Digital Sanskrit Buddhist Canon

शतगाथा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Śatagāthā
शतगाथा



कौमार्ये पठ्यतां विद्या शैत्ये संपाल्यतां च गौः।

क्षेत्त्रं च कर्ष्यतां पीतं त्रयः सुफ़लहेतवः॥१॥



गतेऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः।

यद्यपि फलदा स्यान्न सुलभा साऽन्यजन्मनि॥२॥

गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्।

विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥३॥

गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः।

अलिरेति वनात्कमलं न दर्दुरस्य तन्निवासोऽपि॥४॥

गुणिषु दुर्लभा आढया आढयेषु गुणिनस्तथा॥५॥

अनेके सन्ति भूभागा रत्नवन्तस्तु दुर्लभाः।

दुर्लभाः प्रणिनां सन्ति मातृपितृयुतस्तु च॥६॥

गुणाः कुर्वन्ति दूतत्वं दूरेऽपि बसतां सताम्।

केतकीगन्धमाघ्रातुं स्वयमायान्ति षट्पदाः॥७॥

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥८॥

अल्पस्तु कालो विविधाश्च विधा ः

सिमाऽऽयुषो या कियती ? न बुद्धा।

हंसा लभन्ते च यथा पयोऽद्भ्यस्

तथैव तत्वं लभतां च यत्तत्॥९॥

एकस्थाननिवासिनोऽतिसमयात् स्युस्ते वियुक्ताः किल

विच्छेदान्न हि चान्तरं किमपि तत् त्याज्यं न किं तत्स्थलम्।

वैवश्याध्दि वियोगतो मनसि जायन्ते विधाता अति

तत्स्थानं यदि हीयते सहजतः स्याच्चातिशान्तिः सुखम्॥१०॥

सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः।

दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति॥११॥

प्रपञ्चा यत्नतो हेयाः संसर्गः क्रियतां सताम्।

दिनं रोगभयान्मुक्तं शताब्दाच्चापि तद् वरम्॥१२॥

सर्वथेहाः परित्याज्याश्चेदशक्यं तदा पुनः।

निर्वाणाप्त्युन्मुखो भूयात् तदियं तस्य भेषजम्॥१३॥

उदयन्त्वमूनि सुबहूनि महामहांसि चन्दो

चन्दोऽप्यलं भुवनमण्डलमण्डनाय।

सूर्यादूते न तदुदेति न चास्तमेति

येनोदितेन दिनमस्तमितेन रात्रिः॥१४॥

यदुदेति विना सूर्य तेजस्वि तन्न जायते।

सूर्योदयो वरं चास्ति ह्यन्येषामुदयेन किम्॥॥१५॥

कुसुमस्तबकस्येव द्वे गती तु महात्मनाम्।

मूध्नि वा सर्वलोकस्य शीर्यते वन एव वा॥१६।

वाणि कठोरा भणिता हि दुष्टैर्या सर्परुपा सुजनान् हिनस्ति।

ते भेषजं क्षान्तिमयं च प्रज्ञां संसेव्य चिन्तारहिता भवन्ति॥१७॥

धीराः कष्टमनुप्राप्ता न भवन्ति विषादिनः।

प्रविश्य वदनं राहोः किं नोदेति पुनः शशी॥१८॥

यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु।

तस्य ज्ञानेन मोक्षेण किं जटाभस्मचिवरैः॥१९॥

वनानि दहतो वह्नेः सखा भवति मारुतः।

स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्॥२०॥

परस्तुतगुणैर्यस्तु निर्गुणोऽपि गुणी भवेत्।

इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः॥२१॥

कुलीनोऽपि भवेद् गर्वी कार्पाण्यसहितो धनी।

देवतास्तांश्च निन्दन्ति सर्गोऽयं जलवह्निवत्॥२२॥

दूरस्थोऽपि समीपस्थो यो यस्य मनसि स्थितः।

यो यस्य हृदये नास्ति समीपस्थोऽपिदूरतः॥२३॥

परेषां वैभवं दृष्ट्वा मनो यस्य प्रकुप्यति।

न तस्यार्थोपलब्धिस्तु चितं पुण्यं च नश्यति॥२४॥

रागोपमं नास्ति मलं हि लोके ईर्ष्योपमा नास्ति च काऽपि हानिः।

याञ्चासमो नास्ति च कोऽपि बन्धुर्दानोपमो नास्ति च मित्रवर्गः॥२५॥

क्षुधासमा नास्ति शरीरवेदना चिन्तासमा नास्ति शरीरशोषणा।

गुणैः समा नास्ति शरीरभूषणा क्षान्त्या समं नास्ति शरीरवर्मं वै॥२६॥

धनेन किं क्षुद्रजनस्य मित्रैः किं वञ्चकस्यापि च मत्सरस्य।

किं हानिदस्यातिगुणग्रहैश्च किं वा विपत्तौ विमुखात्मजेन॥२७॥

सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः।

बिद्यते हि न स कश्चिदुपायः सर्वलोकपरितोषकरो यः॥२८॥

प्रसङ्गस्यानुकूलो यःप्रज्ञ एव स पालयेत्।

सत्यासत्ये च मैत्रिद्वेषौ कुर्यात् स्वपरैः सह॥२९॥

न द्विषन्तः क्षयं यान्ति यावज्जीवमपि घ्नतः।

क्रोधमेव तु यो हन्ति तेन सर्वे द्विषो हताः॥३०॥

सत्कारो गुणिनां श्रेयान् दुर्जनस्य विनीतता।

कोशपूर्तिः सदाचारैः श्रेयो देशपरीक्षणम्॥३१॥

यावन्मार्गो भवेत् दृष्टो यावच्चरणपुष्टता।

प्रज्ञा ह्रासो न यावध्दि तावत्कुर्यात् स्वयं हितम्॥३२॥

व्यभिचारेष्वासत्तः राजा तस्य हि निरक्षरो मन्त्रि।

तदा धनाशा कुत्र रक्ष्या असवः प्रयत्नेन॥३३॥

सर्व यत्र विनेतारः सर्वे पण्डितमानिनः।

सर्वे प्रभुत्वमिच्छन्ति तद् वृन्दमवसीदति॥३४॥

मूषको रक्षयेदन्नं मार्जारी नवनीतकम्।

काकश्चालयेत् पाकं वस्तूनां तत्र का कथा॥३५॥

मालाकार इवारामे न यथाङ्गारकारकः।

पुष्पं पुष्पं विचिन्वीत मूलोच्छेदं न कारयेत्॥३६॥

वल्मीकं मधुजातं च शुक्लपक्षे च चन्द्रमाः।

भिक्षाद्रव्यं नृपद्रव्यं स्तोकं स्तोकेन वर्धते॥३७॥

हीनता याचने यत्र स्यात्तत्र न च याच्यताम्।

कामं हि न भवेदिन्द्रो हिमाज्जीवति तित्तरिः॥३८॥

मयूर ! ग्रीष्मस्य तु तापयुक्त आशायुतः खस्य जले भवेस्त्वम्।

कण्ठन्तु नो नामय गौरवेण नीरे तडागस्य तु दूषितस्य॥३९॥

सिंहो बली हरिणरक्तपामांसभोजी

संवत्सरेण कुरुते रतिमेकवारम्।

यो गर्दभः खलु रजःकणमात्रभोजी

कामी भवेदनुदिनं वद कोऽत्र हेतुः॥४०॥

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।

कन्दैः फलैर्मुनिवरा गमयन्ति कालम्

संतोष एव पुरुषस्य परं निधानम्॥४१॥

स शोभते पुष्पितपुष्पवच्च सुमण्डितं यस्य मुखं सुवर्णैः।

अनक्षरं यस्य मुखं भवेच्वेत् तन्नेत्रवक्त्रे भुबि छिद्रवच्च॥४२॥

मुक्तामणिभ्यां च हि गर्दभस्य किं शूकरस्य प्रियभोजनेन।

अन्धस्यदीप्त्या बधिरस्य गीतैमूर्खस्य धर्मेण किमस्ति कृत्यम्॥४३॥

कातन्त्रशाब्दवेत्ता हि वैद्यश्च सिद्धसारवित्।

काष्ठखङ्गधरश्चोपहासं यान्ति त्रयोऽपि ते॥४४॥

देहीदं वचनं निम्नं न दास्याम्यतिनिम्नकम्।

गृहाणेत्युत्तमं वाक्यं न गृह्णाम्यतिशोभनम्॥४५॥

क्षतिं बिहाय येनापि प्रयोगेण हितस्य किम्।

स्वकायरक्षणेनापि किञ्चैव धनतृष्णया॥४६॥

किंशुकस्य फ़लप्राप्तिर्यथा व्यर्थ बुभुक्षवे।

धनिनश्च तथाऽदातुर्जीवनं निष्प्रयोजनम्॥४७॥

कामातुराणां न भयं न लज्जा क्षुधातुराणां न बलं न तेजः।

रोगातुराणां न सुखं न निद्रा मार्गातुराणां न भयं न वीर्यम्॥४८॥

धनलिप्सुः सुह्रित् त्याज्या भार्या च व्यभिचारिणी।

अधर्मी च नृपः क्रूरो मन्त्री पिशुन एव च॥४९॥

कुप्रदेशो हि दुर्व्यवसायो दुष्टोऽथ वै सुहृत्।

बैद्योऽदक्षोऽपि दुःसेव्यम् वस्तु हेया इमेऽपि च॥५०॥

अहितं हितमाचारशून्यबुध्देः श्रुतिसमयैर्बहुभिर्वहिष्कृतस्य।

उदरभरणमात्ने केवलेच्छोर्मनुजपशोश्च को विशेषः॥५१॥

अर्धजलभरः कुम्भो मूर्ध्नि यत्नेन धार्यते।

क्रुध्यन्ति दुर्जना नूनं सत्कारेणातिसेवया॥५२॥

स्तोकेनोन्नतिमायाति स्तोके नाऽयात्यधोगतिम्।

अहो ! सुसदृशी चेष्टा तुलायष्टेः खलस्य च॥५३॥

यथा बार्यो न लशुनस्य गन्धः कस्तूरिकाचन्दनचन्द्रसंज्ञैः।

तथा न वार्या वरशास्त्रशिक्षाऽभ्यासेन दुष्टस्य च दुष्टताऽपि॥५४॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन्।

मणिना भूषितः सर्पः किमसौ न भयङ्करः॥५५॥

दुर्जना दुर्बला यावत् तावत् साधुस्वभावकाः।

न्यूने शरदि नीरे हि नदीं सर्वे तरन्ति च॥५६॥

ज्वरादत्युष्णता रौक्षात् कफश्च वर्धते यथा।

गुणाचारस्वभावैः स्युर्दुष्टा न परिवर्तिताः॥५७॥

दुष्टा नरा भृत्यगणोऽवमानी प्रशिक्षिता नैव हयाः कुभार्या।

प्रताडनेनैव भवन्ति नम्राः सुकर्मयोग्या न कदापि चैते॥५८॥

वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम्।

वृथा दानं समर्थस्य वृथा हीनस्य सत्कृतिः॥५९॥

पद्मानि सत्पुत्रमुखे लसन्ति रोहन्ति नूनं कुलटासुतस्य।

विषस्य पत्राणि यथा करोति दुष्कर्म यो वै लभते फलन्तत्॥६०॥

अभ्रच्छाया खले प्रीतिः सिध्दमन्नं च योषितः

तृणाग्निर्हिमबिन्दुश्च षडेते बुद्बुदोपमाः॥६१॥

शुष्कं मांसं स्त्रियो वृध्दा मद्यं च तरुणं दधि।

नक्ते भोजो दिवा स्वापः षडेते प्राणहारिणः॥६२॥

सद्यो मासं नवं सर्पिर्बालास्त्री पयसौदनम्।

उष्णोदकं तरुच्छाया षडेते प्राणकारिणः॥६३॥

कान्तावियोगः स्वजनापमानो ऋणस्य शेषः कुनरस्य सेवा।

दारिद्रभात्प्रविमुक्त मित्रं विनाऽग्निनैते प्रदहन्ति पञ्च॥६४॥

कर्मी ह्यलाभी बलिनोऽपकर्ता दर्पी च भिक्षुर्ह्यधनः सुखार्थी।

कटूक्तिभाषी प्रियसुन्दरीणामेते मृषाचारिजनाश्च पञ्च॥६५॥

धर्मदाताऽन्नत्र्दाता च भयत्रातोपदेशकः।

शरीरोत्पादकश्चेति पञ्चैते हितकारिणः॥६६॥

प्रारावृतो हि सन्यासात् स्री पतित्रयदर्शिका।

जम्बूको जालमुक्तश्च त्रयोऽमी वञ्चका मताः॥६७॥

भोजनापाचका वैद्द्या नृपाश्चासत्यवादिनः।

पापिन उच्चवंशीया अयोग्याः स्युस्त्रयो जनाः॥६८॥

याचकः स्वादुभोजि च दर्पी भिक्षापरो भवेत्।

शास्त्रार्थी भवतादज्ञस्त्रयो हासं भजन्ति च॥६९॥

सकृज्जल्पन्ति राजानः आर्यो हि दृश्यते सकृत्।

सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत्॥७०॥

स्थूलवपुस्तपस्वी च शूरश्चाप्यकृतव्रणः।

शयानैकाकिनी च स्त्री त्रयमेतन्न विशवसेत्॥७१॥

अन्येषां हिंसको विप्रो मिथ्याचारिनृपोऽपि च।

भोगी कामरतो भिक्षुर्निन्दाभाजस्त्रयो भुवि॥७२॥



विद्वान् विनयसम्पन्नो वीरोऽतिशान्त एव च।

त्यागारम्भं धनी कुर्यात् कीर्तनीयास्त्रयोऽपि च॥७३॥

दयी परहिते लीनो दुष्टश्च परनाशकः।

इच्छाभिर्बालक नूनं त्रयोऽतृप्ता इमे भुवि॥७४॥

अर्थनाशान्मनस्तापं दुश्चरितां गृहे स्त्रियम्।

वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥७५॥

विज्ञायतेऽध्वा शशितारकाणां ज्योतिर्विदाऽध्वा गणितेन खस्य।

न दृश्यते तेन गृहे तु पत्न्याः कामादिमिथ्याचरणं कुकृतम्॥७६॥

गरुणा तत्त्ववेत्तुः किं वैद्येनारोगिणश्च किम्।

पारे गतस्य किं नावा कान्तया किं विरागिणः॥७७॥

देवसुजनविप्राणां सत्ये विद्वद्गणस्य हि।

गूढे वचसि भोज्येऽस्ति प्रीति पृथग्जनस्य च॥७८॥

शैले शैले न माणिक्यं मीने मीने न मौक्तिम्।

साधवो हे न सर्वत्र चन्दनं न वने वने॥७९॥

हंसो न भाति चतुरो बकयूथमध्ये

गोमायुमण्डलगतो न विभाति सिंहः।

जात्यो न भाति तुरगः खरयूथमध्ये

विद्वान् न भाति पुरुषेषु निरक्षरेषु॥८०॥

कोकिलानां स्वरो रुपं नारीरुपमपत्रपा च।

विद्यारुपं विदग्धानां क्षमारुपं तपस्विनाम्॥८१॥

प्रभावशालिने पुंसे का क्षमाऽप्रतिकारिणे।

विनीताय च शान्ताय जनाय का सहिष्णुता॥८२॥

परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः।

अहितो देहजो व्याधिः हितमारण्यमौषधम्॥८३॥

महाजनस्य संसर्गः कस्य नोन्नतिकारकः।

पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते॥८४॥

विश्वासप्रतिपन्नानां वञ्चने का विदग्धता।

अङ्कमारुह्य सुप्तस्य हन्तुः किं नाम पौरुषम्॥८५॥

कौमारे पितरौ पातः भर्त्री रक्षति यौवने।

रक्षन्ति वार्ध्दके पुत्रा नाज्ञः स्वातन्त्र्यमर्हति॥८६॥

आसक्तिर्न भवेद्द्यावत् तावत्तु गुण एव सः।

प्रविष्टेऽस्यां महासक्तौ गुणादानं कुतो भवेत्॥८७॥

निजरीत्या जनाः प्रायोऽपरानाकलयन्ति हि।

ऋषयः प्रेतमालोक्य ब्रुवन्ति तं तपस्विनम्॥८८॥

दुर्जनदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः।

बालः पयसा दग्धो दध्यपि फ़ूत्कृत्य भक्षयति॥८९॥

अरघट्टघटी युक्ता वशीभवति योषितः।

भवत्यारम्भिको योऽपि भवत्येव तदद्भुतः॥९०॥

सत्कृतो महतां योऽस्ति वेत्ति तमधमस्तृणम्।

पण्डितैः पूजितस्तूपे काकः करोति चासनम्॥९१॥

फलं केतकवृक्षस्य यद्यप्यम्बु प्रसादकम्।

न नामग्रहणादेव तस्य वारि प्रसीदति॥९२॥

शिष्टा न गृह्णन्ति पुरा प्रतिज्ञां गृह्णन्ति चेत् ते कठिनप्रतिज्ञाम्।

अङ्गिकृतां तां परिपालयन्ति पाषाणरेखामिव ते तदानीम्॥९३॥

प्राप्नोति वित्तं ह्यधमो ति किञ्चिद् गर्वी परेषामवमाननायाम्।

संजायते लब्धधनः सुमर्त्यः सुपक्वधान्येन समं विनम्रः॥९४॥

नास्ति प्रज्ञासमं चक्षुर्नास्ति मोहसमं तमः।

नास्ति रोगसमः शत्रुर्नास्ति मृत्युसमं भयम्॥९५॥

अत एव कठोरातिमृत्युः सम्भाव्यते ध्रुवम्।

कामाच्चित्तमपावृत्य सध्दर्मेऽपेक्ष्यते स्पृहा॥९६॥

गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः।

सुस्वादु तोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः॥९७॥

कार्यमालोचितापायं मतिमद्भिर्विचेष्टितम्।

नापत्तिर्भविता तत्र जाता परिहृताऽपि सा॥९८॥

अल्पा दृढा ये मृदुभाषिणश्च तेभ्योऽवधानं करणीयमेव।

निर्याति सूर्यः सघनाध्दि मेघात् स्यात् तत्प्रकाशस्तु तदाऽतितीक्ष्णः॥९९॥

शान्तिप्रियाः स्युः खलु यौवनेऽपि वैदुष्य एवं विनता भवेयुः।

सहिष्णवस्तेजसि चातिनम्राः सुदुर्लभा एवमरिन्दमाः स्युः॥१००।

म्लेच्छेष्वपि समृध्दाः स्युर्वीरा एवं पशुष्वपि।

वक्तारः सार्थकोक्तीनां सज्जनाः स्युः सुदुर्लभाः॥१०१॥

सम्पच्चलं नश्वरयौवनं च प्राणा भवेयुर्यमदन्तमध्ये।

उपेक्षते तत्र सुखं न चेह जनः प्रपातस्थ इवास्ति चान्धः॥१०२॥

ये क्लेशरोगिणो भुक्त्वा न च सद्धर्मभेषजम्।

प्रमत्ता विषयासक्ता भवाब्धिं न तरन्ति ते॥१०३॥

जगता गतिशीलेन शिरःस्थो दृश्यतेऽन्तकः।

तदाऽप्रियं भवेदन्नं क्रियान्तरस्य का कथा॥१०४॥

प्रतीक्षते क्रियाणां न पूर्ति चापूर्तिमन्तकः।

श्वस्तनं चाद्य कुर्याच्च पूर्व मध्याह्निकं वरम्॥१०५॥

अस्थिरं जीवनं लोके यौवनं धनमस्थिरं।

अस्थिरे पुत्रपत्न्यौ च धर्मसत्यहिताः स्थिराः॥१०६॥

राज्ञोऽतिजीवितं युक्तं द्रुतमृत्युर्वरं ऋषेः।

सतो जीवनमन्तो वा वरं त्वाखेटकस्य न॥१०७॥



आचार्यवररुचिकृता शतगाथा समाप्ता।

गाथेयं भारतीयोपाध्यायविनयचन्द्रेण भोटदेशीय लोकचक्षु भिक्षुणा धर्मप्रज्ञेनानूदिता निर्णीताचेति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project