Digital Sanskrit Buddhist Canon

नीतिशास्त्रम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Pundarika Shakya
  • Input Date:
    April 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
॥नीतिशास्त्रम्॥

॥सर्वज्ञाय नमः॥
अर्थशास्त्रविशेषाद्यः शास्त्रेषु हितकारकः।
उन्मेषाय नृणां बुद्धे र्मसूराक्षेण भाषितः॥१॥

श्रेयसे चेह संसारे ज्ञानोपस्थापनाय वै।
वाक्यैश्च ज्ञानशिक्षायै यथावदर्थसिद्धये।
बुद्धेरुत्पादनार्थ च नय एषः प्रकथ्यते॥२॥

कौशलं सुप्रयुञ्जीत वस्तुजातं परामृशन्।
संरक्षेद्धर्मचर्यां हि प्रत्यक्षेऽपि परेऽपि वा॥
क्रोधं त्यजन् विशेषेण पण्डितांश्च समाश्रयेत्।
वदन्नित्यं ऋतं वाक्यं वदेन्नाहितवाचकम्॥३॥

ब्राह्मणं पूजयेदूभक्त्या नावमन्येत गास्तथा।
वर्जयेत्तादृशीं चर्यां यस्माद्वा राजतो भयम्॥
नैव कदाप्यवज्ञेयाः शत्रवो नाम ये जनाः।
विकत्थनां परित्यज्य न भजेन्निन्द्यवस्तुकम्॥४॥

भोज्यं हितकरं ग्राह्यं नावमन्येत बान्धवम्।
नैव स्कन्देज्ज्वलद्वह्निमाहवं न विलोकयेत्॥
श्रोतव्यानि च काव्यानि न कुर्यात्प्राणनाशनम्।
न स्कन्देत् विवरे कूपे नाकृत्यं च समाचरेत्॥५॥

विद्यां लब्ध्वा समासेन न क्रीडेदहिना सह।
दानं यच्छेत् यथाशक्ति हीनान्नैव च काङ्क्षयेत्
परनिन्दा न कर्तव्या न तथात्मस्तुतिः स्वयम्।
निशाऽटनं न कर्तव्यम् ज्ञातव्यं तत् सदैव हि॥६॥

न गच्छेदुप षण्डं वा छिन्नबन्धनशृङ्गिणम्।
बन्धुहीनोऽनुपानत्को न गच्छेच्च पथि क्कचित्।
दूरादेव वर्जनीयौ दुष्टबुद्धिश्च निन्दकः।
दुष्टां भार्यां परित्यज्य विश्वस्तां तां समाश्रयेत्॥७॥

यो हि न ज्ञायते सम्यङ् न भवेत्तेन संगतिः।
न काम्येत कदाचिद्वा भूपतेः परिचारिका।
हितं वाक्यं सदा शृण्वन्न क्रुध्येत् यत्र तत्र वा।
धेनुं सद्यःप्रसूतां च वर्जयेद्दूरमेव ताम्॥८॥

न कदा विश्वसेन्नार्यां न विशेद्दुस्तरां नदीम्।
नारोहेदुच्चवृक्षेषु पिवन्मद्यं कदापि वा।
नेष्टलाभाय संत्याज्यं स्वधर्मो स्वधनं तथा।॥९॥

तच्च स्थानं सदा त्याज्यं रक्षाहीनं तु यद्भवेत्।
सर्वेषां गूढवाक्यानि सर्वशो न प्रकाशयेत्॥
भूतिर्न सञ्चिता येन सदोद्युक्तो जनो हि सः॥
ऋतं वाक्यं वदेन्नित्यं न भाषेत निरर्थकम्॥१०॥

स्वागतञ्च वदेन्नित्यमागतं पुरतो जनम्।
नरदेवद्विजाः पूज्याः पुण्यं विषयमाश्रयेत्।
भजेन्नित्यं परिस्नातं शुभ्रवासःसमन्वितम्॥११॥

त्यजेत्संगं बहुस्त्रीणां यथाऽऽचरन्ति पण्डिताः।
दीर्घमायुस्तथा प्राज्ञो नैरुज्यमधिगच्छति॥१२॥

इति प्रथमोऽध्यायः।

पररन्ध्रं स्वरन्ध्रं वा गोपायेद्वा सुतं प्रियाम्।
पृथिवीव समद्रष्टा मानवः सुखमश्नुते॥१॥

मर्मवाक्यं न वक्तव्यं गूढं नैव प्रकाशयेत्।
भाषितं मर्मवाक्यं च ज्ञायतां शस्त्रधृग्यथा॥२॥

असन्दिग्धमना भूत्वा वदेदिक्षुरसो यथा।
विक्षुब्धो वचसा यो हि वाक्यशल्येन हन्यते॥३॥

रिपवः प्रियवक्तारो न मान्यन्ते सदा बुधैः।
विषभाण्डसमास्ते हि चरमे क्षयकारकाः॥४॥

न मन्येत नदीवेगं प्रशस्ततां तु लक्षयेत्।
कालो धावति तद्बद्धि आत्मनोऽर्थान् विचिन्तयेत्॥५॥

तावद् भयस्य भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य प्रहर्तव्यमभीतवत्॥६॥

अर्थात् पलायते ज्ञानं मार्जारान्मूषिको यथा।
बकवत् ज्ञायतामर्थः सिंहवच्च जयेद्रिपुम्॥७॥

सिंहादेकं बकादेकं षट् शुनस्त्रीणि गर्दभात्।
वायसात् पञ्च शिक्षेच्च चत्वारि कुक्कुटादपि॥८॥

प्रभूतमल्पकार्यं वा यो नरः कुर्तुमिच्छति।
सर्वारम्भेण तत्कुर्यात्सिंहादेकं प्रकीर्तितम्॥९॥

सर्वेन्द्रियाणि संयम्य बकवत् पण्डितो जनः।
कालदेशोपपन्नानि कार्याणि तु परीक्षयेत्॥१०॥

युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः।
स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात॥११॥

गूढमैथुनधार्ष्ट्य च काले चाऽऽलयसंग्रहम्।
अप्रमाद [मविश्वस्तं] पञ्च शिक्षेत वायसात्॥१२॥

बह्वाशी स्वल्पसन्तुष्ठः सुनिद्रः शीघ्रचेतनः।
प्रभोर्भक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः॥१३॥

अविश्रान्तं वहेद्भारं शीतोष्णं च न विन्दति।
[सन्तोषश्च ] तथा नित्यं त्रीणि शिक्षेत गर्दभात्॥१४॥

विंशत्येते गुणा ज्ञेया यस्तु कुर्याद् विचक्षणः।
स जेष्यति रिपून् सर्वानजेयश्च भविष्यति॥१५॥

॥ इति द्वितीयोऽध्यायः॥

स्कन्धेनापि वहेच्छत्रुं यावन्न कालस्य पर्ययः।
तथैव कालसम्प्राप्ते भिन्द्यात् घटमिवाश्मभिः॥१॥

न गच्छेदीदृशं शत्रुं रोति हीनो भृशं यथा।
तेन मैत्री न कर्तव्या य आदौ प्रतिघातकः॥२॥

ऋणशेषश्चाग्निशेषः शत्रुशेषस्तथैव च।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत्॥३॥

कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम्।
तत्र दोषं न पश्यामि शठे शाठ्यं समाचरेत्॥४॥

आपदर्थे घनं रक्षेत् दारान् रक्षेद् घनैरपि।
आत्मानं सततं रक्षेत् दारैरपि घनैरपि॥५॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥६॥

लुब्धमर्थ प्रदानेन श्लाघ्यमञ्जलिकर्मणा।
मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम्॥७॥

शत्रुं साञ्जलिविश्वासैः संपूज्य नतमौलिभिः।
कामादश्रु विमुञ्चन्ति ईप्सिताः धनकामुकाः॥८॥

बलीयसि प्रणमतां जयेच्च दुर्बलं रिपुम्।
सन्धिमिच्छेत् समेनापि विग्रहं न समाचरेत्॥९॥

न तत् कुर्याद्यथोद्वेगं नाचरेद्दारुणं तथा।
नात्क्षिपेद्यः शिरःपातः खण्डकर्म रभेत् न॥१०॥

न वस्तव्यमरेः स्थाने रभेत कलहं न वा।
न येषां विद्यते भेदः कुतस्तान् भेदयिष्यसि।
नोन्मूलयेत्तरीर्मूलं यन्मूलं च दृढं भवेत्॥११॥

न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम्।
धर्मः स नो यत्र न रम्यमस्ति
सत्यं न तद् यच्छलदोषयुक्तम्॥१२॥

क्लिश्नाति कण्टकं बिद्धं नष्टो धर्मस्तथैव च।
शत्रूणां च विरुद्धानां मूलनाशात् सुखी भव॥१३॥

नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम्।
छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः॥१४॥

यद्यदा चिन्तितं किञ्चित्तदैव हितचिन्तितम्।
पण्डितश्च तथाकारी तूर्णमात्मवशं नयेत्॥१५॥

यदपसरति मेषः कारणं तत् प्रहर्तुं
मृगपतिरतिकोपात् संकुचत्युत्पतिष्णुः।
हृदयनिहितवैरा गूढमन्त्रोपचाराः
किमिव हि गणयन्तो बुद्धिमन्तः क्षमन्ते॥१६॥

कुतः कोकिलः सौवर्ण्यं बल्मीकं रौप्यमास्खिकम्।
को नष्टो नागते काले भुजंगस्य पदं नु किम्॥१७॥

पदस्थं नावमन्येत मतिमन्तं य आश्रयेत्।
नमितं न फटास्थानं यस्य न क्षयितो विषः॥१८॥

न विश्वसेत् पूर्वपराजितस्य
शत्रोश्च मित्रत्वमुपागतस्य।
मृगो यथा नीरवपादशब्दै
र्निहन्यते व्याधविषाक्तवाणैः॥१९॥

॥ अथ तृतीयोऽध्यायः समाप्तः॥

अयं स्वार्थः परार्थोऽयमित्येवं वा न कल्पयेत्।
विबुधा नैव मन्यन्ते स्वं परं वा पृथक् पृथक्
नियुञ्जीत परस्यार्थे प्रोत्सहेत स्वकर्मणि॥१॥

अञ्जनस्य क्षयं दृष्टा वल्मीकस्य च सञ्चयम्।
बुधस्तथैव युञ्जीत स्तोकेन सञ्चितं यथा॥२॥

धूर्तो मोहयते सर्वान् मूढो मुह्यति नित्यशः।
अविश्वस्तेषु विश्वासात् स्वगुप्तिमनुचिन्तयेत्॥३॥

वल्मीकस्य विनाशो वै कीटनिष्ठीवनाद्भवेत्।
अबन्ध्यं दिवसं कुर्याद् दानाध्ययनकर्मभिः॥४॥

सज्जनोऽपि सदा मान्यो नाश्रयेद्वा खलं तथा।
रिपुं जयेच्च शौर्येण शठे नैव च विश्वसेत्॥५॥

बहिष्कार्या सदा वेश्या क्षन्तव्यो हि गुरुस्तथा।
विश्वं येन परिज्ञेयं जगत्यां नाशकं तथा॥६॥

सार्थकं कर्म यस्य स्यात् सज्जते तर वै जनः।
रम्यं यत्र वचः सम्यक् गुणानाख्याति नित्यशः॥७॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नं सर्वं मूलाद्विनश्यति॥८॥

न ग्राह्यं भौतिकं सर्वं शत्रुशक्तौ न विश्वसेत्।
गूहेन्नित्यं स्वभावं च परभावं च लक्षयेत्॥९॥

परदारा विषास्तुल्याः एवं च परचारिकाः।
मृत्युद्वाराणि विन्दन्ते विश्वासादुभयोस्तयोः॥१०॥

आयुर्यौवनभोगेषु रिपावूर्द्धे भुजंगमे।
विश्वासो नैव [विज्ञानां ] स्त्रीषु राजकुलेषु च॥११॥

ज्ञानार्थमाश्रयेन्नित्यं श्रद्धवा पण्डितं जनम्।
एवं ज्ञानार्थिना सर्वं ज्ञातव्यमित्यशेषतः॥१२॥

विश्वासो नैव पापेषु पण्डितैर्नात्मपूजनम्।
यतस्तेषु न विश्वासो जीविका नश्यते नृणाम्॥१३॥

अन्तकः परनो मृत्युः पातालं वडवामुखम्।
क्षुरधारा विषं सर्पो वह्निवित्येकतः स्त्रियः॥१४॥

शत्रुपक्षः परित्याज्य श्चात्मानन्दे समाश्रितः।
सर्वतो बुद्धिमानेष चिरं नन्दति भूयसा॥१५॥

चक्षुर्निमेषमात्रं वा न परोक्षे रिपुः कृतः।
नाशयेत् कालखड्गेन निन्दायां वधिरस्तथा॥१६॥

यत्रोदकं तत्र वसन्ति हंसास्तथैव शुष्कं परिवर्जयन्ति।
न हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्ति पुनराश्रयन्ति॥१७॥

राज्ञः सङ्गं न याचेत गणिकायास्तथैव हि।
भिषजो वा कुटुम्बानां भृत्यानां नैव नैव च॥१८॥

यस्यैव कारणाज्जातं शोको दुःखं तथा क्षतिः।
शरीरे नाशमूलं वै किञ्चिन्मात्रं बुधस्त्यजेत्॥१९॥

यथा चतुर्भिः कनकं परीक्ष्यते
निर्घर्षणच्छेदनतापताडनैः।
तथा चतुर्भिः पुरुषः परीक्ष्यते
त्यागेन शीलेन कुलेन विद्यया॥२०॥

जानीयात् योग्यकालं वै रक्षेद् गुप्तिं स्वकं परम्।
लोकचित्तविनोदाय वाक्येषु विश्वसेत्सदा॥२१॥

॥अथ चतुर्थोऽध्यायः समाप्तः॥

अमात्यो ज्ञानसम्पन्नः सर्वशास्त्रविशारदः।
कोषवान् बलवांश्चैव यो न हन्यात् स हन्यते॥१॥

विश्वस्ता हि मरिष्यन्ति यथा वंशः फलेन हि।
विश्वासान्नाशमायाति यथारण्ये स्थितो मृगः॥२॥

आनन्दयति सत्त्वानि यो हि मङ्गलमञ्जुवाक्।
निन्दामेष्यति लोके सः परवाक्यनिगूहकः॥३॥

चेतसा यो महापापः पापकृत् दोषयुक्तकः।
एष पन्थाः खलाचारो मानभङ्गेन नाशितः॥
शठश्च नगरध्वंसी लोकेषु दुर्जनो रिपुः।
कुजनानां निधिः सोऽपि कूपो वा मलिनो यथा॥
मुखं मिष्टं च माध्वीकम् वाक्यं चन्दनशीतलम्।
चित्तं करात सदृशमेवं स धूर्तपूरुषः॥५॥

प्रियभाषी स्वयं धूर्तो दोषानुकायमञ्जु वाक्।
प्रीतिर्न ध्रियते चित्ते कपटी स यमान्तकः॥६॥

अतिनीचानि वाक्यानि दृष्टिमात्रातिनिन्दकः।
क्षुद्रसंवादभाषी यो ह्येवं दुष्टः शठो जनः॥

पुरा येन कृतो नाशोऽधुना येन च नाशितः।
विश्वासोऽत्र न कर्तव्यः कोटरस्थित-सर्पवत्॥८॥

नखिनां च नदीनां च शृंगिणां शस्त्रपाणिनाम्।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च॥९॥

अग्निरापः स्त्रियो मूर्खो सर्पो राजकुलं तथा।
भूयान्नित्यं सतर्कोऽतः सद्यःप्राणहराणि षट्॥१०॥

शत्रवे रिंक्थदायी यो नाश्रितव्यः कदाचन।
नाशयत्यपि स प्राणान् यथा मायि-द्विचारिणी॥११॥

वर्जयेत्तादृशं बन्धुमादावनिष्टकारिणम्।
मित्रवाञ्छां न गृह्णाति हेतुः कलहकारिणाम्॥१२॥

बन्धुं न यो विजानाति मित्रं परिजनांस्तथा।
प्रवीणसेवकान् भृत्यांश्चैवं स इतरो जनः॥१३॥

न सम्भाषेत चौरं वा बन्धुं वाऽरिष्टवाहिनम्।
द्विजं पापकृतं नैव स्त्रियं च व्यभिचारिणीम्॥१४॥

न दूषयेत् परं तत्र नात्मना यत् परीक्षितम्।
न कुर्यादीदृशं कर्म नरके पतनं यतः॥१५॥

आत्मैव ह्यात्मनो मित्रमात्मैव रिपुरात्मनः।
स्वर्गो वा नरकस्तत्र सर्वमात्मवशास्पदम्॥१६॥

इति पञ्चमोऽध्यायः॥

यथा हि भासते सूर्यो दीप्त्या सर्वं प्रकाशते।
तथैव राजते मन्त्री सर्व्वत्र समदर्शकः॥१॥

खले सख्यं प्राङ्मधुरं वधोऽन्तराले निदाघदिनमन्ते।
एकादिमध्यपरिणतिरमणीया साधुजनमैत्री॥२॥

महात्मना समं प्रीतिरादौ शीर्णतमा मता।
सम्यग्विबर्धते मध्ये ह्यन्ते तु परिरम्यते॥३॥

साधोः प्रीतिर्नदीवद्धि शीर्णाऽऽदौ महती परम्।
बर्धते च क्रमेणासौ नैवाऽऽवृत्तिश्च कर्हिचित्॥४॥

गावो गन्धेन पश्यन्ति वेदैश्चैव द्विजातयः।
कर्णैः पश्यन्ति राजानो भेषजैर्भिषजस्तथा॥५॥

घातकामनया शत्रुस्तोष्टव्यो मिष्टभाषणः।
नित्यं चित्तविमोहेन गीतमुग्धो मृगो यथा॥६॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स हि पण्डितः॥७॥

त्यजन्ति मित्राणि धनैर्विहीनं पुत्तांश्च दारांश्च सुहृज्जनांश्च।
तमर्थवन्तं पुनराश्रयन्तेऽप्यर्थो हि लोके पुरुषस्य बन्धुः॥८॥

अदृष्टपूर्वो बहवः सहायाः सर्वे पदस्थस्य भवन्ति वश्याः।
अर्थैर्विहीनस्य पदच्यूतस्य भवेद्धि काले स्वजनोऽपि शत्रुः॥९॥

मन्त्रं गूहेत यत्नेन सम्यग्बलेन साधयेत्।
रिपोर्नैव च भेतव्यं रिपुर्भेष्यत्यसंशयम्॥१०॥

मूलनाशं विपक्शाणामादौ करोति पण्डितः।
ततः स्वपक्षयोगेन हन्यतां पूर्वपीडकः॥११।

सकृद्दुष्टन्तु यो मित्रं पुनः सन्धातुमिच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥१२॥

वैरिणा सह विश्वासं यो नरः कर्तुमिच्छति।
स वृक्षाग्रेषु सुप्तः सन् पतित्वा प्रतिहन्यते॥१३॥

पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः।
राज्ञोऽन्तर्घातको यो हि स हन्तव्यो न संशयः॥१४॥

मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम्।
नावश्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः॥१५॥

तुल्यार्थं तुल्यसामर्थ्यं मन्त्रज्ञं व्यवसायिनम्।
अर्घराज्यहरं भृत्यं यो न हन्यात् स हन्यते॥१६॥

गाम्भीर्ययुक्ता मृदुमन्दवाक्या
जितेन्द्रियाः सत्यपराः सुयोज्याः।
भाव्यर्थतज्ज्ञा विदितार्थतत्त्वाः
प्रायेण भृत्याः कृतिनो भवन्ति॥१७॥

निरालस्याः सुसंहृष्टाः सुस्वप्नाः प्रतिबोधकाः।
सुखदुःखसमा धीरा भृत्या लोकेषु दुर्लभाः॥१८॥

सरले सरलो भूत्वा कुटिले कुटिलस्तथा।
सुखिनि च सुखी भूत्वा व्यथिते व्यथितस्तथा॥१९॥

यो यस्मिन्नन्दते भावे नरेण हश्यतेऽवला
सतां वेश्मप्रवेशद्वाः नोत्सृज्यते कदापि वा॥२०॥

दुर्जनैः सह वासेन सुजनो दुर्जनायते।
पंकिलं पंकयोगेन निर्मलं हि जलं यथा॥२१॥

मुखे वहति माधुर्यं हृदये क्षारसन्निभम्।
कोमलमश्मचूर्णं हि कठिनाभ्यन्तरं सदा॥२२॥

कदापि नाश्रयेत्प्राज्ञोऽकरुणं मिष्टभाषिणम्।
प्रच्छन्नमसहिष्णुं वा गुडमिश्रं विषं यथा॥२३॥

नातिधूर्तेषु विश्वासो नैव सन्धिर्न चाऽऽश्रयः।
अम्लेन बर्धते नित्यं यथा व्याधिर्विसूचिका॥२४॥
महातरुर्वा भवति समूलो वा विनश्यति।
नान्तरप्रत्ययानेति न्यग्रोधकणिकांकुरः॥२४॥

पुत्राः पौत्रा विनश्यन्ति विनष्टे नरपालके।
आश्रिताः सचिवा भृत्या न्यग्रोधस्यांऽकुरे यथा॥२५॥

॥इति षष्ठोऽध्यायः॥

पार्थिवस्येव वक्ष्यामि भृत्यानां चैव लक्षणम्।
सबान्धवो महीपालः सम्यग् भृत्यान् परीक्षयेत्॥१॥

पूज्यते मानवैर्देवैरिन्द्रादिदैवतं यथा।
तथैव पूज्यते राजा प्रजाभिर्मन्त्रिभिः सह॥२॥

स्थिरगम्भीरबुद्धिश्च तेजस्वी धर्मशास्त्रवित्।
सत्यवादी विनीतश्च राज्ञो जनहिते मतिः॥
कुशलधीः कुलीनश्च गुरौ भक्तिपरायणः।
प्रजानां वत्सलश्चैव युवराजः स उच्यते॥३।४॥

कल्याणहितवान् भूपो गुरूणां दोषगुप्तकः।
सममतिः सुखे दुःखे समरे चापलायितः

कुलशीलेषु सम्पन्नो नीतिधर्मेषु पण्डितः।
तथैव पूज्यते राजा चतुरस्रः प्रकीर्तितः॥६॥

वाक्पटु र्बुद्धिसम्पन्नो नीतिशास्त्रेषु पण्डितः।
मिष्टालापी सदाचारो राजमन्त्री तथैव हि॥७॥

मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः।
धीरो यथोक्तवादी च एष दूतो विधीयते॥८॥

वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः।
आशीर्वादपरो नित्यमेष [प्राज्ञः] पुरोहितः॥९॥

सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः।
शब्दशास्त्रपरिज्ञाता एष लेखक इष्यते॥१०॥

वर्णाञ्छब्दांश्च यो वेत्ति शब्दतत्त्वविचक्षणः।
विधेयः पाठको ह्येव गन्धर्वः स्वरविद्यथा॥११॥

शुभाशुभफलाभिज्ञो धीरः प्राज्ञो जितन्द्रियः।
दण्डाधिकारिकः शुद्धो नृपस्य देहरक्षकः॥१२॥

आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः।
[शीलविधिषु सम्पन्नो ] वैद्यो एष विधीयते॥१३॥

बलवान्मधुवक्तश्चा ऽपराञ्जानाति यो लघु।
पराशयसदाभिज्ञो विधेयः पालकः सदा॥१४॥

शस्त्रेषु कुशली दक्षो वाहनेषु सुशिक्षकः।
धैर्य वीर्यगुणोपेतः सेनाध्यक्षो विधीयते॥१५॥

पितृपैतामहो दक्षः शास्त्रज्ञो मिष्टपाचकः।
शौचप्रीतिसमायुक्तः सूपकारः स उच्यते॥१६॥

शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः।
शास्त्रार्थतत्त्वगोऽमात्यो भवेद् भूमिभुजामिह॥१७॥

धीरोऽपि विजयी राजा श्वेतच्छत्रपताकया।
शोभते समरे नित्यं तस्य कीर्तिर्भवेद् ध्रुवा॥१८॥

शुष्कास्थिखण्डं प्रति लोभिना शुना।
भूयोऽपि दंष्ट्राभिरिदं हि दश्यते।
लेलिह्यते स्रावि सुखेन शोणितं।
तथैव तृष्णार्तजनः सुखे रतः॥१९॥

इति सप्तमोऽध्यायः।
अथ मसूराक्षप्रणीतनीतिशास्त्रं समाप्तम्॥

भारतीयपण्डितधर्मश्रीवज्रेन भौट्टभिक्षुशाक्यमत्या च
संस्कृतभाषाया भोटभाषायामनूदितमिदमिति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project