Digital Sanskrit Buddhist Canon

नालन्दादहनम्

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version nālandādahanam
नालन्दादहनम्
श्री सुब्रह्मण्यचिरचितं डिमर्गगर्णायं नृत्यनाटकं वीररौद्रभयानककरुणा -
रसप्राधान्येन भ्राजते। इदं नाटकं पूर्ण नालन्दाविश्वविद्यालय महाद्वारे नाटयते।
नान्दी
दुर्गा आदि
प0 नीरजनयन कृपातरंगिनान्तरगं
निरुपमसुन्दर इंदु विजितवदन
अ0 पारदर्शक भवसागरस्य परमोत्तामयोगिन्
क्रूर दुरितदुर्गनिभेदकशुर
च0 मारजितेत्यष्टांगिकमार्गदर्शकेति ख्यान
वारणमदवारणेति गुरुवरेण्येत्यर्चित
भारतदेशोन्नतिं स्थापित पावनगुणालय
सुरनरवंद्म सुब्रह्मण्यगीतिमालाधर।
प्रथम दृश्यम्
अतिप्रसिद्धनालंदा विश्वविद्यालयस्य राजद्वारे केचिद्विद्धार्थयः तत्प्रभावं गायन्ति,
ततः विद्यालयस्य अध्यक्षभिक्षुः अथ केचित् ज्येष्टभिक्षवश्च तत्रायान्ति आगामिनं तुरुष्कसेनाक्रमणं निरोद्धमुपायान् विचारयर्न्ति च
विद्यार्थिनः गायन्ति,
पूर्वकल्याणी आदि
प0 संपूर्णकल्याणगुणैस्समृद्धां सर्वलोक प्रसिद्धां मातरं वंदामहे नालंदामातरम्
अ0 कांबोजजगांधारं चीनादिदूरदेशेम्यः इहायाताः
बिंबायितजिज्ञासाः वयं अंबोनिधिं सर्वशास्त्राणा
च0 १ तोरणलंकृते द्वारे इमे दूरदेशादागताः पण्डिताः
तुल्यंपरीक्षिताः पालकैरत्र विविधेषु शास्त्रे षु ते
तर्कवारणाभनागार्जुनाहाध्यक्षबोधिताः ज्ञानभासा
पूरयन्ते मेदिनीं बुद्धसत्यैः काशयन्ते नालंदा मातरम्
च0 २ भुवनत्रयेषु प्रथमां विद्यायलयं पूर्णहृदयैर्वयं वन्दामहे
पवनमिव सर्वलोकव्याप्तकीर्ति वंदामहे नालंदामातर
शिवसत्यसुंदुरगुणान्वितज्ञानकाशकां वंदामहे
भवतापहारिपरमार्थिकं व्यवहारिकोभयज्ञान दात्रीम्।

ततः तत्रायाताः अध्यक्षभिक्षुः तस्य ज्येष्टसखयश्च त्वरिणागामिनं
तुरुष्कसेनाप्रभावं नर्कयन्ति।
ज्येष्टभिक्षु ः १०
आभोगि आदि
प0 श्रृंणोमि श्रृणोमि त्वरेणातिल्भेलच्छागणान्यायान्तीर्हो
अ0 धनानां निवासं धान्यगृहमार्यवर्तं प्रति लोभदग्धाः
च0 शूराः इति केचिदाहुः श्रतिक्रूरास्ते इत्याहुरपराः
घोरमहापातकेषु रमन्तेति दूरादायाताः भयेन वार वर्णयन्ति।
श्रध्यक्षभिक्षुः तं शमयन्नुत्तरं ददाति।
असावेरी आदि
प0 शान्तो भव भ्रांतं मानसं शामय सखे शामय।
अ0 वृत्तान्तेऽतिशयोकत्य अलं, शुद्धान्ते आखुदर्शनभ्रान्त कृष्णसर्पो इति
कान्ता घोषति तथै व जल्पसि त्वम्।
च0 कल्पान्तो आगतो इव घोषणात् फलं किम्
कनिष्कमिलिण्डाति मलेच्छा बौद्धायिताः
शिल्पास्तदा शास्त्राणि व श्रद्धया रचिताः पुरा
श्रीकरार्यसत्याः मेल्च्छान् वशीकर्तुं
शक्या सदैवेति स्मारं स्मारम्।
अपरो जयेष्टभिक्षुः कथयति।
सहाना आदि
प0 श्रथ्यतेऽपि सन्ति तेषु पण्डिता शास्त्रेषु
अ0 गायन्ति विद्वांसः गणनादिशास्त्रेषु
खययाममालबरूनिं चापि पारंगतानां प्रभावम्।
च0 वर्णदेशकालाधिगतां विद्मामाश्रिताः वयम्
निर्णयामः पात्रतां विद्यार्थीनां द्वारे
सपूर्णनिस्समानविद्यामातरं भुवनत्रयविकीर्णख्यातिं
नालन्दां न कोऽपि शक्तो नाशयितुम्।
अथ प्रथमो ज्येष्टभिक्षुः उग्रं मुत्तरं ददाति
अटाणा आदि
प0 जल्पथ व्यर्थं म्लेच्छास्वभावज्ञानविहीनाः यूयम्।
अ0 स्वल्पमापि तत्क्रूर भयंकरकृत्यान्यज्ञात्वा

च0 कल्पयथ खय्यामजिज्ञासां क्रूरतमानां सनानीनाम्
शिल्पसहस्त्रच्छेदकानां शिथिलीकृतशतमन्दिराणाम्
कल्पितस्वागमभवत्यापरान् खङ्गैः शिरच्छेदनातुराणाम्
अर्पितमानसानां अरिजनचूर्णीकरयज्ञे।
ततः पुस्तकालयाध्यक्षभिक्कुणी घोषति।
तिलंग् आदि
प0 म्लेच्छागुणान् विस्तरेण आलापने फलं किम्।
अ0 स्वेच्छाया स्वशकत्या मातरं रक्षितुम् इच्छामोयदि।
चर्चां विना धयमभटाः वयं भवेमाधुनैव त्वरेण।
च0 निरायुधाः वयं निस्सेनाबलाः वयम्
स्यिराः वयं परन्तु विद्यासुपालने
किरातकाः आयान्तु तान् शमयितुं यतामहे
वृथा भवेत् प्रत्यत्नं यदि यामः पंचतामिर्हेव।
द्वितीयं दृश्यम्
भत्त्यार रिवल्जिनः तुरुष्क सेनार्णवो
नालन्दां प्राप्तः राजद्वारं सहसा प्रविश्य
अश्वारुदाः खङ्गैः शिष्यान् भिक्षूच खण्डीकरन्तः, त्व्ररेण इतस्ततः चरन्तः
तत्र तत्र शिष्यासमान् दहतु प्रारभन्ते।
ज्येष्टभिक्षुरेको घोरकृत्यानीदं वर्णयति।
हंसध्वनी चतुस्त्र एकम्
प0 आयाताः तुरुष्काः अतिवेगेण मारुताभेण अरिचूर्णकशतुराः।
च0 १ खङ्गघराः शत्रु ध्वंसपराः खण्डनचतुराः घोरकृत्यपराः।
च0 २ शातकसहस्त्राः स्वागमपरित्राः परगतघातकहढब्रताः
च0 ३ अश्वारुढाः आरिजनपिण्डीकरणक्रीडाः परधनलोभसमूढाः
च0 ४ हन हर छिन्दीवि घोषैराकाशं पूरयमाणाः
हर्बीहत्तीसहस्त्रैः स्वागमं प्राचारयमाणाः
एतत्सर्व दृष्टा भग्नमानसोऽध्यक्षभिक्षुः विलपति
मुरवारी आदि
प0 छिन्नशातकशीर्ष दृष्द्वाप्यच्छिन्नशीर्षोऽहं छिन्द्रिमेशीर्ष।
अ0 वह्विनादग्धारामान् वीक्ष्याप्यभिन्नदेहोऽहम दह्यतां मे देहेम्।
च0 हतशतभिक्षु शवै विकीर्णं चतुरांगणमहो
वत इति निलपैर्पूरितं नालदाकाशं सर्वम्
इतस्ततः पलायन्तं शिष्यगणं वीक्ष्य
कथमहं जीवयेति न जाने जाने नाहं कथम्
ततः पुस्तकालयं दहतुगारभन्तां सेनानीं वीक्ष्य पुस्तकालयाध्यक्षभिक्कुणी तं प्रार्थयति।
भागेस्वरी आदि
प0 मा दह महामते महासेनायामधिपते।
अ0 मा दह शातसहस्त्रविद्वतां संचितज्ञान भाण्डागारम
च0 १ अल्पमानुषायुषि स्वल्पमेव साधनं
कल्पते तथापि ज्ञाननिम्नगा
अलादाराकोटिभिर्कोटि विद्वतां
अर्पितैर्वर्धते अखिलहितकरी।
च0 २ पण्डितास्तव देशात् त्वां खण्डनं करिष्यन्ति
भाण्डागारं शास्त्राणां पावकापणकृतिम।
सेनानी कथयति।
कुतंलवराली
खुरानविरुद्धशास्त्राः पावकप्रियाहाराः
खुरानसपक्षशास्त्रास्तु पुनर्वदन्ति विदितं
निष्फलाः भवन्ति तेन पावकार्पणाहाः।
सेनानिनः सखा अरभयिपण्डितो प्राथयति।
हुसेनी आदि
प0 श्रृणु कृपया सेनानायक श्रृणु मे हितवचनम्
च0 भणितं नभिना पुनः पुनः परमार्थ ज्ञानमिति
परदेशेऽपिऽन्वेषितव्य सेवितव्यमिति
पालय तस्मात् पावकादिदं भुवनप्रसिद्धपुस्तकालय।
कोपाक्रान्तो सेनानी घोषति
अटाणा आदि
कापाग्निं दमये कथं च्युतमुसलमान
पापीयसं पण्डितं त्वां मन्ये हर्बीति
सेनावीराः तुरुष्कशूराः छिद्यतां हर्बीशिरांसि
नानादिशासु संचरन्भिः दह्यतांनालन्दापूर्णम्।

इति ब्रुवन्, आरमीयपण्डितशीर्ष छिन्दति, ततः सेनाविराः नानादिशासुवेगन संचरन्त तुरगारुढाः खङ्गैः ग्रीवछेदनं वह्विनाराम् दहनं च परमोत्साहेन कुर्वन्ति। पुस्तकालयाध्यक्षभिक्षुणी तु अग्निप्रवेशं करोति, परमशान्तोऽध्यक्षभिक्षुः शापं घोषयति।

सिंहेन्द्र माध्यमम् आदि
प0 मूर्खगणे श्रतिमूढातिमूढ म्लेच्छा च्युत राक्षस।
अ0 शीघ्रमेवायान्तं मुसलमानसांराज्यनाशं घोषये।
च0 भयंकरमंगोलवीराः भयंकरतमघोषैः
श्रियंकरमुसलमानदेशान् पारसीकादिसर्वान्
क्षयंकुर्वन्ति शिथिलीकरन्तः शातकसहस्रदिराणि
दयांविहीय कोटिजनान् हन्ति खङ्गैः शूलैः
इत्थमेव तव साम्राज्यम्
सत्यं याति विनाशम्
सत्यानि बुद्धदेवस्य
नित्यमेव भासन्ते।
उन्मादिता इव नृत्यन्ती पुस्तकालयाध्यक्षभिक्षुणी घोषति।
विहग् आदि
सन्ततं भासते यशोमती नालन्दा वदिता कोटि शिष्यैः
सुन्दरगुणशतबृदैरलकृता प्रबोधचन्द्राभनानदात्री माता
तूरुष्ककोटि सैर्न्येरदग्धकीर्तिस्तव निष्कलंका राजसे कल्पन्तेऽपि
जय जय जननी नालन्दा जानाब्धिजातेन्दिरा।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project