Digital Sanskrit Buddhist Canon

गुरुक्रियाक्रमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Gurukriyākramaḥ
गुरुक्रियाक्रमः

सर्वबुद्धबोधिसत्त्वेभ्यो नमः


प्रथमं प्रामाणिक आचार्यः शिष्ये प्रसाद-सम्प्रत्ययाभिलाषात्मिकां श्रद्धां जनयेत्। ततो बोधिचित्तानुशंसाम् उक्त्वा उत्साहं जनयेत्। ततः परं विशिष्टविहारे विशिष्टपूजोपकरणं स्थापयेत्। आर्यसंघान् आमन्त्र्य, प्रणम्य, पादौ प्रक्षाल्य, आसनं प्रदाय, उत्तरानुत्तरपूजोपकरणैः सम्पूज्य पूजामेघमन्त्रानपि त्रिरुच्चरेत्।


स्तोता सुगतविशिष्टगुणस्मरणद्वारा सादरं स्तुत्वा तत्तद्वृद्धिकराण्यपि पदानि उच्चरेत्। ततश्च देशना-अनुमोदना-अध्येषणा-प्रार्थना-परिणामनादयः करणीयाः। ततः श्रद्धावान् शिष्य आचार्य प्रणमेत्। अध्येषणादिभिर्द्विविधं बोधिचित्तं समुत्पाद्य तेषां स्वस्वभावं भेदं वैशिष्ट्यञ्चापि ख्यापयेत्।



ततः बोधिचर्या (णां_) षट्पारमितानां, चतुःसंग्रहवस्तूनां चतुरप्रमाणादीनां च लक्षणं, हेतुं, फलं, शिक्षाक्रमं, च्युत्यच्युतिदोषगुणान् यथाविधिशिक्षादिकमपि विस्तरेण निर्दिशेत्। सा च अप्रमादेन सम्प्रजन्येन स्मृत्या च ग्रहणीयेति शिक्षेत।



तेषां लक्षणं क्रमं च्युत्यच्युतिदोषगुणादीनपि शिक्षेत। तदनुष्ठानायापि तीव्रवीर्यमुत्पाद्य निध्यानदुःखाधिवासनाक्षान्तिम् अविक्षिप्त-समाधिं प्रज्ञानिःस्वभावतां च ज्ञात्वा त्रिशिक्षां त्रिविधप्रज्ञां वा समाधाय चर्यापथविधिना शिक्षेत इति निर्दिशेत्। अन्ते प्रणिधानेन परिसमापयेद् इत्यपि वदेत्।



अयं हि आचार्यदेशनाक्रियाक्रमः। शिष्योऽपि यथाविधिरुपदिष्टः तथा शिक्षेत। अयं तु लाक्षणिकमहायानचित्तोत्पाद-शिक्षा-देशना-विधिः क्रमो वा औदारिकतया दर्शितः। विस्तरेण तु परतो ज्ञातव्यम्।



संक्षिप्तगुरुक्रियाक्रमः महापण्डिताचार्यदीपङ्करश्रीज्ञानविरचितः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project