Digital Sanskrit Buddhist Canon

आर्यशालिस्तम्बकमहायानसूत्रटीका

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Āryaśālistambakamahāyānasūtraṭīkā

आर्यशालिस्तम्बकमहायानसूत्रटीका
(संस्कृत - पुनरुद्धारः )

भारतीयभाषायाम् - आर्यशालिस्तम्बकमहायानसूत्रटीका।

भोटभाषायाम् - ह्‍फगस्‍पा - सलु - जङपा - शेस्‍व्यवा - थेग्‍पा - छेनपो‍ई - दो‍ई - ग्याछेर् ब्शद्‍पा

अथ शालिस्तम्बविभाषायाः प्रथमं पटलम्

नम आर्यमञ्जुश्रीकुमारभूताय।

तत्र ' अनन्ताचिन्त्यगुण्यं हि ' इत्यादिषु अनन्तगुण्यमिति गुणं हि बलाभयासंसृष्टादिगुणार्थे देवमनुष्यैः परिचेयत्वात्, सेव्यत्वात्, अभ्यसनीयत्वाद्, भावनीयत्वात्, साक्षात्करणीयत्वात् प्राप्तकरणीयत्वाच्च गुणाः। ते गुणास्तु बहवः। अनन्ताचिन्त्येति समस्तं पदम्। अचिन्त्यगुणत्वं तु श्रावक - प्रत्येकबुद्ध - सर्व - पृथग्जन - सर्वतार्किकगण - चित्तगोचरं समतिक्रमणात्। ततः सोऽनन्ताचिन्त्यगुण समन्वितः। कतम इति चेत्, उच्यते - सम्बुद्धं करुणात्मकम्। इत्युक्तम्। सम्यगविपर्यस्तञ्च बुद्धत्वात् सम्बुद्धः। सर्वधर्मानित्यत्वस्य दुःख - शून्य - नैरात्म्यादि - धर्मान् - पुद्‍गलनैरात्म्यस्वभावतया यथावद् अवबोधत्वाद् बुद्धः।

प्रफुल्लकमलवद् बुद्धेर्विकासाद् बुद्धो, बोधत्वाद् वा बुद्धः। अज्ञाननिद्रा सुप्तजगन्मध्ये जाग्रतपुरुषवत्, यथावदविपर्यस्तसम्यग्ज्ञानोदयाद् बुद्ध इति। अथवाऽज्ञजनावबोधनाद् बुद्धः। यथा - पराधीनस्य स्वयमेव प्रतिसंवेदन - धर्मतत्त्वाव - बोधवद् उन्मार्गभ्रान्तचित्तस्य संसाराटवीकान्तारे जन्म- जरा - व्याधि- मरणादि - पीडितस्य विविधदर्शनगहनवने क्लेशाशीविषभयाप्लुतान इतस्ततः परिभ्रमतो ऽन्यांश्चापि सन्मार्गे सन्निवेश्य मोक्षानुत्तरमहानगरे प्रवेशकारित्वाद् बुद्ध इति।

करुणात्मकमिति तु करुणस्वभावम्। क्लेशकर्मदुःखनिवारकत्वात् करुणः। यस्मिन् करुणात्मकत्वं स्वभावतः स करुणात्मकः। स सम्बुद्धः ; करुणात्मकताया अपि भूतत्वात् संबुद्धः करुणात्मकः। तस्मात् तं बुद्धं करुणात्मकं प्रणिपत्य शालिस्तम्बमिति इत्युक्तम्। प्रणिपत्येति सम्यक्पूजयित्वा वन्दना - गौरव- प्रवणतया प्रणिपत्य। प्रणिपत्य किं करोमीति चेत्- शालिस्तम्बमिति सूत्रस्य उपनिबद्धशास्त्रकारिकां प्रवक्ष्यामि। इत्युक्तम्। तत्र अनन्ताचिन्त्यगुण्यो हि इत्यनेन स्वार्थसम्पत्तिर्दर्शिता। करुणात्मक इत्यनेन परार्थसम्पत्तिरुक्ता। सम्बुद्धं इति बुद्धो हि ( अधिगतार्थत्वात् ) सर्वज्ञ एव। ' अनन्ताचिन्त्यगुण्यं हि ' इत्यनेन रागादिरहितत्वम् , क्लेशोपक्लेशानामगुणानां गुणविरोधत्वात्। तस्मात् तादृशं सर्वज्ञं विरक्तं सम्बुद्धं करुणात्मक इति यः सर्वंजानन् वीतरागः , स आचार्यमुष्टेरभावाद् अपरान् यथावगतं धर्मं दिशति। अनेन तु परहितकारित्वात् परार्थोपसम्पदा दिष्टा। एवं स्वपरार्थोपसम्पन्नं तं सम्बुद्धं प्रणमामि। तथापि , विवक्षितपदस्य विद्यमानत्वाद् विवक्षुणा किमिष्यते? इति प्रश्नः। उत्तरं - प्रवक्ष्यामि। किं वक्ष्यामि ? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध - शास्त्र - कारिकाम्। शास्त्रं रचयितुम् आदौ सम्बन्ध - प्रयोजन - अभिधानाभिधेयचतुष्टयं किं न निर्वचनीयम् ?

अत्र तदभावात् तदारम्भणम् अनुचितम्। असम्बद्धादित्वात् प्रमत्तप्रलापवद् इत्यनारम्भणीयमिति धर्मः। शास्त्रमिति धर्मी। धर्मधर्मिसामान्यं हि पक्षः। असम्बद्धादित्वादिति हेतुः। अवबोधकत्वात् हेतुः, हेत्वर्थस्य तु अवबोधकत्वात्। तस्मात् असम्बन्धादित्वादनारम्भणीयमिति। प्रमत्तप्रलापवदिति उपमा। एवं वादिने उच्यते - असम्बन्धादित्वादिति यदुक्तं इत्युक्तहेतोरसिद्धम् उक्तायाम् अत्रोक्तौ सम्बन्धादयश्चत्वारः सन्त्येव। ते च कतमे? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध- शास्त्रकारिकायाः वक्ष्यमाणत्वाद् अत्र सम्बन्धः स्याद् एव। शालिस्तम्बसूत्रमिति तीर्थिकाद्यन्येषु ग्रन्थविशेषणतया अनुपलब्धत्वात् शास्त्रमिदं बुद्धसम्बद्धम्। तस्मात् हेत्वर्थोऽसिद्ध एव। सम्बन्धभावश्च प्रयोजनस्याप्यभावे नास्ति। तस्मादुक्तम् अत्र प्रयोजनम् - हेतुप्रत्ययार्थावगमार्थं पुद्गल - नैरात्म्य - धर्मनैरात्म्य - ग्राह्य - ग्राहकाभावाव गमात् क्लेशज्ञेयावरणं विभज्य अनुत्तर - सम्यक्संबुद्धोपलब्धिः अत्र प्रयोजनमस्त्येव।

तस्मात् सप्रयोजनत्वात् चिकित्सादिशास्त्रवद् विरचनीयमेव। यद्‍यद् सार्थकं तत् तत् तु विरचनीयम्। यथा चिकित्सादिशास्त्रवद् भूतत्वाद् उपमाऽसिद्धिं वक्ष्यामि। अस्याभिधानेन शालिस्तम्बोपमया आध्यात्मिक - बाह्य - प्रतीत्यसमुत्पाद- समुपयोगाद् अनेनाभिधानेन शालिस्तम्बमिति चापि भवति। तस्मादपि अर्थोऽसिद्ध एव। अभिधेयमिति प्रतीत्यसमुत्पादस्य द्वादशाङ्गस्य सप्रत्ययस्य पृथक्तः यथाक्रमं लक्षणव्यवस्थापनात् कर्त्रादीन् अहेतून् प्रतिकूलहेतून् च विहाय क्लेशोपक्लेश प्रहाणात् सम्यग्ज्ञानम् उत्पाद्य अनुत्तरधर्मकायोपलम्भाद् इदमभिधेयमप्यस्त्येव। तस्माच्च हेत्वर्थोऽसिद्ध एव। तस्मात् चिकित्सादिशास्त्रवद् इदं शास्त्रं सम्बन्धादिसमन्वितत्वाद्, आरम्भणीयमेव। आरम्भणीयमिति धर्मः। शास्त्रमिति च धर्मी। धर्मधर्मिसाधारणो हि पक्षः। अत्र धर्मभावाद्धर्मी छत्रीवत्। तथा सत्यपि शास्त्रमारब्धुं प्रणामकरणं निरर्थकम्, प्रयोजनाभावात्, काकदन्तपरीक्षादिशास्त्रवत् इत्यस्य हेत्वर्थस्य सिद्धत्वं दर्शयितुमुच्यते -

शास्त्रारम्भणाय शास्तृपूजा कृता। किमर्थमिति चेत्, शास्त्रे तत्र च गौरवोत्पादहेतुभूतत्वाद्, धर्मश्रवणे जातगौरवाणां श्रवण - चिन्तन - भावनासु गौरवं भवति। अजातगौरवाणां तु अभूतत्वाद् हेत्वर्थे च सिद्ध एव। अपि शिष्टाचार- नयप्रदर्शनार्थं शास्त्रारम्भे शास्तुः पूजा कृता। अयं तु सज्जनविदुषाम् आचारोऽस्ति। यदा कश्चित् प्रयोजनारम्भणमवतरति प्रथमम् इष्टदेवं प्रणम्य विशिष्टप्रयोजनं प्रविशति, अभीष्टार्थोऽचिरं सिध्यति, तस्माद् अनेनापि शास्त्रकारेण तामेव सदाचारनीतिम् अनुसरता शास्त्रारम्भणे स्वशास्तुर्गुणाभिधानपूर्वकं प्रणामं कृत्वा शास्त्रव्याख्यानावताराद् अत्र प्रयोजनमस्त्येव। उच्यते - शास्त्रारम्भे शास्त्रे प्रणामकरणम् न निष्फलम् शास्तरि शास्त्रेषु च गौरवोत्पादहेत्वर्थम् , नान्यथा। ततः शास्त्रारम्भे शास्तुः पूजनं व्यवस्थितमेव। तस्माच्च परैः शास्त्रादौ प्रणामकरणं निष्प्रयोजनम् इति किमुच्यते ? तद्धेतोरसिद्धतां दर्शयितुम् कथितम्। शास्त्रम् आरब्धुं प्रणामकरणं तु चिकित्सादिशास्त्रवत् सप्रयोजनम् एव, न च काकदन्तपरीक्षावत्। स्वशास्तारं प्रणम्य शालिस्तम्बसूत्रोपनिबद्धां शास्त्रकारिकां प्रवक्ष्यामीति उक्ते। कतमा च सा इति चेत् - मुनी राजगृहस्यैव इत्यादि कथितम् राजगृहं तु राज्ञो गृहम् राजप्रसाद इत्यर्थः।

गृध्रनामकपर्वते इति तु गृध्रकूटपर्वते। तस्मादेव संगीतिसूत्रे ' एवं मया श्रुतम् इत्युक्तम्। कस्माच्छ्रुतमिति। तस्मादुक्तम्। भगवतः एकस्मिन् समये इति एकस्मिन् समये। भगवान् तु भग्नवान् इति भगवान्। किं भग्नवान् इति चेत्। तस्मादुक्तम् मारचतुष्टयम्। क्लेश - स्कन्ध - देवपुत्र - मृत्यवो मारा इत्याख्याताः। कथं भग्ना इति? उच्यते - प्रतिपक्षज्ञानोपलब्धेः। दर्शन - भावना - मार्गावतारनयेन चतुः स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपाक्षिकधर्मभावनाक्रमेण चतुरार्यसत्यभावनाविभावनतया स्कन्धतथतापरिज्ञानेन अनित्य - दुःख - शून्य - नैरात्म्यादीनाम् अविपरीत - ज्ञानान्वितत्वात् पुद्गलधर्मयोर्नैरात्म्य - ग्राह्यग्राहकाभाव - कल्पनाद् ' इदं धातुत्रयमपि चित्तमात्रम् ' इति अवगमात् क्लेशज्ञेयावरण - रहितद्वारेण क्लेशा भग्नाः। नित्य - सुख - शुचि - सात्म्याविपर्यासचतुष्टयादिरहितः अनुत्तरधर्मकाय संयुक्तोऽप्रतिष्ठित निर्वाणोपलब्धेः स्कन्धं मृत्युमारञ्च जयति।

सर्वधर्मान् माया - मरीचि - गन्धर्वनगर - निर्माण - प्रतिबिम्ब - प्रतिश्रुत्क - अलातचक्र - स्वप्नवत् स्ववबोधात् संक्लेशालयविज्ञान - वासना - मलापगतत्वाच्च अभूतसंकल्पान् समुच्छिद्य महामैत्र्यादि - बाणाक्षेपेण ससैन्यं मकरध्वजं प्रहृत्य देवपुत्रमारं पराजयत। एवं चतुर्मारभञ्जनाद् भगवान् इति। पुनश्चोक्तम् -

चतुर्मारारिभग्नत्वाद् भवत्रयसमुद्गत -
भाव्यतीतपरिज्ञानाद् भवस्थो भगवानिति।

तादृशो भगवान् राजगृहे गृध्रकूटपर्वते विहरतिस्म। किमर्थ तन्नगरं राजगृहमिति चेत्। उच्यते - तन्नगरं पूर्वं कुशीनगरम् इत्याख्यातम्। यदा तन्नगरे कुपितैरमानुषैः पुनः पुनरग्निः क्षिप्तस्तदा राजाऽवगत्य आदिशत् , ज्ञानिनो नागरिकाः। अद्य प्रभृति यस्य गृहं प्रथमं अग्निना दह्यते, स शीतवनं महाश्मशानं गत्वा गृहं निर्माय वसेद् इत्याज्ञातवान्। ततश्च कर्मप्रत्ययवशेन आदौ राजप्रासादोऽग्निं प्राप्तः। ततो राजा अमात्यानाहूयादिशत् - ज्ञानिन अमात्याः जानन्तु एवं , मयैव तन्नयप्रज्ञापात् मयैव तदतिक्रमो मयि न शोभते, अनयत्वात्। ज्ञानिनो मन्त्रिणः। शीतवने महाश्मशानमध्ये राजप्रासादो निर्मीयताम् (अहं ) तत्र गत्वा वत्स्यामि। ततो राज्ञो वचनमात्रेण सर्वैस्तथा कृतम्।

तदा प्रथमं राजा तत्र गत्वा उवास। ततः परैरुषितत्वाद् राजगृहम् इति नामोपचरितम्। तत्र राजगृह - महानगरस्य पूर्वोत्तरसीमायां गृध्रकूटनामक पर्वतेऽस्ति। यस्य पर्वतस्य शिखरो गृध्रशिरोवत् स गृध्रकूटपर्वत इत्युच्यते। अथवा पापेन मारेण गृध्राकारमभिनिर्माय भगवच्चीवरहरणारम्भे भगवतोऽधिष्ठानेना - सामर्थ्यात् तत्रैव निक्षिप्तं, तच्चीवरम् अद्यापि पाषाणीभूय चतुष्पुटितचीवरमिव अवतिष्ठते। तदुपलक्षितः पर्वतो गृध्रकूट इत्युच्यते। मुनिः तद्गृध्रकूटपर्वते विहरतिस्म। किमेकाकी एव? उच्यते। न, भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः। भिक्षूणां अर्थात् भिक्षुसार्धमर्धत्रयोदशभिः महता भिक्षुसङ्घेन बोधिसत्त्वानां च इति तु संबहुलैश्च बोधिसत्त्व- महासत्त्वैः सार्धम्। व्यवस्थितस्तु उत्थान - संचक्रमण - व्यवस्थिति - शयनादि - चतुर्विध - चर्यया व्यवस्थितः। कोऽसा विति? मुनिः। मुनिस्तु काय - वाक् - चित्तै र्मौनित्वात्। काय - वाक् - चित्ताप्रवृत्तेर्मुनिः। कुत्र न प्रवर्तते? तस्मादुक्तम्। काय - वाक्‍चित्तदुश्चरिते न प्रवर्तत इत्यर्थो दर्शितः। अत्र मौनित्वान् मुनिः। युक्तार्थार्थाय दण्डिवदिति। अपि च - किमर्थं स्थान - काल - परिवार - निर्देशः? उच्यते - चक्रवर्तिराजसाधर्म्यात्। चक्रवर्तिराजानाम् आचारस्त्वेवमाख्यातः -

यदा ब्राह्मणेषु गृहस्थेषु च अनुग्रहादि कृतं तदा निवास - स्थानं ग्राम - नगरादि, यत्र स्थित्वा तत्कार्यं, स्थानं निरुच्यते। कस्मिन् स्थाने ? अमुके। आधिपत्यं प्रदर्शयितुं अमात्यादिभिः सार्धम् इति। कालस्तु पूर्वापराह्णकालः। कानिति? ब्राह्मण - गृहस्थादीन्। तस्मात् भगवतोऽपि अनुत्तरधर्मचक्रवर्तिराजत्वात् स्थान - काल - पारिवारादय उक्ताः। कुत्रेति? राजगृहे। एकस्मिन् समये तु प्रातः काले। कैश्चित् सार्धमिति ?

सार्धत्रयोदशशतैः भिक्षुभिः बोधिसत्त्वैश्च।

कानिति भिक्षून्। किमुक्तमिति? शालिस्तम्बकसूत्रम्। पुनश्चोक्तम् -

कुत्र कैश्चित् समं क्वापि कस्मात् कस्मै च देशितम्।
उपदिश्य च तान्यन्ते आनन्दपदमीरितम्।

शालिस्तम्बं विलोक्य च इत्यादि। शालिस्तम्बं विलोक्य दृष्ट्वा इत्यर्थः। हेतुप्रत्ययसंभूतम् इति हेतुप्रत्ययजनितम्। तदुत्पादक ईश्वरादिः कोऽपि अन्यो नास्तीत्यभिप्रायः। अपि चोक्तम् -

बीजादेरतिरिक्तं हि नान्यद् हेतुरितीर्यते।

प्रत्यक्षादिविरुद्धत्वाद्। बीजादङ्कुरादि जन्यते, ईश्वर- प्रधान - स्वभाव - कालादिर्न हेतुः। प्रत्यक्षानुमानाभ्याम् अनुपलभ्यमानत्वाद् आकाशोत्पलवत्।

हेतुप्रत्ययजं तद्वद् द्वादशाङ्गक्रमोद्गतम्।
प्रतीत्यमिति यः पश्येत्। इत्युक्तम्।

हेतुप्रत्ययाभ्यां जनितो धर्मः प्रतीत्यसमुत्पादः, द्वादशाङ्गः भिक्षुर्भिक्षुणी अन्यो वा यः कश्चित् कृतादिकं अहेतु- प्रतिकूलहेतु- विरहितं पश्यति, स

धर्मं बुद्धं च पश्यति।
इत्युक्त्वा नायको भिक्षून् तूष्णीं भावमवस्थितः।

अष्टाङ्ग मार्यधर्मं फलधर्माधिगमस्वभावतां सस्कन्धनिर्वाणं अशेष स्कन्धाभिधानमपि च यथावत् पश्यति इत्युक्त्वा भगवांस्तूष्णीं भावमवस्थितः। तदा इत्यादि तु भिक्षुशारिपुत्रो बोधिसत्त्वं मैत्रेयम् उपसंक्रम्येदं पर्यपृच्छत्। इत्युक्त्वा इति भगवतः शारिपुत्रेण यत्सूत्रं श्रुतं तद् भिक्षून् उक्त्वा उपदिश्य। नायक इति विविधोपायनयेन सत्त्वानाम् नयनत्वान् नायकः। तूष्णींभावमवस्थितः समाधिं समापद्य विहरति स्म् इत्यधिवचनम्। भिक्षुः शारिपुत्रः श्रुत्वा इत्युवाच भिक्षुः इति - क्लेशभञ्जनाद् भिक्षुः। शारिपुत्रः श्रुत्वा इति तु भगवतः श्रुत्वा। सूत्रे तदायुष्मान् शारिपुत्रो मैत्रेयो बोधिसत्त्वो महासत्त्वो यत्रेत्यादिना देशितवान्। गत्वा मैत्रेयसन्निधौ तु यत्र बोधिसत्त्वो मैत्रेयो दिने सदावस्थितः, तत्र गत्वा, उभौ शिलातले उपविशताम्। अथायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत् -

तथागतेऽद्य मैत्रेय उक्त्यर्थं न विभज्य च।
तृष्णींभावे स्थिते चात्र तदर्थो गम्यते कथम्। इत्युक्तम्।

अद्य मैत्रेय इत्युक्त्वा भिक्षून् भगवान् शालिस्तम्बोपमादेशनया यदुक्तम् - मैत्रेय! सुगतोक्तसूत्रान्तार्थः कतमः? भगवताऽप्यर्थो न विभक्तः। सर्वज्ञगोचर -विषयाणामपि सर्वश्रावक- प्रत्येकबुद्ध - विषयातिक्रान्तत्वात् प्रतीत्यसमुत्पादः कतमः? धर्मः कतमः? बुद्धः कतमः? इत्यादि अपृच्छत्। अयमेव सूत्रकारेण सूत्रसम्बन्ध उक्तम् -

किं प्रतीत्यं च धर्मः कः बुद्धोऽपि कतमस्तथा। इत्युक्तम्।

कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यति। धर्मं पश्यन् बुद्धं पश्यति? इति तु

प्रतीत्यं तु कथं दृष्ट्वा धर्मं बुद्धं च पश्यति।
सन्देहो मेऽत्र ब्रूहीति ऊचे शारिसुतो ऽजितम्।

स्थविरशारिपुत्रः तत्सन्देहोत्पादाद् अजितमाह। अजितस्तु मैत्रेयः। किं विशेषणको मैत्रेयः?

भावात्मिका हि मैत्री स्यान् मैत्रेयोऽब्रूत निर्णयम्।

मैत्री समाध्यन्वितत्वात् सुप्रतिष्ठत्वात् मैत्री भावात्मिका। निर्णयमिति तु निश्चयः। अब्रूतेति उदीरितवान्। कमिति चेत्? शारिपुत्रम्। किमुक्तमिति चेत् अन्न भगवता इत्यादि उक्तम्। यो भिक्षवः प्रतीत्यसमुत्पादम् इत्यादि। कतम प्रतीत्यसमुत्पादो नाम। यदिदम् - अविद्याप्रत्ययाः संस्काराः। संस्कारप्रत्ययं विज्ञानम्। विज्ञानप्रत्ययं नामरूपम्। नामरूपप्रत्ययं षडायतनम्। षडायतनप्रत्ययः स्पर्शः। स्पर्शप्रत्यया वेदना। वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम्।

उपादानप्रत्ययो भवः। भवप्रत्यया जातिः। जातिप्रत्ययं जरामरणम्। जरामरणप्रत्ययाः शोक - परिदेव- दुःख- दौर्मनस्योपायासाः सम्भवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। अयमुच्यते प्रतीत्यसमुत्पादो भगवता। तत्र प्रतीत्यसमुत्पादो नाम सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्ययः।

तस्मात् प्रतीत्यसमुत्पाद इत्युच्यते। अपि च - अविद्यादिभवाङ्गाऽदीनाम् अयं सम्भवक्रमः कथमवगन्तव्यः? लक्षणं कतमत्? कर्म च कतमद् इति चेत्? उच्यते। तत्र प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पन्नोऽवगन्तव्यः। कतमाभ्यां द्वाभ्याम्? उच्यते ? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। स च प्रतीत्यसमुत्पादो बाह्य आध्यात्मिकश्च पृथक्त्वाद् द्विविधो व्यवस्थापितः। कथमिति? उच्यते। " बीजादङ्कुरोत्पादात् फलोत्पादपर्यन्तम्। बीजे सति अङ्कुरः प्रादुर्भवति फलप्रादुर्भावश्च। असति च बीजे अङ्कुरानुत्पादात्, न हि फलोत्पाद इति। बीजस्य नैवं भवति अहमङ्कुरमभिनिर्वर्तयामीति। अङ्कुरस्यापि नैवं भवति अहं बीजेनाभिनिर्वर्तित इति। एवं यावत् पुष्पस्यापि नैवं भवति फलमभिनिर्वर्तयामीति। फलस्यापि नैवं भवति अहमङ्कुर- पुष्पाभ्याम् अभिनिर्वर्तित इति। अथ पुनर्बीजे सति अङ्कुरात् फलपर्यन्तं प्रादुर्भवति। एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः।

बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धः कथं द्रष्टव्यः? उच्यते। षण्णां धातूनां समवायात्। कतमेषां षण्णां धातूनामिति। यदिदं पृथिव्यादि च कालश्च। एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः। बीजं पृथिव्यादौ किं हितं कृत्वा हेतोः प्रत्ययं मतमिति। पृथिव्यादि तु संधारणमित्यादि, स्नेहनं , पाचनं, निर्हरणम्, अनावरणं परिणामनां च क्रमशः करोति। असत्स्वेषु न भवति। यदाविकलो भवति, ततः सर्वेषां समवायाद् तद्भवति। पृथिव्यादौ र्नैवं भवति वयं बीजसंधारणादि करोमीति। बीजस्यापि नैवं भवति अहं एतेषां प्रत्ययेन संधारणादि कार्येण हितं करोमि। अथ पुनः पृथिव्यादिषु सत्सु बीजादङ्कुरादि प्रादुर्भवति, असत्सु च न भवति। तस्मादेव सूत्रकारेण उक्तम्।

द्वादशाङ्गमविद्यादिमरणान्तं यथाक्रमम्।

इत्यादि। भवाङ्गो येषामविद्यादिमरणान्तम् अस्ति , ते अविद्यादि मरणपर्यन्ताः।

तस्मात्तर्हि भवन्त्येव दुःखस्कन्धा हि केवलम्। तस्माद् इति तु अविद्यादि क्रमशः प्रादुर्भवति।

दुःखस्कन्धस्तु दुःख - समूहः। केवलमिति आत्मात्मीयवियुक्तः। भवति इति तु उत्पद्यते।

धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते। इत्युक्तम्।

धर्मस्तु स्वलक्षणधारणाद् धर्मः। अष्टाङ्गमार्ग इति तु मिथ्यादृष्टि - मिथ्यासंकल्प - मिथ्यावाक् - मिथ्याकर्मान्त - मिथ्याजीव- मिथ्याव्यायाम - मिथ्या - स्मृति - मिथ्यासमाधयः। तत्र मिथ्यादृष्टिरिति मिथ्यादर्शनम्। पञ्चदृष्टयस्तु सत्काय - अन्त - दृष्टि - शील - मिथ्याश्चेति। एताः सर्वा अपि मिथ्याश्रवणचिन्तनादिषु प्रविष्टाः। तस्मात् कुदृष्टित्वात् मिथ्या मार्गाचरणेन अनिष्टविपाकाभिनिर्वर्तितत्वात् हेतु - कर्म - फलानि अपवादारोपाकारेण प्रविष्टत्वान् मिथ्यादृष्टिरिति। तत्प्रतिकूलत्वात् सम्यक्दृष्टिः मार्गाङ्ग एव व्यवस्थापिता। योनिशः स्थित- सम्यक्‍श्रवण - चिन्तनादयः श्रद्धापूर्वगत्वात् हेतु-फल-सत्य- रत्न-कर्मफलदि -भावदर्शनं हि सम्यक्दृष्टिः। सम्यक्मार्गोपयोगाद् अभीष्टफलाभिनिर्हारत्वाद् अनित्य- दुःख - शून्य - नैरात्म्या - द्‍याकारेण प्रविष्ट त्वात् सम्यक्दृष्टिरिति।

तत्र मिथ्यासंकल्पः - सङ्कल्प - विपर्ययः। सङ्कल्पो गोचर - विषयालम्बनानाम् अधिवचनम्। गोचरमिति षड्विषया रूपादयः। मिथ्येति विपर्यासः। नित्य - सुख- शुचि - आत्माद्याकारालम्बनाद् राग-द्वेष- मोहवृद्धेः मिथ्यासंकल्पः। तद्विपरीतः सम्यक्संकल्पः। सम्यङ्नाम अविपर्यासः। संकल्पस्तु क्रिया, चिन्तनं च इदमिदं करिष्य इति आदौ चित्ते निधाय काय - वाक् - चित्त- चर्याकुशलः, राग -द्वेष - मोह - रहित - स्वभावः, अनित्य - दुःख - शून्य - नैरात्म्यादिसु नियोजितो यो योनिशोमन सिकारयोगः ( स) सम्यङ्मार्गाङ्गम् इत्युच्यते। मिथ्यावागिति दुर्वचनम्। स्वपरविसंवादाकारप्रवृत्ता या वाक् सा मिथ्यावाक्। राग-द्वेष - मोहाद्याकारसम्बद्धत्वाद् आत्मस्तुति - परपंसन - स्वभावेन प्रवृत्ता, चतुर्विध - वाग्दोषमिश्रिता सम्यक् - सत्य - तथता - सर्वधर्मप्रहीणा, राज - चौर- स्त्री -गृहस्थ - जनकथास्वरूपा तुच्छ -व्यर्थता- बहुला सर्वार्यजन - निन्दितत्वान् मिथ्यावाग् इत्युच्यते। तत्प्रतिकूलत्वात् स्वपराविसंवादाकारा राग- द्वेष - मोहादि - रहित - स्वभावा, चतुर्विधवाग्दोषरहित-त्वात् सत्य - सम्यक् - तथतानुसारिणी, चतुःसत्यानुकूलकरणा, सर्वकुशलधर्मसंग्रहा हित - परिच्छिन्न - स्वरूपत्वाद् आत्मस्तुति - परपंसनविहीना अनित्य - दुःख - शून्य(ता) - नैरात्म्यादि - रूपेण प्रवृत्तेः सर्वार्य जनाविसंवादिनी सम्यङ्मार्गानुसारित्वात् सम्यग्वाग् इत्युच्यते।

मिथ्या - कर्मान्तो विपरीतकर्मकरणम्। कर्मेति काय - वाक् - चित्त- दुष्कृत - बीजवपनाद् अक्षयविपाकफलाभिनिर्वर्तित - स्वभावाकुशल - कर्मान्त - कारित्वात् क्षारादिदोषसंसृष्टकुक्षेत्रे कुबीजवपनवद् अनभीष्टविपाकाभि - निर्वर्तितत्वात् पंसनीयः कर्मान्तस्तु मिथ्याकर्मान्त इत्युच्यते। कर्मरति - निद्रारति - वादरत्यादि - स्वभावं मिथ्याकर्म इत्युच्यते। स्वपरास्पृष्ट दुःखप्रतिष्ठाधारस्वभावम्, तद्विरुद्धत्वात् सम्यक्‍कर्मान्तः। अविपरीतकर्मकृत्त्वात् काय-वाक् - चित्त- सुकृतबीजवपनात् सत्क्षेत्रसदृशसुकृतकर्मक्षेत्रेऽभीष्टविपाकाभिनिर्वर्तित - विधि - प्रवृत्तेः, अनित्य - दुःख - शून्य(ता) - नैरात्म्यादि - स्वरूपेण प्रवृत्तेः, सम्यक् कर्मान्त - कारित्वात्, सम्यक् कर्मान्तः, सन्मार्गानुसरणत्वात् सम्यक्मार्ग इत्युच्यते।

मिथ्याजीवस्तु विपरीताजीवः। कपट - लपन- नैष्पेशिकत्व - नैमित्तिकत्वेन प्रवृत्य अविपन्न - काय - वागाद्युपजीविकया पुरुष - स्त्र्यादि - निमित्तदेशनेन अस्त्र- अश्व- काव्य - चिकित्सापरीक्षा - संख्या - गृहस्थपरीक्षा - कुमारपरीक्षा - सामुद्रिक - लक्षणपरीक्षा - निमित्तज्ञानादौ स्वपरविसंवादरूपेण प्रवृत्तेः तन्नयेन चीवर - पिण्डादि - साधनानुवृत्त्या विहारस्तु मिथ्याजीव इत्युच्यते। तत्प्रतिकूलत्वात् सम्यगाजीवस्तु मार्गाङ्गमित्युच्यते। सम्यक् तु विद्यावियुक्त - काय - वाक् - चित्तप्रवृत्या चीवरादि - साधनम् , तन्नयेन आजीवः सम्यगाजीवानुसरणत्वात् स्वपरावि - संवादस्वरूपाकारत्वाद् आर्यमार्गानुवर्तित्वात्, सम्यगाजीवस्तु मार्गस्याङ्गमेव व्यवस्थापितः। मिथ्याव्यायामः - व्यायामस्तु प्रयत्नः। मिथ्या इति विपर्यासः। असत्काय - वाक् - चित्त - प्रचारैः स्वपरापकारो , युद्धादिप्रज्ञप्तिः, दूतादिगमनं, चारः, उत्पातः, निक्षेपोत्क्षेपापोहानपोह - सन्धि - विधिनोत्पादः, क्षेत्र - विद्या - व्यापार- राज्यादि - स्वपरापकारि - काय - वाक् - चित्त- प्रवृत्त - विविधाकारारब्धाः क्रियाः प्रयत्नाश्च मिथ्याव्यायाम इत्युच्यन्ते। तद्विरुद्धभूतत्वात् सम्यक्व्यायामः।

सम्यक् - व्यायामस्तु मार्गाङ्ग‍एव व्यवस्थापितः। या कायवाक्‍चित्तचर्यास्वपरोपकार - मात्रकुशलप्रवृत्या आर्यमार्गम् अनुसरति सा सम्यग्व्यायामत्वात् सम्यक्व्यायामः। स मार्गाङ्गमेव उच्यते। मिथ्या स्मृतिरिति कुत्सनीया स्मृतिः मिथ्यास्मृतिः। स्मृतिस्तु स्मरणम्। इयम् मिथ्या स्मृतिश्चापि भूतत्वान् मिथ्यास्मृतिः। कालत्रयविषयेषु पूर्वहास- आनन्दानुभूत - रूप- शब्द- गन्ध - रस- स्पर्शादीन् अनुस्मरन् अनुकथनम्। तत्रापि अध्यवसान - अनुराग- प्रतिघतादि - परिद्वेषत्वात् स्वपरापकारकारित्वाद्, अभीष्टविपाकसम्बद्धत्वाच्च मिथ्या - निमित्त- मनसिकारस्तु मिथ्यास्मृतिः। तद्‍विरुद्धत्वात् सम्यक् - स्मृतिस्तु मार्गाङ्गमेव कथिता। गुणानुस्मरणं पूर्वीकृत्य बुद्ध -धर्म- संघ - शील - त्याग - देवाद्यनुस्मरणं सम्यक्‍स्मृतिः मार्गाङ्गम् एव उच्यते। समाधिकार्यं - समाधिस्तु ध्यानम्। सर्वथा समाधाय धारणत्वात् समाधिः। स तु मिथ्याऽपि सन्, समाधिरपि भूतत्वान् मिथ्यासमाधिः मिथ्येति तु विपर्ययः। ईश्वर- स्वभाव - काल - प्रधानाध्यात्मात्माद्यसत्सु तत्रालम्बनपूर्वकं यच्चित्त - स्फरणं स्यात्, अपि तु - रूपादि - बाह्यवस्तूनि अनित्य - दुःख - शून्य - नैरात्म्याकारीणि नित्य - सुख- शुच्यात्म दृष्टयादितया अध्यवसीय तेषु आलम्बनपूर्वकं यच्चित्तस्फरणम् , साध्यवसाय पूर्वकं यच्चित्ताधिष्ठानं तत्तु मिथ्यासमाधिरित्युच्यते। तद्विरुद्धं चित्ताधिष्ठानं सम्यक्समाधिरित्युच्यते। स्कन्ध धात्वायतनात्मात्मीयताशून्यादिषु अनित्य- दुःख -शून्य(ता) - नैरात्म्याद्याकारपूर्वकं चित्तप्रतिष्ठानम्। चित्तैकाग्रता तु सम्यक् समाधिरित्युच्यते। सर्वधर्मसमताप्रतिपत्तेः समाधिः। चित्तैकाग्रता एकालम्बनत्वञ्चेति। अधिवचनम्। स सम्यक् - समाधिर्मार्गाङ्गमेव उच्यते। एवम् यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति।

दर्शनाद्यष्टसेत्वङ्गं हेतुद्वादशपूर्वगम्।
विशुद्धात्मा हि यः पश्येद् धर्मतथ्यं स पश्यति।

फलं तुं श्रामण्यफलम्। तत्प्राप्तिस्तु साक्षात्करणम्। सर्वसंक्लेशालय - विज्ञानबीजवासनामलापगतत्वाद् आश्रयपरावृत्तिमयं मनोगोचराचिन्त्या - प्रमेयगुणमण्यलङ्कृतायाः स्वपराधीनात्मक प्रत्यात्मवेद्यसर्वसत्त्वार्थनिरन्तरानाभोग कृतात्म - सर्वप्रपञ्चरहितायाः शमथविपश्यना- युगनद्ध - सर्वधर्म - तथतायाः अधिगमत्वात् क्लेश - ज्ञेयावरणगिरिगह्वरवनमूल - विदहनस्वभावतानुत्तरसम्यक् - संफलं शैक्षज्ञानं तु फल धर्म इत्युच्यते।

अथ शालिस्तम्ब - विभाषाया द्वितीयं पटलम्।

निर्वाणं नाम सोपधिशेष- निरुपधिशेष- स्वभावताप्रतिष्ठितनिर्वाणमित्युक्तम्। अजरम्, अमरम्, अतापं , स्थिरं, शान्तं, नित्यम्, असंहार्यम्, अक्षयात्मकम्, आदिमध्यान्तरहितम् अद्वयं धातुत्रयविरहितं काय-वाक् - चित्तकर्मसमतिक्रान्तं मणिरत्न‍राजविविधरूपसदृशं गुणमणिविविधप्रभाभिः निरन्तरं जगदर्थकारि शान्तं, धर्मात्मक- काय - भूतं निर्वाणं मन्यते।

सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च।

एवं तद्वत् - संक्लेश- व्यवदानात्मक- सर्वधर्माणां धर्म- तथतायाः यथास्थितिवदवगतत्वाद् बुद्ध इत्युच्यते। धर्मजं नाम धर्मेभ्यो जनितत्वाद् धर्मजम्। धर्मेण जनितम् इत्यधिवचनम्।

तथोक्तमार्यं दृष्टत्वाद् यः पश्यति स पश्यति।

तथेति बुद्धमिति तथोक्तत्वात्, तादृशो भगवान्। आर्यं दृष्टत्वादिति ज्ञानचक्षुषा। आर्यस्तु लोकोत्तरः। पश्यतीति चक्षुषा। यः पश्यतीति यः प्रतीत्यसमुत्पादं धर्मञ्चैवं पश्यति स धर्मजः, धर्मजत्वाद् बुद्धं पश्यतीति भाष्यते।

तत्राऽत्र प्रतीत्यसमुत्पादः कीदृश उक्त इति चेत्। यः प्रतीत्यसमुत्पादम् इदमित्यादि। प्राणादिरहिताद् यश्च इति तु यः प्रतीत्यसमुत्पादं सततं प्राणादिरहितं प्राणरहितम्, अपश्यद् युक्त्यनुमानाभ्यां चर्यां, मापनम्, कल्पनाम्, उपपरीक्षणञ्च करोति , सततमजीवमिति तु निर्जीवम्। अजीवं आर्हता एवं कल्पयन्ति। इमानि सर्वाणि बाह्याभ्यन्तराणि वस्तूनि सजीवानि इन्द्रियान्वितानि। तस्मात् सर्वाश्चैताः भूमयः सूक्ष्मप्राणिभिः पूर्णाः। तस्मात् सर्वे प्राणिनो जन्तून् भक्षन्ति। ये प्राणिनः प्राणिनो न भक्षन्ति ते प्राणिनस्तु मोक्षं प्राप्नुवन्तीति उच्यते। तस्मात् तन्निराकरणाय अजीव- निर्जीवेत्यादि उक्तम्। अजीव इति निर्जीवः, निष्प्राणस्याधिवचनम् , हेतुप्रत्ययोत्पादधर्मित्वात्। हेतुस्तु बीजादि। प्रत्ययश्च पृथिव्यादि। तेऽपि परस्परमन्योन्यकल्पना - परिकल्पना - विकल्प - रहित्वात् तृण - वृक्ष - भित्ति - धर्मसदृशा अचलाः निष्क्रियाश्च तस्मात् प्राणादिरहितत्वाद् अजीवाः। परस्परं हेतुप्रत्ययोपनिबद्धजा अन्योन्ये चाचेतनाः। क्रिया कर्माप्यवभासते।

हेतुप्रत्ययसन्ततिरियम् अनादितः प्रवृत्ता। यथाजीवकानाम् आर्हतानां वृक्षा सचेतनाः सन्ति, चलत्वात्, सुप्तत्वात्, छिन्नेऽपि उत्पादत्वादिति, या व्यवहारप्रज्ञप्तिस्तादृशी नास्ति। बाह्यवस्तुषु सूर्यस्य चन्द्रस्य च स्पर्शवशेन लयो विस्तरश्च अनुमीयेते। क्व तेषां शयनोत्थानम्? वायुसञ्चारवशाद् वृक्ष-शाखादि-कम्पनानुमानात् तेषां गमनागमनं कुत उपलभ्यते। अर्थोऽसिद्ध एव। छिन्ने उत्पाद इति अयम् अर्थोऽसिद्ध एव इति दर्शयितुम् उच्यते। यदि सोऽपि सचेतनः स्यत्, कस्मात् छेदनावस्थायां प्राणातिपत्तीत्यादि दुःखं नानुभवति। अनिच्छादिचर्यां प्रार्थनादिं वा ततोऽन्यत्रगमनं वाऽल्पमपि न कुर्वन्ति। छिन्ने उत्पादत्वात् सचेतनत्वाभ्युपगमश्चेत्, तर्हि यच्छेदेऽनुत्पादः, तन्निवर्तनाद् अचेतनत्वमेव स्यात्। सचेतनानाम् अङ्ग-प्रत्यङ्गादिच्छेदानुत्पाद- धर्मित्वाद् अचेतनताया एव प्रसङ्गो जायते। तस्मात् तद्धेत्वर्थोऽसिद्ध एव। तस्मादजीवं, निर्जीवम् इतीदं व्यवस्थितम्। यथावदविपरीतमिति अहेतोः प्रतिकूलहेतोर्वियुक्तत्वात्। अजातमिति तु जन्यजनकरहितत्वात्। अभूतमिति शाश्वतोच्छेदरहितत्वात्। अकृतमिति तु कर्तृरहितत्वात्। आभ्यन्तरकर्तृपुरुषेश्वरादिप्रवृत्ति - संस्कार- रहितत्त्वाच्च। अप्रतिघमिति तु अनावरणस्वभावत्वात्। अनालम्बनमिति तु आलम्ब्यालम्बनरहितत्वात्। व्युपशमस्वभावमिति तु कर्मक्लेशरहितत्वात्। एकान्तशमस्वभावमिति सर्वप्रपञ्चरहितम् सर्वकल्पनाजालरहितम्। सततस्थितम्, अभयम् उत्पादविनाशरहितञ्च। य एतादृङ्नयेन धर्ममपि पश्यति। व्युपशान्त्यन्त - संयुतम् इत्युक्तम्। व्युपशान्त्यन्तमिति तु उपशमम् अन्ते दर्शयितुं व्युपशमपर्यन्तम्। यस्तु एतादृशनयेन धर्मं सततम् अजीवादिस्वभावं पश्यति।

प्रतीत्यं धर्मबुद्धौ च शुद्धिबुद्धया हि पश्यति।

सोऽनुत्तरधर्मशरीरं बुद्धं पश्यति। इति भगवता उक्तम्। इत्यस्यार्थस्तु यः पश्यति। आर्यधर्ममभिसंबुध्य इति तु यो पापधर्माणां पारे अर्थात् दूरे स आर्यः। तेषां धर्म आर्यधर्मः, सम्यक्दृष्टिरित्यादिः। अभिसंबुध्येति अभिमुखे एकाग्रताकरणात् साक्षात्करणाच्च समाधिप्राप्तेरित्यधिवचनम्। सम्यग्ज्ञानोपनयेनैव इति सम्यगविपर्ययेण सर्वधर्मनैरात्म्यतथतावगमत्वात्। अनुत्तरमिति तत्पूर्वं विशिष्टधर्मस्य अभावः, तस्मात् तद् एवानुत्तरमित्युक्तम्। धर्मकाय इति धर्मकाय एव धर्मकायः, निशादा - पुत्रवत्। बुद्ध इति धर्मावबोधात्। तथापि यः प्रतीत्यसमुत्पादं पश्यति स धर्मकृतानुत्तरबोध्यशैक्षस्वभावतां पश्यति। येन स आर्यज्ञानगोचरधर्मं तादृशं स्वयथावद् अभिसंबोधेः धर्मज्ञः, धर्मनिर्माणं धर्मदर्शनम् बुद्धदर्शनम् इति भगवता उक्तम्। प्रतीत्यसमुत्पादलक्षणं भेदव्यवस्थापनार्थं प्रतीत्यलक्षणं तावद् इत्युक्तम्। कस्मात् प्रतीत्यसमुत्पाद उच्यते इति चेत्। तस्मादुक्तम् -

सहेत्वादिपदान्वितम्।

सहेतुकः सप्रत्यय ( उच्यते) नाहेतुको नाप्रत्ययः। भगवता प्रतीत्यसमुत्पादलक्षणं संक्षेपेणोक्तम्, एतत्प्रत्ययस्यैव फलम्। तस्मादुक्तम्।

बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः।

हेतुप्रत्यय- प्रवाहोऽविच्छिन्नः। हेतुफलमविच्छिन्नं अन्योन्यं प्रवर्तते। अत्राहेतुः प्रतिकूलहेतुः वा प्रवर्तको निवर्तको वा कोऽपि नास्ति। तस्मात् तथागतानामुत्पादाद्वा अनुत्पादाद् वा धर्मतो धर्मस्थितितो धर्मनियमतश्च एष प्रवाहः, इत्युक्तम्। यदि प्रत्ययरहितेन एकेनैव हेतुना भावा उत्पद्य तिष्ठन्ति, यदि प्रत्ययोऽपि हेतुमनपेक्ष्य किञ्चिदुत्पादयितुं समर्थः चेत्तदा ते स्थिता अस्थिता इति वक्तुं युज्येत, तेषामुत्पादः फलोद्भवोऽपि नाहेतोर् न चाप्रत्ययात् तथागतानामुत्पादो वाऽनुत्पादो वा एषा धर्मता धर्मस्थितता च आदितः प्रवर्तेते॥

तद्यथा - प्रतीत्यसमुत्पादस्य धर्म एतत्प्रत्ययताफलमिति भगवता प्रतीत्यसमुत्पादः संक्षेपेण उक्तः। अत्र धर्मता तु हेतुप्रत्ययर्योर्धर्मता। धर्मस्थिततेति अविप्रणाशधर्मता। धर्मनियामतेति इदंप्रत्ययताक्रमनियामता। हेतुप्रत्यय-क्रमवत् प्रतीत्यसमुत्पादसमतेति हेत्वभावे प्रत्ययाप्रवृत्तिः प्रत्ययाभावे च न हेतु-प्रवृत्तिः। परस्परसामग्र्यां च प्रवृत्तिः। अनन्यतथतेति अन्यताविरहितत्वात्। भूततेति अविसंवादत्वात्। सत्यता इति सत्यानुकूलत्वात्। तथतेति अर्थान्वितत्वात्। अविपरीततेति तु चतुर्विधविपर्ययरहितत्वात्। अविपर्ययतेति अनुकूलत्वात्। एवमपि प्रतीत्यसमुत्पादोऽयम् इत्यादि हेतुप्रत्ययद्विविधत्वाद् हेतुप्रत्ययोभयार्थ प्रतीत्यसमुत्पादस्य क्रमोऽभ्युपगन्तव्यः। कतमौ द्वाविति? उच्यते। हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। तच्च बाह्याध्यात्मिक - भेदेन चतुर्विधोऽवगन्तव्यम् -

बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः। इत्युक्तम्।

एवं बाह्याध्यात्मिकविशेषेण पृथग् हेतुप्रत्ययानां लक्षण - भेदः कीदृश इति चेत्।

बाह्यो हेतुस्तु बीजादि इत्युक्तम्।

तत्र कतमो बाह्यः सहेतुकः प्रतीत्यसमुत्पाद इति उक्त्वा तदिदम् - बीजादङ्कुरः। अङ्कुरात् पत्रम्। पत्रात् काण्डम्। काण्डान्नालम्। नालाद्गण्डः गण्डाद् गर्भम् [गर्भाच्छूकः] पुष्पात् फलम् इत्युक्तम्।

प्रत्ययः षड्‍विधो मतः।

इति त्ववस्थात्वाद् बाह्यप्रतीत्यसमुत्पाद इति योज्यम्। षड्‍विध इति तु पृथिव्यादयः षड्‍विधाः। तस्मात्तूक्तम् -

बीजाङ्कुरप्रकाण्डादिः फले यद्वत् प्रवर्तते।

बीजे सति अङ्कुर - काण्डादि -फल - पर्यन्तानां प्रादुर्भावाद्, बीजेऽसति अङ्कुरकाण्डादिफलपर्यन्तम् न प्रादुर्भवति। तत्र बीजस्य नैवं भवति अहमङ्कुरादि अभिनिर्वर्तयामि इति। अङ्कुरस्यापि नैवं भवति अहं बीजादिना अभिनिर्वर्तितः इति। एवं यावत् पुष्पस्य नैवं भवति अहं फलमभिनिर्वर्तयामीति। फलस्यापि नैवं भवति अहं पुष्पेणाभिनिर्वर्तित इति। अथ पुनर्बीजे सति अङ्कुरादितः फलादि पर्यन्तं प्रादुर्भावः। असति न भवति। एवं बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः।

प्रत्ययस्तु पृथिव्यादि कालान्तं हि यथा क्रमम्।

तस्मादेव कथं बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इत्यादि उक्तम्। बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धाः कतिधा द्रष्टव्या इत्युक्तम् षण्णां धातूनां समवायात्। कतमेषां षण्णामिति। पृथिव्यप्तेजोवाय्वाकाशर्तुधातूनां यथाक्रमं समवायाद् बाह्यप्रतीत्यसमुत्पादस्येति प्रत्ययता यथाक्रमम्। क्रमो यथावद् ज्ञातव्यः। एषाम् हेतुप्रत्ययानां कतमस्य कर्म कतमद् इति चेत्? तस्माद् उक्तम्।

धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः।
परिणामस्तथा तेषां कार्यं तद्वत् प्रवर्तते॥

तत्र पृथिवीधातुर्बीजस्य संधारणकृत्यं करोतीति बीजमङ्कुरोत्पादोन्मुखमाश्रयत्वात् कठिनत्वमेव उच्यते। अब्धातुः स्नेहयतीति अभिष्यन्दयतीति भाषितः। तेजो धातुः परिपाचयतीति परिपुष्टयवसरे उपपद्यमाने परस्पर - स्पर्शेणोष्णता एव परिपाक इति उच्यते।

वायुधातुर् अभिनिर्हरतीति वर्धनत्वाद्, स्वावस्थायाः समुद्धृत्य बहिरा नयनाद् वायुधातुर्बीजमभिनिर्हरति वर्धयतीति उच्यते। आकाशधातुर्बीजाङ्कुरादीनाम् अनावरणकृत्यं करोतीति। आकाशधातुर्विघ्नाकरणत्वाद् अनुकूलप्रवृतेः बीजाङ्कुराद्‍यनावरणकृत्यं करोतीत्युच्यते। ऋतुरपि बीजस्य परिणामनकृत्यं करोतीति ऋतुरपि सर्वाकारं अभिनिर्हरति। ऋतौ यथावत् परिवर्तमाने बीजपरिणामकृत्यं करोतीति। सर्वेषामप्यवैकल्ये प्रादुर्भावः। वैकल्ये तु न प्रादुर्भावः। तस्मादेव उक्तम्।

नो चेत् प्रत्ययसामग्री बीजे भूतेऽपि नाङ्कुरः।
बीजाभावे तु सत्येवं प्रत्ययभावोऽपि तादृशः॥

तस्मादेव उक्तम्। सर्वसमवायाद् बीजे निरुद्धे ततोऽभिनिर्हारः स्यात्।

हेतवः प्रत्ययास्तद्वद् आत्मग्राहादिवर्जिताः।
हेतुप्रत्ययसामग्र्या न नश्येत् कर्मणः फलम्॥

तत्र पृथिवीधातोर्नैवं भवति अहं संघातकृत्यं करोमीति। तद्वत् जले अग्नौ, वायौ, आकाशे, ऋतौ चापि नैवं भवति। आत्मात्मीयग्रहाभावान्न कर्मफल-प्रज्ञप्ति- प्रणाशः, सर्वत्र हेतुप्रत्ययवैकल्याभावाद् इत्यवगन्तव्यम्। सोऽङ्कुरोऽपीति बीजहेतुकतदङ्कुरादीनाम् उत्पादो

न स्वतो परतो नापि न द्वयोः कर्तृकालतः।
ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः॥ इत्युक्तम् ।

स्वत इति हेतुप्रत्ययाभावे स्वत उत्पादः। स्वभाववादिन एवं कल्पन्त इति श्रूयते।

भावानां स्वभावत सततमत्र तिष्ठति।
अत्र न कश्चिदुत्पद्यते न च कश्चिन् निरुध्यते।

मायूरस्य पत्रवैचित्र्यं, कमलादिषु रक्तता,
काण्डादीनां तैक्ष्ण्यादिकं केन पूर्वनिर्मितमित्युच्यते।

तस्मात् तन्मतनिराकरणायोक्तम्। भावानां स्वत उत्पादो न युज्यते। पूर्वाध्यवसितत्वात्। उत्पत्तिमत्त्वेन अभ्युपगम्यते, हेतुप्रत्ययताभ्युपगमः। तस्माद् वस्तूनां स्वभावत उत्पादो न युज्यते, उत्पत्तिमत्वाद् घटादिवत्। यस्यानुसारं भावाः सततं स्थिताः तदनुसारम् उत्पाद - क्रिया- कर्म - स्थिति - विनाशा अपि न युज्यन्ते, उत्पाद- क्रिया- कर्म - स्थिति- विनाशा अपि साक्षाद् अवभासन्ते।

तस्माद् अत्र दोषस्य प्रसज्यमानत्वान् न स्वत इत्युक्तम्। भावानाम् स्वत उत्पादश्चेत् नित्यमुत्पादप्रसंगः स्यात्, आकाशवत्। कस्यचिदपि कुत्रापि कदापि उत्पादो निरोधो वा नास्तीति चेत्-उच्यते- प्रत्यक्षविरोधः। एवं भावानां हेतुप्रत्ययाद् उत्पादो भासते, तस्मात् तावद् भावानां न स्वभावत उत्पादः। परतः इति आत्मतः। परेषामुत्पादको विनाशकश्चात्मास्तीति श्रूयते। बाह्याभ्यन्तरसर्ववस्तूनि तु आत्मगुणाः। आत्मा अन्तः करणपुरुषोऽस्ति।

तथा सति गमन- आगमन - चलन - कम्पन - निराकरण - मन्यना - क्रिया- कर्माणि तत्रैव अन्यत्रापि च प्रवर्तन्ते। चक्षुरादिः आत्मगुणः, परार्थत्वात्, शयनाद्यङ्गवदिति। परसंज्ञा तु आत्मनि सत्येवोच्यते। चक्षुरादिः तद्गुणत्वात्, तदर्थस्तु परार्थः। यथा शयनादि परैरुपयुक्तत्वात् परार्थमितिवत् परार्थत्वादिति। अयं हेतुः शयनोपमया न युज्यते संघातत्वात्। आत्मात्वसंघातस्वरूपः। कथम् आत्मा असंघातः सन् स्वशरीराभावे शयनादीन् अङ्गसंघान् स्वरूपेणोपकर्तुं युज्यते। तस्मात् स हेत्वर्थोऽसिद्धः, असंघातस्य परार्थनिष्पादकत्वात्। शयनभेदेन शयनोपमा संघातस्य परार्थत्वमेव साधयति। आत्मनः संघातत्वाद् हेतुप्रत्यययोरुत्पादोपलब्ध आत्मात्मीय इति मन्यनाकारप्रवृत्तेः चित्तमेवात्मा इत्युच्यते। अत्रान्तः करणपुरुषः कूर्मकेशस्वभाववद् युक्त्यनुमानरहितस्तु क्वचिन्नास्तीति दर्शयितुम् भगवता बाह्याध्यात्मिकभावानां परत उत्पादो न युज्यत इत्युक्तम्। यदि भावानां स्वतोऽपि नोत्पादो न च परतोऽपि , तदा भावानां द्विविध उत्पाद इति चेत्, तस्मात् तन्मतनिषेधार्थमुक्तम्। न द्वयोः न च कालत इत्युक्तम्।

न स्वतः परतश्च न। अन्ये तु स्वपरयोः सम्बन्धाद् भावोत्पादं मन्यन्ते। तस्माद् उभयत एव वदन्ति। तथापि स्वतोऽनुपलब्धत्वात् परतश्चाभावात् न द्वयोः इत्युक्तम्। हेतु-प्रत्ययातिरिक्तं न स्वतो न परत इति भगवता उक्तम्। यदि उभयसंयोगेऽपि उत्पादविनाशौ नेष्टौ, तदा परतन्त्रेण कर्त्रा उत्पादविनाशौ भविष्यत इति कैश्चिदुच्यते। अन्ये तीर्थिकास्तु कर्त्ता नाम कश्चिद् आद्यःकर्ता, नित्योऽनवच्छिन्नो व्यापकश्चात्मेति कश्चिदस्ति, स एव बाह्यमाभ्यन्तरञ्चेदं सर्वम् उत्पादयति विनाशयतीति मन्यन्ते। तस्मात् तन्मतखण्डनार्थम् उक्तम्। भावानामुत्पादः स्थितिर्विनाशश्चैव न कर्त्रधीनाः। अथ कस्येति चेत् - हेतुप्रत्ययसम्बन्धाद् भावानां प्रवृत्तिर्भासते। कर्तुस्तु आकाशवन् निर्विकारत्वात् तदधीना उत्पाद - स्थितिविनाशाश्च नैव युज्यन्ते।

कस्मादिति चेत्, कर्त्तरि निर्विकार- निष्क्रियाकाशात्मनि क्रिया कर्म च किञ्चिदपि नास्ति। उत्पद्यमाना भावा हेतुप्रत्ययापेक्षाः प्रवृत्ति - क्रमोद्भूता एव भासन्ते। यदनुसारं कर्त्तारमपेक्षते प्रवृत्तिस्तदनुसारं भावानाम् उत्पाद- स्थिति-विनाशाश्च सदा आसन्ना भवन्ति। कर्तुर्नित्यत्वाद् भावानाम् उत्पाद- स्थिति-विनाशा युगपद् भविष्यन्ति अथवा उत्पाद - स्थिति-विनाशा न भविष्यन्ति। नित्यत्वात् क्वचिदपि किञ्चिदपि उत्पादो वा विनाशो वा न स्यात्। हेतुं प्रत्ययञ्च अपेक्ष्य प्रवर्तमानानां भावानामेव कर्तृ- क्रिया- हेतुफलोत्पादसमः क्रमोद्भव उपलभ्यते। अनुत्पन्ना- काशोत्पलादीनान्तु उत्पाद- स्थिति - विनाशा न युज्यन्ते। अविकारहेतुभिः परस्परमाश्रित्य प्रवर्तमानैः उत्पादनियमो न युज्यते।

नित्यभावादनित्यो हि समुत्पादो न युज्यते।
हेतुतस्त्वविकारत्वात् समस्यैवोद्भवे सति।
हेतौ फले च संभिन्नेऽविकारस्तु कथं भवेत्।

हेतौ विकारस्यापि भूतत्वात् तदसादृश्यपक्षो नष्टः। क्रियानन्वितवन्ध्यापुत्रात्मनि कस्याश्चित् क्रियायाः कर्मणो वा नियतेन अयुक्तत्वाद् भगवद्धर्मेषु अविसंवादित्वाद् भावोत्पादक्रिया कर्त्तारं नापेक्षते, किन्तु सति हेतुप्रत्ययसङ्ग्रहे भावानामुत्पादविनाशौ युज्येत इत्युक्तम्। यद्येवम् अत्र भावोत्पाद- स्थित्यन्यथा -भावतादिरभ्युपगन्तव्यः।

भावोत्पादस्थितीनां तु ज्ञातव्यो हेतुरीश्वरः।
अन्येषां विप्रतिपत्तिर्यथावत्तैर्हि भाष्यते॥

अन्यैः सत्त्वभाजनलोकयोरुत्पाद- स्थिति - विनाशास्तु ईश्वरकृतप्रणाशा अवगम्यन्ते, तदीश्वरेच्छावशात् काय - भूमित्रय - कर्त्रादिसंभवः स्यादिति श्रूयते। अन्ये तस्यैव चित्तोत्पादमात्रेण नरक- प्रेत- तिर्यक् - देव- मनुष्यदयाश्च सत्त्वाः ज्वर- विष- व्याधि - स्त्री - पुरुष - नपुंसक - सुकृतरूप - विकृतरूप - दस्यु- जिह्म - चौराः काममिथ्याचार - प्राणातिपात - मृषावाद - मद्यपान - द्यूतप्रवेश - प्रत्यन्त -शबर- डोम्बी - निर्दय - क्रूर - पारुष्यवाद- ब्रह्मघात- मातृपितृघातक - व्याधादयः , यक्ष - राक्षस- डाकिन्यादयः सर्वे परघातकाः, सुख - दुःखादयः स्वर्गो विमोक्षश्च तानि सर्वाणि चित्तोत्पादमात्रेणोद्धृतानीति वदन्ति। ईश्वरकर्तृत्ववादिनोऽतिसुकुमारप्रज्ञा एव, अतिमन्दप्रज्ञा एव, गतानुगतिकाश्चैव युक्तिविशेषरहिते तस्मिन् गौरवप्रवणत्वात् पूर्वोत्तरविरुद्धं बालयुवकचाण्डालवदयथार्थ प्रत्यक्षादिविरुद्धं , दान-विनय-संयम-इष्टानिष्टफलं, सुकृतदुष्कृतकर्म, गम्यागम्यं , भक्ष्याभक्ष्यं, स्वर्गापवर्गादिफलविरुद्धं, युक्त्यागमादिविरुद्धं च वाङ्मात्रेण पक्षीकृत्य निजाज्ञानपटलेन नेत्राच्छादनत्वाद् असमर्थत्वात् पशुभूतास्तु पशुभ्योऽप्यतिछुद्रतराः पशवः। निगूढवन्ध्यापुत्रस्वभावं पशुपतिमाश्रित्य, जन्मस्थितिविनाशानां हेतुतांस्य‍अपि तूच्चताम्। उत्पादे स्थितौ च सहेतुक एवाभ्युपगम्यमाने सति नित्यवादभङ्गत्वाद् वादोत्सर्गः, विपरीतसिद्धत्वाद् ईश्वरस्य अहेतुत्वमेव सिध्यति। इच्छामात्रेण उत्पादे सति युगपदेव सम्पूर्णजगत उत्पादस्थिति-विनाशाः स्युः।

तस्मादपि असिद्धार्थतैव स्यात्, सर्वेषां नित्योत्पादप्रसङ्गत्वात्। दुःख -कुहना- जिह्म- अशुचि- अकृतज्ञताद्युद्धरणानां तु प्रयोजनविशेषाभावाच्च असिद्धार्थता। तदुद्धरणायासो निष्फलः। प्रयोजनाभावे हि कल्पनापूर्वङ्गमानां प्रवृत्तिर्नास्ति, प्रयोजनाव्याप्तेः। तत्प्रयोजनवद्‍व्यावृत्तौ कल्पनापूर्वङ्गमानां प्रवृत्तेरपि निवृत्तेः असिद्धार्थताऽस्ति।

हेतुप्रत्ययवैकल्ये क्रमोत्पादविनाशौ
प्रत्यक्षतया भासेते, अवैकल्ये चानुत्पादः।

सत्त्वभाजनलोकयोरुत्पद्यमानसुखदुःखादीनां स्थितिविनाशौ क्रमश उपलभ्येते, तस्मान्न ईश्वरो हेतुः। कस्यचिदपि भावस्य उत्पाद - स्थिति - विनाशा न युज्यन्ते। तस्मादपि प्रत्यक्षविरोधोऽसिद्धार्थ एव। नान्यत् प्रत्यक्षतो गरीयः प्रमाणमिति सर्ववादिप्रसिद्धम्।

नैकान्तेऽर्थक्रिया। दयाप्रतापाभावे
गम्भीर्यगुण - दर्शन - चर्या - चिन्तनादि न युज्यते।

एकान्तक्रियायुक्ता युक्तयोर्गाम्भीर्यगुणस्य रूपादेर्वा आलम्बन चिन्तनस्यैव अयुक्तत्वात्, तत्तु प्रतिकूलम्।

हेतावसति सर्वत्र प्रत्यय एव कथं भवेत्।
अहेतौ कारकाभावात् कथमीष्टे महेश्वरः।
भावकर्ता महेशश्चेत् सोऽपि कर्ता न मन्यते।
पित्रभावे सुतोत्पत्तिः सा नेष्टा दृश्यते न च।
हेतुनिष्यन्दसादृश्यं मन्यन्ते युक्तिवादिनः।
नित्यान्नित्यफलं युक्तमनित्याच्चाप्यनित्यकम्।
शालिबीजात्फलं तस्मादङ्कुरोत्पाद ईक्ष्यते।
तथा महेश्वरे नित्ये भावानां स्यात् सदोद्भवः।
यथाग्निर्दाहयेत्सर्वं तथाचेदीश्वरो मतः।
अग्निहेतुस्तथाऽन्योऽग्निः ईश्वरे नास्ति हेतुकम्।
क्रमप्रवृत्तज्वालाभिः सर्वदाहोऽपि मन्यते।
ईश्वरस्याविकारित्वाद् अग्निवत्त्वं न युज्यते।

तस्मादीश्वरकर्तृत्वाभ्युपगमे बहुदोषसंभवाद् भगवता भावानाम् उत्पादः ईश्वरकृतो न युज्यते इत्युक्तम्। परे तु सर्वं कालेन विवर्तितं मन्यन्ते। तैरेवमुच्यते।

स्थितिर्भावान् समुत्पाद्य कालेनैव विवर्त्यते।
भावोत्पादस्थिती चापि कालेनैव विवर्तिते।

तदेवम् उच्यते। अत्र काल इति किं नाम? नित्यो वा अनित्यो वा, पुरुषः स्त्री नपुंसकस्वभावो वा, देवो पिशाचो वा , मूर्तोऽमूर्तो वा , सक्रियो निष्क्रियो वा।

स नित्यश्चेत्तदा तत्र क्रियापेक्षा न युज्यते।
उत्पादश्चेत्सकृत् सोऽपि विरुद्धत्वान् न मन्यते।
अनित्यत्वेऽकालस्य हेतुप्रत्यययोगतः।
यदि पुंस्त्रीनपुंसादि यत्किञ्चित्स्याद् विरुध्यते।
देह्यदेहिक्रियादौ च पारस्परविरुद्धता।
नित्यत्वे निर्विकारत्वात् क्रियाकर्म विरुध्यते।

एवं कालवादिनां कालवशेन भावानामुत्पाद - स्थिति - विनाशाभ्यु- पगमस्यापि अयुक्तत्वात् तदप्यसमञ्जसमेव। सूर्यचन्द्र- नक्षत्र - पर्व- वत्सरादि - बाह्याभ्यन्तरभावानां गतगम्यस्वभावत्वात् कालाख्यया भावानामुत्पाद- स्थिति - विनाशास्तु कालपरिणामत्वेन न युज्यन्ते।

अन्यच्च, स्वभाववादिन आन्तरबाह्यान् सर्वभावान् स्वभावोद्भवान् मन्यन्ते। भावानां स्वभाव एव, कस्यचिद्भावस्य उत्पादस्य विनाशस्य वा कश्चिदपि हेतुर्नास्ति। खर- स्निग्ध- उष्ण- लघुत्व- श्लक्ष्ण - तीक्ष्णानि स्वभाव एव। मधुर - अम्ल - लवण - कटुकानि असत्त्वभेदा एव।

देव- मानुष - तिर्यञ्चो राजब्रह्म - कुजातयः।
सुकृतं दुष्कृतं चापि सुखं दुःखं सदा स्थितम्।
स्वभाववैमत्या तेभ्यो भ्रान्तचित्तेभ्य एवं वक्तव्यम्।
स्वभावे विकृते दृष्टे प्रत्यक्षादिविरुद्धता।
विकारो वर्तते यत्र निर्विकारः कथं भवेत्।
व्यक्त्यनेकप्रभेदाच्च जन्म नाशश्च भासते।
जातेर्विनाशसम्बन्धान् निर्विकारः कथं भवेत्।
स्वभावे निर्विकारत्वात् पुरुषादौ निरर्थके।
कुले राजनि क्षेत्रादौ तत्फलं चापि भासते।
स्वभावे विकृते जाते नित्यवादी तु भ्रंसते।
मार्गोऽयं युज्यते तस्माद् हेतुप्रत्ययवादिनाम्।

एवं स्वभाववादिष्वपि परस्परविरोधत्वाद् उत्पाद - स्थिति - विनाशानां स्वभावाद् उद्भवो न युज्यत इत्युक्तम्। अथ भावानाम् उत्पाद - स्थिति - विनाशा अहेतुतो भवन्ति इत्यपरेऽहेतुवादिनो हेतुं विनैव केवलम् भावानामुत्पाद - निरोधौ कल्पयन्ति। अहेतुवादोऽभ्यपगम्येत चेत्, हेतोः अनिश्चितत्वात् कृतप्रणाश- अकृताभ्यागम- अनवस्थाश्च भविष्यन्ति। सुकृत- दुष्कृतादि - पितृ - पुत्र - ब्राह्मण - राजन्य - वैश्य - शूद्र- श्वपचादि - शुच्यशुचि - गम्यागम्य - भक्ष्याभक्ष्य - देवपिशाचादि - दान - विनय - संयम - जप - तपस्या - उपवास - निश्चय - यागज्ञानाज्ञान - हेत्वनिश्चयात् परस्परभेदनिर्णय - व्यवस्थापि न संभवति। तस्मात्तस्यैव दोषस्य प्रसज्यमानत्वाद् अहेतुवादोऽपि लोकादि - विरुद्धत्वाद् असिद्ध एव।

ये चान्ये प्रधान - परमाण्वाद्यहेतु - प्रतिकूलहेतुवादादयस्तेऽपि तेनैव निषेधि - तव्याः। तस्मान्।

न स्वतः परतो नापि न द्वयोः कर्तृकालतः।
ईश्वरादिकृतं नैव स्वभावान्नाप्यहेतुतः॥ इत्युक्तम्।

हेतुप्रत्यययोर्वृत्ति र्भासतेऽनादिकालतः॥

इति तु अनादि - कालतः प्रपञ्च - वासनाबीजस्य अविच्छिन्न - नदीस्त्रोतः - प्रवाहवद् अनुप्रवृत्तेः

हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः। इत्युक्तम्।

तस्मादेव सूत्रे अथ पुनः पृथिव्यप्तेजोवाय्वाकाशर्तुधातुसमवायाद् बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति इत्युक्तम्। 'अथ पुनः' इति तु अभावादुद्भव- स्व - पर - द्वय- ईश्वरादि - रहित - बीज - पृथिव्यादि - सामग्र्या एव अङ्कुरादि उत्पद्यत इति उक्तम्।

पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते। इति।

पञ्चभिर्हेतुभिरिति तु हेतुपञ्चकैरिति, बाह्यस्येति बीजादेः। ' प्रतीत्योत्पाद' इति प्रतीत्यम्।

शाश्वततो न चोच्छेदान् न सङ्क्रान्तेः परीत्ततः।
हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः।इत्युक्तम्।

' शाश्वततो न ' इति यस्मादन्यद्बीजम्, अन्योऽङ्कुरः, न च य एवाङ्कुरास्तदेव बीजम्, बीजमेवापि नाऽङ्कुरः। अनिरुद्धाद् बीजादपि अङ्कुरो नोत्पद्यते। न च निरुद्धाद्, तथापि बीजनिरोधे अङ्कुर उत्पद्यते। तस्मान् न शाश्वततो, न चोच्छेदादिति न च पूर्वनिरुद्धाद्बीजादङ्कुरो निष्पद्यते नाचाप्यनिरुद्धाद्। अपि तु बीजाद् निरुद्धात् तस्मिन्नेव समयेऽङ्कुरो उत्पद्यते। अतो नोच्छेदतः। न संक्रान्तितः इति तु बीजाङ्कुरौ तु असदृशौ एव। तस्मात् ' न संक्रान्तितः। परीत्ततः हेतोरिति - परीत्तबीजवपनान् महाफलावाप्तिरिति तत्परीत्त - हेतोर्बहुफलाभिनिर्वृत्तिः, परीत्तान्महाफलाभि- निर्वृत्तित्वात्, तस्मात् परीत्तहेतोर्महाफलाभिनिर्वृतिः। सदृशानुप्रबोधाद् इति तु यादृशं बीजमुप्यते तादृशमेव फलाभिनिर्वृतिरिति। अतस्तत्सदृशानुप्रबन्धः। सदृशाफलाभिनिर्वृत्तिः।

बीजाङ्कुरयोर्भिन्नत्वाद् बीजं नित्यं न वर्तते।
यतश्चोच्छेदतो नास्ति बीजे सति तथाङ्कुरः।
बीजसादृश्यसिद्धत्वात् तद्भिन्नं न चेष्यते।
अङ्कुरस्य फलादीनां सङ्क्रान्तिश्चाङ्कुरस्य न।
एकबीजं परीत्ताणोः बीजत्वेनैव सम्भवेत्।
तस्मात् परीत्ततो हेतोर्जायते हि महत्फलम्।
उप्ते शाल्यादि बीजे हि श्यामाकादिफलं न हि।

तस्मादेव -
अङ्कुरो बीजवन्नेष्टो निर्हेतुर्नोऽङ्कुरोद्भवः।
समो निरोध उत्पादस् तुलोन्नामावनामवत्। इत्युक्तम्।

एवम् बाह्यप्रतीत्यसमुत्पादः परिकल्पनात्मकेन अनुपचयत्वेन द्रष्टव्यः।

तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा।

तथैवाध्यात्मिकस्यापि बाह्य - प्रतीत्यसमुत्पादवद् हेतुप्रत्ययाकारद्वयोप- निबन्धनत्वात् पृथक् द्विविधोऽवगन्तव्यः। द्विधा हेतुश्चप्रत्यय इति तु आध्यात्मिकः प्रतीत्यसमुत्पादो हेतूपनिबन्धनः प्रत्ययोपनिबन्धनश्च द्वयाकारोऽवगन्तव्यः। इष्ट इति अभीष्टस्य च अभिप्रेतस्य अभिमतस्य चेत्यधिवचनम्। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कथमवगन्तव्यः? उच्यते -

आदिहेतुरविद्याऽस्य मृत्युरन्त्यो यथाक्रमम्।

तत्रादावविद्यादेशनाद् आदौ अविद्या, अन्ते मरणाङ्गदेशनत्वान् मृत्युरन्ते। यत्तयोर्मध्ये स्यात् तत् तु मध्य इष्यते। तस्मात् सूत्रे अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम् , विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्यय मुपादानम् , उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरण - शोक - परिदेव - दुःख - दौर्मनस्योपायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। इत्युक्तम्।

सजन्मक्लेशकर्मात्मा द्वादशाङ्गस्त्रिकाण्डकः।
हेतुप्रत्ययसम्भूतः कर्त्तेत्यादिविवर्जितः।

क्लेश - कर्म - जाति - परतन्त्रो ऽयमात्मापि अंशत्रयेण व्यवस्थाप्यते। क्लेश- परतन्त्रस्वभावतया, कर्मपरतन्त्रस्वभावतया जन्मपरतन्त्रस्वभावतया च। तत्र क्लेश परतन्त्र - स्वभावताया अङ्गानि त्रीणि - अविद्यातृष्णोपादानानि। कर्म - परतन्त्र - स्वभावतायाः द्वे अङ्गे - भवसंस्कारौ। जाति - परतन्त्र लक्षणमपि शेषसप्ताङ्गम् - विज्ञानम् , नामरूपम्, षडायतनम्, स्पर्शो , वेदना, जातिः, जरामरणञ्चेति। अपीतिपदं संग्राह्यतां दर्शयति। शोक- परिदेवना - दौर्मनस्य - उपायासादीनां प्रियवियोगा- प्रियसंप्रयोग - कामविपत्त्यादीनां च संग्रहः। एवम् अयं प्रतीत्यसमुत्पादो द्वादशाङ्गः त्रिस्वभावतया वेदितव्यः। सोऽपि कर्त्रादि - स्वभावता - रहितो ज्ञातव्यः।

अथ शालिस्तम्बसूत्रटीकायां तृतीयं पटलम्।
अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद्।

' अविद्या यदि नादौ स्याद्' इति तु यदि अविद्या चेन्नाभविष्यन् नैव संस्काराः प्रज्ञास्यन्ते। तद्वद् जरामरणपर्यन्तं चेन्नाभविष्यन् नैव शोकादि प्रज्ञास्यते।

तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते।

तत्राविद्याया नैवं भवति अहं संस्कारादि अभिनिर्वर्तयामीत्यतो जरामरणपर्यन्तं नैवं भवति अहं शोकादि अभिनिर्वर्तयामीति। संस्कारादीनामपि नैवं भवति वयमविद्यादिभ्योऽभिनिर्वर्तिताः। एवम् यावज्जरामरणस्यापि नैवं भवति वयं जात्यादिभिरभिनिर्वर्तिता इति।

अविद्यासंभवादादावन्ते मृत्युश्च भासते।

अथ च सत्यामविद्यायां संस्काराद्यभिनिर्वृत्तिर्भवति, प्रादुर्भावः। एवं यावज्जरामरणं, शोकपरिदेवाद्यभिनिर्वृत्तिर्भवति।

हेतुराध्यात्मिकस्यास्य।

एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः। कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः? उच्यते -

प्रत्ययाः षट्प्रकारकाः।

अस्येति तु आध्यात्मिकस्य। प्रत्ययस्तु सामग्री षट् प्रकारका इति षड्विधाः।

प्रत्ययो ऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा।

विज्ञानस्यान्ते परिदेशनत्वाद् ' अन्ते विज्ञानम्'। आदिके धरा इत्युच्यते।

तस्मात् सूत्रे - षण्णां धातूनां समवायात् पृथिव्यप्तेजोवाय्वाकाश - विज्ञानादिस्त्वाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। इत्युक्तम्।

काठिन्यानुग्रहौ पाकः श्वासवृद्धिरनावृतिः।

तत्र अध्यात्म - पृथिवीधातुः कतमः? यत्कायसम्बद्ध- कठिन - कर्कश - रूक्ष - खरगत - केश - रोम- नख - दन्त - स्वेद - मल - चर्म - मांस -स्नायु- अस्थयादि - सदृशम् , अन्यच्च अस्मिन् काये यत्किञ्चिदस्ति तत्सर्वं संगृह्य पृथिवीधातुरुच्यते। अनुग्रह तु संग्रहः, सम्बन्धो - मृदुः, आलिङ्गनं , पिण्डीकरणं स्निग्धता च। तद्यथा - अश्रु - स्वेद - कफ - सिंघाणक - मज्जा - शुक्र - मूत्र - उच्चार- रक्त -लसीका - मस्तक - ग्रहणी - पक्वाशयादिः अन्यच्चास्मिन् काये तादृशं स्निग्ध - स्वभावं स्याज्जलधातुरुच्यते।

पाको नाम पाचनम् - पाक - पाचन - पाचक - उष्णाग्निस्ताप - तापन - वृतिर्यश्चैतत्कायमध्ये अशित - पीत- खादितानां सम्यक्सुपाचकः। अन्यच्च यत्किञ्चित्कं तादृशं तत्सर्वं तु तेजोधातुरुच्यते। श्वास इति वायुधातुः। श्वासस्तु उच्छ्वासः, आश्वासो, भाषणं, प्रलापो, गमनागमनं क्षयो वृद्धिरिति। कायस्य विस्तारः, सङ्कोचः, कम्पनं, चलनं, उत्क्षेपः, पोषणं, वृद्धिः, पीनसः, कासः, छिक्का, ऊर्ध्ववायुरधोवायुरन्यच्चापि एतत्कायमध्ये यत्किञ्चित् तादृशमस्ति तत्सर्वम् एकतः पिण्डीकृत्य वायुधातुरित्युच्यते। आकाशमिति अनावृतत्वादाकाशम्। आवरणं सप्रतिघं संवृतञ्च। राजी - कोष- अन्तारन्ध्र- मुखरन्ध्र- कर्णपुट- नासापुट- नेत्रछिद्रादयः कायान्तः कोषश्चायम् आकाशधातुरित्युच्यते।

नामरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतः।
तस्मात् क्लिष्टं मनश्चैवाध्यात्मिक प्रत्यया इमे॥

तत्र नामानुवृत्तिः रूपानुवृत्तिश्च आध्यात्मिकविज्ञानधातुरित्युच्यते। पञ्चविज्ञानसंयुतः इति तानि पञ्चविज्ञानकायानि, ततः क्लिष्टं मनश्चापि इति क्लेशमयं मनः, तानि च चतुर्महाभूतानि एकतः पिण्डीकृत्य नडकलापयोगेन नामरूपमित्युच्यते। तत्र नामेति चत्वारोऽरूपस्कन्धाः - वेदना, संज्ञा, संस्कारो विज्ञानं चेति। रूपं नाम पित्रोः शुक्रशोणितोद्भूतं अन्तराभवमाश्रित्य यत् प्रथमं नामरूपाभिनिर्वर्तनं तन्निश्रित्य पूर्वंनामरूपाभिनिर्वर्तनं -मनोविज्ञानं सास्रवं निवृत - व्याकृत स्वभावम् आत्ममोहादिचतुःक्लेशात्मकम्। आत्ममोहः, आत्ममानम्, आत्मदृष्टिः, आत्मोत्कर्षश्चेत्येतत्क्लेशसंयुतं क्लिष्टं मन इति एकतः पिण्डीकृतं नामरूपमित्युच्यते।

धातूनां सन्निपाताद् वै शरीरोत्पाद इष्यते।

अनन्तरोदिताः षड्धातवः। सन्निपाताद् वै इति तु वैकल्याभावात्। शरीरमिति तु भूत - भौतिक - संनिपात- पिण्डम्। उत्पादो नाम प्रादुर्भावः। इष्यते इति तु अनुमतम्। अस्य कर्त्रादि न वर्तते इति भावः।

आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते।

इति तु अस्माभिरेते उत्पादिता इति च तैर्वयमुत्पादिता इति तेऽन्योन्य विकल्पं नोत्पादयन्ति।

तेषु सत्सु समुत्पादः तेष्वसत्सु न संभवः।

प्रत्ययेषु असत्सु शरीरोत्पादो न युज्यते। यदा आध्यात्मिकप्रत्ययादि - वैकल्याभावस्तदा संनिपातात् शरीरमुत्पद्यते। वैकल्ये शरीरं न उत्पाद्यते।

नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन।

तत्र पृथिवीधातुस्तु नात्मा अहंममेति मन्यना - वियुक्तत्वात्। 'न सत्त्वास्तु' चित्त-मनो - विज्ञान- वियुक्तत्वात्। न जीवः चलत्वाभावात्। न जन्तुस्तु जन्यजनक विरहितत्वात्। ' न मनुजो' मनुवियुक्तत्वात्। ' न मानव' स्तु अन्तः स्थितमानवासदृशत्वात्। ' न स्त्री', न पुमान् - न नपुंसकस्तु आध्यात्मिकस्त्री पुरुष- नपुंसकात्मकः। न चाहं मम् इति तु आत्मात्मीय -मन्यना - वियुक्तत्वात्।

नाप्यन्यच्चापि किञ्चन इति तु ईश्वरादि - कर्तृ - क्रिया- कर्म - विरहितत्वात्। तद्वत् जलम्, अग्निर्वायुराकाशो विज्ञानधातुश्चापि नात्मा, न सत्त्वो, न जीवो, न जन्तुः, न मनुजो, न मानवो, न स्त्री, न पुमान्, न नपुंसकम् न चाहं न मम स्यात्। न चेश्वरादि अन्यत् किञ्चिद् इति ज्ञातव्यम्।

यैकपिण्डादिसंज्ञा साऽविद्या त्रिभवछादिका।

तत्र कतमाऽविद्या? उच्यते। त्रिभवछादिकेत्युच्यते। त्रिभवस्तु भवत्रयम् कामभवः, रूपभवः, अरूपभवश्च। तेऽपि सत्त्वभाजनलोके व्यवहारेण द्विविधाः व्यवस्थापिताः।

अथ च धातु - गति - योनि - भेदेन क्रम- त्रयेण स्थापितः। कथमिति चेत्। उच्यते - तत्र कामधातुः षट्त्रिंशदाश्रयनिकायविज्ञप्त्यवभासं साधारणासाधारण - स्वभावेन एकपिण्डत्वेन कल्पयन् संज्ञया ग्रहणत्वाद् अविद्येति उच्यते। तत्र षट्त्रिंशदाश्रयनिकायास्तु अष्टौ उष्णस्वभावा महानरकाः, शीतस्वभावाः अष्टौ महानरकाः। संजीव - कालसूत्र - संघात- रौरव - महारौरव - तपन - प्रतापनावीचयो- ऽष्टोष्णनरकाः। हाहाधर - अपप - अटट- हाहावत् - अर्बुद- निरर्बुद - पद्म - महापद्म - उत्पलानि शीतस्वभावत्वाद् अष्टौ शीतनरकाश्च। प्रत्येकः प्रादेशिकश्च नरकः, प्रेताश्रयः, तिर्यगाश्रयः, असुराआश्रयः। चतुर्द्वीपाः, अष्टौ अन्तर्द्वीपाश्च।

तत्र प्रेताश्रयस्तु मरौ अटवीकान्तारे च। तद्भिन्नस्तु विभागः - ग्राम- नगर- निगम- श्मशान - पर्वत- अटवी- कर्वट- द्वीप-नदी - वायु- सागर- पल्वल - तडाग - कूप- उद्यानस्थान - देवालय - मातृगृह - नागलोक- मरु - सरस्- वृक्ष - शून्यालय - महापथ- नदीतट- अरण्यवास - प्रपात- सेतु - कौलस्थान - मुख - महापथ- आपण - चत्वर- श्रृङ्गाटक- पावनतीर्थस्थान- जलाशयादिषु स्थित्वा स्वकर्मवशेन विज्ञप्त्यवभास - विकल्पोद्भवानां यदज्ञानं सेयमविद्या इत्युच्यते। तिर्यक्स्थानं मध्ये - सागरम्। योनिस्थानानि चत्वारि - अण्डजो, जरायुजः, संस्वेदजः, उपपादुकश्च। योन्याश्रयभेदेन विविधा तिर्यग्जगद् विज्ञप्त्यवभासित- विकल्पवासनालिप्तसन्तानाः।

तदन्यथाविभक्ताः - गर्दभ - सूकर- वानर- गज- उष्ट्र - अश्व - मृग - महिष - गौ-गवय - चमरी - श्व - श्रृगाल - नकुल - मूषक - सिंह - व्याघ्र - तरक्षु - ऋक्ष- वृक- मार्जार - मीन - कच्छप- मकर- शिशुमार- सर्प- पिपीलिका - लूता - पतंग - तित्तिरि - पिपीलक - कृमि- वल्मीक - गोधा - कीट- जलवासि - शुक - शारिका - कोकिला - मयूर - हंस- क्रौञ्च - वक -काक - गृध्र - उल्लूक - जीवञ्जीव - सुपर्णादयोऽनिश्चित - गतित्वात् स्वकर्मवासना - पारतन्त्र्येण अवभासाकारं स्थितं तु यदज्ञानं तदपि अविद्या इत्युच्यते। असुराणां चतुराश्रयस्तु सुमेरोश्चतुः परिषण्डमध्येऽस्ति।

तद्भिन्नविभागेन स्थितं पर्वत - अटवी - वन - उद्यान - नदी - ग्रामादिषु स्वकर्म - वशात् प्रज्ञप्तावभास - विकल्पनोद्भूतमन्यस्थानानां यदज्ञानं तदपि अविद्येत्युच्यते। नरक - सत्त्वानां स्वकर्मवशितानुकूलविकल्पनोद्भवानां तु अनवतप्तमहासागराद् विंशतिसाहस्र-योजनाधोभाजनस्य विज्ञप्ति - स्वभावमूलभूतेषु अन्यस्थानेष्वभि - निर्वृत्तिः। ततोऽन्यत्र प्रत्येकसत्त्वस्य नरकादि - भाजनस्य विज्ञप्ति - विकल्पनोद्भूतस्य पर्वत- अटवी - मरु -दरी - प्रपात - नदी -तीरादिस्थानाभिनिर्वृत्तं यदज्ञानमिदमप्य - विद्येत्युच्यते। चत्वारो द्वीपास्तु पूर्वस्यां विदेहः, दक्षिणस्यां जम्बूद्वीपः, पश्चिमायां अपरगोदानीयः, उत्तरस्यां, च कुरुरिति। अष्टावन्तर्द्वीपास्तु पूर्वयां विदेहपर्षदो देहो विदेहश्च। दक्षिणस्यां - जम्बूद्वीप - पर्षदः चपलक उत्तरमन्त्री च। पश्चिमस्याम -परगोदानीय - पर्षदः चामरश्चापरचामरश्च।

उत्तरस्यां कुरु-पर्षदः कुरुः कौरवश्च। तेद्वीपोपद्वीपानां प्रभेदेन विविधा -कारेण भिन्नाः। स्वविज्ञानावभासविकल्पनावशेनोद्भूतं विभिन्नप्रपंच - वासनालिप्तं तादृशं यदज्ञानम् इदमपि अविद्येत्युच्यते। षड्देवानां सत्त्व-भाजनावभास-विज्ञप्त्यवभासविशेष-साधारणासाधारणाशेषस्वभावेषु पिण्डग्रहण-कल्पना- वशेनोद्भूतम् यदज्ञानमिदमपि अविद्येत्युच्यते। तत्र षड्देवनिकाया इति। चतुर्महाराजकायिकाः - त्रायस्त्रिंशो, यामः, तुषितो, निर्माणरतयः परनिर्मितवशवर्तिनश्च। अन्ये च विद्याधर-सिद्धः, ऋषिर्गरुड-गन्धर्वः-किन्नर-महोरग, यक्षादयः, नक्षत्र-ग्रह-तारा-चन्द्र-सूर्या सपरिवाराः सप्रासादाः, उत्पाद-विनाश - स्वकर्मवशेन विज्ञप्त्याकारावभास-विकल्पना-वासनाऽनुगामिनोऽण्डज - जरायुज-संस्वेदज-उपपादुकाश्च। योन्याश्रय भेदेन विविध-तिर्यग्जगद्-विज्ञप्त्यवभासित-विकल्प-वासनालिप्तसन्तानाः गदर्भ-सूकर-वानर-गज-उष्ट्र-अश्व-मृग-महिष-गौ-गवय-चमरी-श्व-श्रृगाल-नकुल-मूषक-सिंह -व्याघ्र-तरक्षु-ऋक्ष-वृक-मार्जार-मीन-कच्छप-मकर-शिशुमार-सर्प-पिपीलिका-लूता-पतंग -तित्तिरि-पिपीलक-कृमि-वाल्मीकि-गोधा -यूका-कीट-जलवासि-शुक-शारिका-कोकिल-मयूर-हंस-क्रौञ्च-वक-काक-गृध्र-उलूक-जीवञ्जीव-सुपर्णादयो-ऽनिश्चितगतित्वात् स्वकर्म- वासनापारतन्त्र्येण प्रज्ञप्त्यवभासाकार-स्थिताः। एवं पृथग्गति-योनि-बहुत्व-भेदेन विभिन्न-सत्त्वभाजनलोका इत्याख्याताः साधारणा-साधारणविशेषादिपिण्डग्रहोद्भूत एकतः संक्षिप्य कामधातुरित्युच्यते। परञ्चोक्तम् -

धातुगतियोनिभेदैः कामभवस्तु षट्त्रिंशत्।
नरा द्वादश, षड् देवाः षोडश नरकास्तथा।
सासुरप्रेततिर्यञ्चः।

तादृश-विभिन्न-विकल्पवासनोद्भूतं यदज्ञानम्, अपरिच्छिन्नम्, अव्यक्ता-वरणम्, अनवबोधम्, अपरिज्ञातामिस्रं पूर्वान्त-अपरान्त-मध्य-हेतु-कर्म -फल-सत्य-रत्न-दुःख-समुदय-निरोध-मार्गकं यदज्ञानं साऽविद्या। त्रिधात्ववच्छादि केत्युच्यते। तस्मात् सूत्रे- येषामेव षण्णां धातूनामेक - संज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, ध्रुवसंज्ञा, शाश्वतसंज्ञा, सुखसंज्ञा, आत्मसंज्ञा, सत्व(संज्ञा), जीव(संज्ञा), पुरुषसंज्ञा, पुद्गल(संज्ञा), मनुज(संज्ञा), मानव(संज्ञा), अहंकार-ममकारसंज्ञा। एवमादि विविधमज्ञानमियमुच्यतेऽविद्येति देशितम्। तत्र पृथिवीधातोरष्टद्रव्यत्वाद् एकसंज्ञा न युज्यते। परमाणूनां परस्परं संचयात्मकत्वात् पिण्डग्राहो न युज्यते। हेतुप्रत्यययोः सम्बद्धप्रवृतेः नित्यसंज्ञा न युज्यते। चिरकालम् अस्थितत्वाद् ध्रुवसंज्ञा न युज्यते। सहोत्पाद-विनाशत्वान् न शाश्वतसंज्ञा। संस्कार-विपरिणाम-दुःखान्वितत्वान् न सुखसंज्ञा। षट्त्रिंशद्-विधाशुचिद्रव्यसमवायान् न शुचि संज्ञा। भूत-भौतिक-द्रव्य-वैपुल्यान् न आत्मसंज्ञा। चित्तचैतसिकाधिष्ठानत्वान् न सत्त्वसंज्ञा। क्रियाभावान् न जीवसंज्ञा। अपि च। गमनागमनरहितत्वान् न पुद्गलसंज्ञा अस्ति। अहंमममन्यनाविरहित्वान् न मनुज - मानवसंज्ञा। अहंममेत्यादि - रहितत्वान् मनुजादिसंज्ञा न युज्यते। एवं षण्णां धातूनां तदनित्यादिस्वभावस्य यदज्ञानं इयमविद्येत्युच्यते।

तत्र अविद्येति तु विद्या न भूतत्वाद् अविद्या। न तु विद्याभावः, अभावस्तु न किञ्चिदपि। अविद्या विद्याभिन्ना विद्यान्तरमेवस्ति। तस्माद् अभावो निषेधोऽपि नास्ति, परत्वमपि नास्ति। अथ किमिति चेत्? विरोधः। अविद्या तु न विद्याऽभावः विद्याधर्मतो विरुद्धा अविद्येति उच्यते। परनिर्मितवशवर्ति तद्देवो -परिप्रभृति सप्तदशाश्रयाकारविज्ञप्त्यवभासो रूपधातुः। तदुद्भवः सत्त्व भाजनलोक -स्वभावः साधारणः, असाधारणश्च विशेषविकल्पवशसम्भवः। आश्रयास्तु चतुर्ध्यानानां त्रिविधभावनान्वितत्वाद् ब्रह्मकायिकादयो द्वादश, चतुर्थध्यानस्य मिश्रभावनान्वितत्वात् पञ्चावासाः पञ्चशुद्धावासाः। तत्र प्रथमे तु ब्रह्मकायिक - ब्रह्मपुरोहित-महाब्रह्माणः। द्वितीये तु परीत्ताभ-अप्रमाणाभ - आभास्वराः। तृतीयेस्तु परीत्तशुभ - अप्रमाणशुभ - शुभकृत्स्नाः। चतुर्थे -अनभ्रक-पुण्यप्रसव-बृहत्फलाः। शुद्धावासास्तु अवृह-अतप-सुदर्शन-सुदृग- कनिष्ठाः।

चतुर्ध्यानभूमयः-सवितर्क-अवितर्क - सुख- उपेक्षासंप्रयुक्ताः-ध्यानान्तर-अनागम्यभूमय इमा या अज्ञानम्, अदर्शनम्, अनभिसमिता इमा अप्यविद्येत्युच्यन्ते। याश्च नाममात्रं संज्ञावभास-विज्ञप्ति-विकल्पोद्भवाः चतस्र आरूप्यसमापत्तय आकाश - विज्ञानाकिञ्चन-नैवसंज्ञानासंज्ञायतनम् यच्चाज्ञान - अनभिसमिति-अदर्शन-मिदमप्यविद्येत्युच्यते। तस्मादेव भगवता-

चतुर्ध्यानान्यानागम्यमान्तरा भूमयस्तथा।
आरूप्यायाः समापत्तेः पृथक्संज्ञाचतुष्टयम्।
चतुर्भुवो विशुद्धीनां दशभूदेशनात्मिकम्।
महेशप्राप्तिसंस्थानं तत्तु नान्यत्त्रिधातुतः।
स्वचित्तयोगयोगेशो विशुद्धयुद्भवभूस्तथा।
ज्ञानं समाधिः रूपं च वशिताप्रतिवेदिनः। इत्युक्तम्।

तत्रापि यदक्लिष्टमज्ञानम्, अदर्शनम्, अनभिसंमतम्, अनवबोधभावनामार्ग - ज्ञानोत्पाद-बाधकं तदप्यविद्या इत्युच्यते। तस्मादविद्यातमस्तिमिरपटलेन नयनावृतत्वाद् विषयेषु रूप-शब्द-गन्ध-रस-स्पर्श-धर्माकारविज्ञप्तिविपर्यय-विकल्पवासनावभासत्वेन नित्य-आत्म-सुख-शुच्यादि-विपर्यासत्वाद् राग-द्वेष-मोह-विस्ताराद् रागजं कर्मापि अभिसंस्करोति। इष्टविघातकत्वाद् द्वेषोत्पन्नं कर्मापि अभिसंस्करोति। अमार्गे मार्गसंज्ञत्वाद्, अशुचिषु शुचिसंज्ञत्वाद्, अमुक्तौ मुक्ति संज्ञत्वाच्च मोहजमपि अभिसंस्करोति। तद्द्वयव्यावृत्त्या अनिञ्ज्यमपि अभिसंस्करोति।

तत्प्रत्ययात् तन्निदानाच्च विद्यायां राग-द्वेष-मोह -अहंकार-दृष्टि -संशय-ईर्ष्या-मात्सर्यानुगामनाद् अकुशल-कायकर्मत आत्मनो ज्ञानस्य च परित्राणार्थ प्राणातिपातः अदत्तादानं, काममिथ्याचारः, उन्मादहेतुकं मद्यपानम् अन्यथा-नीप्सित-विपाकाभिनिर्वर्तनमपि अभिसंस्करोति। वाचो मृषावाद-पैशुन्य-पारुष्य-प्रलापैरनिष्टविपाकाभिनिर्वर्तनमपि अभिसंस्करोति। मानस-कर्मणोऽभिध्या-व्यापाद-मिथ्यादृष्टि-सम्प्रयोगोऽपि अभिसंस्करोति। काय-वाक्-चित्त-दुष्चरित-धर्म-समादान-हेतुभिः सत्त्वाः नरक-प्रेत-तिर्यग् -देव-मनुष्यासुरेषु उत्पत्स्यन्ते। तस्माद-ज्ञान-विषये राग-द्वेष मोहादिः प्रत्यक्षः, इत्युक्तम्। तत्र अविद्यया इति अविद्या-प्रत्ययेन संस्कारभावाभिसंस्कारित्वाद् विभावितं संस्कारभाव-प्रतिविज्ञप्तिस्वभावं विज्ञानमभिनिर्वर्तते। तस्मादेव

ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा।

इति उक्तम्। ततः इति तु संस्कारमाश्रित्य भावानां विज्ञप्तिरिति तु विज्ञापकत्वाद् विज्ञप्तिः। विज्ञाने कर्मवासना-स्थापनम् इत्यधिवचनम्।

विज्ञानेन सहोद्भूताश्चतुस्स्कन्धा अरूपिणः।

इति विज्ञानेन सहोद्गता इति तु विज्ञानस्य हेतुत उद्भूताः। चतुःस्कन्धा अरूपिणः। इति तु चत्वारो विज्ञान-स्कन्धाः वेदना-संज्ञा-संस्कार-विज्ञानमित्यादयः। अरूपिणस्तु-भूत -भौतिक-संचयाकार-रहितत्वात् सन्ति, न तु नित्यम्।

अथ किमिति चेत्? चित्तचैतसिकस्वभावोऽस्ति। स्कन्धत्वं तु विपुल-द्रव्यात्मकत्वात्। रूपं तु धातुचतुष्टयम्। पितृमातृ-शुक्रशोणितोद्भूताः पृथिव्याप्ते-जोवायुधातवः। तान् संगृह्य विज्ञानप्रत्ययं नामरूपमित्युच्यते।

नामरूपमुपादाय चेन्द्रियायतनोद्भवः।

इति यत्पूर्वं इन्द्रिये सतृष्णवासनानामरूपं स्थापितं तन्नामरूपं संनिश्रित्य चक्षुरादि - षड्‍इन्द्रियाभिनिर्वर्तनेन इन्द्रियस्य षडायतनानि प्रादुर्भवन्तीति। इन्द्रिय-षडायतनानि षड्विज्ञानाश्रितानि। रूपादि - विषयालम्बन-विज्ञप्त्यवभासग्रहण-स्वभावानामभिनिर्वर्तनाद् भगवता

नामरूपसंनिश्रितानीन्द्रियाणि षडायतनमित्युक्तम्।
विषयेन्द्रियविज्ञान-संघातात् स्पर्श सम्भवः।

षडिन्द्रियायतनम् अपेक्ष्य विषयेषु इन्द्रियविज्ञानसंनिपातात् स्पर्शः। इन्द्रियविज्ञानं रूपादिविषयेषु स्पर्श इव निरान्तरमेव प्रवर्तते। अत्र स्पर्शस्तु किञ्चिदपि नास्ति। असंचित-पञ्चविज्ञानानि संचित विषयेन्द्रियैः सह युगपदेकत्र भूतत्वात् स्पर्शवन्ति सन्ति, न तु स्पर्श इत्युच्यते। तस्मादेव भगवताऽपि त्रयाणां धर्माणां संनिपातः स्पर्श इत्युक्तम्। आलम्बनावभासाकारेण स्पर्शो जातः। तद्वत् स्पर्शरसास्वादनियन्त्रणे षट्स्पर्शा कायानाश्रित्य षड्वेदनाकाया उत्पद्यन्ते। तस्माद् वेदना स्पर्शजा ज्ञेया। इत्युक्तम्। वेदना तु स्पर्शेण जनिता स्पर्शहेतूद्भवा इत्यधिवचनम्।

तत्र वेदनेति तद्वेदयितृत्वाद् वेदना। वेदनाऽनुभवः। सुख-दुःख -अदुःखासुखा -सौमनस्य-दौर्मनस्य -विशिष्टाः। वेदनावभासाकारविज्ञप्ति विकल्पनावशोद्भूतानां त्रिवर्गभेदेन षड्वेदनाकायोत्पादाद् भगवता स्पर्शसहभवा वेदनेत्युक्तम्। तद्वत् किञ्चिद्वेदनास्वादसक्ता अभिनिवेशात्मिका हि वेदनाहेतुकी तृष्णेति तृष्णोद्भवः। तस्मादेव तृष्ण च वेदनोद्गता इत्युक्तम्।

तृष्णेति त्रिधातुरागः। रागोऽध्यवसानम्, अभिलाषः, आसक्तिरवियोगाकांक्षा, नन्दनं, प्रेम इत्यधिवचनम्। सा च इन्द्रियविषयविज्ञानभेदेन तृष्णाकायः षड्धा व्यवस्थापिता। तृष्णावभासाकार-विज्ञप्ति-वशोद्भूत षट्तृष्णा -कायोत्पादात् सुगतेन वेदनाध्यवसाना तृष्णेत्युक्तम्। एवम् अध्यवसित-तृष्णावृद्धिरुपादानम्। तस्मात् तृष्णावृद्धिरुपादानम् इत्युक्तम्।

तृष्णा रागालिङ्गितस्य इष्टावियोगस्य हेतुः। कुशलमकुशलम-व्याकृतादि तूपादानम्। उपादानार्थेन उपादानम्। उपपञ्चमादानं उपादानम्। यथागृहीत-स्वकर्म -पथ्यदनस्य परवशाद् उपादानादुत्पादः पुनर्भव इत्युच्यते। तस्मादेव उपादानोद्गतो भव इत्युक्तम्।

स्वकर्मवासनाया यथावदवभासाकार- विज्ञप्ति-विकल्पना-वशेनोद्भूतस्य पुनर्भवस्याभिनिर्वर्तनाद् भव इति, पुर्नर्भूतत्वात्। यथावत् स्वकर्म-वासनावशेन इति कुशलाकुशलानेञ्ज्य-कर्मवासनावशेनेत्यधिवचनम्। एवं कर्मभवस्तु हेतुः स्यात्। स्कन्धोत्पादो भवाज्जातः। कर्मभवस्य तद्धेतोः स्कन्धोत्पादो जातिरित्युच्यते। तत्र स्कन्धोत्पादस्तु स्कन्धानामुत्पादः।

धात्वायतनप्राप्तिरपि संक्षेपेण जातिरित्युच्यते। तत्र स्कन्धस्तु अनेकद्रव्यसंराश्यर्थस्तु स्कन्धार्थः। अथवा अनित्यतयैव ध्वंसत्वात्, उत्पादानन्तरमेव अनित्यताराक्षसेन भक्षणं, प्रतिहननं, विनाशनम् इत्यधिवचनम्। एवमभिनिर्वृत्तौ उत्पादहेतुना जातिप्रत्ययेन जरैव अभिनिर्वर्तते, तस्मादेव जातेरेवं जरापि च इत्युक्तम्।

जातिप्रत्ययाभिनिर्वर्तितस्कन्धानां जीर्णता तु जरा। दौर्बल्य -खालित्य-पालित्य-बलिकापूर्णता -विभुग्नता-कुब्जत्व-दौर्बल्य-खरखरत्व-दण्डावष्टम्भ चर्याऽव्यक्ति-इन्द्रियभ्रंश-स्मृतिभ्रंशाः इति तादृशी तु जाति-प्रत्ययेन भिनिर्वर्तित-स्कन्धानां स्वकर्माकारिणी विज्ञप्त्यवभास- विकल्पनावासना - वशेनोत्पन्ना जीर्णता जरेत्युच्यते। एवं जराजीर्ण-स्कन्धान्यथात्वं मरणमित्युच्यते। तस्मादेवोक्तम् -

स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते।

तत्र जरेति श्लथीभूत-जराप्रत्ययेन मरणसंभवः। तत्र मरणमिति स्कन्धान्यथात्वम्। मरण-मृत-कालकृत-परलोकगमन-संक्रान्ति-गति -स्कन्ध-विध्वंसन-स्कन्धनाश-आयुःक्षय-जीवेन्द्रियनिरोधेत्येतादृशादि - संग्रहो जरामरणम्। मरणावभासाकार-विज्ञप्तिविकल्पनावशेन उद्भूतः स्कन्धनाशो मरणम्। अन्तावस्था, अन्तशयनं, विज्ञानसंक्रमणं, ऊष्महानिः, आयुर्वियोगः, कायिकानुकौल्यत्यागः, भवसंक्रान्तिः, यश्च विज्ञानान्तिमावस्थाश्रयोच्छेदाद्युत्पन्नो बहुधाप्रलापः, ग्रहणम्, दौर्बल्यं, परिजीर्णता, दैन्यं, निरोधानिरोधकः, मुखदौर्वर्ण्यं, अनाथता, स्वकर्मविकल्पनोद्भूत-यमपुरुषैः परस्पर-समादानावभासविज्ञप्तिः, स्वल्पमात्र-प्राणावशेषे श्वासप्रश्वासोद्भवा अरतिः, प्रकम्पः, कण्ठपरिशोषणम्, नासिकाच्छेदः, स्वेदः, क्लेदो मलं, स्वमूत्रोच्चार-लालाशरीरलेपः, निःसहायो, महान्धकार-प्रपात-पर्वत-परिषण्ड-गहनाटवी-शून्यालय-गृह-प्रासाद-ऊर्ध्व-मण्डप-कूटागार-अग्नि-कुण्ड- महाह्रद- पलालस्कन्धगमनम् इव चित्तविपर्यस्तस्य स्कन्धान्तरग्रहणं मरणमित्युच्यते।

मूढे तु मरणाच्छोकः। इति सतृष्णस्य अन्तर्दाहः शोकः। अन्तर्दाहश्च चित्तपरितापः। शोचनार्थेन शोकः। अथ मम प्रियवस्तु - इष्टवस्तु - वियोगो भविष्यति इति खिद्यमानस्य सन्तापाच्छोक इत्युच्यते। यथाकर्मोद्गताकारावभास-विज्ञप्त्याभिभूतस्य आनन्द-भय-अनिष्टाका‍रोत्पन्नो मर्मोच्छेद-दुःख -चित्त-खेदोद्भूत- शोकान्तरोत्थः-अहो, हाहा, किं, केन, कथम्, कुत्र शरणं गत्वा पश्यामि, इह गच्छामि , गतोऽहम्, गृहीतः, हतः, मृतः, भक्षितः, विनष्टः, प्रनष्टः, अहो मातः, अहो पितः, भ्रातः, भगिनि, पुत्र, पुत्रि, हे भार्य इति अनेकधा प्रलापो मिथ्यापदनिर्नादोत्पन्नः पैलोत्तकसंतापो दौर्मनस्यम्। तस्मात् शोकतश्चापलापो यो दौर्मनस्यं स उच्यते। इत्युक्तम्।

दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम्।
आसातं दुःखमित्युक्तं कायसौख्यविधातकम्।

दौर्मनस्य -समुद्भूतम् इति तु दौर्मनस्याद् एव। पंचविज्ञानकायिकमिति तु मनोज्ञ-रूप-शब्द-गन्ध-रस-स्पर्शानुस्मरणोपपन्नं पञ्चविज्ञानकायदुःखम् उपघातकम्। आसातमनुभव-कायसौख्य-विघातात्मकं दुःखाकारावभास-विज्ञप्ति-वशेनोद्भूतं दुःखमित्युच्यते।

दुःखं मनसिकारारव्यं मनसस्तूपघातकम्।
दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतु यत्।

मानसं सुखं दुःखञ्चानुस्मृत्य पूर्वहसन - नन्दन -क्रीडन -विस्तार-चित्तविक्षेपादि-अयोनिशोमनसिकारसंप्रयुक्तं मानसदुःखम्। दौर्मनस्यादि उप-संक्लेशजनित्वाद् अन्योपक्लेश हेतु यत्। इत्युक्तम्। यद् अन्यदेतादृशादि उपक्लेशः, स तु क्लेशोऽप्युच्यते, उपायास इत्युच्यते। तत्र एषां द्वादशभवाङ्गानाम् अन्वर्थ नामानि दर्शयितुं - तमोऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः। इत्युक्तम्।

तत्र अन्धकारार्थेनाविद्या। अभीति अभिसंस्कारार्थेन संस्काराः। प्रवणत्वान्नाम। रोपणार्थेन रूपम्। आयतस्पर्शवित्तर्षतः। इति आयद्वारार्थे नायतनम्। स्पर्शनार्थेन स्पर्शः। अनुभवनार्थेन वेदना। परितर्षणार्थेन तृष्णा।

तृष्णादानभवोत्पादः पाकनाश विशोकतः।
उपादानार्थेन उपादानम्। पुनर्भवजननार्थेन भवः।

भावार्थेन जातिः, पाकार्थेन जरा। विनाशार्थेन मरणम्। शोचनार्थेन शोकः।

वचनादि कायसंपीडा चित्तदौर्मानसं तथा।
क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम्।

वचनपरिदेवनार्थेन परिदेवः। कायसंपीडनार्थेन दुःखम्। चित्तसंपीडनार्थेन दौर्मनस्यम्। उपक्लेशार्थेन उपायासाः। पुनस्तत्त्वापरिज्ञेत्यादि तु परीक्षार्थं प्रदर्शनार्थम् उक्तम्।

पुनस्तत्त्वापरिज्ञानाद विद्यादेर्यथाक्रमम्।
पूर्वपूर्वेभ्य उत्पादोऽप्याख्यातश्चोत्तरोत्तरः।

तत्त्वापरिज्ञानं तु अप्रतिपत्तिर्विप्रतिपत्तिश्च। अयोनिशोमनसिकारहेतुत्वाद् अज्ञानमं अविद्या। अविद्यायां सत्यां विभिन्नाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगाः, अपुण्योपगाः, आनेञ्ज्योपगाः। तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति। अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति। आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति।

इदमुच्यते विज्ञानप्रत्ययं नामरूपम्। नामरूपविवृद्धया षड्भिरायतनद्वारै कृत्यक्रियाः प्रवर्तन्ते। तन्नामरूपप्रत्ययं षडायतनमित्युच्यते। षड्भ्यश्चायतनेभ्यः षट्स्पर्शकायाः प्रवर्तन्ते। अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते। यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते। इयमुच्यते स्पर्शप्रत्यया वेदनेति। यस्तां वेदनां विशेषेणास्वादयति, अभिनन्दति, अध्यवसायं तिष्ठति सा वेदनाप्रत्यया तृष्णेत्युच्यते। आस्वादनाध्यवसानाध्यवसायस्थानादात्मप्रियरूप-सातरूप-वियोगो माभूदिति यस्य भूयः प्रणिधानमियं तृष्णा प्रत्ययोपादानेत्युच्यते। एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च स उपादान - प्रत्ययो भव इत्युच्यते। तत्कर्मनिर्जातानां पञ्चस्कन्धानाम् अभिनिर्वृत्तिर्या सा भवप्रत्ययो जातिरित्युच्यते। जात्याभिनिर्वृत्तानां स्कन्धानामुपचयन-परिपाकाद्विनाशो भवति।

तदिदं जातिप्रत्ययं जरामरणमित्युच्यते। पूर्वपूर्वाङ्गानामुत्तरोत्तराणां हेतुत्वात्, तानि उत्तरोद्भवात् प्रत्यय एव। एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो-ऽन्योन्यहेतुकोद्भूतः।

द्वादशाङ्गस्त्रिप्रवृत्तिर्नित्योच्छेदो ह्यनादिजः।
प्रवृत्तेर्जलधारावद् वर्ततेऽनादिकालिकः।

नानित्यः स तु सततं स्थितत्वात्। न संस्कृत इति तु संस्कारवियुक्तत्वात्। स न चेतनः चित्तवियुक्तत्वात्। न प्रत्ययसम्भव इति प्रत्ययवियुक्तत्वात्। न क्षयधर्मस्तूपचयवियुक्तत्वात्। न निरोधधर्मः उत्पाद -स्थिति - विनाश -वियुक्तत्वात्।

अनादिकालप्रवृत्तस्तु सन्धिकाल - परिच्छेद-वियुक्तत्वात्। नदीस्त्रोतवत् स्त्रोतोद्भूत अनुच्छिन्नप्रवाहः।

अथ आर्यशालिस्तम्बसूत्र - टीकायां चतुर्थोऽन्तिमः पटलः।

प्रतीत्यसमुत्पादोऽयं नदीस्त्रोतवत् अविच्छिन्नोऽनुप्रवर्तते। अथ चेमान्यस्य चत्वार्यङ्गानि हेतुः संघातकारकाणि च, द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते। तस्मात् कतमानि चत्वारि ? इत्युक्तम्।

अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः।

अविद्या, तृष्णा, कर्म, विज्ञानञ्चेति यथाक्रमम्। हेतुर्विज्ञानबीजं हि। विज्ञानं बीज-स्वभावत्वेन हेतुः। कर्म क्षेत्रमुदीरितम्। कर्म क्षेत्र-स्वभावत्वेन हेतुरित्युक्तम्। अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः।

कर्मक्लेशा विज्ञानबीजत्वेन व्यवस्थिताः।

कर्मक्लेशा विज्ञानबीजं जनयन्ति। तत्र

कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च।
विज्ञाननामकं बीजं तृष्णया स्निह्यते परम्।
विज्ञानबीजं चाविद्या किरति स्नेहनेन वै।
कर्म तृष्णा तथाविद्या क्षेत्रं स्नेहोऽवकीर्णनम्।
विज्ञाने न करोमीदं न विज्ञानमितो मतम्।

तत्र कर्मणोऽपि नैवं भवति इत्यादि तु कर्मणोऽपि नैवं भवति अहं विज्ञान-बीजस्य क्षेत्रकार्यं करोमि। तृष्णाया अपि इत्यादि तु एवं तृष्णाया अपि नैवं भवति अहं विज्ञानबीजं स्नेहयामीति। अविद्याया अपि इत्यादि तु अविद्याया अपि नैवं भवति अहं विज्ञानबीजमवकिरोमीति। विज्ञानस्यापि इत्यादि तु नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति।

तथाऽपि बीजविज्ञाने कर्मक्लेशप्रतिष्ठिते।
विज्ञानबीजमित्युक्तं कीर्णेऽविद्यास्ववस्करे।
तृष्णाजलेन संसिक्ते

अविद्या-स्ववस्कर इति स्ववस्करेण च सदृशेन स्ववस्करं सर्वेष्वनुगत-त्वात्। कीर्णे स्ववस्करे इति स्ववस्करेण प्रच्छादनम्। तृष्णाजलेन संसिक्ते तृष्णैव जलम्। संसिक्ते इति तु स्नेहने।

हेतुतो नामरूपयोः। अङ्कुरोत्पादभासो हि।

इति तु हेतु प्रत्ययसामग्या उत्पादस्तु नामरूपाङ्कुरमभिनिर्वर्तयति। नामरूपाङ्कुरम् इत्यादेस्तु।

न स्वपरोभयादिताः। नामरूपमिदं जातं।

नामरूपाङ्कुरमिदं तु स्वयं परत उभयादितो नोत्पन्नम्। अथ कीदृशम् इति चेत्।

पितुर्मातुः समागमात्। अविरोधाद्‍ऋतोश्चापि।

पितुर्मातुः समागमाद् इत्यादि तु पितृमातृसंयोगो वा सक्तिः, समागमः, युक्तत्वम्, पुत्रप्रसूतिसामर्थ्यम्, ऋतुमत्वञ्च। 'त्रिदिवसात्यये रजोनिवृत्तिस्तु' स हि स्त्रीणाम् ऋतुरुच्यते। तदा पुरुषसमागमे शुक्रशोणितसंयोगे, स्वयं गन्धर्वस्यापि चित्त-विपर्ययेऽपि मातापितृक्रियाधिमुक्तौ गर्भोत्पादक्रमेण कलल-अर्बुद-पेशी-घन-प्रशाखावस्थामतिक्रम्य प्रसूतस्य, शैशव-कौमार्य-मध्यता-यौवन-वृद्धत्त्वादि-दशावस्था भवन्ति। तस्मादप्युक्तम्-

किञ्चिदास्वादवे धितम्।
बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः।
नामरूपाङ्कुरोत्पादः।

अथ च मातापितृसंयोगाद्-ऋतुसमवायाद् अन्येषां च प्रत्ययानां समवायात्तत्रास्वादविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति।

न वैकल्याच्च प्रत्ययैः।
विरोधत्वाच्च हेतूनां मायानैरात्म्यनिग्रहे।
उत्पादोऽपि न संभवः।

तस्माद् अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यादित्युक्तम्।

अस्वामिकेषु इति तु अन्तः करणं पुरुषादि अनुपलम्भनस्वभावमस्ति। तत्राभिनिवेशेनोत्पन्नो य आग्रहः। धर्मस्तु स्कन्धधातु -आयतन-स्वभावः। अमम इति आत्मात्मीयरहितः। अपरिग्रह इति तु ईश्वरादि - परिग्रहानुपलम्भात्। मायालक्षण-स्वभाव इति यथा माया तु अभूतापि विविधव्यवहारं प्रतिपादयति, तद्वत् मायास्वभावस्य सर्वधर्मेषु क्रियादिर्विविधोपलभ्यते। हेतुप्रत्यय-संनिपात-व्यतिरिक्तं हेतुप्रत्ययादिधर्मः किञ्चिदपि न उत्पद्यते, विनश्यति वा। यथापि हेतुप्रत्ययवैकल्यत्वाद् भावानाम् अनुत्पादस्तदवबोधयितुम् उपमा।

चक्षुर्विज्ञानमप्यतः। पञ्चभिर्हेतुभिर्जातम्। इत्युक्तम्।

तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते। कतमैः पञ्चभिरित्यादिस्तु -
चक्षूरूपावभासनैः। नभस्तज्ज मनस्कारैः। इति।

तस्मात् चक्षुः प्रतीत्य रूपञ्चालोकञ्चाकाशञ्च तज्जमनसिकारञ्च इत्यादि उक्तम्। तत्र चक्षुरिति रूपं द्रष्टुं चक्षुरिन्द्रियं विकलं भवति।

तस्मादेव चक्षुर्विज्ञानस्याश्रयकृत्यं करोति इत्युक्तम्। आलोक इति चन्द्र-नक्षत्राऽग्नि -औषधि-मणि-प्रभानाम् अभिव्यक्त्यै आलोकोऽपि उपस्थितः। आकाशोऽपि नानावृत्ति-विकलो भवति। तज्जमनसिकारोऽपि समन्वाहार-कार्येऽविकलो भवति।

पञ्चावैकल्यतस्तथा। चक्षुर्विज्ञानमुद्भूतम्।

चक्षुर्विज्ञानस्य प्रत्ययेषु कस्यचिदप्यभावे न चक्षुर्विज्ञानस्योत्पादः, सति चोत्पादो भवति।

मया ते जनिता इति। विकल्पो न यथोदेति

इति तत्र चक्षुषो नैवं भवति ' अहं चक्षुर्विज्ञानस्याश्रय-कृत्यं करोमीति। रूपस्यापि नैवं भवति, अहं चक्षुर्विज्ञानस्यालम्बनकृत्यं करोमीति। आलोकस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति। आकाशस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावरणकृत्यं करोमीति। तज्जमनसिकारस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्य समन्वाहार-कृत्यं करोमीति। चक्षुर्विज्ञानस्यापि नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति।

अथ च पुनः सत्स्वेषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर्भवति। असत्स्वेषु न भवति। एवं

श्रोत्रज्ञानादिका खिलम्। उत्पादस्य क्रमश्चैवं

तद्वत् श्रोत्रेन्द्रियादीनां पञ्चभिर्हेतुभिरुत्पादक्रमोऽवगन्तव्यः।

हेतुप्रत्ययसङ्ग्रहात्।
कर्त्रादीनां च वैकल्याद् अहंकारवियोगतः।
उत्पादोऽपि यथापूर्वं तथा चापि प्रतीत्यजम्।
हेतुमत्संविजानीयात्

तथा चापि हेतुप्रत्ययक्रमोऽनन्तरोक्त-क्रमः। एवं सर्वधर्माणाम् उत्पाद-स्थिति-विनाशा अवगन्तव्याः।

अस्माल्लोकात् परंनहि।

कश्चिद्धर्मो क्वचिद् गन्ता हेतुप्रत्ययतस्तथा।
कर्मणःफलमभ्येति

तत्र धर्मस्तु चक्षुः - श्रोत्र-घ्राण-जिह्वा-काय-मन-आदयो धर्माः। रूप-शब्द-गन्ध-रस-स्पर्शादयो धर्माः, स्कन्ध -धात्वायतन-प्रतीत्यसमुत्पादादयो धर्माः। अस्मादिति तु अस्माल्लोकात् परं लोकम् अथवा परलोकाद् अमुं लोकं कश्चिद्धर्मो न संक्रामति। यद्येवं नित्यवादो वा अहेतु-प्रतिकूल-हेतुवादो वा भविष्यतीति चेत्। उच्यते। हेतुप्रत्ययवैकल्याभावात् कर्मणः फलमभ्येति इति।

तत्र सङ्क्रान्त्यभावेऽपि कर्मफलाविनाशित्वं प्रत्यक्षानुमान-विश्वस्तागम-प्रख्यातेन अनेनोदाहरणेन ज्ञातव्यम्।

यथादर्शे विशोधिते।
दृश्यन्ते मुखबिम्बानि दर्पणेऽपि च बिम्बकम्।
संक्रामितं भवेन्नैव

तस्माद् उक्तम्। तद्यथा- सुपरिशुद्ध आदर्शमण्डले मुख- प्रतिबिम्बकं दृश्यते। न च तत्रादर्शमण्डले मुखं संक्रामति। अस्ति च मुख प्रतिविज्ञप्ति र्हेतुप्रत्ययानामवैकल्यात्। एवमस्माल्लोकान्न कश्चिच्च्यवते नाप्यन्यत्रोत्पद्यते। अस्ति च कर्मफलविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्।

तदन्योन्याविकल्पनम्।
कर्तृक्रियाविहीनं तत् तथोत्पादावभासनम्।
पूर्ववृद्धिक्रमाच्च स्यात्

तदिति तु मुखम् आदर्शश्च। अन्योन्यम् इति परस्परम् अन्योन्यम्। अविकल्पनमिति विकल्पनाभावः। कर्तृक्रियाविहीनं तद् इति तत्र कर्ता क्रिया च न स्तः। किं तन्नोच्छिद्यत इति चेत्- तथोत्पादावभासनम् इत्युक्तम्। कथं कर्तृविहीनं क्रिया कर्म च भविष्यतीति उच्यते- पूर्ववृद्धिक्रमाच्च स्यात्।

दूरस्थश्चन्द्रमा यथा।
परीत्तो दकपात्रान्ते दृश्यते न च क्रामति।
अस्ति क्रिया च कर्मापि।

तद्यथा - चन्द्रमण्डलं [द्वि] चत्वारिंशद्योजन-शतमूर्ध्वं स्थितम्। अथ च पुनः परीत्तेऽभ्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते। न च चन्द्रमण्डलं तस्मात्स्थानाच् च्युतम्। अथ च पुनः परीत्तेऽभ्युदकस्थभाजने दृश्यते। अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात्। एवमस्माल्लोकान्न कश्चिद् च्यवते नाप्युत्पद्यते। अस्ति च कर्मफल-प्रतिविज्ञप्तिः हेतुप्रत्ययानामवैकल्यात्।

अपि च, तद्यथाऽ ग्निरुपादाने प्रत्यये सति ज्वलति उपादान-वैकल्यान्न ज्वलति। एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्रोपपत्त्यायतन-प्रतिसन्धौ मातुःकुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति। अस्वामिकेषु धर्मेषु अपरिग्रहेषु परस्पर-प्रत्ययमन्मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात्।

सन्ति ते कल्पनात्मकाः। बाह्यकर्मक्रिया हेतुः

तत्र बाह्यप्रतीत्यसमुत्पादस्य क्रियाकर्म-व्यवस्था तु कल्पनात्मिका ज्ञेया।

अध्यात्मपरतन्त्रतः। पञ्चविज्ञानसंभूतः

तत्र परतन्त्र-प्रतीत्यसमुत्पादस्य लक्षणमध्यात्म-पञ्चेन्द्रिय-विषय-विज्ञप्त्यवभासाकारत्वेन वेदितव्यम्।

परमार्थोऽविचार्यतः। परिनिष्पन्न आख्यातः

यो विकल्प-परतन्त्रात्माकारो विज्ञप्त्यवभासाकाररहितो निर्विकल्पः सुपरिशुद्धश्च, अब्धातु -सुवर्ण-आकाशवत् परिशुद्धः। क्लेश-ज्ञेयावरण-स्वरूप-परिशुद्धः चन्द्रोदयवद्, अचिन्त्यगुणः, अप्रमेय-प्रभाव-भासात्मकः, असंक्रान्तः सर्वसत्त्वार्थम् अनाभोगाविच्छेदकः, आदिमध्यान्तरहितः, त्रिधातु -समतीतो निर्मलो-ऽमलो मलप्रहाण-स्वरूपः। प्रतिस्वसंविद्-गोचरात्मक-काय -वाक्-चित्तकर्म-समतीतः, स्वसंवेदनः, अपराधीनो विश्वरूपमणिरत्न‍राज इव अनुत्तरो धर्मकाय इत्युच्यते।

सहेतुप्रत्ययोद्भवः।
सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा।
तुच्छशून्यादिनिः सारः

तस्मात् तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः। इत्युक्तम्। कतमैः पञ्चभिः? उक्तम्। न शाश्वततो। यस्मादन्ये मरणान्तिकाः स्कन्धा अन्य औपपत्त्यंशिकाः स्कन्धाः। न तु य एव मरणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः। य एवोपपत्ति-हेतवस्त एव विनाशकाः। य एव विनाश -हेतुस्स एवापि औपपत्तिको भविष्यति। अतो मरणान्तिकाः स्कन्धा निरुध्यन्ते औपपत्त्यंशिका स्कन्धाः प्रादुर्भवन्ति। अतो न शाश्वततः। न च पूर्वनिरुद्धेषु मरणान्तिकेषु स्कन्धेषु इति निरुद्धय न चिरं गतत्वाद् औपपत्त्यंशिका इति औपपत्त्यंशे निश्रितत्वाद् औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति। मरणान्तिका अनिरुद्धा एव। औपपत्त्यंशिकः स्कन्धः प्रादुर्भवेत्, तद-युक्तत्वादुक्तम्- अपि तु मरणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिका स्कन्धा प्रार्दुभवन्ति, तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः, विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति। अतो न संक्रान्तितः परीत्तकर्म क्रियते, विपुलः फलविपाकोऽनुभूयते।

अतः परीत्त-हेतुतो विपुलफलमभिनिर्वर्तितम्। यथावेदनीयं कर्म क्रियते तदावेदनीयो विपाकोऽनुभूयते। अतस्तत्सदृशानुप्रबन्धतश्च। यः कश्चिद् इमं प्रतीत्यसमुत्पादं सम्यक्प्रणीतमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बं शिवमभयमव्युपशमस्वभावं पश्यति। असतः तुच्छतः, रिक्ततः, असारतः रोगतः, गण्डतः, अघतः, अनित्यतः, दुःखतः, शून्यतः, अनात्मतः। इति।

य इमं प्रतीत्यसमुत्पादमिति आध्यात्मिकप्रतीत्यसमुत्पादम्। यदिमं सम्यग् इति अविपरीतम्। प्रज्ञया इति लोकोत्तरप्रज्ञया। यथाभूतमिति तु तथतायथावत्। सततसमितमिति सर्वकालमविच्छिन्नम्। अजीवम् इति प्राण-कर्त्रादि-वियुक्त-त्वादजीवम्। अजातमिति जातिरहितत्वात्। अभूतमिति स्थिति-रहितत्वात्। अकृतमिति कर्तुरभावात्। असंस्कृतमिति संस्कृत-लक्षण-रहितत्वात्। अप्रतिघमिति आवरण-रहितत्वात्। अनालम्बनमिति आलम्ब्यालम्बक-रहितत्वात्। शिवमिति शान्तत्वात्। अभयमिति तु उत्पादादि-भयरहितत्वात्। अनाहार्यमिति क्लेश-पारतन्त्र्य-रहितत्वात्। अव्ययमिति सततं व्यवस्थितत्वात्। अव्युपशममिति एकान्तशमगतिरहितत्वात्। 'असतः' स्कन्धात् पृथगन्याभावात्। तुच्छत इति मुक्तात्मनो ह्रस्वलोहवद् एकान्तस्य अभावात्। रिक्तत इति अन्तस्थित-स्वरूपात्मद्रव्याभावात्। असारत इति स्फरणात्मकताभावात्। रोगत इति रोगात्मक-स्कन्धात् पृथक्त्वाभावत्। गण्डत इति स्कन्धानतिरिक्तबाधकान्तरा-भावात्। अप्रतिघत इति कर्मक्लेशातिरिक्त - बाधकस्वरूपान्तराभावात्। अनित्यत इति सहोपपादविनाशः स्कन्धात् पृथगन्यन स्वभावात्। दुःखत इति संस्कारविपरिणामदुःखाभ्यां पार्थक्याभावात्। शून्यत इति कल्पना स्वभावतया अभूत-परिकल्पनायाः पृथकत्वाभावात्। अनात्मत इति स्कन्धानतिरिक्तमात्मद्रव्याभावात्।

कर्त्रादिरहितस्तथा।
तुच्छशून्यादिनिःसारः प्रज्ञयैवं य ईक्षितः।
किं कथं वा कुतः केन कल्पवादादि हानितः।
अनन्ताचिन्त्य गुण्यकम्। शान्तं धर्मात्मकं कायम्।

तथतार्थं स एव पूर्वान्तं न प्रतिसरति इत्युक्तम्। किं न्वहमभूवमतीत इति नायं मोहोत्पादः। असंमोहे ज्ञानोत्पादत्वाद् अहमतीत एतन्नर-सदृशोऽभूवमित्यादि च। अहं देवो वा गन्धर्वो वा किं सुखविहारो दुःखविहारोऽभूवमित्ययं मोहोऽभाव एव। अहं सुगतौ दुर्गतौ वा, चिरम्, अचिरम् वा कथमभूवमिति मोहोऽप्यभाव एव। अनागतान्ते न प्रतिसरति। किं न्वहं भविष्याम्यनागतेऽध्वनि इति च आहोस्विन्न भविष्यामि इति मोहोऽप्यत्र नास्त्येव। किं न्वहं भविष्याम्यनागतेऽध्वनि इति अनागतेऽध्वनि देवो वा पिशाचो वा नरो वा किं वा भविष्यामीति अत्र मोहस्याप्यनुद्भव एव। सुखी वा दुःखी वा सुरूपो वा कुरूपो वा कथं भविष्यामि इति मोहोऽप्यत्र नास्ति। अन्तरपि न प्रतिसरति इति अन्तर्न मुह्यति। किं न्विदमिति आत्मा निरात्मा वा इति। कथं न्विदमिति किं सरूपोऽथवा विरूपो वेति मोहोऽत्र नोद्भवति। के सन्त इति सुकृत-कर्मकारिणः दुष्कृत-कर्मकारिणो वेति न मोहोत्पादः। अयं सत्त्वो देवगतेर्नरगतेर्वा कुत आगत इतश्च्युतो देवेषु मनुष्येषु नरके प्रेते तिर्यञ्चि वा कुत्र गमिष्यतीति मोहोऽत्र न सम्भवति। श्रमण-ब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति इत्यादि। दृष्टिगतानि इति दृष्टिस्थानि। पृथगिति भिन्नमेव। तद्यथेति तु निदर्शनार्थम्। आत्मवाद-प्रतिसंयुक्तानीति स्कन्ध-व्यतिरिक्त-आत्मभावः। अविचारत आत्मात्मीयेति स्वभावात्मग्रह-संयुक्तत्वाद् आत्मवादप्रति-संयुक्तानीत्युक्तम्। विपरीतधारणा-समुत्थानार्थं पुद्गलवाद-प्रतिसंयुक्तानीत्यादि तु पुनर्गमनत्वात् पुद्गल इति स्कन्ध -व्यतिरिक्तः। यस्यामुं लोकं त्यक्त्वा परलोक-गमनस्य परलोकं विहाय अमुं एतल्लोकगमनस्य चाभावात् ग्रहण-दुर्विपरीतग्रहणमित्युक्तम्। कौतुक-मङ्गलवाद-प्रतिसंयुक्तानीति। कौतुकस्तु लोकशिल्पस्थानं, यच्च विविधविद्यास्थाने उत्सव-आवाह-विवाह-कलह-युद्धैः, उद्यान-नदी -सागर-पर्वत-वनेषु तत्तद्-भिन्नेषु च आर्यस्य गमन-दर्शन-संक्रमण-प्रवृत्ति-आवासानुरमणक्रीडा-सुखा-स्वाद-नृत्य-गीत-पदालाप-धावन-लंघनैः, अद्भुत-पुरुष-स्त्री-दारक-दारिका-विग्रहकथा -वाद-प्रहेलिकोक्तिभिः, गजाश्वादि-योधनैः, दूर्वा-दधि-गोरोचना-क्षेत्रहल-मुद्गर-पुष्प-फल-कलश-शङ्ख-मत्स्या-दिभिः, ब्राह्मण-ऋषभ-चन्द्र-सूर्य-ग्रह-नक्षत्र-तारा-क्षण-योग-करणादिनैमित्तिका-दिभिः आत्मशुद्धयन्वेषणम्। विपरीतानेकाकार-प्रलम्ब-रज्जुलम्ब्येऽमार्गे मार्गसंज्ञा, अशुचौ शुचिसंज्ञा, अमुनौ मुनिसंज्ञया षड्जगच्चक्र-प्रविष्ट-बुद्धिमतो गमनं गम्यं च संसारमेवानुसरन्ति न तु निर्वाणमिति। तेषां सम्यक् प्रज्ञया दर्शने चतुर्विधविपर्यय-रहितत्वात् समुच्छिन्नमूलानि तालवृक्षमस्तकवदनाभासगतानि आयत्यामनुत्पाद-निरोधधर्माणि इति। तस्मादेवोक्तम्।

तथा कश्चिच्च न च्युतः। जन्माभासोऽप्यसंल्लोके

तस्माद् उदाहरणम्-

यथापादपसङ्गतः।
वह्निस्त्रोतप्रवृत्तिः स्यात् हेतुवैकल्यतस्तथा।
नानुप्रवर्तते ह्यग्निः

तथा इति यथा चन्द्रस्य रूपे दूरस्थितेऽपि परीत्तजलभाजनेषु जले विपुलतैलपात्रेषु वा अवभासते। चन्द्ररूपसंक्रान्तिरनेकत्वं वापि नास्ति, तथापि अनेकजलपात्रेषु दृश्यते। एवम् अस्मान्न कश्चिच्च्युतो न गतो नागतो, हेतुप्रत्ययवैकल्यात् च्युति-गमनागमनावभासाः। तद्वज्जलभाजनवत् सत्त्वसन्तानस्य जगतः स्थानान्तरेषु बहुरूपेण चित्तचन्द्रबिम्बोत्पादः, हेतुप्रत्ययावैकल्यात्। कुशलाकुशलानेञ्ज्यादि - हेतोर्यथाक्षेपा तत्रावभासाकारा विज्ञप्तिरुद्भवति। आत्मात्मीयवियुक्तः सर्वभावेषु प्रतीत्यसमुत्पादक्रमोऽवगन्तव्यः। अविच्छेदो -दाहरणम्-यथापादपसङ्गतः। वह्निस्त्रोतः प्रवृत्तिः स्यात्। कर्मक्लेश-लिप्त-चित्तसन्तानं वह्निस्त्रोतोनिबद्धमिन्धनं तु कर्मक्लेशत एव स्यादिति परीक्ष्यते। यथा -अग्नीन्धनहेतुकं ज्वलनम् अविच्छिन्नम्। इन्धनाभावे विच्छिन्नम्, तद्वद् अत्रापि कर्मक्लेशेन्धनमुच्छिद्य संक्लेशालय - विज्ञानबीज-सन्ताने ज्ञानाग्नि -संयोगाद् दग्धे सति हेतु -निरोधान् न फलोद्भवः। तस्मादेवोक्तम् - यान्येकेषां श्रमण-ब्राह्माणानां तद्यथा इति इतो बाह्यानाम् लोकस्तु लोकः।

नश्यन्-नश्यन् गत्यर्थः, लुज्यतत्वाल्लोकः। विशीर्यमाण इत्यधिवचनम्। दृष्टिगतानीति दृग्दर्शनम् विपरीत-शास्त्रश्रवणचिन्तनादिमिथ्या-ज्ञानोद्भवं मिथ्या-ज्ञानं तु दृष्टिरित्युच्यते। पृथक् तु भिन्नम्। तद्यथा - आत्मवाद-प्रतिसंयुक्तानीत्यादि तु पञ्चोपादान-स्कन्धेषु रूप-वेदना-संज्ञा-संस्कार-विज्ञार्नोष्वति आत्मात्मीय-रहितेषु, आत्मत्वेन सम्यग्दृष्टिर्या क्लिष्टप्रज्ञा सा दृष्टिः। सत्कायान्तदृष्टि -शील-व्रत-मिथ्यादृष्टिपूर्वकं कुप्रज्ञाविद्यासंप्रयुक्तत्वाद् दृष्टिरिति। तदविद्यापूर्वकं रागप्रतिघाकाराविद्यादृष्टि-विचिकित्सोपक्लेश-संप्रयुक्तो दृष्टि -लक्षण-धात्वाकारभेदम् अनधिगम्य संक्लिष्टालय-विज्ञान-वासनावस्थित-तदाकार-विज्ञानावभासपोषणात् प्राग्‍एव लोकोत्तर-मार्गाश्रितचतुरार्यसत्यभावना-भ्यासक्रमेण दुःख-समुदय-निरोध-मार्ग-दर्शन-भावना-विमुक्ति-विशेषानन्तरेण प्रहाण-साक्षात्कारः। यश्चापि सप्तत्रिंशद्बोधिपक्षधर्मस्मृत्युपस्थान-सम्यक्प्रहाण-ऋद्धिपाद-इन्द्रिय-बल-बोध्यङ्ग-मार्ग-प्रतीत्यसमुत्पाद-ध्यान-अरूपि-अप्रमाण-षडनुस्मृत्यादियधर्मपुद्गलनैरात्म्य-बोधिचित्तभावना-समाधि-धारणा-श्रद्धा-वीर्य-समाधि-प्रज्ञा-भूमि-वशीकारा-भिज्ञान-ज्ञान -पारमिता-विमुक्तिद्वार-क्षान्ति-भावनादि-क्रमेण लोकोत्तरमार्गानुगत-त्वाद् अधिमुक्तिचर्यायां प्रतिस्थाप्य निर्याण -प्रयोग-साक्षात्काराद् इन्द्रिय-बल-अभय-असंसृष्ट-प्रतिसंविद्-व्यञ्जन-महापुरुष-लक्षण-ऋद्धिपादादि भावनां परिपूर्य अनुत्तरसम्यक् -समवबोधावबोधात् शमथ-विपश्यनानुकूल-समभावो भावनेऽनन्ता-चिन्त्यगुण्यं शान्तस्वभावकायं, आदिमध्यान्तवर्जितं, ज्ञात्वा प्राप्नोति बुद्धत्वम् इत्युक्तम्। तत्र रूपस्कन्धस्तु रूपावभासाकार-विज्ञप्त्यवभास-विकल्पोद्भूतोऽनेक-द्रव्यात्मको भूतभौतिक-रूप-लक्षण एकादश-सामान्यात्मक-पञ्चद्रव्याकारारोप-संघट्टितः चक्षुः - श्रोत्रादिरूप-शब्दादिकाम-रूप-अरूप-प्रतिसंयुक्ताभूतपरिकल्पना-लक्षणः स्कन्धो धात्वायतन-इन्द्रिय -विज्ञान- विषयात्मकोऽथ च तादृगन्यतादृग्रूप-लक्षणो धर्मस्तु रूपस्कन्ध इति।

तत्र वेदनास्कन्ध इति सुख-दुःखोभयाकारेण आस्वादाकार-विज्ञप्त्यवभासः। विषयेन्द्रियविज्ञानभेदेन वेदना षट्काया। धात्वाकारविशेषभेदेन क्लेशोप-क्लेशसंप्रयुक्तत्वाद् अनन्ताः प्रभेदाः स्युः। सुख-दुःख-सौमनस्य -दौर्मनस्यो-पेक्षान्वितत्वात् षडाकारमात्मद्रव्यमेव अभूतसंकल्प-विकल्पालय-विज्ञानवासनोप-निबद्धत्वाद् राग-द्वेष-मोहादित्रिधातु-विकल्पवशोद्भूत-द्रव्य-संगृहीतत्वाद् वेदना-स्कन्ध इति। संज्ञा सूक्ष्म-स्थूल-महाङ्गतादि -चित्रीकाराव-भासाकार-विज्ञप्ति-र्विकल्पनावशोद्भूत-पूर्वहसन -नन्दन-क्रीडनादि-काननुस्मृत्य स्त्री-पुरुषादि-निमित्तविशेषग्रहणात्मिका विषयेन्द्रिय -विज्ञानभेदेन षट्काया संज्ञा। राग-द्वेष-मोह -निबन्धनत्वाद् धात्वाकार-विशेषभेदेन तु अनन्तप्रसरा। संक्लिष्टस्यालयविज्ञान-वासना-सम्बन्धत्वाद् आत्ममोहादि -संयुक्तात्मता तु संज्ञेति। संस्कारस्तु संप्रयुक्ता-प्रयुक्त-प्रज्ञप्ति-संस्कृता-संस्कृतावभासांकार-विज्ञप्तिः-विकल्पनावशेनोद्भूतः। पूर्वाक्षिप्तालय-विज्ञानाद् अस्तित्व-वासना-भेदेन तु धातोः आकार-विशेषानन्त-प्रसरान्वितस्य संस्कार-स्कन्ध-संगृहीतत्वात् संस्कारस्कन्ध इति। तत्र विज्ञान-स्कन्धस्त्वष्टविधः। विषयेन्द्रिय-विज्ञानानां विशिष्टावभासाकार-विज्ञप्तिः। विकल्पनावशोद्भूतालय-विज्ञानस्य वासनोपनिबद्धत्वाद् धातोराकार-विशेष- भेदेनानन्तप्रसरो हि विज्ञानस्कन्ध इति।

तेषामप्येवं धात्वायतन-सास्रव-संस्कृत-संक्लेशादि -पर्यायभेदेन स्व-लक्षणसम्बन्धेन संक्षिप्य स्कन्धो धातुरायतनमिति। एवं संक्लिष्टालयविज्ञान-बीजान्विता अभूतसंकल्पसमुत्त्थत्रैधातुकोद्गतास्ते चित्तचैतसिकादयस्तु संसार इति। तथापि तत्र आदावेव कर्त्रादिरहितो रिक्तस्तुच्छोऽसार इति विदित्वा चतुरार्यसत्य -भावनानुलोमप्रवृत्त्या निर्णीतो लोकोत्तर-ज्ञानाग्नि-समुद्भूतो-ऽविद्यान्धकारादि-रहितो हेतुप्रत्ययार्थतथतापरिज्ञानात् शान्तो धर्मकायोऽवगम्यते।

तस्माद् दुःख-समुदय-निरोध-मार्ग-दर्शन-भावनामार्गक्रमः। तत्र दुःख-सत्यम्-अनित्यता-दुःखता-शून्यता-नैरात्म्य-सम्यगनुदर्शनज्ञानेन क्षान्ति-मुक्ति-प्रहाण-विशेषानान्तर्यज्ञानेन च तद्-दुःखमवगम्य क्लेशालयविज्ञानवासनां संनिहत्य पुद्गलधर्मनैरात्म्यम् अवबुध्य, त्रैधातुकावभासिताभूतसंकल्पोद्भूतं अस्मिन् चित्तमात्रे माया-मरीचि-गन्धर्वनगर-अलातचक्र-प्रतिश्रुत्क-उदकचन्द्र-प्रतिबिम्बवद् विभावने, स्कन्धादौ धातौ आयतने च ग्राह्य-ग्राहकतां विहाय धर्मनैरात्म्यसमतायां प्रविशे, स्वचित्तमेव आद्यमनुत्पन्नमिति शून्यज्ञानप्रवेशे, सर्वधर्मनिःस्वभावताज्ञानस्य करुणामूलक-बोधिचित्तस्य हेतूभूत-विविधोपाय-पुण्यज्ञानसम्भारसंचये दशपारमिताहेतुभिः दशभूम्याधार दशज्ञानालम्बन-दशवशिताफलान्वितेऽनन्ताचिन्त्य-गुणाकारः शान्तधर्मकायोऽवबुध्यते। एवं समुदय-सत्य -समुदय -हेतु-प्रभव- प्रत्यय-आनन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-अनुलोम-प्रतिलोम-भावनाकारेण संक्लिष्ट-आलयविज्ञान-वासना-मल-रहितत्वे शान्तधर्मकाये प्रवेशः। निरोध-सत्येऽपि निरोध-शान्त-प्रणीत-निःसरणता-आनन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-भावनामार्गक्रमेण संक्लिष्टा-लयविज्ञानवासनासमुद्घातेन आनन्तर्य-प्रहाण-विमुक्ति-विशेष-भावनया पुद्गल-धर्मनैरात्म्याधिगमे शान्तधर्मकायप्राप्तिः। हेतुप्रत्यय-रहितत्वात् मार्गसत्येऽपि मार्ग-न्याय-प्रतिपत्ति-नैर्याणिक-सन्दर्शने एवं दर्शन -भावना -आनन्तर्य -प्रहाण-विमुक्ति -विशेषमार्गानुकूलतायै आलयविज्ञाने विद्यमानां वासनां संनिहत्य पुद्गलधर्म-नैरात्म्य-समतावबोधात् त्रिकायाधिष्ठान-शान्त-धर्मकायस्याचिन्त्या-प्रमेयगुण-गणस्य आदिमध्यान्तरहितस्य अविच्छिन्न-नाभोगकरणात्मक-सर्वार्थानां अनुत्तरं सर्वज्ञत्वं प्राप्नोति। अपि चोक्तम् -

य एवं तथताक्षमः। तस्मै व्याक्रियते नूनं

य एवमनन्तरोक्त-प्रतीत्यसमुत्पाद-पुद्गलधर्मनैरात्म्य - तत्त्व-क्षम इच्छति, स एव पुद्गलधर्मनैरात्म्यक्षमतान्वितत्वाद् अनुत्तरसम्यक्सम्बोधिं व्याकृतवत् पश्येत्, जानीयाच्चेत्यर्थः। तस्मात् सूत्रे- यो भदन्त शारिपुत्र कुलपुत्रो कुलदुहिता वा एवंविध - धर्मक्षान्ति -समन्वितः, तस्य तथागतोऽर्हत् सम्यक्सम्बुद्धोऽनुत्तरः सम्यक्सम्बोधिं व्याकरोति इत्युक्तम्।

मैत्रेयस्तु स्वयं तथा। उवाच शारिपुत्राय

एवम् शारिपुत्रो बोधिसत्त्वो मैत्रेयमपृच्छत्। बोधिसत्त्वो मैत्रेयोऽपि शालिस्तम्बोपमा कृता इदं सूत्रम् विस्तरेण विभज्य भाषितवान्। बोधिसत्त्वमैत्रेयेण भाषितां शालिस्तम्बोपमां कृत्वा शारिपुत्रस्तु तच्छ्रुत्वा इति शालिस्तम्बोपमा कृता। संस्तुतो धृत सारश्च देवसंघान् इति। धृतसार इति धर्मार्थतथतावबोधत्वात् सारग्रहणम्। देवसंघानिति देव-नाग-यक्ष-गन्धर्व-आदि-सहितान्। अनुमोदितेति अनुमोद्य। संस्तुत इति त्वया यथोक्तं तथैव अस्ति नान्यथेति, अवधारयन् निर्जातत्वात्।

गत्वोत्त्थाय प्रहर्षितः। आख्यातवांश्च भिक्षुभ्यः

तस्मादेव सूत्रे- अथ आयुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य भाषितम् अभिनन्द्य उत्थायासनात् प्रक्रान्त इत्युक्तम्। मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन एवमुक्तं मैत्रेयेण बोधिसत्त्वेन, एवमिति शारिपुत्रेण कथितम्। अनुमोदितम्। शारिपुत्रः तच्छुत्वा प्रहर्षितः सन्तुष्ट इत्यर्थः। गत्वा भिक्षुभ्यो गम्भीरोदाराद्भुतं सूत्रं यथाश्रुतवत् सर्वसत्त्वहिताय भाषितम्।

शालिस्तम्बस्य सूत्रस्य विस्तराख्या सुभद्रिका।
हीनबुद्धि प्रबोधार्थं शतैर्द्वादशभिः कृता।

आचार्यनागार्जुनेन विरचिता शालिस्तम्बकविस्तराख्याटीका समाप्ता।

भारतीयोपाध्यायेन धर्मश्रीभद्रेण लोकचक्षुषा भदन्तसाधुमतिना ज्ञान कुमारेण चानूदिता। महासंशोधक - लोकचक्षुषा भदन्त - श्रीकुटीरेण संशोध्य निर्णीता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project