Digital Sanskrit Buddhist Canon

चतुर्थोऽङ्कः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturtho'ṅkaḥ

चतुर्थोऽङ्कः

कञ्चुकी-
अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलनानि रक्षन्।
जरातुरः सम्प्रति दण्डनीत्या सर्वां नृपस्यानुकरोमि वृत्तिम्॥१॥

शय्या शाद्वलमासनं शुचिशिला सद्म द्रुमाणामधः
शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः।
इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने
दुष्प्रापार्थिनि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते॥२॥

उन्मज्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः
सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिताः।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा
प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागछति॥३॥

कवलितलवङ्गपल्लकरिमकरोदूगारिसुरभिणा पयसा।
एषा समुद्रवेला रत्नद्युतिरञ्जिता भाति॥४॥

जिह्वासहस्रद्वितयस्य मध्ये नैकापि सा तस्य किमस्ति जिह्वा।
एकाहिरक्षार्थमहिद्विषेऽद्य दत्तो मयात्मेति यया ब्रवीति॥५॥

इत्येष भोगिपतिना विहितव्यवस्थो
यान् भक्षयत्यहिपतीन् पतगाधिराजः।
यास्यन्ति यान्ति च गताश्च दिनैर्बिवृद्धिं
तेषाममी तुहिनशैलरुचोऽस्थिकूटाः॥६॥

सर्वाऽशुचिनिधानस्य कृतघ्नस्य विनाशिनः।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते !॥७॥

क्रोडीकरोति प्रथमं यदा जातमनित्यता।
धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ?॥८॥

मूढाया मुहुरश्रुसन्ततिमुचः कृत्वा प्रलापान् बहून्
कस्त्राता तव पुत्रकेति कृपणं दिक्षु क्षिपन्त्या दृशम्।
अङ्‍के मातुरवस्थितं शिशुमिमं त्यक्त्वा घृणामश्नतः
चञ्चुर्नैव खगाधिपस्य हृदयं वज्रेण मन्ये कृतम्।९॥

यैरत्यन्तदयापरैर्न विहिता वन्ध्याऽर्थिनां प्रार्थना
यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थ प्रति।
ये नित्यं परदुःखदुःखितधियस्ते साधवोऽस्तं गता
मातः ! संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते ?॥१०॥

आर्त्त कण्ठगतप्राणं परित्यक्तं स्वबन्धुभिः।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः॥११॥

अस्या विलोक्य मन्ये पुत्रस्नेहेन विक्लवत्वमिदम्।
अकरुणहृदयः करुणां कुर्वीत भुजङ्गशत्रुरपि॥१२॥

महाहिमस्तिष्कविभेदमुक्त-
रक्तच्छटाचर्च्चितचण्डचञ्चुः।
क्वासौ गरुत्मान् क्व च नाम सौम्यस्वभावरूपाकृतिरेष साधुः ?॥१३॥

ममैतदम्बार्पय वध्यचिह्नं प्रावृत्य यावद्विनताऽऽत्मजाय।
पुत्रस्य ते जीवितरक्षणाय स्वदेहमाहारयितुं ददामि॥१४॥

विश्वामित्रः श्वमांसं श्वपच इव पुराऽभक्षयद्यन्निमित्तं
नादिजङ्घो निजध्ने कृततदुपकृतिर्यत्कृते गौतमेन।
पुत्रोऽयं कश्यपस्य प्रतिदिनमुरगानत्ति तार्क्ष्यो यदर्थं
प्राणांस्तानेष साधुस्तृणमिव कृपया यः परार्थ ददाति॥१५॥

जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
परार्थेबद्धकक्षाणां त्वादृशामुद्भवः कुतः ?॥१६॥

म्रियते म्रियमाणे या त्वयि जीवति जीवति।
तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः॥१७॥

चञ्चच्चञ्चूद्धृतार्द्ध च्युतपिशितलवग्राससंवृद्धगर्द्धै-
र्गृद्धैरारब्धपक्षद्वितयविधुतिभिर्बद्धसान्द्रान्धकारे।
वक्‌त्रोद्धान्ताः पतन्त्यश्छमिति शिखिशिखाश्रेणयोस्मिन् शिवाना-
मस्रस्रोतस्मजस्रस्रु तबहलवसावासविस्रे स्वनन्ति॥१८॥

प्रतिदिनमशून्यमहिकाऽऽहारेण विनायकाऽऽहितप्रीति।
शशिधवलाऽस्थिकपालं वपुरिव रौद्रं श्मशानमिदम्॥१९॥

समुत्पस्यामहे मातर्यस्यां यस्यां गतौ वयम्।
तस्यां तस्यां प्रियसुते ! माता भूयास्त्वमेव नः॥२०॥

वासोयुगमिदं रक्तं प्राप्ते आले समागतम्।
महतीं प्रीतिमाधत्ते परार्थे देहमुज्झतः॥२१॥

तुल्याः संवर्त्तकाभ्रः पिदधति गगनं पङ्‍क्तयः पक्षतीनां
तीरे वेगानिलोऽम्भः क्षिपति भुव इव लावनायाम्बुराशेः।
कुर्वन् कल्पान्तशङ्कां सपदि च सभयं वीक्षितो दिग्द्विपेन्द्रै
र्देहोद्योतो दशाऽऽशाः कपिशयति मुहुर्द्वादशादित्यदीप्तिः॥२२॥

न तथा सुखयति मन्ये मलयवती मलयचन्दनरसाऽऽर्द्रा।
अभिवाञ्छितार्थसिद्धत्यै वध्यशिलेयं यथाऽऽश्लिष्टा॥२३॥

शयितेन मातुरङ्‍के विस्रब्धं शैशवे न तत् प्राप्तम्।
लब्धं सुखं मयाऽस्या वध्यशिलाया यदुत्सङ्‍गे॥२४॥

क्षिप्त्वा बिम्बं हिमंशोर्भयकृतवलयां संमरञ्छेषमूर्त्ति
सानन्दं स्यन्दनाश्वत्रसनविचलिते पूष्णि दृष्टोऽग्रजेन।
एष प्रान्तावसज्जज्जलधरपटलैरायतीभूतपक्षः
प्राप्तो वेलामहीध्रं मलयमहिग्रासगृध्नुः क्षणेन॥२५॥

संरक्षता पन्नगमद्य पुण्यं मयाऽर्जितं यत्स्वशरीरदानात्।
भवे भवे तेन ममैवमेवं भूयात् परार्थः खलु देहलाभः॥२६॥

अस्मिन्वध्यशिलातले निपतितं शेषानहीन् रक्षितुं
निर्भिद्याऽशनिदण्डचण्डतरया चञ्च्वाऽधुना वक्षसि।
भोक्तुं भोगिनमुद्धरामि तरसा रक्ताम्बरप्रावृतं
दिग्धं मद्भयदीर्य्यमाणहृदयप्रस्यन्दिनेवासृजा॥२७॥

आमोदानन्दितालिर्निपतति किमियं पुस्पवृष्टिर्नभस्तः ?
स्वर्गे किं वैष चक्रं मुखरयति दिशां दुन्दुभीनां निनादः ?

आं ज्ञातं ! सोऽपि मन्ये मम जवमरुता कम्पितः पारिजातः
सर्वैः संवर्त्तकाभ्रैरिदमपि रसितं जातसंहारशङ्‍कैः॥२८॥

नागानां रक्षिता भाति गुरुरेष यथा मम।
तथा सर्पाशिनाकाङ्क्षां व्यक्तमद्यापनेष्यति॥२९॥

इति चतुर्थोऽङ्कः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project