Digital Sanskrit Buddhist Canon

पञ्चमोऽङ्कः

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcamo'ṅkaḥ

पञ्चमोऽङ्कः

प्रतीहारः-

स्वगृहोद्यानगतेऽपि स्निग्धे पापं विशङ्क्यते स्नेहात्।
किमु दृष्तवह्वपायप्रतिभयकान्तारमध्यस्थे ?॥१॥

क्षौमे भङ्गवती तरङ्गितदशे फेनाम्बुतुल्ये वहन्
जाह्नव्येव विराजितः सवयसा देव्या महापुण्यया।
धत्ते तोयनिधेरयं सुसदृशीं जीमूतकेतुः श्रियं
यस्यैषान्तिकवर्त्तिनी मलयवत्याभाति वेला यथा॥२॥

भुक्तानि यौवनसुखानि यशोऽवकीर्णं
राज्ये स्थितं स्थिरधिया चरितं तपोऽपि।
श्लाध्यः सुतः सुसदृशान्वयजा स्नुषेयं
चिन्त्यो माय ननु कृतार्थतयाऽद्य मृत्युः॥३॥

स्फुरसि किमु दक्षिणेतर ! मुहुर्मुहुः सूचयन्ममानिष्टम्।
हतचक्षुरपहतं ते स्फुरितं मम पुत्रकः कुशली॥४॥

आलोक्यक्यमानमतिलोचनदुःखदायि
रक्तच्छटानिजमरीचिरुचो विमुञ्चत्।
उत्पातवाततलीकृततारकाभ-
मेतत्पुरः पतति किं सहसा नभस्तः ?॥५॥

तार्क्ष्येण भक्ष्यमाणानां पन्नगानामनेकशः।
उल्कारूपाः पतन्त्येते शिरोमणय ईदृशाः॥६॥

गोकर्णमर्णवतटे त्वरितं प्रणम्य
प्राप्तोऽस्मि तां खलु भुजङ्गमवध्यभूमिम्।
आढाय तं नखमुखक्षतसञ्च
विद्याधरं गगनमुत्पतितो गरुत्मान् !॥७॥

नाऽहित्राणत्कीर्तिरेका मयाऽप्ता
नापि श्लाघ्या स्वामिनोऽनुष्ठिताऽऽज्ञा।
दत्त्वात्मानं रक्षितोऽन्येन शोच्यो
हा धिक् ! कष्टं ! वञ्चितो वञ्चितोऽस्मि॥८॥

आदावुत्पीडपृथ्वीं प्रविरलपतितां स्थूलबिन्दुं ततोऽग्रे
ग्रावस्वापातशीर्णप्रसृततनुकणां कीटकीर्णा स्थलीषु।
दुर्लक्ष्यां धातुभित्तौ घतनरुशिखरे स्त्याननीलस्वरूपा-
मेनां ताक्ष्य दिदृक्षुर्निपुणमनुसरन् रक्तधारां व्रजामि॥९॥

आवेदय ममाऽऽत्मीयं पुत्र ! दुखं सुदुःसहम्
मयि सङ्क्रान्तमेतत्ते येन सह्यं भविष्यति॥१०॥

विद्याधरेण केनापि करुणाऽऽविष्टचेतसा।
मम संरक्षिताः प्राणा दत्त्वात्मानं गरुत्मत्ते॥११॥

चूडामणिं चरणयोर्मम पातयता त्वया।
लोकान्तरगतेनापि नोज्झितो विनयक्रमः !॥१२॥

भक्त्या सुदूरमवनामितनम्रमौलेः
शश्वत्तव प्रणमतश्चरणौ मदीयौ।
चूडामणिर्निकषणौर्मसृणोऽप्यहिंस्त्रः
गाढं विदारयति मे हृदयं कथं नु ?॥१३॥

कुर्वाणो रुधिरार्द्रचञ्चुकषणैर्द्रोणीरिवाद्रेस्तटीः
प्लुष्टोपान्तवतान्तरः स्वनयनज्योतिःशिखाश्रेणिभिः।
सज्जद्वज्रकठोघोरनखरप्रान्तावगाढावनिः
श्रृङ्गाग्रे मलयस्य पन्नगरिपुर्दूरादयं दृश्यते॥१४॥

ग्लानिर्नाधिकपीयमानरुधिरस्याप्यस्ति धैर्य्योदधे-
र्मासोत्कर्त्तनजा रूजोऽपि वहतः प्रसन्नं मुखम्।
गात्रं यन्न विलुप्तमेष पुलकस्तत्र स्फुटो लक्ष्यते
दृष्टिर्मय्युपकारिणीव निपतत्यस्यापकारिण्यपि॥१५॥

शिरामुखैः स्यन्दत एव रक्त-
मद्यापि देहे मम मांसभस्ति।
तृप्तिं न पश्यामि तवापि तावत्
किं भक्षणात्त्वं विरतो गरुत्मन्!॥१६॥

आवर्जितं मया चञ्च्वा हृदयात् तव शोणितम्।
अनेन धैर्य्येण पुनस्त्वया हृदयमेव नः॥१७॥

आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नालोक्यते कञ्चुकः
जिह्वे जल्पत एव मे न गणिते नाम त्वया द्वे अपि !
तिस्त्रस्तीव्रविषाग्निधूमपटलव्याजिह्यरत्नत्विषो
नैता दुःसहशोकशूत्कृतमरुत्स्फीताः फणाः पश्यसि !॥१८॥

मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले।
कैलासस्य शिलातलेषु मलयप्राग्भारदेशेष्वपि।
उद्देशेष्वपि तेषु तेषु बहुशो यस्य श्रुतं तन्मया।
लोकालोकविचारणगणैरुदुगीयमानं यशः॥१९॥

स्वशरीरेण शरीरं तार्क्ष्यात् परिरक्षता मदीयमिदम्।
युक्तं नेतुं भवता पातालतलादपि तलं माम् ?॥२०॥

आत्मीयः पर इत्ययं खलु कुतः सत्यं कृपायाः क्रमः ?
‘किं रक्षामि बहून् किमेक’ मिति ते जाता न चिन्ता कथम् ?
तार्क्ष्यात्त्रातुमहिं स्वजीवितपरित्यागं त्वया कुर्वता
येनाऽऽत्मा पितरौ वधूरिति हतं निःशेषमेतत्कुलम्॥२१॥

ज्वालाभङ्गैस्त्रिकग्रसनरसचलत्कालजिह्वाग्रकल्पैः
सर्पद्भिः सप्त सर्पिष्कणमिव कवलीकर्त्तुमीशे समुद्रान्।
स्वैरेवोत्पातवातप्रसरपटुतरैर्धुक्षिते पक्षवातै-
रस्मिन् कल्पावसानज्वलनभयकरे वाडवाग्नौ पतामि॥२२॥

विलुप्तशेषाङ्गतया प्रयातान्
निराश्रयत्वादिव कण्ठदेशम्।
प्राणांस्त्यजन्तं तनयं निरीक्ष्य
कथं न पापः शतधा व्रजामि॥२३॥

मेदोस्थिमांसमज्जाऽसृक्सङ्घातेऽस्मिंस्त्वचाऽऽवृते।
शरीरनाम्नि का शोभा सदा बीभत्सदर्शने ?॥२४॥

नित्यं प्राणाभिघातात् प्रतिविरम कुरु प्राक्कृतस्यानुतापं
यत्नात् पुण्यप्रवाहं समुपचिनु दिशन्न् सर्वसत्त्वेष्वभीतिम्।
मग्नं येनात्र नैनः फलति परिणतं प्राणिहिंसासमुत्थं
दुर्गाधे वारिपूरे लवणपलमिव क्षिप्तमन्तर्ह्रदस्य॥२५॥

अज्ञाननिद्राशयितो भवता प्रतिबोधितः।
सर्वप्राणिवधादेष विरतोऽद्य प्रभृत्यहम्॥२६॥

क्वचिदूद्वीपाकारः पुलिनविपुलैर्भोगनिवहैः
कृतावर्त्तभ्रान्तिर्वलयितशरीरः क्वचिदपि।
व्रजन् कूलात् कूलं क्वचिदपि च सेतुप्रतिसमः
समाजो नागानां विहरतु महोदन्वति सुखम्॥२७॥

स्रस्तानापादलम्बान् घनतिमिरनिभान् केशपाशान् वहन्त्यः
सिन्दूरेणेव दिग्धैः प्रथमरविकरस्पर्शताम्रैः कपोलैः।
आयासेनाऽलसाङ्गयोऽप्यवगणितरुजः कानने चन्दनाना-
मस्मिन् गायन्तु रागादुरगयुवतयः कीर्तिमेतां तवैव॥२८॥

उत्प्रेक्षमाणा त्वां तार्क्ष्यचञ्चुकोटिविपाटितम्।
त्वदूदुःखदुःखिता नूनमास्ते सा जननी तव॥२९॥

गात्राण्यमूनि न वहन्ति सचेतनत्वं
श्रात्रं स्फुटाक्षरपदां न दिरं श्रृणोति।
कष्टं निमीतिलमिदं सहसैव चक्षु-
र्हा तात ! यान्ति विवशस्य ममासवोऽमी॥३०॥

निराधारं धैर्य्य कमिव शरणं यातु विनयः ?
क्षमः क्षान्तिं वोढुं क इह विरता दानपरता।
हतं सत्यं सत्यं व्रजतु कृपणा क्वाद्य करुणा ?
जगज्जातं शून्यं त्वयि तनय लोकान्तरगते॥३१॥

पक्षोत्क्षिप्ताम्बुनाथः पटुतरजवनैः प्रेर्य्यमाणैः समीरैः
नेत्राग्निप्लोषमूर्च्छाविधुरविनिपतत्सानलद्वादशार्कः।
चञ्च्वा सञ्चूर्ण्य शक्राशनिधनदगदाप्रेतलोकेशदण्डान्
आजौ निर्जत्य देवान् क्षणममृतमयीं वृस्टिमभ्युत्सृजामि॥३२॥

उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णोयमन्तर्भ्रुवो-
श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्धते।
चक्राङ्कौ चरणौ तथापि हि कथं हा वत्स मदूदुष्कृतै-
स्त्वं विद्याधरचक्रवर्तिपदवीमप्राप्य विश्राम्यसि॥३३॥

निजेन जीवितेनापि जगतामुपकारिणः।
परितुष्टाऽस्मि ते वत्स ! जीव जीमूतवाहन॥३४॥

अभिलषिताधिकवरदे ! प्रणिपतितजनार्त्तिहारिणि ! शरण्ये !
चरणौ नमाम्यहं ते विद्यावरपूजिते ! गौरि !॥३५॥

सम्प्राप्ताखण्डदेहाः स्फुटफणमणिभिर्भासुरैरुत्तनाङ्गै-
र्जिह्वाकोटिद्वयेन क्षितिममृतरसास्वादलोभाल्लिहन्तः।
सम्प्रत्याबद्धवेगा मलयगिरिसरिद्वारिपूरा इवामी
वक्रैः प्रस्थानमार्गेर्विषधरपतयस्तोयराशिं विशन्ति॥३६॥

हंसासेवितेमपङ्कजरजःसम्पर्कपङ्कोज्झितै-
रुत्पन्नैर्मम मानसादुपनतैस्तोयैर्महापावनैः।
स्वेच्छानिर्मितरत्नकुम्भनिहितैरेषाऽभिषिच्य स्वयं
त्वां विद्याधरचक्रवर्त्तिनमहं प्रीत्या करोमि क्षणात्॥३७॥

अग्रेसरीभवतु काञ्चनक्रमेत-
देष द्विपश्च धवलो दशनैश्चतुर्भिः।
श्यामो हरिर्मलयवत्यपि चेत्यमूनि
रत्नानि ते समवलोक्य चक्रवर्त्तिन् !॥३८॥

त्रातोऽयं शङ्खचूडः पतगपतिमुखाद्वैनतेयो विनीत-
स्तेन प्राग्भक्षिता ये विषधरपतयो जीवितास्तेऽपि सर्वे।
मत्प्राणाप्त्या विमुक्ता न गुरुभिरसवश्चक्रवर्त्तित्वमाप्तं
साक्षात्त्वं देवि ! दृष्टा प्रियमपरमतः किं पुनः प्रार्थ्यते यत्॥३९॥

वृष्टिं हृष्टशिखण्डताण्डवभृतो मुञ्चन्तु काले धनाः
कुर्वन्तु प्रतिरूढसन्ततहरिच्छस्योत्तरीयां क्षितिम्।
चिन्वानाः सुकृतानि वीतविपदो निर्मन्सरैर्मानिसै-
र्मोदन्तां सततं च बान्धवसुहृद्‍गोष्ठिप्रमोदाः प्रजाः॥४०॥

शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः॥४१॥

इति पञ्चमोऽङ्कः
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project