Digital Sanskrit Buddhist Canon

बुद्धमतम्

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
बुद्धमतम्

नाट्यम्

नृत्तं गीतं वाद्यम् इति त्रयं 'नाट्यम्' इत्युच्यते; तौर्यत्रिकम् इति च। जरत्तमार्याः साहित्यविद्याया इव नाट्यविद्याया अपि रसज्ञा बभूवुः। अस्या आकरग्रन्थो नाट्यवेद इत्युच्यते। स द्विसहस्रवर्षप्राचीनेन भरतमुनिना प्रणीतः। अभिनवगुप्ताचार्यः ४१०० तमवर्षजीवी विस्तृताम् अस्य विवृतिं विरचितवान् अभिनवभारतीं नाम॥

बुद्धमतम्

उक्ते जातिनियमे निरङ्कुशम् अनुवर्तमाने गतेषु परस्सहस्त्रेषु वत्सरेषु क्षत्रिया वीरवृत्तौ वैश्या वाणिज्यवृत्तौ चासक्ताः सन्तो वैदिकेषु यज्ञकर्मसु ब्राह्मणान् प्रायः प्रतिनिधातुम् आरेभिरे। प्रचीयमाने प्रतिनिधानपक्षे तेषां ब्राह्मणेष्वतिबहुमान आसीत्; वेदाध्ययने चावश्यकत्वबुद्ध्यभावाद् अप्रवृत्तिरासीत्।

(७९)

वेदशास्त्रविज्ञानं ब्राह्मणमात्रशरणं बभूव। ब्राह्मणाश्च वहवः सुलभया पूजया संतृप्ता विद्यापरिशीलने यथापूर्वं श्रद्धां न बबन्धुः।

एवं क्षीयमाणे विद्याप्रचारे सर्वेषां वर्णानां विद्यामूलाः सद्गुणा विरला आसन्। क्रमेण तेषां परस्परस्नेहः समदृष्टित्वं 'चातुर्वर्ण्यम् एकं कुडुम्बम्' इति बुद्धिश्चास्तं जगाम। प्रत्युतोत्तमवर्णानाम् अवरवर्णोष्ववज्ञा, तेषाम् उत्तमवर्णेष्वीर्ष्या चाङ्कुरिता बभूव। दोषकुलषाश्च वर्णानाम् आचारा बहुलीवभूबुः।

अस्मिन्नवसरे बुद्धमतं भारते प्रादुरासीत्। इदं मतं जातिनियमाभावाज्जातिनियमक्लेशम् अनुभवतां जनानां काराबन्धमोचनमिव महद् आश्वासस्थानम् अभवत्। ब्राह्मणा अपि केचित् तत्काले गुणदर्शनाद् मतमिदम् अङ्गीचक्रुः; किमुतान्ये।

ऐहिकसुखवैराग्यम्, अहिंसा, सत्यम्, अस्तेयं, शान्तिः, समदृष्टिता, भुतदया, परोपकारः, शरणागतपरित्राणम् इत्येते गुणा आचाराश्च सारभूता

(८०)

मतेऽस्मिन् ब्राह्मणमतवद् उपदिष्टाः। तथा स्वर्गनरकौ देवाः पुनर्जन्म निर्वाणापरनामा मोक्षश्च मतेऽस्मिन्नभ्युपगम्यन्ते। किन्तु जन्तुहिंसयेश्वरयजनं यद् ब्राह्मणमतेऽङ्गीकृतं , तद् अस्मिन् मतेऽत्यन्तं निन्दितम्। सृगालवादसूत्रे महाराहुलसूत्रे च बुद्धमतस्य तत्त्वान्युपदिष्टानि।

इदं मतं कलिवर्षीयस्य षड्विंशशतकस्योत्तरार्धेऽङ्कुरितं भिक्षुसङ्घस्य महतां राज्ञां च प्रयत्नाद् भारतम् अखिलम् आक्रम्य चीनेषु जापानदेशे लङ्कायां च प्रचारम् अलभत। तद् अध्यत्वे भारते परं विरलं प्रचरति॥

बुद्धमुनिः

पुरा नेपालेषु कपिलवस्तुनगरे शाक्यानां क्षत्रियाणां वंशे शुद्धोदनो नाम राजा बभूव। तस्य चिराय सन्ततिम् अभिलषतो मायादेव्यां सिद्धार्थो नाम सूनुः कलिवर्षे २५४४ तमेऽजायत। अयं वंश-

(८१)

नाम्ना "गौतम" इति जातिनाम्ना " शाक्यमुनि" रिति, मतदर्शनाद् "बुद्ध" इति च प्रसिद्ध आसीत्। सप्तमेऽह्नि मात्रा वियुक्तम् एनं मातृष्वसा गौतमी परिवर्धयामास। अयम् अधीतविद्यः प्राप्ते यौवने गोपां नाम शाक्यकन्यकां परिणीय तस्यां राहुलाभिधं पुत्रं जनयामास।

एष मानुषभोगेष्वतिदृढया नश्वरत्वभावनया राज्यभोगाद् विरज्य क्वचन रात्रौ प्रसुप्तशान्ताद् अन्तःपुरात् प्रवव्राज।

प्रथमं गिरिव्रजम् आसाद्य तत्रत्यासु गुहासु वसभ्द्यः परिव्राजकेभ्य आर्यमततत्त्वानि सम्यग् जग्राह। तावता स्वाभीष्टं सुखम् अलब्धं पश्यन् स बुद्धगयायां घोरं तपश्चरितुम् आरेभे।

तथा तपस्यन्नयं षट्सु वर्षेष्वतीतेषु क्वसिद् दिने श्रमातिशयाद् मूर्च्छितो बभूव; क्षेणेन च प्रतिलब्धायां संज्ञायां तपः परिसमापयामास।

अथ फल्गुनीनद्यास्तीरं प्राप्य कस्यापि बोधिद्रुमस्य मूले यदायं निषसाद, तदा सर्वं पूर्वजन्मवृ-

(८२)

त्तम् अस्य प्रतिभातम् आसीत्; तत्त्वज्ञानं चोद्बुद्धम् अभवत्।

ततो बुद्धः काश्याम् उरुबिल्वे च बहुन् शिष्यान् अविन्दत। सशिष्य एष वीतरागो मुनिः परार्थपराण्यवदातानि कर्माण्याचरन् गुणैकसारैरुपदेशैर्जनान् जातिभेदम् अनादृत्य तत इतः स्वमते प्रवेशयामास।

स मगधेषु राज्ञा बिम्बिसारेणातिवेलं पूज्यमानश्चिरम् उवास। पुनरुत्सुकस्य पितुर्दर्शनाय कपिलवस्तुनगरं गत्वा स्वपुत्रं राहुलं स्वमते प्रावेशयत्। पितृनिर्याणात् परतो मातृष्वसारं भार्यां च स काषायं ग्राहयामास।

अथ मुनिरनपायिनीं कीर्त्ति जगति प्रतिष्ठाप्य २६२४ तमे कलिवर्षे निर्वाणं प्रपेदे। एनं मुनिं विष्णोरवतारं पुराणानि कीर्तयन्ति॥
(८३)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project