्कथं चर्याविरुद्धेति। संवृत्यापि दुष्करचर्या कथं चर्यत इत्यपि न मन्तव्यमित्याह। नापीत्यादि। दुष्करसंज्ञया चरतीत्यत्र दुष्करचर्यामिति शेषः। ननु शिरोदानादिदुष्करचर्यां बोधिसत्त्वा एव कुर्वन्तीति कथं न दुष्करसंज्ञेति। तत्कस्य हेतोरित्याशङ्क्याह। नहीत्यादि। यस्माद्दुष्करसंज्ञां जनयित्वा न शक्यः सत्त्वानामर्थः कर्तुं सम्यक्‍चर्याऽनिष्पत्तेरतो यो दुष्करसंज्ञां दानादिचर्यासु करोति स सत्त्वार्थाकरणेन बोधिसत्त्वो न भवतीति भावः। कथं तर्हि शक्यते इत्याह। अपि त्वित्यादि। दानादिषु मात्सर्याद्यभावेन सुकरसंज्ञां सुखसंज्ञां तथा सत्त्वानामन्तिके सामान्येन मात्रादिसंज्ञाविशेषेण वा स्त्रीपुरुषेषु वयसा वृद्धन्यूनप्रमाणेषु यथासम्भवं मात्रादिसंज्ञां कृत्वा यदि बोधिसत्त्वश्चर्यां चरति तदार्थः शक्यते कर्तुमिति भावः। तदेवोपसंहरन्नाह। तस्मादित्यादि। यावदित्यनेन समानवयः प्रमाणेषु स्त्रीपुरुषेषु भ्रातृभगिनीसंज्ञापरिग्रहः। कथमात्मसंज्ञोत्पादयितव्येत्याह। यथेत्यादि। आहिताहंमानत्वेन स्वसन्तान एवात्मा। सर्वदुःखेभ्यः संस्कारादिदुःखेभ्यो मोचयितव्योऽपनेतव्यः। प्रकारान्तरमप्याह। एवञ्चेत्यादि। न परित्यक्तव्या महाकरुणाशयप्रयोगेण परिमोचयितव्यास्तथाभूतकार्यसम्पादनतः। चित्तप्रदोपो द्वेषो नोत्पादयितव्यः। कदेत्याह। अन्तश इत्यादि। अन्तशः पर्यवसाने शतशोऽपि स्वकायेन छिद्यमानेन तैरेवेत्यध्याहार्य परार्थकोऽतिशयः स्यात्। तदेव निगमयन्नाह। एवं हीत्यादि। एवञ्चितोऽनन्तरोक्तचित्तः। चरिष्यति दानादिचर्याम्। विहरिष्यति चतुर्ष्वपीर्यापथेषु। एवं संवृतिसत्याश्रयेण चर्याया या न दुष्करसंज्ञेति प्रतिपाद्य परमार्थसत्याश्रयेण प्रतिपादयन्नाह। पुनरपरमित्यादि। सर्वेण प्रत्यक्षादिप्रमाणेन सर्वं व्यापीतरद्वा रूपम्। सर्वथा सत्त्वजीवादिप्रसिद्धिप्रकारैः पुनः सर्वमिति कर्तृत्वादिरूपम्। एकानेकस्वभाववैधूर्याद्यथात्मा न विद्यते। अत एव नोपलभ्यते। तथा सर्वधर्माः। तदेव कथयन्नाह। एवमित्यादि धर्मेषु तु सर्वेण स्वलक्षणादिरूपेण सर्वं वाक्यादिकं सर्वथा क्लिष्टत्वादिप्रकारेण सर्वं सर्वप्रकारम्। अतो गत्यन्तरा भावान्मायापुरुषेण वा चरितव्यम्। तत्र च कथं दुष्करचर्येति भावः। एवमनुत्पादेऽतिप्रसङ्गं परिहृत्याभ्युपगममाह। यदपीत्यादिना। एवमेवैतत् परमार्थेनेति भावः। बोधिसत्त्वोऽनुत्पाद इति वचनात्। प्रादेशिकी शून्यतेत्याह। किं पुनरित्यादि। बोधिसत्त्वकरका धर्मा मार्गज्ञतादिस्वभावा बोधिसत्त्वधर्मा अप्यनुत्पादः। न्यायस्य तुल्यत्वात्। तदेवाह। बोधिसत्त्वेत्यादिना। यदेव पृष्टं तदेव परिहर्तव्यमन्यथाऽश्रोतृसंस्कारकं वाक्यम्। अतः प्रादेशिकशून्यत्वपरिहारार्थमुताहो सर्वज्ञतापीत्यादिनोत्तरोत्तरप्रश्नपरिहारेण शून्यतायाः सर्वविषयत्वमाह। तत्र सर्वज्ञता बुद्धत्वम्। बुद्धकरका धर्माः सर्वाकारज्ञतालक्षणाः धर्माः। अनुत्पन्नार्यमार्गो बालः पृथग्जनः। तन्निबन्धना रागादयो धर्माः पृथग्जनधर्माः। क्रमेणैवं सर्वधर्मानुत्पादाभ्युपगमं कारयित्वा दोषमापादयन्नाह। यद्यायुष्मन्नित्यादि। ननुशब्दोऽक्षमायाम्। अनुप्राप्तैव सर्वज्ञताऽयत्नेनेति शेषः। क्वचिदयत्नेनेति पाठः स्पष्ट एव। एतदुक्तम्। "सत्कृत्य निरन्तरदीर्घकालभावनयाऽनुत्पादाधिगमेन बुद्धत्वमनुप्राप्तव्यम्। यदि पुनः सर्व एव धर्मोऽनुत्पन्नस्तदाऽयत्नेन सर्वाकारज्ञताऽनुप्राप्तैव ततश्च मुक्ताः स्युः सर्वदेहिन"इति। यद्यनुत्पादे प्राप्यप्रापकधर्मा विद्यन्ते,तदाऽयत्नेन प्राप्तिरिति प्रसज्यते। यावता नैवमित्यभिप्रयेणाह। नाहमित्यादिना। न्यायेनानुत्पन्नस्य धर्मस्य प्राप्यप्रापकस्य न प्राप्तिं ग्रहणं प्रयोगावस्थायामिच्छामि। नाप्यभिसमयमधिगमं मौलावस्थायाम्। तदेवाह। नापि इत्यादिना। नैवानुत्पन्नेन प्रापकेण धर्मेणानुत्पन्ना प्राप्तिः प्राप्यतालक्षणा प्राप्यते। उभयोरेव नीरूपत्वात्। अन्यतरानुत्पादेन तर्हि प्राप्तिः प्राप्यतामित्याह। किं पुनरित्यादि। उताहोशब्दः पक्षान्तरद्योतकः। प्रतिप्रश्नेन परिहारार्थमाह। किं पुनरायुष्माञ्छारिपुत्रेत्यादि। उत्पादस्यासत्त्वात्। किमनुत्पन्नो धर्म उत्पन्न इत्यभिधीयते। एवमिति चेदभिधीयताम्। न हि नामान्तरकरणाद्वस्तुनोऽन्यथात्वमतः कथमुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यते। अथानुत्पन्न एव धर्मोऽनुत्पन्न इत्यभिधीयते त्वया तथापि दोष एव। यो ह्यनुत्पन्ने धर्मः सोऽनुत्पन्न एवाविद्यमानोऽतः कथमनुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यते। एतदुक्तम्। "तत्त्वेन प्राप्यप्रापकयोरसत्त्वात्कुतोऽयत्नेन प्राप्तिः। संवृत्यापि निरन्तरं दीर्घकालभावनयाऽष्टम्यादिभूमावनाभोगवाहिज्ञानलाभात् कथमयत्नेन प्राप्तिर्येन मुक्ताः स्युः सर्वदेहिन"इति। ननु संवृतिपरमार्थसत्याश्रयेणोत्पादानुत्पादव्यवस्थायां तवाप्येष पर्यनुयोग इत्यभिप्रायेणाह। उत्पाद एव धर्मोऽनुत्पाद उताहोऽनुत्पादो धर्मोऽनुत्पाद इति। उद्भावनासंवृत्यापि वागुदाहारवर्जितं तत्त्वमिति मत्त्वाऽह। उत्पाद इत्यादि। द्वयोरलीकत्वान्न तत्त्वतो जल्पितुं प्रतिभातीति भावः। अनुत्पादस्य परमार्थत्वादित्यभिप्रायेणाह अनुत्पादोऽपीत्यादि। परमार्थानुकूलत्वात्परमार्थोऽयमुच्यते। अनुत्पाद इत्याह। अनुत्पाद एवायुष्मञ्छारिपुत्र जल्प इति। अनुत्पादोऽपि जल्प्यत इति जल्पः। प्रपञ्चो विकल्प इति यावत्। अभिसमयकाले तर्हि किं प्रतिभासत इत्याह। अनुत्पाद एवेत्यादि। सर्वविकल्पविनिर्मुक्तोऽग्राह्य एवानुत्पादो ग्राह्यः प्रतिभाति। अग्राहकमेव ग्राहकं प्रतिभानम्। कथं पुनरतद्रूपोऽपि तद्रूपत्वेन प्रतिभातीत्याह। एवमेवेत्यादि।



 



एवमेव यथादर्शनमशक्यापहवत्वात् संवृत्याऽस्तु यथा तथा। अथवा एवमेवाविचारितेन रूपेणालीकमेव प्रतिभाति। अत्यन्तं प्रतिभातीत्यपगतशाश्वतोच्छेदरूपं प्रतिभासते। सम्यग्धर्मतत्त्वकथनात्स्तुत्यर्थमाह। धार्मकथिकानामित्यादि। स्थापयितव्यो धारयितव्यः। ननु धर्ममेघभूम्यधिगमाभावे श्रावकोऽपि कथमेवमिति। तत्कस्य हेतोरित्याशङ्क्याह। तथाहीत्यादि। यतो यत इति। आद्यादित्वेन सप्तम्यन्तात्तसिस्तथा ततस्तत इत्यपि। यत्र यत्र परिप्रश्नीक्रियते तत्र तत्र परिहारदानेन निःसरति। धर्मतायाः स्वाधिगमलक्षणाया व्यवस्थापनान्न चलति। ताञ्च धर्मतामागमरूपामधिगमेन न विरोधयति। नित्यं समाहितज्ञानाभावेऽपीति शेषः। तथागताधिष्ठानमादर्शयन्नाह। धर्मतैषेत्यादि। अनिश्रितधर्माणामनभिनिविष्टधर्माणां तथागतश्रावकाणाम्। धर्मतैषा प्रतीत्यसमुत्पादनियामता। कासौ धर्मतेत्याह। रूपादिलक्षणवस्तूपलम्भसद्भावेऽपि कथं पुनरनिश्रितधर्माणः श्रावकाः इति। तत्कस्य हेतोरित्याशङ्क्याह। यथापीत्यादि। एकानेकस्वभाववैधूर्येणानिश्रितत्वादनिश्रयार्हत्वात्। सर्वधर्माणामनिश्रितधर्माणः श्रावकाः प्रज्ञापारमिताभाषणं प्रत्यधिष्ठा एवाऽन्यथा सम्यग्देशनानुपपत्तेः। पुद्गलनैरात्म्यमात्रप्रभावितत्वेनैवंविधधर्माधिमोक्षवैकल्यात्तथागताधिष्ठानेनेति शेषः। तदपि सर्वाकारज्ञतानिर्याणं विशेषमार्गादिना विना न भवतीत्यतोऽनन्तरं मार्गनिर्याणं दर्शयन्नाह। साध्वित्यादि। सुभाषितत्वार्थत्वे साधु साधु सुभूते किन्तु कतमैषा सर्वधर्मानिश्रितपारमिता यया बोध्यधिगमः। स्वरूपमावेदयन्नाह। प्रज्ञेत्यादि। यानत्रयसङ्गृहीता। सार्वयानिकी सर्वभूमिपारमिता। बोधिपक्षधर्मस्वभावेन मार्गलक्षणा प्रज्ञापारमिता। सर्वधर्मेष्वनिश्रिततया सर्वधर्मानिश्रितपारमितेत्युच्यते। एवंविधप्रज्ञापारमितायां मार्गात्मिकायां को निर्यातीत्याह। इति हीत्यादि। इत्येवमनन्तरोक्तेन क्रमेण चित्तावलीनत्वं चित्तसङ्कोचः। तदेवाह। कांक्षेत्यादिना। कांक्षायितत्वं संशयज्ञानं किमयमन्यो वेति मार्गान्तरकांक्षणात्। धन्वायितत्वमज्ञानम्। तत्स्वरूपाप्रतिपत्तिः। चित्तस्यान्यथात्वं मिथ्याज्ञानं विपरीतार्थप्रतिपत्तिः। एतच्च सर्वमविद्यैवेति भावनाप्रहेयं दर्शयति। विहरत्यनेन मार्गस्वभावेन प्रज्ञापारमिताविहारेण चतुर्भिरीर्यापथैश्चित्तकर्मण्यताऽपादनात्। अविरहितश्चानेने मनसिकारेण मार्गात्मकेन प्रतिसंलीनावस्थायाम्। ननु मनस्कारश्चेतस आभोग आलम्बने चित्तधारणकर्मकः। प्रज्ञापारमिताविहारश्च तद्विपरीतस्वभाव इति कुतोऽनयोः सहावस्थानमित्यभिप्रायेणाह। कथमित्यादि। यो मनसिकारेणाविरहितः। स कथं प्रज्ञापारमिताविहारेण विहरेत्। परस्परविरोधान्नैवेत्यर्थः। तदेव कथयन्नाह। यदि हीत्यादि। यदि मनस्कारेणाविरहितस्तदा प्रज्ञापारमिताविहारेण विरहितः। अथ प्रज्ञापारमिताविहारेणाविरहितस्तदा मनस्कारेण विरहितः। अथ विरुद्धयोरप्येकत्र सहावस्थानमिष्यते।  तदातिप्रसङ्ग इत्याह। यदीत्यादि। यदि च मनसिकारेणाविरहितोऽपि प्रज्ञापारमिताविहारेणाविरहित इष्यते। मार्गनिर्याणावस्थायां तदैवं सति प्रज्ञापारमिताविहारेणाविरहिताः सर्वसत्त्वा इति प्राप्तं तेषां मनस्कारसद्भावात्। ननु प्रज्ञापारमिताविहारोऽनेकयत्नसाध्योऽतः कथं तेनाविरहिताः सर्वसत्त्वा इति। तत्कस्य हेतोरित्याशङ्क्याह। सर्वसत्त्वा अपि हीत्यादि। मनसिकारेणेत्यत्राविरुद्धेनेति शेषः। एवं मन्यते सन्नपि प्रज्ञापारमिताविहारस्तद्विरुद्धविपर्यासप्रवृत्तमनस्कारसद्भावात् सर्वसत्त्वानां न व्यवस्थाप्यते। यदा पुनस्त्वया मार्गनिर्याणावस्थायामुभयोः सहावस्थानेन विरोधो नाभ्युपगतस्तदा कादाचित्कविरोधानुपपत्तेः। यस्मादविरुद्धेन मनस्कारेण सर्वसत्त्वा विहरन्ति। तस्मात् प्रज्ञापारमिताविहारेणाविरहितत्वप्रसङ्ग इति। मनस्कारस्य यथारुतत्वे स्यादयं दोष इत्याह। साध्वित्यादि। किं त्वमनस्कार एव मनस्कारोऽभिप्रेतस्तत्र च शब्दप्रवृत्तिमात्रेण यद्युपालम्भः क्रियते तदाह। अपि तूपालप्स्ये त्वेत्यादि। यतो मनस्कारलक्षण एवार्थो भूतपदाभिधानेन यथारुताभिधानेनायुष्मता शारिपुत्रेण परिगृहीतस्तस्मात् त्वामप्येवंजातीयकेषूत्तरत्रवाक्येषु परिप्रश्नयिष्यामि। यथारुतशब्दार्थग्रहणे तुल्यो दोष इत्यनेनादर्शयति। कथं पुनरमनस्कार एव मनस्कारो न तु यथारुत इति। तत्कस्य हेतोरित्याशङ्क्याह। सत्त्वास्वभावतयेत्यादि। सत्त्वस्य प्राणिनो मायोपमता सत्त्वास्वभावता। तया हेतुभूतया तदव्यतिरेकात् मनस्कारास्वभावता। सत्त्वस्यासत्येव भावता सत्त्वासद्भावता। सत्त्वस्य तत्त्वोत्पत्त्यादिभिर्विविक्तता सत्त्वविविक्तता। सत्त्वस्य चित्तातिक्रान्तत्वमचिन्त्यता सत्त्वाचिन्त्यता। सत्त्वस्याप्रतिपत्तिरनभिसम्बोधनता सत्त्वानभिसम्बोधनता। सत्त्वोऽयथाभूतार्थोऽलीक इत्यभिसम्बोधनता सत्त्वायथाभूतार्थाभिसम्बोधनता। एतच्च पट्पदकं यथासङ्ख्यं चतुर्विधनिर्वेधभागीयदर्शनभावनामार्गावस्थासु ग्राह्यम्। एवं न्यायतोऽमनस्कार एव मनस्कार इत्यभिधायोपसंहरन्नाह। अनेनेत्यादि। एवंरूपेणानन्तरोक्तस्वभावेनानेन मनसिकारेणाविपर्यासप्रवृत्तत्वादिच्छामि विहरन्तं बोधिसत्त्वमनेन च प्रज्ञापारमितात्मकेन विहारेण मार्गनिर्याणलक्षणेनेत्येवं निर्यातव्यवस्तुषु प्रतिविशिष्टान्यधर्माभावेन सर्वधर्मानुपलम्भतया निर्याणादेवमेभिरष्टाभिर्निर्याणैर्निर्याणप्रतिपत्तिर्वेदितव्या। तथा चोक्तम्।



 



उद्देशे समतायाञ्च सत्त्वार्थे यत्नवर्जने।



अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम्॥ ७३॥



सर्वाकारज्ञतायाञ्च निर्याणं मार्गगोचरम्।



निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका॥७४॥ इति



 



सर्वाकारज्ञातैवानुष्ठीयमानत्वेन चर्या चित्तोत्पादादिरूपेण हेतुफलात्मकेन निःशेषाकारतया समस्तवस्तुपरिज्ञानात्तथागतानां सम्बन्धिनी पुनःपुनः परिवर्ततेऽत्रेत्यसौ ग्रन्थपरिच्छेदः सर्वाकारज्ञताचर्यापरिवर्तः।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project