Digital Sanskrit Buddhist Canon

बौद्ध तन्त्र कोश (1)

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Bauddha tantra kośa (I)

बौद्ध तन्त्र कोश
अकरणसंवरः

(पापदेशनानन्तरं) पुनरकरनसंवरं प्रतिगृय। (सा. मा., पृ. ५५)
पापदेशनामकरणसंवरम्। (सा. मा., पृ. १०६)
पापदेशना-अकरनसंवर...। (सा. मा., पृ. १३८, १७३, १९३)
प्रतिदेश्य पुनरकरनसंवरं प्रतिगृह्य। (सा. मा., पृ. २०१)

अकारः

एषां मध्ये तु किञ्जल्के विद्यते परमेश्वरः।
अष्टाभिर्वर्गकैश्चैव वेष्टितः परमेश्वरः॥
अकारः सर्ववर्णाग्र्यो महार्थो वर्गनायकः।
अत एव समुद्भूताः सर्वमन्त्रास्तु देहिनाम्॥ (व. ति., पृ. ७३-७४)

वर्गाष्टकसहितालिकालिमध्यवर्ती भगवानकारो निःशेषवर्णपदवाक्यमहावाक्यादिरूपेणावस्थितः। तत एवैते वर्णाः प्रादुर्भवन्ति। ते च पदानि जनयन्ति, तान्यपि वाक्यानि, तान्यपि महावाक्यानि, यावल्लौकिकभावभेदमनन्तं चतुरशीतिधर्मस्कन्धसहस्राणिति सर्वोऽयं वर्णाद्यप्रभव इति। (व. ति. टी., पृ. ७१)

चतुदश विद्यास्थानानि परनिकायप्रसिद्ध्या, स्वनिकायप्रसिद्ध्या तु पञ्च विद्यास्थानान्याश्रित्य वर्ततेऽकारः। (व. ति. टी., पृ. ७२)

अष्टभिर्वर्गैर्वेष्टितोऽसौ परमाक्षरोऽकार एव समस्तमन्त्रहेतुः। (व. ति. टी., पृ. ७४-७५)

अक्षरम्

निर्वाणेन तुच्छरूपेण सहितं बिम्बं संसारेण क्षरसुखलक्षणेनातीतमनास्रवमहासुखमक्षरम्। (से. टी. पृ. ७०)

अक्षोभ्यम्

किञ्चिद् ग्राह्यादिशून्यं चेत् चित्तमक्षोभ्यमुच्यते। (अ. व. सं., पृ. २९)

अक्षोभ्यः

सर्वानिष्टजनैर्ज्ञानं मिथ्यागुरुजनैरपि।
अप्रकम्प्यस्वभावत्वादक्षोभ्योऽसौ प्रकथ्यते॥ (ज्ञा. सि. १५.६)
अक्षोभ्यो वज्रमित्युक्तम्। (स. सि. २.७)

अक्षोभ्यः क्लेशैर्न क्षुभ्यत इति कृत्वा। (हे. त. टी., प. १९a)

बोधिचित्तं द्रवं यस्माद् द्रव्यमब्धातुकं मतम्।
अपामक्षोभ्यरूपत्वाद् द्वेषो ह्यक्षोभ्यनायकः॥ (हे. त. २.२.५४)

आकाशवच्चित्तं यस्य स आकाशचित्तोऽक्षोभ्यः सुविशुद्धधर्मधातुस्वभावत्वात्। (गु. स. प्र., पृ. ५१)

रागादिभिरक्षोभ्यः स एव। (व. ति. टी., पृ. ८५)

अग्नित्रयम्

हृत्कण्ठे नाभिपद्मे पविरविशिखितस्तत्स्फुरन्ति क्रमेण
धन्वाकारे च वृत्ते त्वनुदिनहवने चाब्धिकोणे च कूण्डे।
तेषामूर्ध्वे परोऽग्निः स्फुरदमलकरो ज्ञानमूर्तिस्तमोऽन्ते
यस्मिन् सूर्यो न विद्युत्पतिशशधरो न ग्रहास्तारकाद्याः॥ (का. त. २.३६)

अग्निमण्डलम्

अग्निमण्डलं कण्ठपद्मस्थम्। तस्योदये रक्तरश्मिर्निर्गत्यार्धयामं तिष्ठति। तदा वश्याकर्षणं कुर्यात्। (गु. स. प्र., पृ. १४३)
स्थितस्त्रिकटिदेशे तु त्रिकोणे ज्वलनस्तथा। (व. ति., पृ. ६१)

अङ्गरिकः

कक्षाभ्यां चक्षुरङ्कुरजननादङ्कुरिकः। (व. ति. टी., पृ. ४९)

अङ्गचतुष्ट्यम्

चत्वार्यङ्गानि--सेवा-उपसेवा-साधन-महासाधनाश्चेति। (हे. त. १.१.२५)

अचला

ऊरूजङ्घे उपमेलापकम्, पूर्वोक्तयोरपि मीलनात्। सैवाचला, तद्योगस्यानिवार्यत्वात्। (व. ति. टी., पृ. २८)

अचिन्त्यम्

अनाभोगं हि यज्ज्ञानं तच्चाचिन्त्यं प्रचक्षते।
संचिन्त्य यदचिन्त्यं वै तदचिन्त्यं भवन्नहि॥ (अ. व. सं., पृ. २०,३०)

अचिन्त्यधातुः

कतमोऽसावचिन्त्यधातुः ? यो धातुर्निश्चितो न चित्तगमनीयो न चित्तप्रमेयो न चित्तचेतनया प्रतिवेदितव्यः, असावुच्यतेऽचिन्त्यधातुः। अथ च पुनर्भगवन् चित्तमेवाचिन्त्यधातुः। तत् कस्य हेतोः ? नह्यचित्ते चित्ते चित्तं संविद्यते। निश्चितो हि चित्तम्, चित्तस्य यथार्थवबोधात्। अथ च सर्वाकारो भगवतोऽचिन्त्यधातुः। अन्यत्राप्युक्तम् --

अविकल्पितसंकल्प अप्रतिष्ठितमानस।
अस्मृत्यमनसिकार निरालम्ब नमोऽस्तु ते॥

चतुःप्रदीपे --

यः प्रत्ययैर्जायति स ह्यजातो
न तस्य उत्पाद स्वभावतोऽस्ति
यः प्रत्ययाधीन स शून्यो उक्तो
यः शून्यतां जानति सोऽप्रमत्तः॥ (अ. व. सं., पृ. २५)

अच्युतम्

शून्यताकरुणयोर्यदभिन्नत्वमेकत्वलक्षणं बोधिचित्तम्, तदच्युतमुच्यते। नान्यत् कर्मज्ञानमुद्राजनितं क्षरस्पन्दलक्षणम् (से. टी., पृ. ७०)

अडकवती

बाह्येऽडकशब्देन नष्टप्राणो मृतकसमूहः, सोऽस्यामस्तीति अडकवती श्मशानभूमिः। ........अश्यात्मनि अडक इति षट्शताधिकैकविंशतिसहस्रश्वासप्रश्वासानां षट्रिंशच्छतोनानां निरोधः, सोऽस्यामस्तीति धर्ममेघा भूमिः।
[द्र. आढकवतीनिवासी] (वि. प्र., पृ. १७)

अद्वयम्

परमार्थोऽद्वयमुच्यते। (अ. क्र. ४)

यस्य स्वभावो नोत्पत्तिर्विनाशो नैव विद्यते।
तज्ज्ञानमद्वयं नाम सर्वसंकल्पवर्जितम्॥ (अ. क्र. १२-१३)
सर्वशङ्काविनिर्मुक्तं निर्द्वन्द्वं परमं शिवम्।
खसमं कल्पनामुक्तमद्वयं तु तदुच्यते॥ (अ. क्र. १७-१८)
अद्वयज्ञानमेकं तु सर्वसंकल्पवर्जितम्। (अ. क्र. २६)
कल्पनाजालविच्छिन्नमचिन्त्याद्वयमुत्तमम्। (अ. क्र. २८)
रूपशब्दरसातीतं गन्धस्पर्शादिवर्जितम्॥
धर्मधातुमयं शुद्धमद्वयं ज्ञानमुत्त्मम्।
सर्वसंकल्पनिर्मुक्तं ग्राह्यग्राहकवर्जितम्॥
स्वभावशुद्धं निलयमद्वयं पारमार्थिकम्।
अविनाशमनुत्पतिमनक्षरमनालयम्॥
महामुद्रेयमत्यन्तमद्वयं ज्ञानमुत्तमम्। (अ. क्र. ३०-३३)
आदिमध्यान्तरहितं निष्पन्नोत्पत्तिवर्जितम्।
त्यक्तं चित्तं च चैतन्यं तदद्वयज्ञानमुत्तमम्॥ (अ. क्र. ५१-५२)
परमार्थोऽद्वयो नाम। (अ. क्र. ७८)
सर्वं तु चाद्वयज्ञानं दृश्यते प्रतिभासतः।
अद्वयः करुणामिश्रः प्रज्ञोपायसमन्वितः॥ (अ. क्र. ९३)
अनादिरद्वयो नाम श्रीसुखाकारसंस्थितः। (अ. क्र. ११८)
अद्वयं प्रज्ञोपायद्वयाभासरहितम्। (हे. त. टी., प. ५१b)

अधिकमासः

सूर्यस्य द्वात्रिंशत्सार्थमासैरधिकमासोऽमावास्यायां संक्रमणाभावात्। (वि. प्र., पृ. ७८)

अधिष्ठानक्रमः

स्वसंवेद्यमिदं ज्ञानं वाक्पथातीतगोचरम्।
अधिष्ठानक्रमो ह्येष सर्वज्ञज्ञानतन्मयः॥ (हे. त. १.८.५१)

अध्येषणा

सत्त्वार्थमा संसारं कुर्वन्तु भगवन्तः संबुद्धास्तत्सुता अपि महाबोधिसत्त्वास्तिष्ठन्तु मामा परिनिर्वाणादिति। (सा. मा., पृ. ५६)

जगदर्थमा संसारं कुर्वन्तो भगवन्तस्तथागतास्तत्सुता अपि तिष्ठन्तु मां परिनिर्वान्त्विति। (सा. मा., पृ. २०२)

अनुज्ञाभिषेकः

अपरिमितसत्त्वधातोर्यथाशयवशेन संवृतिपरमार्थविभागेन परमगुह्यवज्रयान देशनार्थमनुज्ञाभिषेको बुद्धत्वनिष्पादकः सप्तमः। (से. टी., पृ. २१)

अनुत्पादप्रयोगः

अनुत्पादः परमार्थसत्यम्। तस्मिन् मनोमयकायस्य प्रवेशोऽनुत्पादप्रयोगः। (गु. स. प्र., पृ. ३१)

अनुस्मृतिः

विभाव्य यदनुस्मृत्या तदाकारं तु संस्परेत्।
अनुस्मृतिरिति ज्ञेयं प्रतिभासस्तत्र जायते॥ (से. टी., पृ. ३०)

प्रत्याहारध्यानाङ्गाभ्यां यद्विभाव्य स्थिरीकृतं त्रैधातुकप्रतिभासात्मकं संवृतिसत्यम्, अनुस्मृत्या तदाकारं तु संस्फरेत्, तदाकारं तु संवृतिसत्याकारं संस्फरेत्, समस्तनभस्तलव्यापकं पश्येत्। सकलत्रैकालिकत्रिभुवनस्य दर्शनमनुस्मृतिरिति ज्ञेयम्। त्रैधातुकस्य प्रतिभासस्तत्रेत्यनुस्मृत्यङ्गे जायते॥ (से. टी., पृ. ३३)

अनुस्मृतिसमायोगात् प्रभामण्डलं जायते। (से. टी., पृ. ३१)

अनुस्मृतिसमायोगो बिम्बालिङ्गनं चित्तस्य सर्वविकल्परहितत्वं यदा, तदा विमलं प्रभामण्डलं जायते, रोमकूपात् स्फरत्पञ्चरश्मयो निश्चरन्ति। (से. टी., पृ. ३४)

औस्मृतिरिति सम्पादितबुद्धकायस्य अनु पश्चात् परमार्थसत्यगमनम्, तस्य स्मृतिस्तदधिगमः। (गु. स. प्र., पृ. ६९)

अप्रतिष्ठितनिर्वानम्

विरागाद् रागविगमादुष्णीषस्थं यत् सौख्यं शुक्रं तत्प्रतिष्ठितम्। यत्तु वज्रमणेश्च्युतं तन्निर्वाणम्। अयं तु सुखराज उष्णीषवज्रमण्यन्तरालव्यापित्वादप्रतिष्ठितनिर्वाणः। अत एव महारागोऽक्षरश्च प्राधान्यात् प्रभ्युस्त्रैधातुकेश्वरः। (से. टी., पृ. ५५)

अप्रतिष्ठितनिर्वाणाख्यमाहासुखसंज्ञकः शुद्धकायः। (से. टी., पृ. ५५-५६)

अभावः

अभाव उच्छेदग्रहः। (त. सं. टी., पृ. ३)

न भवतीत्यभावोऽनुत्पादः। तथा चोक्तं भगवता लङ्कावतारे --

भावनभावानिति यः प्रजानते
स सर्वभावेषु न जातु संज्ञते।
यः सर्वभावेषु न जातु संज्ञते
सोऽनिमित्तं स्पृशते समाधिम्॥ (हे. त. टी., पृ. ५a)

अभिज्ञापञ्चकम्

पञ्चाभिज्ञाः--दिव्यं श्रोत्रम्, दिव्यं चक्षुः, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, ऋद्धिविज्ञनं च। (त. सं. टी., पृ. २७)

अभिध्या

अभिध्या परद्रव्याभिलाषः। (गु. स. प्र., २०६)

अभिमुखी

हृदयमेढ्रे उपछन्दोहः, अर्थावगतौ भोज्यपाके तद्वैमुख्यात्। सैवाभिमुखी, तदवधौ पाके चाभिमुख्यात्। (व. ति. टी., पृ. २८)

अभिषिक्तः

सर्वताथागतं ज्ञानं वज्रज्ञानमिति स्मृतम्।
तेनाभिषिक्तो मतिमानभिषिक्तोऽभिधीयते॥ (ज्ञा. सि. १.३७)

अभिषेकः

लौकिकलोकोत्तरसिद्धिसौधसोपानभूतानधरसंवृतिरूपान् सप्तसेकान् व्याख्याय योगिसंवृतिभूतान् लौकिकसिद्धिसाधनान् परमार्थानुकूलांस्त्रिविधसेकान् (कुम्भ-गुह्य-प्रज्ञाज्ञानाख्यान्) कुम्भेत्यादिनोद्दिशति। (से. टी, पृ. २१)

अभिषेको हि भवनायाः परिनिष्पत्तिः सकलयोगसाधारनः ....। अभिषेको ज्ञानाम्बुधिः। शवासनसर्वावरणक्षालनार्थम्। (हे. त. टी., प. १६b)

अभिसम्बोधिचतुष्टयम्

एकक्षण-पञ्चाकार-विंशत्याकार-मायाजालाभिसंबोधिलक्षणम्। तत्र गर्भजोत्पत्तिक्रमेण मातापित्रोरुभयबिन्दुसमरसीभूतस्य मातुगुह्यचक्र उत्पित्सोरालयविज्ञानस्य यैकक्षणं केवलसुखसंवृत्तिः, कायश्च रोहितमत्स्यवदेकाकारः, सैकक्षणाभिसंबोधिः। यदा तु गर्भगतस्यैव रूपादिवासनात्मकपञ्चज्ञानसंवित्तिः कूर्मवद्विनिःसृतपञ्चस्फोटकाकारस्तदा पञ्चाकाराभिसंबोधिः। ततः प्रतिस्वं पञ्चज्ञानानां यदा पृथिव्यादिचतुर्धातुवासनाभेदः कायोऽपि विंशत्यङ्गुलीपरिपूर्णस्तदा विंशत्याकाराभिसंबोधिः। ततो गर्भाद् विनिःसृतो मायाजालवदनन्तभावसंवित्तिर्मायाजालाभिसंबोधिः।

एतद्वैधर्म्येण शुद्धज्ञानविज्ञानात्मकोऽच्युतो बिन्दुः स्वाभाविककायज्ञानवज्रयोगो वज्रसत्त्वः सर्वार्थदर्शी एकक्षणाभिसंबुद्धत्वादेकक्षणाभिसंबोधिः, इह षट्शताधिकैकविंशतिसहस्रश्वासपरिपूरितलक्षणश्वासचक्रक्षयात्। ....स एव धर्मकायश्चित्तवज्रयोगो महासत्त्वः परमाक्षरसुखः पञ्चाकाराभिसंबुद्धत्वात् पञ्चाकारभिसंबोधिः। इहादर्शादिपञ्चज्ञानलक्षणा पृथिव्यादिधातुरूपादिपञ्चस्कन्धप्रज्ञोपायात्मिका पञ्चमण्डलनिरोधस्वभावत्वात्। स एव संभोगकायवाग्वज्रयोगो बोधिसत्त्वो द्वादशाकारसत्यार्थो बोधिसत्त्वानुग्राहकः सर्वसत्त्वरुतैर्धर्मदेशको विंशत्याकाराभिसंबुद्धत्वाद् विंशत्याकाराभिसंबोधिः, इह पञ्चेन्द्रियपञ्चविषयपञ्चकर्मेन्द्रियपञ्चकर्मेन्द्रियक्रियानिरावरणलक्षनद्वादशसंक्रान्तिनिरोधसद्भावाद् विज्ञेया। स एव निर्माणकायः कायवज्रयोगः समयसत्त्वः षोडशाकारतत्त्ववेदनेनाद्यनुग्राहकोऽनन्तमायाजालैः स्फारितकायो मायाजालभिसंबुद्धत्वान्मायाजलाभिसंबोधिः। इह युगपदनन्तापर्यन्तनानामायानिर्माणलक्षणा षोडशकयानन्दादिबिन्दुनिरोधाद् विज्ञातव्येति। (से. टी., पृ. ६-७)

एकक्षणाभिसम्बोधिः, पञ्चाकाराभिसम्बोधिः, विंशत्याकाराभिसम्बोधिः. मायाजालाधिसम्बोधिश्च। (वि. प्र., पृ. २०)

इहैकक्षणाभिसम्बोधिर्नाम परमाक्षरमहासुखक्षण इति। ....एवमेकक्षणाभिसम्बुद्धो ज्ञानवज्रः सर्वार्थदर्शी पञ्चाकाराभिसम्बुद्धश्चित्तवज्रः परमाक्षरसुखः। विंशत्याकारसम्बुद्धो वाग्वज्रो द्वादशाकारसत्यार्थः सर्वसत्त्वरूतैर्धर्मदेशकः। मायाजालाभिसम्बुद्धः कायवज्रः षोडशाकारतत्त्वविदनन्तमायाजालैः स्फारितकाय इति। (वि. प्र., पृ. ४४-४५)

अभेद्या

नखदन्तानामभेद्यानां प्रसवनादभेद्या शिरसि। (व. ति. टी., ४४)

अमनसिकारः

अमनसिकार इत्यत्र बहवो विप्रतिपन्नाः। तत्र कश्चिदाह--अपशब्दोऽयमिति, समासे मनस्कार इति भवितुमर्हति। तत्रोच्यते--"तत्पुरुषे कृति बहुलम्" इत्यत्र बहुलवचनात् "सप्तम्या अलुक्" इत्यलुक्समासे कृतेऽमनसिकारः, अमनस्कारः; त्वचिसारः, त्वक्सारः; युधिष्ठिर एतानि रूपाणि सम्पद्यन्ते, नायमपशब्दः। न च प्रसज्यप्रतिषेधनञो विषयत्वादभावो वाच्यः। 'असूर्यम्पश्या राजदारा' इत्यत्र हि न सूर्याभावः कृतः, किन्तु राजदाराणां यत् सूर्यदर्शनं प्रसज्यं तन्निषिद्धम्। एवमेवामनसिकारेऽपि नञो मनसिकरणं यद् ग्राह्यग्राहकादि प्रसक्तं तन्निषिद्धम्, न मनः। अतो न दोषः। पर्युदासपक्षेऽपि न दोषः, अब्राह्मणमानयेत्युक्ते ब्राह्मण सदृशस्य क्षत्रियादेरानयनं भवति, न तु विजातीयस्य कटादेः। अत्रापि निःस्वभाववेदनस्य संस्थितिः कृता। अथवा अकारप्रधानो मनसिकार इत्यत्र शाकपार्थिवादिवन्मध्यमपदलोपी समासः। एतेन यावान् मनसिकारः सर्वमनुत्पादात्मक इत्यर्थः। अकारस्यानुत्पादकारकत्वम् "अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वात्" इत्यादिना हेवज्रे उक्तम्। नामसंगीतौ च--

अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः।
महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः॥ इति।

यदि वा -- अकारोऽत्र नैरात्म्याबीजम्। तथा च हेवज्रे -- "आलेरादि नेरादि नैरात्म्या" इति। एतेन सर्वमनसिकारोऽनात्मकोऽस्वभाव इत्युक्तं भवति। यदि वा --

आदिस्वरस्वभावा सा धीति बुद्धैः प्रकल्पिता।
सैव भगवती प्रज्ञा उत्पन्नक्रमयोगातः॥

यदि वा-- अ इति प्रभास्वरपदम्, मनसिकार इति स्वाधिष्ठानपदम्। अश्चासौ मनसिकारश्चेत्यमनसिकारः। एतेन अमनसिकारपदेन अचिन्त्यप्रभास्वरमनसिकारश्चेत्यमनसिकारः। एतेन अमनसिकारपदेन अचिन्त्यप्रभास्वरस्वाधिष्ठानपदं शून्यताकरुणाभिन्नयुगनद्धाद्वयवाहिसंवेदनमापादितं भवतीति। (अ. व. सं., पृ. ६०-६२)

न मनसि क्रियत इत्यमनसिकारः, निर्विकल्पकं सहजज्ञानम्। (दो. को. व्या., पृ. ६२)

अमिताभः

अप्रतिष्ठितनिर्वाणमलिप्तं भवनिर्वृतौ।
असंख्यगुणसंयोगादमिताभः स उच्यते॥ (ज्ञा. सि. १५.८)

अमिताभः पद्ममेव च। (स. सि. २.७)

द्वयोर्घर्षणसंयोगात् तेजो हि जायते सदा।
रागोऽमितवज्रः स्याद् रागस्तेजसि संभवेत्॥ (हे. त. २.२.५५)

धर्माः पद्मलीनास्तेषामग्रः प्रत्यवेक्षणाज्ञानात्मकोऽमिताभः। (गु. स. प्र., पृ. ५१)

अमितमप्रमाणमायुर्यस्माल्लभ्यते सोऽमितायुः समताद्वयप्रत्यवेक्षणाज्ञानात्मकोऽमिताभः। (गु. स. प्र., पृ. ५२)

भ्रूमध्ये स्थित्वाऽपरिमितास्थिमालाप्रवर्तकत्वात् तन्मयोऽमिताभः। (व. ति. टी., पृ. ४८)

ज्ञानमय्योऽपरिमिता भासो यस्य सोऽयममिताभः। (व. ति. टी., पृ. ८५)

अमृतम्

अमृतं शुक्त्रमित्युक्तं तत्प्रसूतं जगत्त्रयम्। (गु. स. प्र., पृ. ५६)

अमृतकुण्डली

विघ्नान्तकोऽमृतकुण्डलीति तस्य दृष्टिरमृतस्थानगता ललाटगता। (से. टी., पृ. ३६-३७)

उपसाधनकाले तु बिम्बं चामृतकुण्डलीम्। (से. टी., पृ. ३९)

ततोऽमृतकुण्डलीबिम्बसंज्ञया सन्ध्याभाषान्तरेण वायुरित्युक्तम्। स च पञ्चप्रकारः। तथा च समाजोत्तरे भगवानाह --

पञ्चरत्नमयं श्वासं पञ्चबुद्धैरधिष्ठितम्।
निश्चार्य पिण्डरूपेण नासिकाग्रे विभावयेत्॥ इति।

इह पञ्चरत्नशब्देन रसनापञ्चमण्डलधर्मिणः पृथ्यादिपञ्चधातवस्तन्मयं श्वासं पञ्चरत्नमयमिति सव्यनासापुटे। तथा पञ्चबुद्धा ललनापञ्चमण्डलधर्मिणो विज्ञानादिपञ्चस्कन्धाः, तैरधिष्ठितं श्वासं वामनासापुट इति। निश्चार्य पिण्डरूपेणेति। इह पिण्डं सव्यापसव्यमण्डलानात्मकत्वं मध्यमायामवधूत्यां प्राणवायोरिति। तं च प्राणवायुं निश्चार्य पिण्डरूपेण नासिकाग्रे विभावयेत्....कर्णिकातः कर्णिकामध्ये न सव्यापसव्यकमलदल इति। एवं बिन्दुस्थाने पिण्डरूपेण निरोधितः प्राणः। तेनैव तस्य धारणोच्यते। एवमङ्गद्वयेनोपसाधनममृतकुण्डलीबिम्बेति। (से. टी., पृ. ४१-४२)

अमोघः

अमोघः सर्वाकारजगदर्थकरणात्। (हे. त. टी., पृ. १९b)

अमोघसिद्धिः

कक्कोलकेषु यच्चित्तं तत् समीरणरूअकम्।
ईर्ष्या ह्यमोथसिद्धिः स्यादमोघो वायुसंभवः॥ (हे. त. २.२.५६)

सर्वसत्त्वार्थकार्याणां प्रसाधकमः स्वयम्।
अवन्ध्यं तन्महाज्ञानममोघसिद्धिरुच्यते॥ (ज्ञा. सि. १५.९)

अमोघः कर्म इत्युक्तं कुलान्येतानि संक्षिपेत्। (स. सि. २.८)

सकलजगदर्थाश्चर्याः, तेषां पदं प्रतिष्ठा, कृत्यानुष्ठानस्वभावोऽमोघसिद्धिः। (गु. स. प्र., ऱ्. ५१)

सत्त्वार्थक्रियायां सकला सिद्धिर्यतः सोऽमोघसिद्धिः। (व. ति. टी., पृ. ८५)

अयाचितविधिः

स्वयंग्रहः स्वसंकेतैरन्यैराख्यानमेव वा।
यत्र नास्ति तमेवाहुरयाचितविधिं बुधाः॥ (सा. मा., पृ. ३३४)

अर्चिष्मति

नाभिनासाग्रे उपक्षेत्रम्, बिन्दुसिङ्घानवाहित्वात्। सैवार्चिष्मती, ज्ञानाग्निप्रकाशकत्वात्। (व. ति. टी., पृ. २८)

अर्बुदः

आभ्यां स्वरव्यञ्जनदूतीभ्यां मुद्रात्रयसमापत्त्या कर्ममारुतेश्वरदण्डभेदादविकल्पसुखानुभवो बुध्यत इत्यर्बुधः पृष्ठं शिरसः। (व. ति. टी., पृ. ३१)

अर्बुदः पृष्ठदेशस्तु। (व. ति., पृ. ३२)

अर्बुधे तु महानासा डाकिनी पिशिताशिनी। (व. ति., पृ. ४२)

अवधूती

अवहेलया अनाभोगेन क्लेशादिपापान् धुनोतीत्यवधूती। अवधूत्यवकृतं मूलं प्रधाननालं येन सा, अवधूतीकृतो मूलनालहेतुरिति शब्दाक्षरम्। (दो. को. व्या., पृ. १५०)

"अवधूती मध्यदेशे ग्राह्यग्राहकवर्जिता" इति। ग्राह्यं ज्ञेयम्, ग्राहको ज्ञानम्, ताभ्यां वर्जिता। (दो. को. व्या., पृ. १५१)

नाभिमध्ये महाचक्रं षोडशैस्तन्तुसूत्रितम्।
अकारेण समायुक्तं संपुटीकारयोगतः॥
सर्वाधारस्वरूपेण तत्र मध्ये व्यवस्थिता।
स्तम्भभूता महाराज्ञी साऽवधूतीता कीर्तिता॥ (व. ति. टी., पृ. २०)

एवं वज्रवाराहीस्वभावया मध्यनाड्याऽवधूत्या एव सर्वोऽयं नाडीसंचयः प्रादुर्भूय तत्रैव समवशरणं गच्छति। (व. ति. टी., पृ. ५८)

अवस्थात्रयम्

तत्रावस्थास्त्रयः। हेत्ववस्था नाम बोधिचित्तात् प्रभृति बोधिमण्डनिवेदनं यावत्। फलावस्था नाम सम्यक्संबोधिज्ञानोत्पत्तौ सर्वक्लेशगुणप्रहाणिप्राप्त्यवस्था। सत्त्वार्थक्रियावस्था नाम प्रथमधर्मचक्रप्रवर्तनात् प्रभृति आ शासनान्तर्धानं यावत्। तत्र हेत्ववस्था त्रिविथा--आशयावस्था, प्रयोगावस्था, वसितावस्था चेति। तत्र आशयावस्था सत्त्वानिर्मोक्षप्रणिधानम्। तद्धेतवश्चत्वारः। तद्यथा--

गोत्र-सन्मित्र-कारुण्य-दुःखाभीरुत्वहेतवः।
चतुर्भिः प्रत्ययैरेभिर्बोधिचित्तं प्रजायते॥ इति।

तत्र प्रयोगावस्था द्विविधा--अधिमुक्तिचित्तस्य पारमिताः सप्त, अधिमुक्तिचरितस्य पारमिता दश। भूमिप्राप्तस्य चतसृभिः सम्पद्भिः सम्पन्नं चित्तमिति तदर्थं दानं शीलं क्षान्तिवीर्यं ध्यानं प्रज्ञा उपाय इत्येतः सप्त पारमिताः। अधिमुक्तिचर्याचरितस्य दश पारमिताः--

दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता।
प्रणिधानं बलं ज्ञानं मताः पारमिता दश॥ इति।

तत्र वसितावस्थाः पञ्च--क्लेश-उपपत्ति-कर्म-उपाय-सत्त्वपरिपाकावस्थाख्याः।

तत्र हेत्ववस्थास्थितेन सर्वमादिकर्म कर्त्यव्यम्। फलावस्था-सत्त्वार्थक्रियावस्थास्थिततस्य च शाक्यमुनेरिव अनाभोगेन आदिकर्म प्रवर्तत इति। (अ. व. सं., पृ. ११-१२)

अशुद्धः

अशुद्ध आदिकर्मिकः। (हे. त. टी., पृ. ५४b)

अशुभा भावना

शरीरस्य विण्मूत्रशुक्रशोणितश्लेष्मान्तान्त्रसिंहानकचिक्कणक्लमथप्लीहायकृत्प्रभृतिसमुदायरूपता। तदुक्तम् --

इमं चर्मपुटं तावत् स्वबुद्धौ च पृथक् कुरु।
अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय॥
अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः।
किमत्र सारमस्तीति स्वयमेव विचारय॥ इति। (अ. व. सं., पृ. १५)

अशैक्षमार्गः

कतमोऽशैक्षमार्गः ? मार्गज्ञानानामन्त्यस्यान्त्यक्षणः। (व. ति. टी., पृ. ५१)

अष्टसिद्धयः

खड्गचक्ररत्नवज्रपद्मविद्याधरसिद्धयः पञ्च, खड्गस्योपलक्षणत्वात्। यया नष्टच्छायो भवति साऽञ्जनसिद्धिर्द्वितीया। यया क्षणमात्रेण योजनशतसहस्राण्याक्रामति सा पादलेपसिद्धिस्तृतीया। यया भूगतनिधानानि पश्यति, बिलद्वारंप्रविश्यासुरकन्यका आकर्षयति वा, सा पातालसिद्धिश्चतुर्थी। यया मनोरमतरवपुषो यक्षिणीर्भुङ्क्ते सा यक्षाङ्गनासिद्धिः पञ्चमी। यया मुखक्षिप्तया सर्वबुद्धक्षेत्राण्यटित्वा बुद्धेभ्यो धर्मं शृणोति सा गुलि(टि)कासिद्धिः षष्ठी। यया शान्त्यादीन्यष्टौ कर्माणि साधयति, सा त्रैलोक्योदरवर्तिनी सिद्धिः सप्तमी। यया पाषाणताम्रादीन् सुवर्ण(र्णी)करोति सा सूतकसिद्धिरष्टमीत्यष्टौ महासिद्धयः। (व. ति. टी., पृ. ७४)

आकाशगर्भः

जङ्घाभ्यां रोमकूपशुषिरव्यापकस्वेदप्रवर्तकत्वाद् आकाशगर्भः। (व. ति. टी., पृ. ४९)

आकाशपदयोगः

आकाशं परमार्थसत्यम्, पदं संवृतिसत्यम्। तयोर्योग एकीभावः। (गु. स. प्र., पृ. ३३)

आचार्यः

आचार्यात् परमं नास्ति रत्नभूतं त्रिधातुके।
अस्य प्रसादात् प्राप्यन्ते सिद्धयोऽनेकधा बुधैः॥ (गु. सि. ९.११)

आचार्यात् परतरं नास्ति त्रैलोक्ये सचराचरे।
यस्य प्रसादात् प्राप्यन्ते सिद्धयोऽनेकधा बुधैः॥
वज्रसत्त्वः स वै ज्ञेयः सर्वबुद्धैर्नमस्कृतः।
आचार्यः परमो देवः पूजनीयः प्रयत्नतः॥
स एव तथतारूपी लोकानुग्रहहेतुना।
रूपमाश्रित्य संवृत्या संस्थितो योगपीठके॥ (अ. सि. ३३-३५)

आराद् दूरं पापकेभ्यो धर्मेभ्यश्चरतीत्याचार्यः। (हे. त. टी., पृ. ७a)
आचार्यश्चित्तराजस्तु मण्डलाध्यक्ष्यरूपतः। (व. ति., पृ. ६९)
योऽयं चित्तवज्रधरः स्वसंवेद्यस्वरूपत्वेन प्रागुक्तमण्डलान्यभेदेन बुध्यते स एवाचार्यः।
सविशेषाचरणादाचार्य इत्युच्यते। (व. ति. टी., पृ. ६८-६९)

आचार्याभिषेकः

कर्ममुद्रया चतुःक्षणचतुरानन्दस्वरूपप्रतिपादनं नाम। क्रियातन्त्रादिसाधारणावैवर्तिकाभिषेकलाभमात्रणाचार्याभिषेकेणाभिषिक्त इत्युच्यते। .....प्रथमं तावद् हेवज्रादौ योगिनीतन्त्रश्रुतिचिन्ताभावनाभव्यताकरणार्थमाचार्याभिषेकेणाभिषिच्यते। ..... एतदाचार्याभिषेकलब्धमृद्विन्द्रियाणामधिमोक्षमवधार्य कर्ममुद्रया भावनोपदेशः क्रियते। (हे. त. टी., पृ. ७a-b)

आनन्द आचार्याभिषेकः। ....क्वचित् क्रियातन्त्र देवतानां प्रज्ञोपाययोरनुरागसूचकं हसितम्, तद्विशुद्द्या आचार्य इत्याचार्याभिषेकः। (हे. त. टी., पृ. ५०a-b)

आढकवतीनिवासी

बाह्ये आढकशब्देन मृतकसमूहः। तद्योगादाढकवती श्मशानभूमिः। तस्यां सदा यक्षाः सत्त्वानां विहेठका अनेकविघ्नकर्तारः। तेषां बाधकोऽटव्यां मृगाधिपतिरिवाढकवतीनिवासी महायक्षाधिपतिः। अध्यात्मनि षट्शताधिकैकविंशतिसहस्रश्वासप्रश्वासानां षट्त्रिंशच्छतोनानां निरोध आढकः। सोऽस्यास्तीति आढकवती धर्ममेघभूमिः। तस्यां निवासी आढकवतीनिवासी मारक्लेशज्ञेयसमापत्त्यावरणयक्षानां बाधको यक्षाधिपतिः। (से. टी., पृ. १)

आत्मदेवता

तस्मादात्मैव देवता। (प्र. वि. सि., ५.३३)
स्वाधिदैवतयोगेन स्वमात्मानं प्रपूजयेत्। (ज्ञा. सि., पृ. १४४)

आत्मनिर्यातनम्

संत्रस्तान् दुःखितान् दृष्ट्वा प्रयच्छेदात्मविग्रहम्। (सा. मा., ऱ्. १६९)

आत्मरक्षा

पुष्पैकं गृहीत्वा ॐ मणिधरि वज्रिणि महाप्रतिसरे रक्ष रक्ष माँ हुँ फट् स्वाहा इति स्वशिरोदेशे पुष्पं क्षिपन्नात्मरक्षां कुर्यात्। पुनः ॐ आः हुँ इत्यात्मरक्षादिमन्त्रः। (सा. मा., पृ. १०२)

आदिकर्म

आदिकर्म यथोद्दिष्टं कर्तव्यं सर्वयोगिभिः।
शून्यताकरुणाभिन्नं यद्बोधौ ज्ञानमिष्यते॥...
पञ्च पारमिताः प्रोक्ता आदिकर्मेतिसंज्ञया।
प्रज्ञापारमिता चासां स्वभावो नाभिरिष्यते॥...
दानं शीलं क्षमां वीर्यं ध्यानं प्रज्ञां च सादरम्।
सततं सेवयन् धीमान् सुखी स्वस्थोऽपि जायते॥
संभोगनिर्मिते हेतुर्दानशीलक्षमात्रयम्।
ध्यानप्रज्ञेति धर्मस्य वीर्यं तूभयर्मतम्॥ (अ. व. सं., पृ. २)

आदिबुद्धः

आदिशब्दोऽनादिनिधनार्थः। अविपरीतान् सर्वधर्मान् बुद्धवानिति बुद्धः। आदिश्चासौ बुद्धश्च आदिबुद्धः। उत्पादव्ययरहितः, सर्वज्ञ इत्यर्थः। नामसंगीतौ च-

अनादिनिधनो बुद्ध आदिबुद्धो निरन्वय इति। (से. टी., पृ. ७)

आधाराधेयभावः

पृथ्वीगर्भो हुताशो भवति न धरणिमारुती शून्यगर्भो....
वायोः शून्यं नरेन्द्र प्रभवति हि तथाधार-आधेयभावः॥
स्कन्धाधारो हि भौतो भवति वरतनौ भूतवृन्दस्य नाड्यो...
भर्ताधारस्तयोश्च त्रिभुवननमितोऽनाहतः सर्वगो यः॥ (का. त. २.१८-१९)

आनन्तर्यम्

मातृपितृभिक्षुवधप्रतिमाभेदसद्धर्मप्रतिक्षेपकाख्यानि पञ्च कर्माणि मरणानन्तरं नरकपातनादानन्तर्याणि। अत्रोपचारादानन्तर्यशब्दस्तत्कारिषु वर्तते। प्रभृतिशब्देनोपानन्तर्यपरिग्रहः।

दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम्।
बोधिसत्त्वस्य शैक्षस्य सद्य आपद्विहारिका॥
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम्।
उपानन्तर्यान्येतानि महापापकृता इति॥ (गु. स. प्र., पृ. ४६-४७)

आनन्दचतुष्टयम्

चतुर्दलोष्णीषपद्ममध्यात् षोडशदलललाटाब्जमध्ये शुक्रस्य नन्दाभद्राजयारिक्तापूर्णाख्यपञ्चकलस्यागमनमुभयव्याप्तिः प्रथमानन्दम्। द्वात्रिंशद्दलकण्ठाब्जादष्टदलहृत्पद्मे पूर्ववद् व्याप्तिः परमानन्दम्। ....चतुष्षष्टिदलनाभिपद्माद् द्वात्रिंशद्दलगुह्याब्जे व्याप्तिर्विरमानन्दम्। तत्र विविधरमणं गाढालिङ्गनशीत्कारकण्ठकूजनादिलक्षणं नाभौ, गुह्ये तु बहिरुल्लेखविमुखे सुखं भुज्यते मयेत्युलेखलक्षितं सुखसंवेदनमात्रम्। ...न तु विगतं रमणं सुखम्। ततो गुह्यपद्मादष्टदलवज्रमण्यन्तर्गताब्जं यावत् षोडशकलस्येन्दोरागमनं सहजानन्दम्। धारणाया बलेन बाह्यगतेरभावादच्युतम्। (से. टी., पृ. ५४-५५)

आनन्दास्तत्र जायन्ते क्षणभेदेन भेदिताः।
क्षणज्ञानात् सुखज्ञानमेवंकारे प्रतिष्ठितम्॥
विचित्रे प्रथमानन्दः परमानन्दो विपाकजे।
विरमानन्दो विमर्दे च सहजानन्दो विलक्षणे॥ (दो. को. व्या., पृ. ६८)

चत्वार आनन्दाः--आनन्दः, परमानन्दः, विरमानन्दः, सहजानन्दश्चेति। (हे. त. १.१.२८)

आनन्दाः

आनन्दाश्चत्वारः--आनन्दः, परमानन्दः, सहजानन्दः, विरमानन्दः। अन्यथा--"परमविरमयोर्मध्ये लक्ष्यं वीक्ष्य दृढीकुरु" इति यदुक्तम्, तत्सम्गतं न भवति। (अ. व. सं., पृ. ३२)

आयामः

ऊर्ध्वाधो ललनादिषण्णाडीषु वक्ष्यमाणक्रमेण प्राणापानवायोः संक्रमणमायाम इति, 'यम उपरमे' इत्यस्य धातोः। आसमन्ताद् यमनमायामः प्राणापानवायोर्मध्यनाड्यां प्रवेशः। (से. टी., पृ. ४)

आरोलिक्

आ समन्ताद् रोः संसारः, तस्माल्लिग् गच्छतीति आरोलिक्, नेयार्थः। रो इति ज्ञानत्रयम्, तस्मात् परमार्थसत्यं गतवानिति, नीतार्थः। (गो. स. प्र., पृ. २४)

आर्यपथम्

अतीताद्यर्थानां यथावत् प्रकाशनमार्यपथम्। (गु. स. प्र., पृ. १७१)

आर्यसत्यचतुष्टयम्

चतुरार्यसत्यानि--दुःख-समुदय-निरोध-मार्गाश्चेति। (हे. त. १.१.२६)

आर्याष्टाङ्गामार्गः

तत्र भावनामार्गे ज्ञेयावरणं निःस्वभावमिति या धीः सा सम्यग्दृष्टिः, परलोकास्तित्वदृष्टिश्च। तद्दृष्ट्यलब्धोऽपि नैरात्म्यालम्बनः सम्यक्संकल्पः। स्वदृष्टार्थ प्रकाशिका सत्त्वेभ्यो देशना सम्यग्वाक्। एकान्तशुभं कायकर्मान्तः, ऋद्ध्यादिभिर्विनयनार्थं परेषां त्रासनं वा सम्यक्कर्मान्तः। ध्यानाहारित्वमात्रया चीवराद्यन्वेषण सम्यगाजीवः। सर्वेर्यापथेषु स्वचित्तकायवाक्चित्तव्यापारनियोजनं सम्यग्व्यायामः। ....भावनामार्गे आलम्बनासम्प्रमोषः सम्यक्स्मृतिः। तदेकाग्रचित्तमचलितवज्रोपमसमाधिः, समन्तप्रतिभासाया भूमेर्यदन्तरं प्रादुर्भवति। (व. ति. टी., पृ. ५६)

आलिः

आलिना लोकज्ञानेन। (च. को. व्या., पृ. २४)
अकारादिषोडशस्वरा आलिः। (हे. त. टी., पृ. ६a)
आलिर्वामनासापुटप्रभवो वायुः। (हे. त. टी., पृ. ९b)
अकारादिपञ्चदशस्वरा आलिः। ....आलिश्चन्द्रः। (हे. त. टी., प. १५a)
स्थितालिश्चन्द्ररूपेण। (हे. त. १.८.५)
प्रज्ञा आलिः। (हे. त. १.८.११)

आलिकाली

ते एव ललनारसने चन्द्रसूर्यौ प्रज्ञोपायौ। (हे. त. टी., प. ६a)

आवेशः

एवं स्यादावेश उत्कलिका प्रकम्पनं बाष्पः।
पातो ज्ञानोत्पादः सारूप्यं चापि परिपाट्या॥

तत्र त्रिविध आवेशः --कायावेशः, वागावेशः, चित्तावेशश्च। तत्र कायावेशे उत्कलिका रोमाञ्चो भवति प्रकम्पनं गात्राणां स्यात्, हर्षाश्रुपातः, भुवि पतित्वा याति। चित्तावेशे ज्ञानोत्पादः स्वरूपप्रतिभानं स्वयमेव स्यात्। वागावेशेऽपूर्वप्रवचनं सारूप्यं सदृशं सर्वज्ञज्ञानप्रतिपादनम्। (त. सं. टी., पृ. २४-२५)

आश्वासः

सर्वावरणविनिर्मुक्तः सर्वबुद्धबोधिसत्त्वसमयस्त्वमितः प्रभृति (इति) बोधनार्थमाश्वासः। (अ. व. सं., पृ. ३८)

आसनम्

आसनं धर्मोदया। (त. सं. टी., पृ. ५)

उत्तमम्

यस्य यद् दुष्परित्याज्यं तदुत्तममिति स्मृतम्। (ज्ञा. सि. १७.१५)

उत्पत्तिक्रमः

क्रमः प्रकारः। कस्य क्रमः ? समाधेः। चन्द्रचिह्नबीजादिपरिणामेन देवताकारनिष्पत्तिरुत्पत्तिः, सा यस्मिन् समाधावस्ति स उत्पत्तिक्रमः। (हे. त. टी., प. २३a)

उत्पन्नक्रमः

उत्पन्नस्वभाविकमेव रूपम्। तदेव तत्त्वरूपेणाधिमुच्यते भाव्यते यस्मिन् योगे (स) उत्पन्नक्रमः। (हे. त. टी., प. २३a)

उत्पन्नक्रमः सहजो निर्विकल्पः सर्वाकारो मुखभुजवर्णसंस्थानकल्नपारहित इति। (वि. प्र., पृ. २०)

उत्पलम्

उत्पलं प्लवनात् ततः। (ज्ञा. सि. १५।२५)

उद्देशनिर्देशौ

सर्वस्मिन्नेव योगियोगिन्यादितन्त्र उद्देशस्त्रिविधः, निर्देशोऽपि। तत्रोद्देशः स्वनाम्नैव कथितः। प्रत्युद्देशो द्वितीयः। महोद्देशस्तृतीयः। एवं निर्देशोऽपि स्वनाम्नैव व्याख्यातः। प्रतिनिर्देशो द्वितीयः। अपर इति महानिर्देशस्तृतीयः। उद्देशनिर्देशौ द्वावेव तन्त्रसंगीतिः। तत्रोद्देशेन संगीतिः समस्तलघुतन्त्रम्। यथाऽष्टादशशत ग्रन्थश्रीसमाहादिका। निर्देशेन संगीतिः सकलमूलतन्त्रराजदेशना। यथा पञ्चविंशतिसहस्रश्रीसमाहादिका। एवं प्रत्युद्देशेन लघुतन्त्रे पञ्जिका। इह निर्देशः प्रतिनिर्धेशोऽभिमतः। तेन मूलतन्त्र पञ्जिका। तथा महोद्देशेन लघुतन्त्रे टीका। इह निर्देशो महानिर्देशोऽभिमतः। महानिर्देशेन मूलतन्त्र टीका। (से. टी., पृ. ४-५)

उद्धारः (मन्त्रः)

टाक्कि हूं जः इति मन्त्र उद्धारसंज्ञकः। तथा चोक्तम् --

स्वहा नास्ति न चोङ्कारो यस्य स उद्धार उच्यते। (गु. स. प्र., पृ. १५१)

उपायः

उपायनयत्यभिमतं यन्नौकेवानुकूलतः।
सदानुकूलयोगेन सैवोपायः प्रकीर्तितः॥ (प्र. वि. सि. १.१६)
उपायः पुरुसः स्मृतः। (स. सि. १.६)
उपायोऽपि चतुर्विधो बोधिवज्रेण वर्णितः।...
सेवाविधानं प्रथमं द्वितीयमुपसाधनम्।
साधनं तृतीयं चैव महासाधनं चतुर्थमिति।...
प्रथमं शून्यताबोधिर्द्वितीयं वज्रसंहतिः।
तृतीयं बिम्बनिष्पत्तिश्चतुर्थं न्यासमक्षरम्॥
एभिर्वज्रचतुष्केण ज्ञाननिष्पत्तिरुच्यते। (अ. प्र. वि. सि., पृ. २११)
भावलक्षन उपायः। ....स्वभावलक्षण उपायः। (अ. प्र. वि. सि., पृ. २१२)
उपाय इत्यनेन शब्देन कोऽर्थो भण्यते ? श्रीवज्रसत्त्वः संसारभूतः करुणास्वभावः स्थिरवस्तुस्वभावमूर्तिरुपायशब्देनोक्त इति। उपायः श्रीवज्रसत्त्व इति। अ. प्र. वि. सि., पृ. २१६)
....उपायोऽपि श्रीवज्रसत्त्वः सर्वभावस्वभावः। (अ. प्र. वि. सि., पृ. २१७)
उपायो महाकरुणा सर्वसत्त्वेष्आत्मसमतानुभवः। (हे. त. टी., प. ३७b)
उपायः पुरुषः स्मृतः। (हे. त. १.८.२८)

उपासकः

उ ----- उद्युक्तो बुद्धपूजायां उपशान्तोपशायकः।
उपकाराय सत्त्वानामुपायेनान्वितो भवेत्॥

पा----- पापानावर्जयेन्नित्यं पापिष्ठैः सह सङ्गितिम्।
पापान्निवारयन् जन्तोः पापं सर्वत्र देशयत्॥

स-----समारोपविनिर्मुक्तः समाधौ सुसमाहितः।
सर्वदा परमान्दन्दी सम्बोधिं साधयेद् बुधः॥

कः----करोति सर्वदा यत्नं करुणां परिपालयेत्।
कष्टेनापि न चानिष्टं करोत्युपकृतिं पराम्॥ (अ. व. सं., पृ. १०)

उपेक्षा

केयमुपेक्षा ? प्रतिभानुनयनिबन्धनमपहाय हिताहितेषु सत्त्वेषु परमहिताचरणम्। (सा. मा., ऱ्. ५७)

अन्ततोऽसद्व्यासङ्गनिवृत्तिरूपसंहितां ध्यायादुपेक्षां बुधः। (सा. मा., ऱ्. ९७)

निजकार्यमनालोच्योपेक्षामन्यार्थकारिताम्। (सा. मा., ऱ्. १००)

कोपेक्षा? सर्वत्र प्रतिघानुनयपरहितधर्मतायां स्वरसवाहिनी प्रवृत्तिः। (सा. मा., पृ. ११५)

बीजाक्षरमेव मञ्जुघोषरूपेणात्मानं निष्पादयितुमवधाय अष्टलोकधर्मेषु उपेक्षणमुपेक्षा। (सा. मा., पृ. १३८)

उपेक्षाम् असद्व्यासङ्गपरिहानिस्वभावाम्। (सा. मा., पृ. १७३)

कोपेक्षा? प्रतिघानुनयनिबन्धनमपहाय हिताहितेषु जन्तुषु परमहिताचरणमुपेक्षा, यद्वा सर्वस्मिन् प्रेमानुशयरहितपरहितधर्मतायां स्वरसवाहिता प्रवृत्तिरुपेक्षा, अथवा लाभालाभयशोऽपयशोनिन्दास्तुतिसुखदुःखेत्याद्यष्टलोकधर्मप्रमुखसकलाप्रस्तुतव्यापारोपेक्षणमुपेक्षा। (सा. मा., पृ. २०३)

क्लेशप्रतिपक्षमार्गोपसंहाराकारामुपेक्षां भावयेत्। (सा. मा., पृ. २२५)

मित्रोदासीनशत्रुष्वनुनयप्रतिघविरहाकारा संस्कारसमतया सत्त्वमात्रमेतदित्याकृतिरुपेक्षा। (सा. मा., ऱ्. ३८५)

उपेक्षां......सकलक्लेशोपक्लेशप्रतिपक्षमाग्रोपसंहाराकाराम्। (हे. त. टी., प. १३b)

उलूकास्या

सम्यगाजीव उलूकास्या। (व. ति., पृ. ५६)

उष्णीषकमलम्

महासुखं वसत्यस्मिन्निति महासुखवास उष्णीषकमलम्। तत्र सर्वशून्यालयो डाकिनीजालात्मकजालन्धराभिधानं मेरुगिरिशिखरमित्यर्थः। (दो. को. व्या., पृ. १५१)

ऊष्मा

उदरे जठराग्नेस्तद्वाहित्वादूष्मा कण्ठे। (व. ति. टी., पृ. ४५)

ऋद्धिः

ऋद्धिराकाशगमनादिकम्। (से. टी., पृ. ४७)

ऋद्धिपादाः

चत्वार ऋद्धिपादाः -- छन्द-ऋद्धिपादः, वीर्य-ऋद्धिपादः, मीमांसा-ऋद्धिपादः, चित्त-ऋद्धिपादश्चेति। छन्दसमाधिप्रहाणेयः संस्कारसमन्वागत ऋद्धिपादः। वीर्यसमाधिप्रहाणेयः संस्कारसमन्वित ऋद्धिपादः। मीमांसासमाधिप्रहाणेयः संस्कारसमन्वित ऋद्धिपादः। चित्तसमाधिप्रहाणेयः संस्कारसमन्वित ऋद्धिपादः। (व. ति. टी., पृ. ५३)

विवेकनिश्रितो विरागनिश्रितो निरोधनिश्रितो व्यवसर्गपरिणतश्च संस्कृतवस्तुविसंयोगाद् द्रव्यसर्गतत्प्रहाणे समन्वागत ऋद्धिपाद इति पञ्चाङ्गः। संपिण्ड्य विंशतिप्रकाराश्चत्वार ऋद्धिपादाः। (व. ति. टी., पृ. ५४)

अर्धनमृद्धिः, 'ऋधु वृधौ' इति धातुपारायणे पाठात्। ततश्च सर्व एव दशबलवैशारद्यादयो बुद्धगुणा यस्यां वृद्धिमुपयान्ति सर्द्धिः सम्यक्संबोधिः, तस्याः पादा इव पादाः प्राप्तिहेतव इति ऋद्धिपादाः। (व. ति. टी., पृ. ५४)

एकवृक्षः

यस्य छाया नान्येन वृक्षेणक्रम्यते, यश्च नान्यस्याक्रामति, स एकवृक्षः। (हे. त. टी., प. २१b)

ए-कारम्

ए-कारं भगमित्युक्तम्। (हे. त. टी., प. २a)

एकारः

एकार-रहस्य-पद्म-धर्मोदय-खधातु-महासुखावास-सिंहासन-भग-गुह्यसंज्ञानां मध्ये नैका एकारसंज्ञा प्रधाना, सर्वासां सर्वाकारशून्यताप्रतिपादकत्वात्। ....एवमेकारवंकारयोः सर्वाकारवरोपेता शून्यता-सर्वधर्मनिरालम्बकरुणाऽभिन्नभोधिचित्तभावप्रतिपादकत्वात्। (वि. प्र., पृ. ३४)

ए रहस्ये खधातौ वा भगे धर्मोदयेऽम्बुजे।
सिंहासने स्थितो वज्री उक्तस्तन्त्रान्तरे मया॥ (वि. प्र., पृ. ३९)

एवम्

शून्यताकरुणाभिन्नरूपिणी महामुद्रेत्थमेवंकारं येन प्रतीयते, तेन योगीन्द्रेण स्कन्धधात्वायतनादीनि प्रतीतानीति। सैव महामुद्रा धर्मकरण्डकरूपा धर्मकायात्। अतस्तेषां करण्डकण्ठानां सैव रसं बोधनं निजप्रभोर्वज्रधरस्य वेश आभरणमलङ्करः, शोभनमिति यावत्। तथा च हेवज्रे--

एकाराकृति यद्दिव्यं मध्ये वं-कारभूषितम्।
आलयः सर्वसौख्यानां बुद्धरत्नकरण्डकम्॥

अन्यत्राप्युक्तम्--

एकारस्तु भवेन्माता वकारस्तु रताधिपः।
बिन्दु चानाहतं ज्ञानं तज्जातान्यक्षराणि च॥ (दो. को. व्या., पृ. ६८)

धर्मस्कन्धसहस्राणां चतुरशीतिसंख्यया।
सर्वास्रयं पिता माता द्व्यक्षरं कथितं तथा॥

एकारस्तु भवेन्माता वकारस्तु पिता स्मृतः।
बिन्दुस्तत्र भवेद् योगः स योगः परमाद्भुतः॥

एकारः पद्ममित्युक्तं वकारो वज्रमेव च।
बिन्दुस्तत्र भवेद्बीजं तत्प्रसूतं जगत्त्रयम्॥

एकारस्तु भवेत् प्रज्ञा वकारः सुरताधिपः।
बिन्दुश्चानाहतं तत्त्वं तज्जातान्यक्षराणि च॥ (गु. स. प्र., पृ. १३)

एवंकारः

एवंकारो वज्रसत्त्वो बोधिचित्तं कालचक्र आदिबुद्धः प्रज्ञोपायात्मको योगो ज्ञेयज्ञानात्मकोऽद्वयोऽनादिनिर्धनः शान्तः समाजः संवर एवमाद्यनेकसंज्ञाभिः प्रज्ञोपायात्मकोऽद्वयो योगो निरन्वयो योगिनाऽवगन्तव्य इति। (वि. प्र., पृ. ३४)

मूलतन्त्र भगवानाह--

एकारो मध्यवंकारः सर्वबुद्धसुखालयः।
खधतौ वज्रसत्त्वोऽयं कायवाक्चित्तयोगतः॥ (वि. प्र., पृ. ३५)

एवं मया

एकारेण लोचना देवी वंकारेण मामकी स्मृता।
मकारेण पाण्डरा च याकारेण तारणी स्मृता॥ (हे. त. १.१.२२)

एकारं भगमित्युक्तं वंकारं कुलिशं स्मृतम्।
मयेति चलनं प्रोक्तं वज्रधरस्य लक्षनम्। (हे. त. टी., प. २a)

एकारः पृथिवी ज्ञेया कर्ममुद्रा तु लोचना।
चतुष्षष्टिदले नाड्यः स्थिता निर्माणचक्रके॥

वंकारस्तु जलं ज्ञेयम् धर्ममुद्रा तु मामकी।
संस्थिता धर्मचक्रे तु हृदि वाष्टलाम्बुजे॥

मकारं वह्निरुद्दिष्टं महामुद्रा च पाण्डरा।
स्थिता संभोगचक्रे तु कण्ठे द्व्यष्टदलाम्बुजे॥

याकारो मारुतः प्रोक्तो मुद्रा समयतारिणी।
स्थिता महासुखचक्रे द्वात्रिंशद्दलपङ्कजे॥ (हे. त. टी., प. २b)

ऐरावती

ऐरावती ऐरावत इव वेगवाहिनी। (व. ति. टी., पृ. ४७)
प्रज्ञेन्द्रियमैरावती। (व. ति., पृ. ५४)

ओडियानः

ओडियानस्तथा चैष दक्षिणकर्ण उच्यते। (व. ति., पृ. ३१)

सव्यकर्णमार्गेण चण्डाल्या ओड्याख्ये खेचरवृत्त्या यानं बहिर्निर्गमनम्, तत्र उड्डियनं च दक्षिणकर्णः। (व. ति. टी., पृ. ३१)

ओडियाने महापीठे प्रभावती व्यवस्थिता।
दक्षिणकर्णमाश्रित्य स्थिता त्वङ्मलधारिणी॥ (व. ति, पृ. ४२)

ओड्रम्

स्तनावोड्रः प्रकीर्तितः। (व. ति., पृ. ३३)
ओड्योर्ध्वगमनेन राति स्वीकरोति चण्डालीति ओड्रं स्तनद्वयम्। (व. ति. टी., पृ. ३३)

ओड्रे पित्तवहा नाडी महाभैरविका स्मृता। (व. ति., पृ. ४४)

कक्कोलम्

पद्म कक्कोलकं मतम्। (हे. त. २.३.६०)
कक्कोलं सर्वधर्माणां प्रकृतिः। (हे. त. टी., प. ५२ a-b)
मुंमुणि नाभौ अंकारः कक्कोलः। (हे. त. टी., प. ५४b)
कर्णमूलं प्राप्य त्वङ्मलं प्रेरयतीति कङ्कालः। (व. ति. टी., पृ. ४८)

कङ्कालः

कङ्कालदण्डरूपो हे सुमेरुर्गिरिराट् तथा। (व. ति., पृ. ६२)

कपालः

कपालं पद्मभाजनम्।(हे. त. २.३.५८)
कं मुखं पालयतीति कपालं कमलम्। (हे. त. टी., प. ६२a)

कबन्धः (मन्त्रः)

स्वाहास्ति नास्ति प्रणवः कबन्ध इति संवृतिबोधिचित्तम्, गुरुसम्प्रदायात्। (च. को. व्या., पृ. १०३)

करुणा तु कीदृशी ? अगाधापारसंसारसागरमध्ये पतितानन्तसत्त्वधातून् समुद्धरामीत्यध्याशयः। (सा. मा., पृ. ५७)

दुःखादुःखनिदानतोऽपि जगतामभ्युद्दिधीर्षा दयाम्। (सा. मा., पृ. ९७)

दुःखहेतोर्दुःखाच्च कृपामुद्धर्तुकामनाम्। (सा. मा., पृ. १००)

का करुणा? या त्रिदुःखदुःखितानां सत्त्वानां संसारसागरादुद्धरणकामना। (सा. मा., पृ. ११५ )

तत्र दुःखाद् दुःखहेतोः समुद्धरणलक्षणा करुणा। (सा. मा., पृ. १३८)

करुणां दुःखाद् दुःखहेतोः समुद्धरणकामनाम्। (सा. मा., पृ. १७२)

करुणा पुनः कीदृशी ? दुह्खाद् दुःखहेतोः समुद्धरणकामना, त्रिदुःखदुःखमहानलप्रज्वलितसंसारलोहभवनप्रविष्टान् जन्तून् ततोऽपि समुद्धरामीत्यध्याशयो वा करुणा, अथवा त्रिदुःखदुःखितानां सत्त्वानां संसाराम्बुधेः समुद्धरणेच्छा। (सा. मा., पृ. २०३)

परदुःखापनयसमीहा करुणा। (सा. मा., पृ. ३१५)

परदुःखनाशक्रियां करुणाम्। (सा. मा., पृ. ३८५)

करुणा नाम सर्वसत्त्वान् अस्मिन्नेव ज्ञानराजे प्रतिष्ठापयिष्यामि, सर्वसुखोपधानैश्च परिवारयिष्यामीति सम्यगाशयः। (ज्ञा. सि. पृ. १३५)

सर्वदुःखापनयनाकारां करुणाम्। (हे. त. टी., प. १३b)

सालम्बनभावना करुणा। (हे. त. टी., प. २३b)

कर्ता

आलयविज्ञानलक्षणः शुक्रच्युतिक्षणः सहजानन्दो लोकसंवृत्येति। (वि. प्र., पृ. २१५)

कर्पूरम्

शुक्रं कर्पूरकं मतम्। (हे. त. २.३.५९)
कर्पूरं..........................सर्वयोगिनीसंभवम्।
सहजानन्दस्वभाअं चाव्ययं पीवरं खगम्॥ (हे. त. २.४.२७)
कर्पूरमेव नैरात्मा सुखं नैरात्मरूपिणम्।
तस्य सौख्यं महामुद्रा संस्थिता नाभिमण्डले॥ (हे. त. २.४.४०)

कर्म

कर्म कायवाक्चित्तचिन्ता (अ. व. सं., पृ. ३२)

ईर्या च कायिकं कर्म वाचिकं धर्मदेशना।
समादानं मनःकर्म निर्विकल्पस्य धीमतः॥ (अ. व. सं., पृ. ५४)
अमोघः कर्म इत्युक्तम्। (स. सि. २.८)

कर्मज्ञानमहामुद्रासिद्धिः

कर्ममुद्रा स्तनकेशवती। ज्ञानमुद्रा स्वचित्तपरिकल्पिता। महामुद्रा विकल्परहिता प्रतिसेनास्वरूपिणी। आसां त्रिविधा सिद्धिः --कामावचरा कर्ममुद्रासिद्धिः, रूपावचरा रूपभवभवलक्षणा ज्ञानमुद्रासिद्धिः, भावाभावरहिता सर्वाकारवरोपेता महामुद्रासिद्धिरिति। (वि. प्र,, पृ. २१)

कर्ममुद्रा

कर्ममुद्रा स्तनकेशवती कामधातुसुखस्य हेतुः। कर्म चुम्बनालिङ्गनगुह्यस्पर्शवज्रास्फालनादिव्यापारात्मकम्, तेनोपलक्षिता मुद्रा प्रत्यकारिणी। प्रत्ययोऽत्र क्षरसुखलक्षणः। मुदं सुखविशेषं रतिं ददातीति मुद्रा। (से. टी., पृ. ५६)

कर्म कायवाक्चित्तचिन्ता। तत्प्रधाना मुद्रा कल्पनास्वरूपा। तस्यां कर्ममुद्रायाम् --

आनन्दा[स्तत्र] जायन्ते क्षणभेदेन भेदिताः।
क्षणज्ञानात् सुखज्ञानमेवंकारे प्रतिष्ठितम्॥ .....

तस्मात् कर्ममुद्रां प्राप्य निष्पन्दफलमुत्पद्यते। सदृशस्पन्दो निस्पन्दः। ...कर्ममुद्रया कृत्रिमया कथमकृत्रिमभूतं सहजाख्यं ज्ञानमुत्पद्यते। ...कर्माङ्गनाया आनन्दसन्दोहरत्नाकरं सरोरुहम्। तत् स्वच्छमास्थानं बोलकक्कोलरससंयोगेन अवधूत्या संवृतिबोधिचित्तमण्यन्तर्गतं यदा भवेत्, तदा क्षणिकनामापरं सहजाख्यं ज्ञानमुत्पद्यते। न तत् सहजं निस्पन्दम्। तत्स्वरूपेण प्रज्ञाज्ञानानन्दत्रयं क्षणचतुष्ट्यान्वितं सेके। हठयोगे च कर्ममुद्राया निस्पन्दफलमुक्तम्। (अ. व. सं., पृ. ३२-३३)

कर्ममुद्रया क्षारसुखावस्था। (से. टी., पृ. ६२)

कलशाभिषेकः

उदुक-मुकुट-वज्र-घण्टा-नाम-आचार्यलक्षणाः षट् कलशाभिषेकाः। ....एषां सर्वेषां कलशव्यापारात् कलशाभिषेकसंज्ञा। अवैवर्तिकाभिषेकाश्चैते षट्तथागतस्वभावत्वात्। तथाहि--उदकाभिषेक आदर्शज्ञानात्मकोऽक्षोभ्यस्वभाअः। मुकुटाभिषेकः समताज्ञानात्मको रत्नसंभवस्वभावः। वज्राभिषेकः प्रत्यवेक्षणाज्ञानात्मकोऽमिताभस्वभावः। अधिपत्यभिषेकः कृत्यानुष्ठानरूपोऽमोघसिद्धस्वभावः। नामाभिषेकोऽविद्यानिरोधाद् विद्यानुगताविसुद्धधर्मधातुज्ञानात्मको वैरोचनस्वरूपः। आचार्याभिषेकस्तु वज्रज्ञानस्वभावः। अत्र च पञ्चाभिषेकः,3 पञ्चसु लोचनादिविद्याया व्यापारात्। अत्र च अविद्यामलक्षालनायाक्षोभ्यरूपेण वज्राचार्येण वैरोचनरूपावलम्बिनि शिष्ये सलिलाभिषेको देयः। एवं सर्वत्राहङ्कार आगामि बुद्धभावोऽचित्तोष्णीषभूतो मुकुटाभिषेकः। .....वज्राभिषेकस्य विधानमुत्पश्यमानाभेद्यज्ञानबीजाधानमिव विधातुम्। एवं वज्रघण्टाऽपि पूर्वाभिसन्धानेन द्वादशाङ्गुलपरिमाणाऽधोमुखाम्भोजवज्रसमापत्तिनिःस्वभावत्वेन सर्वधर्मस्वभावं प्रतिपादयितुमभेद्यज्ञाननिगदतां धर्मोदयस्य बोधयितुं मूर्धाधोभागे च वज्रावलीयुगलमालिनी। ....अथाभिषेकमनया स्वनन्त्या वज्रघङ्टया कुर्वीत। अनुत्तराशेषधर्मबोधाद् विकारकमिह प्राधान्यख्यापनाय हेतुकताप्रतिपादनाय च कारणभूतमपि वज्रघण्टाभिषेकमुल्लङ्घ्य प्रथमं वज्राभिषेकदानम्। सर्वधर्मा नामत इति प्रतिपादनार्थं भविष्यन्मुनीन्द्रपदोचितनामनिदानावदानार्थं च पूर्वनामव्यपनयेन स्वदेवताकुलगोत्रानुसारेण नामाभिषेकः। आचार्याभिषेकश्च वज्रसमय-घण्टासमय-मुद्रासमय-भव्यतानुज्ञा-व्रतव्याकरण-आश्वासलक्षणः। (अ. व. सं., पृ. ३६-३८)

कलिङ्गम्

कलिङ्गस्तु मुखं प्रोक्तम्। (व. ति., पृ. ३३)

कं सुखं लिङ्गयति गमयतीति कलिङ्गं (मुखम्), सेवाकाले तद्दर्शनादेवानन्दोत्पत्तेः। (व. ति. टी., पृ. ३३)

श्यामादेवी कलिङ्गे तु पार्श्वतस्तु समाश्रिता। (व. ति., पृ. ४५)

कलियुगसमयः

कलियुगसमय इति कोऽलिः कलिः, ककारादिव्यञ्जनपङ्क्तिरिति। ककारो मुखं सर्वव्यञ्जनानाम्, आदौ निर्दिष्टत्वात्; रजःस्वभावाद् वा वेदितव्य इति। तथा अस्य समयोऽसमयः, स्वरमेलापक इत्युच्युते। अत्र कोऽलिः -- क् ख् ग् घ् ङ् च् छ् ज् झ् ञ् ट् ठ् ड् ढ् ण् ह् ब् भ् म् त् थ् द् ध् न् श् ष् स् क इति कोऽलिर्व्यञ्जनपङ्क्तिः। अत्रासमयः -- अ आ इ ई ऋ ॠ उ ऊ ऌ ॡ अं अः; अ आ ए ऐ अर् आर् ओ औ अल् आल् अं अः; ह हा य या र रा व वा ल ला ह हः इति असमयः स्वरमेलापकः। अस्मिन्नसमये कलिं युनक्तीति कलियुगसमयः। (वि. प्र., पृ. ४६)

कल्पना

कल्पना बुद्धिविकुर्वणादिक्रिया। (गु. स. प्र., पृ. २११)

कषयपञ्चकम्

क्लेशकल्पसत्त्वतृष्णायुर्लक्षणम्॥ (से. टी., पृ. ३)

पञ्चकषायाः--क्लेशकषयः, दृष्टिकषायः, सत्त्वकषायः, आयुःकषयः, कल्पकषायश्चेति। (धर्मसंग्रह, म. सू. भा. १, पृ. ३३५)

कस्तूरिका

मूत्रं कस्तूरिका स्मृता। (हे. त. २.३.५९)

काकास्या

सम्यक्कर्मान्तः काकास्या। (व. ति., पृ. ५६)

काञ्ची

हृदयं काञ्चिरुच्यते। (व. ति., पृ. ३३)

कं सुखमञ्चति गच्छति धावति, कदलीपुष्पसंकाशलम्बमानाधोमुखस्रवदमृतबिन्दुहूँकाराकारमारदारिकानालिकासमन्वागतत्वाद् हृदयम्। (व. ति. टी., पृ. ३४)

हयकर्णा तु काञ्चीस्था विष्ठां वहति सर्वदा। (व. ति., पृ. ४५)

कात्यायनी

सिङ्घाणकस्यात्ययनाद्यावत् कात्यायनी जानुद्वये। (व. ति. टी., पृ. ४६)

कापालिकः

कं सुखं पालितुं समर्थ इति कापालिकः। (च. को. व्या., पृ. ३६)

कं संवृतिबोधिचित्तं पालयतीति कापालिकः। (च. को. व्या., पृ. ६३)

कामधातुः (षड्विधः)

चातुर्महाराजकायिकत्रायस्त्रिंशद्यामतुषितनिर्माणरतिपरनिर्मितवशवर्तीति षड्विधः कामधातुः। (गु. स. प्र., पृ. १६९)

कामधात्वीश्वरः

कामधातुः सर्वाः स्त्रियः, तासु विश्वरमणेश्वरो भवति। (गु. स. प्र., पृ. ५९)

कामरताः

तथतैकस्वभावा ये तथतानित्ययोगिनः।
ते ते कामरताः सत्त्वाः श्रेष्ठाः स्युरग्रसाधने॥ (गु. स. प्र., पृ. ४७)

कामरूपः

कामरूपो मतः कक्षौ। (व. ति., पृ. ३३)

कामं रूपमभिलषणीयं दर्शनं यस्य स कामरूपः कक्षद्वयम्। (व. ति. टी., पृ. ३३)

चक्षुर्वहति या नाडी कामरूपे व्यवस्थिता।
ऐरावतीति विख्याता रूपदर्शनभाविता॥ (व. ति., पृ. ४४)

कामाः

रूपादीनि कामयन्ति प्रार्थयन्तीति कामाश्चातुर्महाराजकायिकादयो देवाः। (गु. स. प्र., पृ. ८६)

कामाहारः

काम्यन्तेऽभिलष्यन्त इति कामा रूपादयो विषयाः, तेषामिन्द्रियैर्यदाहरणं स कामाहारः। (से. टी., पृ. ३१)

कायः

संस्कारो वेदना संज्ञा रूपं विज्ञानमेव च।
पञ्चज्ञानमयः कायः पञ्चबुद्धोऽद्वयोत्तमः॥ (अ. क्र. ७३)

कायचक्रम्

कायचक्रे तु डाकिन्यो बाह्याः पातालवासिकाः। (व. ति., पृ. ४८)

मेलापकोपमेलापकश्मशानोपश्मशानाख्येष्वष्टौ नाड्यः पातालवासिन्यः कायचक्रे। (व. ति. टी., ४६)

कायचतुष्टयम्

निर्माण-संभोग-धर्म-स्वाभाविकभेदेन कायश्चतुर्धा। (से. टी., पृ. २७)

जाग्रदवस्थाक्षयेण विकल्परहितः कायबिन्दुनिरोधाल्ललाटे निर्माणकायः। एवं सति स्वप्नावस्थाक्षयात्मकः प्राणस्य लयो वाग्बिन्दुनिरोधात् कण्ठे संभोगकायः। जाग्रत्स्वप्नावस्थायां शब्दादिविषयान् विरचच्चलं च्युतिधर्मकं तमोऽभिभूतं चित्तमष्टादशधातुविकारापन्नम्, तस्य बन्धस्तमोऽपगमः सुषुप्तक्षयश्चित्तबिन्दुनिरोधाद् हृदये धर्मकायः। ..... कायादिबिन्दूनां च्यवनं तस्य बन्धः सहजसुखेन तुर्यावस्थाक्षयः। स्वरगतज्ञानबिन्दुनिरोधान्नभौ सहजकाय इति 'चतुःकायात्मकः। (से. टी., पृ. ८)

असंस्कृततथागतात्मकत्वाद् धर्मकायः, प्रतिभासमात्रत्वात् संभोगकायः, कल्पितनिर्माणकायत्वान्निर्मानकायः, कायत्रितयैकरसत्वात् स्वाभाविककायः। तदुक्तम् --

असंस्कृतमनोधर्मश्चोपसम्भोगलक्षनः।
तदेव निर्मितं चित्रं बीजः सर्वस्वभावतः॥ (अ. व. सं., पृ. ४०)

अत एव धर्माणामाश्रयः कायो धर्मकाय इत्याचक्षते। ....तस्माद् युगनद्धकाय एव धर्मकायः साम्भोगिकस्वाभाविकाभ्यां पृथग्भूतो योगिप्रत्यात्मवेद्यः। (से. टी., पृ. ५७)

गर्भे संशुद्धकायः प्रसवनसमयाद् दन्तभावे च धर्मः। ......
दन्तेभ्यो मृत्युसीम्ने भवति जिनपतेर्बाह्यनिर्माणकायः॥

कायतरुः

रूपादयः पञ्च स्कन्धा षड् इन्द्रियाणि धातवो विषयाश्च ग्राह्यग्राहकग्रहणोपलक्षितपल्लवत्वात् कायस्तरुवरत्वेन गृहीतः। (च. को. व्या., पृ. २)

कायद्वारम्

एकस्तम्भं नवद्वारं स्थूलं पञ्चाधिदैवतम्।
नवस्रोतोगतं द्वारं नवद्वारं प्रकीर्तितम्॥
अधमं कायिकं द्वारं स्थूलं दैवतनिर्मितम्। (व. ति., पृ. १९-२०)

तस्मिन् (कायद्वारे) चक्षुरादिनाड्योऽष्टौ दक्षिणेषु चक्षुःश्रोत्रघ्राणेषु वामेषु च, वक्त्रगुदयोश्च तन्नाम्ना प्रसिद्धा एव समयचक्रस्था ज्ञातव्याः, विषयोपभोगलक्षणसमयस्यानुष्ठानात्। (व. टि. टी., पृ. ४६)

कायानुस्मृत्युपस्थानम्

.......उभयधर्मरहितत्वाच्छून्योऽयं काय इति याऽनुस्मृतिस्तस्या उप समीपे चित्तस्य स्थानं कायानुस्मृत्युपस्थानम्। (व. ति. टी., पृ. ५२)

कालचक्रः

धर्मधातावाकाशलक्षणो परमोऽक्षरोऽच्युतक्षणः काल इत्युच्यते। तदेव वज्रज्ञानम्। तस्य कालस्य निरावरणस्कन्धधात्वायतनं चक्रं त्रिभवस्यैकत्वं निरावरणज्ञेयम्। तदेव वज्रधातुमहामण्डलमित्युच्यते। सर्वाकारं सर्वेन्द्रियं बिन्दुरूपं विश्वमायाधरं भगवतः शरीरं प्रज्ञोपायात्मकम्। (से. टी., पृ. ३)

करुणा शून्यतामूर्तिः कालः संवृतिरूपिणी।
शून्यता चक्रमित्युक्तं कालचक्रो।द्वयोऽक्षरः॥

एकैकाक्षरसंख्यया वा--

काकारात् कारणे शान्ते लकारल्लयोऽत्र वै।
चकाराच्चलचित्तस्य क्रकारात् क्रमबन्धनैः॥

कारणं बोधिचित्तकाय इत्युक्तम्। शान्तं जाग्रदवस्थाक्षयेण विकल्परहितम्। चतुःकायात्मकः स एव कालचक्रो भगवान् प्रज्ञोपायात्मको ज्ञानज्ञेयसम्बन्धेनोक्तः। उपायः करुणात्मकः षडभिज्ञात्मा। ज्ञेयाकारं जगच्चक्रम्, ज्ञेयं त्रैधातुकमनन्तभावलक्षणम्। तदेव प्रज्ञा शून्यात्मिका सर्वाकारात्मिका। अनयोरेकत्वं कालचक्रमित्युक्तम्। (से. टी., पृ. ८)

करुणा शून्यतामूर्तिः कालः संवृतिरूपिणी।
शून्यता चक्रमुत्युक्तं कालचक्रोऽद्वयो मतः॥ (वि. प्र., पृ. ८)

कालः परमाक्षरो महासुख[ल]क्षणः, तेनोत्पादितं निरावरणं स्कन्धधात्वादिकं चक्रं यस्य शरीरम्, असौ कालचक्रः। अन्यच्च, प्रत्येकैकैकाक्षरेण--

काकारात् कारणे शान्ते लकाराच्च लयोऽत्र वै।
चकाराच्चलचित्तस्य क्रकारात् क्रमबन्धनात्॥

क्रमः कायादीनां बिन्दूनां च्यवनम्, तस्य बन्धः सहजसुखेनेति कालचक्रः। (वि. प्र., पृ. १७)

एवं कर्मास्तिवादी भवति स भगवानेकशास्ता न कर्ता
सर्वज्ञश्चादिबुद्धस्त्रिभुवननमितः कालचक्री न चक्री।
ब्रह्मा विष्णुश्च रुद्रः शरणमधिगतो यस्य पादाब्जमूले
तं वन्दे कालचक्रं जिनवरजननं निर्गुणं निर्विकल्पम्॥ (का. त. २.९२)

ज्ञानकायो भगवान् सम्यक्सम्बुद्धो देवासुरनागादिभिर्नमस्कृतचरणारविन्दः कालचक्र इति। (वि. प्र., पृ. २२५)

कालचक्रैकवीरः

उत्पादक्षयहेतुभूतः संसारिणां कालचक्रैकवीरः। (वि. प्र., पृ. २१२)

कालिः

कालिना लोकाभासेन। (च. को. व्या., पृ. २४)
ककारादिचतुस्त्रिंशद्व्यञ्जनानि कालिः। (हे. त. टी., प. ६a)
आलिर्वामनासापुटप्रभवो वायुः। तदपरः कालिः। (हे. त. टी., प. ९b)
ककारादिचतुस्त्रिंशद्व्यञ्जनानि कालिः। कालिः सूर्यः। (हे. त. टी., प. १५a)
कालिरूपेण भास्करः। ( हे. त. १.८.५)
काली उपायः। (हे. त. १.८.११)

कालिञ्जरः

भव्यं कालिञ्जरं मतम्। (हे. त. २.३.५७)
कालिञ्जराः समयिनः। (हे. त. टी., प. ५४a)
कालिञ्जरो वायुः। (हे. त. टी., प. ५४b)

कुण्डम्

शान्तिके वर्तुलं कुण्डं चतुरस्र तु पौष्टिके।
त्रिकोणं मारणे प्रोक्तं शेषानत्रैव साधयेत्॥

एकहस्तार्थहस्तं वाऽधोर्ध्वे तु शान्तिकं भवेत्।
द्विहस्तमेकहस्तं च अधोर्ध्वे पौष्टिकं मतम्॥

विंशत्यङ्गुलमर्धं च अधोर्ध्वे मारणं भवेत्।
शुक्लवर्णं भवेच्छान्तौ पीतं तु पौष्टिके तथा।

मारणे कृष्णवर्णं च वश्ये रक्तं प्रकीर्तितम्।
यथा वश्ये तथाकृष्टौ द्वेषादौ यथा मारणे॥

तिलं शान्तौ दधि पुष्टौ मारणे कण्टकं तथा।
द्वेषादौ कण्टकं प्रोक्तं वश्य आकृष्टौ चोत्पलम्॥ (हे. त. २.१.६-१०)
कुण्डं च नाभिमण्डलम्। (व. ति., पृ. ६७)

निर्माणचक्रे नाभिमण्डलं वह्निकुण्डम्, तत्र हविषः पातात्। (व. ति. टी., पृ. ६७)

कुन्दुरुः

द्वीन्द्रिययोगं कुन्दुरुम्। (हे. त. २.३.६०)

कुलम्

कुमार्गचन्द्रादिकं यस्यामवधूत्या लयं गच्छति, सा प्रकृतिपरिशुद्धाऽवधूतिका कुलशब्देन बोद्धव्या। (च. को. व्या., पृ. १२६)

वज्र पद्म तथा कर्म तथागत रत्नैव च।
कुलानि पञ्चविधान्याहुरुत्तमानि महाकृप॥
कूलानि षड्विधान्यानुः संक्षेपेण तु पञ्चधा।
पश्चाच्च त्रैविध्यं यान्ति कायवाकचित्तभेदतः॥
कुलानां पञ्चभूतानां पञ्चस्कन्धस्वरूपिणाम्।
कुल्यते गण्यतेऽनेन कुलमित्यभिधीयते॥ (हे. त. १.५.५, ९-१०)
कुलं पञ्चविधं ख्यातं वर्णभेदेन भेदितम्।
सन्ध्याभाषत एवं स्युर्बुद्धाश्च पञ्चकौलिकाः॥
डोम्बी वज्रकुली ख्याता नटी पद्मकुली तथा।
चण्डाली रत्नकुली चैव द्विजा ताथागती मता॥
रजकी कर्मकुली चैव एता मुद्रा सुसिद्धिदाः।
आसां शुक्रं भवेद् वज्रं पूजयित्वा पिबेद् व्रती॥ (हे. त. २.३.६१-६३)

कुः पृथिबी, तान् तद्व्यवस्थितान् सत्त्वान् रत्नदानेन लाति स्वीकरोतीति कुलो रत्नकेतुः। (कु. स. प्र., पृ. ६८)

कुलता

कुलता जानुरुच्यते। (व. ति., पृ. ३५)
कुविकल्पानां लवनात् कुलता जानुनी। (व. ति. टी., पृ. ३५)
कुलतायां महावीर्या बालसिङ्घानवाहिनी। (व. ति., पृ. ४८)

कुलिशधरः

एतदेव पञ्चाक्षरमहाशून्यं षट्त्रिंशदात्मकं कुलिशमुच्यते जिनैः। तं धरतीति कुलिशधरः। बिन्दुशून्यः षडक्षर एकारो धर्मोदयः सर्वाकारशून्यतारूप इति। .... एवं बिन्दुशून्यषडक्षरो धर्मोदयः कुलिशधर एकार इति शून्यता सालम्बा प्रतिसेनास्वरूपिणीति। (वि. प्र., पृ. ४९)

कूर्मजा

कूर्मपृष्ठमिवाभेद्यमित्यस्थिमालावनात् कूर्मजा भ्रूमध्ये। (व. ति. टी., पृ. ४४)

कृपा

चिन्तामणिरिवाशेषसदर्थकरणं कृपा। (प्र. वि. सि. ४.१०)

कृपीटम्

कृपीटं डमरुकं मतम्। (हे. त. २.३.५७)

कोशलम्

कोशलो नासिकाग्रं तु। (व. ति., पृ. ३३)

कोशलं सिङ्घानं शलति वहति यस्मात् तत्कोशलं नासिकाग्रम्। (व. ति. टी., पृ. ३३)

अन्त्रमालाकुला दिव्या सुराभक्षी तु कोशले। (व. ति., पृ. ४४)

कौलिकम्

कौलिकं तदनुत्तरम्। (प्र. वि. सि. १.२३)

क्रमद्वयम्

श्रुतं सहजमित्युक्तं द्विधाभेदेन भेदितम्।
सावृतं देवताकारमुत्पत्तिक्रमपक्षतः॥
विवृतिसुखरूपं तु निष्पन्नक्रमपक्षतः।
सत्यद्वयं समाश्रित्य बुद्धानां धर्मदेशना॥ (हे. त. टी., प. २b)
उत्पत्तिक्रमपक्षं च उत्पन्नक्रममेव च।
क्रमद्वयमुपादाय देशना वज्रधारिणाम्॥ (हे. त. टी., प. २b)
क्रममुत्पत्तिकं चैव उत्पन्नक्रममेव च॥
क्रमद्वयं समाश्रित्य वज्रिणां धर्मदेशना।
उत्पत्तिभागं कथितमुत्पन्नं कथयाम्यहम्॥ (हे. त. १.८.२४-२५)

क्षणचतुष्टयम्

विचित्रं च विपाकं च विमर्दं च विलक्षणम्।
चतुःक्षणं समागम्य एवं जानन्ति योगिनः॥
विचित्रं विविधं ख्यातमालिङ्गनचुम्बनादिकम्।
विपाकं तद्विपर्यासं सुखं ज्ञानस्य भुञ्जनम्॥
विमर्दमारोचनं प्रोक्तं सुखं भुक्तं मयेति च।
विलक्षणं त्रिभ्योऽन्यद् रागारगविवर्जितम्॥ (दो. को. व्या., पृ. ६८)

क्षणाः

चत्वारः क्षणाः -- विचित्र-विपाक-विलक्षण-मिवर्दाः। मध्ये विलक्षणं दत्त्वा सेके बोद्धव्यम्। हठयोगे पुनः सहजविलक्षणयोरन्ते स्थितिर्बोद्धव्या। सेकहठयोगे चेदं निर्दिष्टं भगवता। (अ. व. सं., पृ. ३२)

चत्वारः क्षणाः -- विचित्र-पिपाक-विमर्द-विलणाश्चेति। (हे. त. १.१.२४)

क्षान्तिः

क्षन्तिश्च क्रूरतप्तकरपत्रादिघातसहनतया। (अ. व. सं., पृ. ३)

खगानना

खगमुखाकारत्वात् खगानना। (व. ति. टी., पृ. ४८)
वीर्यसम्बोध्यङ्गं खगानना। (व. ति., पृ. ५५)

खड्गः

खड्गः क्लेशारिसंछेदात्। (ज्ञा. सि. १५.२५)

खण्डकपाली

खण्डं शिरःस्थं बोधिचित्तं नखदशनरूपेण कलयति प्रेरयतीति खण्डकपाली।(व. ति. टी., पृ. ४८)

खण्डरोहा

तेज-आकाशे खण्डयति गच्छतीति खण्डम्, तद्विशुद्ध्या तत्रैव रोहतीति खण्डरोहा। (व. ति. टी., पृ. ४१)

धर्मानुस्मृत्युपस्थानं खण्डरोहा। (व. ति., पृ. ५१)

आदौ तथागतलोचनादीन् खण्डयति पुनरोहयति जनयतीति खण्डरोहा। (व. ति. टी., पृ. ४८)

प्रश्रब्धिसंबोध्यङ्गं खण्डरोहा। (व. ति., पृ. ५५)

खधातुः

एतत्तत्त्वं परं शान्तं खधात्वाख्यं व्यवस्थितम्।
वज्रपद्मसमावेशात् सम्प्रदायाच्च लभ्यते॥ (गु. सि. ३.२६)

खर्वरी

खरा चासौ त्रिचक्रदाहाद् वरा चासौ पुनस्तदाप्यायनादिति खर्वरी। (व. ति. टी., पृ. ४७)

वीर्येन्द्रियं खर्वरी। (व. ति., पृ. ५४)

खेचर्यः

पुल्लीरादारभ्य मालवान्तं या नाड्यस्ताः खेचर्यः। (व. ति. टी., पृ. २७)

खेटः

गतिः खेटः। (हे. त. २.३.५६)

गुणाष्टकम्

अणिमा, लघिमा, गरिमा, ईशित्वम्, वशित्वम्, कर्तृत्वम्, भोज्यत्वम्, इच्छाप्रकामता इति गुणाष्टकम्। (त. सं. टी., पृ. २७)

गुरुः

पर्युपास्यो जगन्नाथो गुरुः सर्वार्थसिद्धिदः। (प्र. वि. सि. २.२६)

गुरुर्बुद्धो भवेद् धर्मः संघस्चापि स एव हि।
प्रसादाज्ज्ञायते तस्य यस्य रत्नत्रयं वरम्॥
अज्ञानतिमिरान्धानामेष मार्गप्रदर्शकः। (ज्ञा. सि. १.२४-२५)

अद्वयः करुणामिश्रः प्रज्ञोपायसमन्वितः।
शून्यताभेदभिन्नस्तु सर्वबुद्धमयो गुरुः॥ (अ. क्र. ९३-९४)

गुह्यम्

गुह्यं श्रावकप्रत्यकयानयोरुत्तरं वज्रयाम्। (वि. प्र., पृ. १७)

गुह्यपूजा

द्वयेन्द्रियसमापत्तिलक्षणा तथागतपूजा। (गु. स. प्र., पृ. १८७)

गुह्यसिद्धिः

विरुद्धसमयादीनि गुह्यसिद्धिरिति स्मृता। (गु. सि. ६.१०३)

गुह्याधिपतिः

गुह्यं श्रावकप्रत्येकयानयोरुत्तरं वज्रयानम्। तस्मिन् संगीतिकारकत्वेनाधिपतिः। तथा लोकसंवृत्या गुह्यशब्देन यक्षाः, तेषामधिपतिर्गुह्याधिपतिः.....। तथागतदेशितधर्मसिंहनादेन सर्वसत्त्वानां प्रत्यकरुतैर्धर्मप्रवर्तको गुह्याधिपतिः श्रीवज्रपाणिः। (से. टी., पृ. १-२)

गुह्याभिषेकः

प्रज्ञाश्रद्धाक्षेत्रीकरणार्थं समयरक्षणार्थं च समानकालोभयसम्पादितबोधिचित्तप्रदानं गुह्याभिषेकः। प्रज्ञोपायगुह्याभ्यां दीपयत इति व्युत्पत्तिः। (अ. व. सं., पृ. ३८)
गुह्यस्थितमणिना यद् गुरूपदेशतः क्षणचतुष्ट्यात्मकानन्दचतुष्टयस्य वेदनं तद् गुह्याभिषेक इत्युच्यते, प्रपञ्चभावनाभिर्योगिनामप्रकाश्यत्वात्। अत्राभिषेके मध्येन्द्रियाणां समयमुद्राभावनोपदेशः कथ्यते। (हे. त. टी., प. ७b)

परमानन्दो गुह्याभिषेकः। क्वचिच्चर्यातन्त्रे प्रज्ञोपाययोरनुरागसूचकमन्योन्यनिरीक्षणं तद्विशुद्द्या गुह्याभिषेकः। (हे. त. टी., प. ५०a-b)

गूथम्

गूथं चतुःसमं प्रोक्तम्। (हे. त. २.३.५९)

गृहदेवता

गुदं तु गृहदेवता। (व. ति., पृ. ३४)

गृहस्य शरीरस्य देवता वैरोचनो गृहदेवता विड्धातुः, तदाधारत्वाद् गृहदेवता गुदद्वारम्।(व. ति. टी., पृ. ३४)

पूयं वहति सा नित्यं गृहदेवतसंस्थिता।
खण्डरोहेति विख्याता डाकिनी परमेश्वरी॥ (व. ति., पृ. ४६)

गोदावरी

गोदावरी तथा ज्ञेया वामकर्णस्वरूपिका। (व. ति., पृ. ३२)

गां भुवं भूस्वभावं निर्माणचक्रं वरत इति गोदाऽवधूती, तया व्रियते च्छाद्यत इति गोदावरी वामकर्णः। (व. ति. ती., पृ. ३२)

महोरुस्था तु या नाडी गोदावर्यां व्यवस्थिता।
वीरमतीति विख्याता स्थिता सा दृढरूपतः॥ (व. ति., पृ. ४२)

ग्राह्यग्राहकभावः

शून्यं गृह्णाति शब्दं खलु जिनजनको धर्मधातुं च वायु-
र्गन्धं वन्हिश्च रूपं रसमपि सलिलं स्पर्शमेव धरित्री। (का.त. २.२०)

घण्टा

प्रज्ञा घण्टाभिधीयते। (ज्ञा. सि. १५.२४)

घण्टासमयः

चतुरशीतिधर्मस्कन्धसहस्रपरस्त्वमिति प्रतिपादनाय घण्टासमयः। (अ. व. सं., पृ. ३८)

घुणः

रागादिक्लेशजालस्य पलालस्यै(स्ये)व भक्षणात् स एव घुणः। (व. ति. टी., पृ. ८३)

चक्रम्

चक्रमज्ञानच्छेदाच्च। (ज्ञा. सि. १५.२४)

चक्रं निवहं खधात्वाख्यं विषयादीनां विशोधनम्।

बोलकक्कोलयोगेन तस्य सौख्यं प्रतीयते॥ (हे. त. २.३.२८)

चक्रचतुष्टयम्

निर्माणचक्रे पद्मं चतुष्षष्टिदलम्। धर्मचक्रेऽष्टदलम्। संभोगचक्रे षोडशदलम्। महासुखचक्रे द्वात्रिंशद्दलम्। (हे. त. १.१.२३)

धर्मचक्रं संभोगचक्रं निर्माणचक्रं हृत्कण्ठयोनिषु यथाक्रमम्। कायवाक्चित्त इति तदेव चक्रयम्। कायचक्रं योनौ। वाक्चक्रं कण्ठे। चित्तचक्रं हृदि। त्रयाणां परिज्ञानस्वभावं महासुखचक्रं मूर्धनि विज्ञातव्यम्। एष्वेव चक्रचतुष्टयेषु पृथ्व्यप्तेजोवायुधातुस्वभावाश्चतस्रो मुद्रा एवंमयाख्याः। (हे. त. टी., प. ६a-b)

धर्मसंभोगनिर्माणं महासुखं तथैव च।
योनिहृत्कण्ठमस्तेषु त्रयः काया व्यवस्थिताः॥
अशेषाणां तु सत्त्वानां यत्रोत्पत्तिः प्रगीयते।
तत्र निर्माणकायः स्यान्निर्माणं स्थावरं मतम्॥
उत्पद्यते निर्मीयते अनेन नैर्माणिकं मतम्।
धर्मश्चित्तस्वरूपं तु धर्मकायो हृदि भवेत्॥
संभोगं भुञ्जनं प्रोक्तं षण्णां वै रसरूपिणाम्।
कण्ठे संभोगचक्रं च महासुखं शिरसि स्थितम्॥...
स्थावरी निर्माणचक्रे तु निर्माणं स्थावरं यतः।
सर्वास्तिवादी धर्मचक्रे च धर्मवादसमुद्भवः॥
संविदी संभोगचक्रे च कण्ठे संवेदनं यतः।
महासंघी महासुखचक्रे च महासुखं के स्थितं यतः॥ (हे. त. २.४. ५२-५५, ५९-६०)

चक्रवर्तिनी

चक्रेषु वर्तितुं शीलं यस्याः सा चक्रवर्तिनी। (व. ति. टी., पृ. ४८)
सम्यक् संकल्पश्चक्रवर्तिनी। (व. ति., पृ. ५६)

चक्रवर्मिणी

चक्राण्येव वर्म सन्नाहोऽस्याः सा चक्रवर्मिणी। (व. ति. टी., पृ. ४८)
स्मृतिसम्बोध्यङ्गं चक्रवर्मिणी। (व. ति., पृ. ५५)

चक्रवेगा

चक्रवच्चक्रेषु वेगोऽस्या गमनागमन इति चक्रवेगा। (व. ति. टी., पृ. ४८)
प्रतीसम्बोध्यङ्गं चक्रवेगा। (व. ति., पृ. ५५)

चक्षुःपञ्चकम्

ज्ञानक्रमाद् मांसचक्षुर्दिव्यचक्षुर्बुद्धचक्षुः प्रज्ञाचक्षुर्ज्ञानचक्षुर्भावनाबलेन भविष्यति। (से. टी., पृ. ३८)

अत्र प्रथमं मांसचक्षुषाऽऽदिकर्मिको योगी विश्वबिम्बमभिज्ञामन्तरेण पश्यति। ततो दिव्यचक्षुष।भिज्ञावधिवशात्। ततो बुद्धचक्षुषा वीतरागावधिवस्थात्। ततः प्रज्ञाचक्षुषा बोधिसत्त्वावधिवशात्। ततो ज्ञानचक्षुषा सम्यक्संबुद्धावधिवशात् सर्वोपधिविनिर्मुक्तितः। एवं तथागतस्य पञ्च चक्षूंषि मांसादीन्युक्तानि शून्यतादर्शनं प्रति। अन्ये सत्त्वा शून्यतादर्शनविषये जात्यन्धा इति। (से. टी., पृ. ४८/३) पञ्चचक्षूंषि--मांसचक्षुः, धर्मचक्षुः, प्रज्ञाचक्षुः, दिव्यचक्षुः, बुद्धचक्षुश्चेति। (धर्मसंग्रहः, म. सू., भा. १, पृ. ३३३)

चण्डाक्षी

चण्डे तीक्ष्णे दाहके वामेतरे नाड्यावस्या इति चण्डाक्षी, मध्यमया द्वयोः प्रकाशनात्। (व. ति. टी., पृ. ५३)

चण्डालि

चण्डाली ज्वलिता नाभौ दहति पञ्चतथागतान्।
दहति च लोचनादिर्दघेऽहं स्रवते शशी॥ (हे. त. १.१.३१)

चण्डा प्रज्ञा क्लेशोपक्लेशनिकृन्तने चण्डस्वभावत्वादालिर्वज्रसत्त्वश्चण्डालीशब्देनोच्यते। (हे. त. टी., ९b)

चण्डा प्रज्ञा अँकारः। आलिर्वज्रसत्त्वो हँकारः। अँकारहँकारौ चण्डाली। (हे. त. टी., प. १०a)

चण्डा धर्मोदया रक्ता आलिश्चाद्यक्षरः स्मृतः। (हे. त. टी., प. १०a)

चण्डा प्रज्ञा उत्पत्त्युत्पन्नक्रमसमाधीनां विचारः। आलिर्महाकरुणामयचित्तम्। अतः शून्यताकरुणे चण्डालीशब्देनोच्यते। (हे. त. टी., पृ. १०b)

चण्डाली निरुत्तरप्रज्ञा। (हे. त. टी., प. १०b)

चतुर्थाभिषेकः

प्रज्ञाज्ञानलक्षितसप्ताङ्गयुक्तसाध्यं चतुर्थार्थमित्येके। प्रज्ञाज्ञानमेव अभ्यस्यमानशरदलगगनसंकाशं चतुर्थार्थमित्यपरे। प्रज्ञाज्ञानमेव प्रकृतिरूपं विकाररूपं प्रकृतिसमुत्पादात्मकं युगनद्धाद्वयवाहिसुविशुद्धस्वभावं चतुर्थार्थमित्यपरे। पक्षान्तराणि च विस्तरभयान्नोच्यन्ते। (अ. व. सं., पृ. ३९)

तथतास्वभावं येनाभिषेकेण पश्यति प्रतिपाद्यते वा। तत्पुनर्बाह्यमुद्रया यद् गुरूपदेशतः प्रतिनियतदेशापरिच्छेदलक्षणसम्पदमनालम्बनयोगेनालम्बनीकरोति, तच्चतुर्थाभिषेक इत्युच्यते। न पुनर्गुरूपदेशकथनमात्राच्चतुर्थाभिषेक इति स्यात्। ...तस्मिन् चतुर्थाभिषेकसमय एवाधिमात्रतरसत्त्वानां महामुद्रासिद्धिर्भवति। (हे. त. टी., प. ८a-b)

सहजानन्दश्चतुर्थाभिषेकः। ....क्वचिदनुत्तरादौ प्रज्ञोपाययोर्द्वन्द्वतन्त्रणं द्वन्द्वसमापत्तिः, तद्विशुद्धिश्चतुर्थोऽभिषेकः। (हे. त. टी., प. ५०a-b)

चतुर्ब्रह्मविहारः

सर्वसत्त्वेष्वेकपुत्रप्रेमाकारां मैत्रीम्, दुःखादुःखहेतोः संसारसागरात् समुद्धरणवाञ्छास्वभावाः करुणाम्, रत्नत्रयशरणगमनात् समुल्लसन्मनःप्रभवां मुदिताम्, अध्यासङ्गपरिलक्षणमुपेक्षां च विभाव्य....।(अ. व. सं., पृ. ४-५)

चतुर्ब्रह्मविहारभावना

(सप्तविधां पूजामेकादशविधां वा कृत्वा) मैत्रीकरुणादिचतुर्ब्रह्मविहारभावनां कुर्यात्। (सा. मा., पृ. ४३)

मैत्रीकरुणामुदितोपेक्षेति चतुर्ब्रह्मविहारं भावयेत्। (सा. मा., पृ. ११५)

ततो निर्मलीभूतचित्तसन्ताने करुणामैत्रीमुदितापेक्षा भावयेत्। (स. मा., पृ. १३८)

तदनन्तरं चतुर्ब्रह्मविहारं मैत्रीकरुणामुदितोपेक्षासंज्ञकं वक्ष्यमाणक्रमेण भावयेत्। (सा. मा., पृ. २०२)

चतुर्ब्रह्मविहारान् भावयेत्। (सा. मा., पृ. ३८५)

आदौ सत्त्वेषु मैत्रीं हिततनयगतस्नेहरूपां विचिन्त्य
ग्लानैकापत्यबोधात् तदनु करुणया भावयन् सर्वसत्त्वान्।
पश्यंस्तत्सौख्यसम्पद्भरमतिमुदितः सत्परार्थैकमूर्ति
ध्यायात् तत्सर्वसत्त्वेष्वहितहितमतिम्लानशून्यामुपेक्षाम्॥ (सा. मा., पृ. ३८९)

तद्दुःखोद्धरणा करुणा, सुखप्रतिष्ठापना मैत्री, स्थिरसुखत्वेन मुदिता, तथतारूपत्वोपेक्षा। (सा. मा., पृ. ४०५)

महाबोधिचित्तमुत्पाद्य सर्वसत्त्वेषु दिव्यसुखोपसंहाराकारां मैत्रीं सर्वदुःखापहारां करुणां तत्सुखाविवेच्छेदनियमाकारां मुदितां क्लेशोपक्लेशग्राह्यग्राहकाद्यमनसिकारलक्षणामुपेक्षां च भावयेत्। ततो धर्मपुद्गलादिविकल्पकलङ्कवर्जितरूपां शरन्निर्मलमध्याह्नभोनिभामद्वयज्ञानैकरूपां शून्यतां विभाव्य ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहमित्यधितिष्ठेत्। (सा. मा., पृ. ४७४)

पञ्चोपचारपूजां पापदेशनां च यावदुपेक्षाम्। (सा. मा., पृ. ५७६)

चतुःकायाः

शुद्ध-धर्म-सम्भोग-निर्माणा इति। (वि. प्र., पृ. २०)

चतुःसमम्

गूथं चतुःसमं प्रोक्तम्। (हे. त. २.३.५९)

चत्वारो वृद्धाः

अत्र चत्वारो वृद्धाः परलोकेहलोकार्थमाराधनीयाः सत्त्वैः। एषु ज्ञानवृद्धोऽभिज्ञालाभी मुदिताभूमिप्राप्तो वज्राचार्यो भिक्षुर्गृहस्थो वा पूज्यो दशभिक्षुसमो भगवतोक्त इति। तस्याभावे तपोवृद्धः काषायधारी दाषायधारिणां वर्षाग्रेण मन्त्रिणामभिषेकेण गृहस्थाचार्याणां सर्वदा वन्द्यस्तपोवृद्धत्वात्, गृहस्थानामभिज्ञाभावात्। श्रुतवृद्धः पण्डितः पूज्यः शसनोद्योतकः परवादिनां मारकायिकानां दमकः। एते परलोकार्थमाराधनीयाः सत्त्वैरिति। धनवृद्धो राजा इहलोकभोगार्थिभिराराधनीयः। (वि. प्र., ५४)

चन्द्रम्

चन्द्रं प्रज्ञाज्ञानम्। (च. को. व्या., पृ. ४९)

चन्द्रः

चन्द्रशब्देनापानवायुः। (वि. प्र. पृ. १९६)
अपानो विण्मूत्रचन्द्रनाडीनामधिपतिर्नाभिरधः प्रवाहतः। (वि. प्र., पृ. १९६-१९७)

चन्द्रनाडी (ललना)

कण्ठदारभ्य वामेन नाडी संभोगकायिकी।
नाभिमध्ये तु विश्रान्ता अधोमुखी मदावहा॥ (व. ति., पृ. ८०)

येयं वामपार्श्वे ललनाख्या नाडी, साऽधोमुखी कण्ठादारभ्य नाभिमध्यं यावन्मदं वहति। (व. ति. टी., पृ. ८०)

चन्द्रमण्डलम्

स्वरव्यञ्जनसंभूतं द्वात्रिंशद्बोधिमानसम्।
पद्ममध्यगतं यत्तच्चन्द्रमण्डलमुच्यते॥ (व. ति., पृ. ६२)

तदन्तरालिकालिस्वरव्यञ्जनात्मद्वात्रिंशद्बोधिचित्तसंपिण्डितमस्तुलुङ्गमेव चन्द्रमण्डलं भगवतो विशेषासनम्। (व. ति. टी., पृ. ७९)

वामदक्षिणयोश्चक्राणां चन्द्रसूर्यौ प्राणापानादूर्ध्वमधः शुक्ररक्तधातू प्रवहन्त्यौ ललनावामदक्षिणयोश्चक्राणां चन्द्रसूर्यौं प्राणापानादूर्ध्वमधः शूक्ररक्तधातू प्रवहन्त्यौ ललनारसने स्थिते ज्ञेये। एतेन बहिश्चन्द्रसूर्यप्रकाश आध्यात्मिक एवेति कथितं भवति। (व. ति. टी., पृ. ७९)

द्वारद्वयसमारूढौ अधर्ध्वसमाश्रितौ।
एतौ हि चन्द्रसूर्याख्यौ नाडीद्वयं प्रकीर्तितौ॥
वीराणां डाकिनीनां तु गत्यागतिनिबन्धनौ।
अस्तमनोदयार्थौ तु स्वप्नप्रबोधयोः स्थितौ॥ (वि. ति., पृ. ८०-८१)

चर्चा

पुण्यज्ञानेन शौचेन स्वसंवेद्यसुखेन च।
स्वसंवेद्यात्मिका शुद्धिर्नान्यशुद्ध्या विमुच्यते॥
वैद्यौषधिप्रवृत्त्या तु चर्या सेति निदर्शिता।
सेवया सेवकानां तु चरनं चर्येति सा स्मृता॥ (स. सि. ३-४)

गुरुबुद्धानामाज्ञया दुष्करव्रतचरणं चर्या। (हे. त. टी., प. २१a)

चर्यापि त्रिविधा कथिता--सप्रपञ्चता, निष्प्रपञ्चता, अतिनिष्प्रपञ्चता चेति। इयं निष्प्रपञ्चता चर्या कध्येन्द्रियाणामुक्ता। अधिमात्रेन्द्रियाणां पुनर्वक्ष्यति चतुदर्शे पटले....अत्यन्तनिष्प्रपञ्चचर्या। मृद्विन्द्रियाणांप्रपञ्चताचर्यायाः सूचनामात्रं कथयिष्यति द्वितीयकल्पस्य सप्तमे पटले। (हे. त. टी., प. २३a-b)

प्रपञ्चता, निष्प्रपञ्चता, अत्यन्तनिष्प्रपञ्चतेति त्रिविधा चर्या। चरत्यनयेति चर्या। (गु. स. प्र., ४६)

सर्वचर्याः प्रपञ्चनिष्प्रपञ्चात्यन्तनिष्प्रपञ्चचर्याः, तासामग्रचर्या भुसुकुचर्या। (गु. स. प्र., पृ. ५९)

सर्वविकल्पप्रपञ्चापगता चर्या समन्तभद्रचर्या। (गु. स. प्र., पृ. ७३)

सत्त्वसन्तानगतमात्सर्यक्लेशापनयनात्मिका चर्या बोधिचर्या। (गु. स. प्र., पृ. ८१)

लोकविरुद्धेनाविरुद्धेन वा येन प्रकारेण सत्त्वार्थः सम्पद्यते, तेन तेन प्रकारेण मन्त्रिणां यथाशक्त्या प्रवृत्तिर्बोधिसत्त्वचर्या। यदुत या मन्त्रचर्या सा तथागतचर्या। गुरुवो येभ्यस्तत्त्वं मन्त्रं कथयन्ति ते मन्त्रा रत्नपुद्गलाः,तेषां चर्या निष्पन्नक्रममधिगम्य यदसमाहितयोगेन चरणं सेयं तथागतचर्या। (गु. स. प्र., पृ. ८६)

चित्तम्

चित्तसंज्ञा द्विविधा--लौकिकी लोकोत्तरा च। यल्लौकिकं तद्विकल्पलक्षणं निराकरणीयम्। यल्लोकोत्तरं निर्मलं धर्मकायलक्षणं सहजस्वरूपं वा। (दो. को. व्या., पृ. ९२)
रूपशब्दगन्धरसस्पर्शादिग्राह्यग्राहककल्पनैरनालिप्तं चाचिन्त्यप्रत्ययोदयं सम्यक्सम्बोधिपदं चित्तं सर्वज्ञतापदम्। (सा. मा., पृ. ३२०)

अनल्पसंकल्पतमोऽभिभूतं प्रभञ्जनोन्मत्ततडिच्चलं च।
रागादिदुर्वारमलावलिप्तं चित्तं हि संसारमुवाच वज्री॥ (प्र. वि. सि. ४.२२)

चित्तेन न विना कायः किञ्चित् कर्तुं भवेत् क्षमः।
वचनं च विना तेन भवेन्नैव कदाचन॥ (ज्ञा. सि. ९.६)

चित्तनैव जगत् सर्वं क्रियते यच्छुभाशुभम्। (ज्ञा. सि. १.७)
चित्तेन भाव्यते यत्तत् तदेव तु निरीक्ष्यते। (ज्ञा. सि. १२.१६)
स्वच्छं हि सर्वसत्त्वानां चित्तं शान्तं प्रभास्वरम्। (ज्ञा. सि., पृ. १४१)
दोषाणां च गुणानां च चित्तमाधारमुच्यते। (अ. क्र. ३३)

चित्तक्रमम्

... .... .... .... .... .... .... ....चत्वारः पीठसंज्ञकाः॥
इत्येवमुपपीठास्तु चित्तचक्रे व्यवस्थिताः।
खेचरीणां समाख्याताः स्थानविशेषरूपिणः॥ (व. ति., पृ. ३२)

चित्तचक्रे तु खेचर्यः पीठोपपीठसंस्थिताः। (व. ति., पृ. ४३)

एताः पीठोपपीठेष्वष्टौ नाड्यः खेचर्यः सोपायाश्चित्तचक्रे। (व. ति. टी., पृ. ४४)

चित्तानुस्म्ऱ्इत्युपस्थानम्

ज्ञेयात् पूर्वं पश्चात् सहभावित्वासिद्धेश्चित्तं शून्यमिति यत् स्मृतेरुपस्थानं चित्तानुस्मृत्युपस्थानम्। (व. ति. टी., पृ. ५२)

चेल्लः

चेल्लो दशशिक्षापदी। (दो. को. व्या., पृ. ८४)

च्युतिः

कलुषं बोधिचित्तं च्युतिरभिधीयते। अत एव विरागोत्पत्तिः, "च्युतेर्विरागसंभूतिर्विरागाद् दुःखसंभवः" इति प्रवचनात्। तदेव दुःखम्, यत्संसारावाहकं कर्मतश्च्युतेरेव संभवति। तथा च--न विरागात् परं पापं न पुण्यं सुखतः परम्" इति। (त. सं. टी., पृ. २-३)

छोमा

छोमा मिलिच्छा योगिनीनां संकेतेनाभिसमयजल्पनम्। (हे. त. टी., प. २३b)

जगत्

शून्यताकरुणाभिन्नं जगत्। (अ. व. सं., पृ. २६)
हेतुफलात्मकं भवनिर्वाणैकरसतामात्रं जगत्। (अ. व. सं., पृ. ४२)

जननी

जननी भण्यते प्रज्ञा जनयति यस्माज्जगत्। (हे. त. १.५.१६)

महासुखाकारेण विश्वस्य जननाज्जननी। (हे. त. टी., प. २०a)

जन्यजनकभावः

गन्धोत्पत्तिर्धरण्यामपि शिखिनि रसस्योदके रूपधातोर्वायौ
स्पर्शस्य शान्ते त्वपि भवति रवस्याम्बरे धर्मधातोः। (का. त. २.२०)

जपः

जल्पनं जपमाख्यातमालिकाल्योः प्रजल्पनात्। (हे. त. १.५.१९)

जापः

जाप आवर्तनं भवेत्। (व. ति., पृ. ६८)

तस्यैव (मन्त्रस्यैव) प्रवेशादिक्रमेण यदावर्तनं स जाप उच्यते। एतेन प्रकृतिजापोऽयं सर्वलोकसाधारण उक्तः। उतं च --

यै वै त्रैधातुके सत्त्वाः प्राणायामसमाश्रिताः।
मन्त्रराजं जपन्त्यज्ञा ध्यानाध्ययनवर्जिताः॥ (व. ति. टी., पृ. ६८)

जालन्धरम्

शिखा जालन्धरस्तथा। (व. ति., पृ. ३१)

नाडीजालस्य मूलं तद्धारणे जालन्धरं शिखा। (व. ति. टी., पृ. ३१)
जालन्धरे तु चण्डाक्षी केशरोमवहा तथा। (व. ति., पृ. ४२)

जिनजनकः

जिनजनक इति वज्रसत्त्वः शाक्यमुनिः, निरावरणस्कन्धानां जनको जिनजनकः। (वि. प्र., पृ. १५७)

जिनजिक्

जयनशीला जिना माराः, तान् द्वादशाकारधर्मचक्रेणा जयतीति जिनजिक्, नेयार्थः। वज्रोपमसमाधिना चतुर्माराभिभवनाद् जिनजिक्, नीतार्थः। (गु. स. प्र., पृ. २३)

ज्ञानम्

ज्ञानमित्यनया संज्ञया तृतीयं शून्यमित्यवगन्तव्यम्। तद्यथा--वेदनास्कन्धतेजोधातुचक्षूरसपाणिगतिश्च--एषां निरावरणता समरसत्वमेकलोलीभूतत्वं ज्ञानं तृतीयाक्षरं महाशून्यमिति। अस्य संज्ञाचिह्नं मध्यानाहतचिह्नाद् दक्षिणे बिन्दुद्वयमनुच्चार्यमिति। (वि. प्र., पृ. ४७)

ज्ञानप्रदीपः

ज्ञानमेव प्रदीपो ज्ञानप्रदीपः, अक्षरार्थः। ज्ञानप्रदीपः अक्षोभ्यः, सत्त्वसन्तानेषु ज्ञानालोककरत्वात्, समस्ताङ्गम्। ज्ञानमेव विज्ञानत्रयाभासम्, दशदिगवभासनात् प्रदीप इव प्रदीपः, गर्भी। ज्ञा अवबोधने, नः प्रतिषेधे वर्तते। अवबोधाभावो यस्मिंस्तज्ज्ञानम्। किं तत् ? परमार्थसत्यमनभिलाप्यम्। अशेषतेजांस्यभिभूयानन्तलोकधात्ववभासनात् तदेव प्रदीपः, कोलिकम्। (गु. स. प्र., पृ. २३)

ज्ञानमुद्रा

ज्ञानमुद्रा स्वचित्तपरिकल्पिता विश्वमातादिदेवीस्वभावा, पूर्वानुभुक्तेति यावत्। (से. टी., पृ. ५६)

ज्ञानमुद्रया स्पन्दसुखावस्था। स्पन्देति स्रावसाधर्म्यक्षरस्यापि संग्रहः। एते (क्षारस्पन्द) सुखावस्थे साक्षात्कृते कामरूपधात्वैश्वर्यलक्षणलौकिकसिद्धिसाधने। (से. टी., पृ. ६२)

केचित्तस्याभासमात्रा सुमनसि जनितादर्शबिम्बोपमा वै
योगीन्द्रैः सेवनीयाः परमजिनसुतैः सेविता या च बुद्धैः।
सा ज्ञानार्चिः प्रवृद्धा दहति सविषयं मारवृन्दं समस्तं
रागादि चापि काये दहति समसुखं योगिनां वर्षयोगात्॥ (का. त. ५.११३)
(दो. को. व्या., पृ. १६३)

ज्ञानमूर्तिः

ज्ञानचित्तस्य तुर्याचित्तस्य शुक्रच्युतिकाले तुर्यावस्थाधर्मिणी सत्त्वानामुत्पादनिरोधभूता यतः, अतो ज्ञानमूर्तिः। (वि. प्र., पृ. २१६)

ज्ञानवज्रम्

स्त्रीणां द्वादशवर्षावधि ज्ञानवज्रं शुक्रच्युत्यवस्थालक्षणं सहजानन्दलक्षणं नराणां षोडशवर्षावधेर्वेदितव्यम्॥ (वि. प्र., पृ. १६५)

ज्ञानसत्त्वः

प्रज्ञाज्ञानसमायोगाज्ज्ञसत्त्वस्तथागतः। (हे. त. १.१.५६)

"डै विहायसगमने" धातुरत्र विकल्पितः। सर्वाकाशचरी सिद्धिर्डाकिनीति डाकिनीच्छायेति भगवता व्याख्यातत्वाद् डाकिन्यो वज्रडाकियोगिन्यः। (हे. त. टी., प. ४९b)

तत्र पृथिव्याकाशे डयनाद् डाकिनी। (व. ति. टी., पृ. ४१)
सर्वा एव डाकिन्यो वाराहीकुलसंभवाः। (व. ति. टी., पृ. ४६)
कायानुस्मृत्युपस्थानं डाकिनी। (व. ति., पृ. ५१)
डाकिन्यः षट्त्रिंशन्नाड्य। (व. ति. टी., पृ. ६७)

इह निर्विकल्पनिरालम्बनिरावरणस्वभावा डाकिन्य इत्युच्यन्ते,

डै वैहायसि गमने बुद्धो धातुः प्रकल्पितः।
सर्वाकाशचरा सिद्धा डाकिनीति निगद्यते॥

पञ्चज्ञानमहानभसि चरन्त्यश्च नाड्यस्तस्मात्ता एव डाकिन्य इत्युच्यन्ते। (व. ति. टी., पृ. ६०)

डिण्डिमम्

अस्पर्शं डिण्डिमं प्रोक्तम्। (हे. त. २.३.५८)

डोम्बी

डोम्बीति परिशुद्धावधूती नैरात्म्या बोद्धव्या। (च. को. व्या., पृ. ३५)
डोम्बीति शुक्रनाडिकाऽपरिशुद्धावधूतिका। (च. को. व्या., पृ. ६५)
डोम्बी प्रकृतिप्रभास्वरपरिशुद्धावधूतिका ज्ञानमुद्रा। (च. को. व्या., पृ. ६६)
अस्पर्शा भगवती यस्मात् तस्माद् डोम्बी प्रकथ्यते। (हे. त. १.५.१८)
इन्द्रियाणामगोचरत्वेन डोम्बीशब्देनोच्यते। (हे. त. टी., पृ. २०a)

तत्त्वम्

गुणदोषैः रहित एष परमार्थः। स्वसंवेदनेन केनापि नार्थः प्रयोजनम्। नहि गुणास्तत्रारोपयितव्याः, दोषास्तस्मादपनेतव्याः। तथा चोक्तं--

नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते॥ इति। ....

तत्त्वं न कुतश्चिदायाति, न कुत्रचिद् याति। न कस्मिन्नपि स्थाने तिष्ठति। तथा चोक्तमष्टसाहस्रिकायाम्--"नहि कुलपुत्र ! तथता आगच्छति न गच्छति वा अचलिता तथता, एवमेव कुलपुत्र ! तथगतस्यागमनं वा गमनं वा न प्रजायते" इत्यादि। एवंभूतमपि तत्त्वं गुरूपदेशेन हृदये संयाति। तत्त्वस्य वर्णरहिततोक्ता परमार्थस्तोत्रे--

न रक्तो हरितो मञ्जिष्ठो वर्णस्तेनोपलभ्यते।
न पीतः कृष्णः शुक्लो वा अवर्णाय नमोऽस्तु ते॥ इति।

आकृत्या च भुजमुखादिना विहीनः। उक्तं च --

न महान्नापि ह्रस्वोऽपि दीर्घः परिमण्डलः।
अप्रमाणगतिं प्राप्याप्रमाणाय नमोऽस्तु ते॥ इति।

तथापि च सर्वैराकारैः सम्पूर्णः--"सर्वाकारवरोपेता शून्यता तथाता मता" इति वचनात्। (दो. को. व्या., पृ. ६९-७०)

इति तावन्मृषा सर्वं यावद् यावद् विकल्प्यते।
तत्सत्यं तत् तथाभूतं तत्त्वं यन्न विकल्प्यते॥ इति।

किं तद्भवतीति पुनरप्याह --

रूपमस्य मतं स्वच्छं निराकारं निरञ्जनम्।
शक्यं च नहि तज्ज्ञातुमबुद्धेषु कथञ्चन॥

बुद्धोऽपि न तथा वेत्ति यथाऽयमितरो जनः।
प्रतीत्यतां तु तस्यैव तां जानाति स एव हि॥ इति। (दो. को. व्या., पृ. ९१)

बुद्धेरगोचरतया न गिरां प्रचारो दूरे गुरुप्रथितवस्तुकथावतारः।
तत्तु क्रमेण करुणादिगुणावदाते श्रद्धावतां हृदिं पदं स्वयमादधाति॥ (दो. को. व्या., पृ. ९४)

परमार्थविकल्पेऽपि नावलीयेत पण्डितः।
को हि भेदो विकल्पस्य शुभे वाप्यशुभेऽपि वा॥

नाधारभेदाद् भेदोऽस्ति वह्निदाहकतां प्रति।
स्पृश्यमानो दहत्येव चन्दनैर्ज्वलितोऽप्यसौ॥ (दो. को. व्या., पृ. ९५)

वक्तुरन्तःस्फुरत् तत्त्वं श्रोता साक्षान्न पश्यति।
किन्तु शब्दादुदेत्यस्य विकल्पप्रतिबिम्बकम्॥

स्वविकल्पशतैस्तैस्तैः कल्पयन् तत्त्वभावनाम्।
विकल्पाकुलसन्तानः कस्तत्त्वमवभोत्स्यते॥ (हे. त. टी., प. ८b)

एकानेकषणरहितं ज्ञानं तत्त्वमित्युच्यते जिनैः। तदेव सत्त्वानां स्वचित्ताशयवशाच्चतुर्विधं प्रतिभासते, षोडशाकारं च। आनन्द-परम-विरम-सहजभेदैश्चतुर्विधम्। ततः कायानन्दो वागानन्दश्चित्तानन्दो ज्ञानानन्दः। एवं कायपरमानन्दो वाक्परमानन्दश्चित्तपरमानन्दो ज्ञानपरमानन्दः। एवं कायविरमानन्दो वाग्विरमानन्दश्चित्तविरमानन्दो ज्ञानविरमानन्दः। एवं कायसहजानन्दो वाक्सहजानन्दश्चित्तसहजानन्दो ज्ञानसहजानन्दः। एवं षोडशाकारं तत्त्वं यदा योगी वेत्ति, तदा षोडशाकारतत्त्वविदित्युक्तो भगवता। तदेव तत्त्वं सहजकाय इत्युच्यते। ततो धर्मकायः, ततः सम्भोगकायः, ततो निर्माणकायः। एवं सहजवाक्, सहजचित्तम्, सहजज्ञानमम्; धर्मवाक्, धर्मचित्तम्, धर्मज्ञानम्; सम्भोगवाक्, सम्भोगचित्तम्, सम्भोगज्ञानम्; निर्माणवाक्, निर्माणचित्तम्, निर्माणज्ञानमिति चित्ताधिमुक्तिवशात् सत्त्वानां प्रतिभासते। (वि. प्र., पृ. ४५)

तत्त्वचतुष्टयम्

चत्वारि तत्त्वानि--आत्मतत्त्वं मन्त्रतत्त्वं देवतातत्त्वं ज्ञानतत्त्वं चेति। (हे. त. १.१.२७)

आत्मतत्त्वम्। .....देवतानां हेवज्रादीनां स्वभावास्तत्त्वम्। ...मन्त्र एव तत्त्वम्।...

ज्ञानमेव तत्त्वं निष्प्रपञ्चमनुत्तरमहासुखज्ञानम्। (हे. त. टी., प. ८a)

तथागतः

तथतायां गतः श्रीमानागतश्च तथैव च।
अनया प्रज्ञया युक्त्या तथागतोऽभिधीयते॥ (हे. त. १.५.८)

तथागताः

यथा जन्मकाले आगताः, विनाशे तथैव गता इति तथागताः सर्वसत्त्वाः। (गु. स. प्र., पृ. २१९)

तन्त्रम्

तन्त्रमिति प्रबन्धः। तच्च त्रिधा--हेतुतन्त्रम्, फलतन्त्रम्, उपायतन्त्रं च। (हे. त. टी., प. ४a)

तन्त्रवित्

एषां क्रमाणां भेदास्तु प्रस्तारविधिना बहून्।
संमीलनं च तेषां वै यो वेत्ति स हि तन्त्रवित्॥ (गु. स. प्र., पृ. १)

तायिनः

तायः स्वदृष्टमार्गोक्तिः, तद्योगात् तायिनस्तथागतादयः। (से. टी., पृ. २८)

तारा

तारा तर्जनी। (सा. मा., पृ. ६९)

महाकरुणया नित्यं जगदुद्धरणाशयम्।
सत्त्वोत्तारणदक्षत्वात् ताराज्ञानं प्रकाशितम्॥ (ज्ञा. सि. १५.१३)

दुःखार्णवात् तारयतीति तारा। व्यथां त्रायत इति तुत्तारा। तुद् व्यथने। त्रैट् पालने। शीघ्रकरणे त्वरा। तुर् त्वरणे। एतत्पदत्रयमामन्त्रणे। (गु. स. प्र., पृ. १४५)

तालः

तालोऽङ्गुष्ठः। (सा. मा., पृ. ६९)

तिलका

वडवानलरूपा तु वाराही तिलका स्मृता।
कर्ममार्तुनिर्धता ज्वलन्ती नाभिमण्डले॥
वसन्तं प्राप्य सन्तुष्टा समापत्त्या व्यवस्थिता। (व. ति., पृ. ३८)
ज्ञानज्वाला तु वज्रवाराही तिलकेत्युच्यते। (व. ति. टी., पृ. ३८)

तैलम्

तैलं सुरा। (गु. स. प्र., पृ. १९१)

त्रिशकुनिः

नाभिस्त्रिशकुनिर्मतः। (व. ति., पृ. ३३)

त्रयः शकुनयः पक्षिसदृशाः खगमुखाकाराः कायवाक्चित्तनाड्यो यत्र तत् त्रिशकुनिर्नाभिस्थानम्। (व. ति. टी., पृ. ३३)

त्रिशकुनौ समुद्भूता वायुवेगा सफुफ्फुसा। (व. ति., पृ. ४४)

त्रिशरणगमनम् (रत्नत्रयशरणगमनम्)

बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्। सङ्घं शरणं गच्छामि गणानामग्र्यमिति रत्नत्रयशरणगमनम्। (सा. मा., पृ. ५५-५६)

समस्तकालत्रयवर्तिबुद्धानन्तदिग्व्यापिकृपागुणौघान्।
प्रहीणदोषार्यगणान् सधर्मानवेत्य भक्त्या शरणं प्रयामि॥ (सा. मा., पृ. ११६-११७)

बुद्धं शरणं गच्छामि यावदाबोधिमण्डतः।
धर्मं शरणं गच्छामि यावदाबोधिमण्डतः।
सङ्घं शरणं गच्छामि यावदाबोधिमण्डतः॥ (सा. मा., पृ. २०१-२०२)

एषोऽहमाबोधेर्बुद्धं शरणं गच्छमि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि समग्रं महायानम्, सङ्घं शरणं गच्छाम्यवैवर्तिकबोधिसत्त्वगणम्। (सा. मा., पृ. २२५)

त्रिशरणगाथा

नमो बुद्धाय गुरवे नमो धर्माय तायिने।
नमः सङ्घाय महते त्रिभ्योऽपि सततं नमः॥
रत्नत्रयं मे शरणं सर्वं प्रतिदिशाम्यघम्।
अनुमोदे जगत्पुण्यं बुद्धबोधौ दधे मनः॥
आबोधेः शरणं यामि बुद्धं धर्मं गणोत्तमम्।
बोधौ चित्तं करोम्येष स्वपरार्थप्रसिद्धये॥

उत्पादयामि वरबोधिचित्तं
निमन्त्रयाम्यहं सर्वसत्त्वान्।
इष्टां चरिष्ये वरबोधिचारिकां
बुद्धो भवेयं जगतो हिताय॥
देशना सर्वपापानां पुण्यानां चानुमोदना।
कृत्वोपवासं चरिष्यामि आर्याष्टाङ्गिकपोषधम्॥ (अ. व. स., पृ. ५-६)

दण्डज्ञानम्

दण्डेन शासनाद् दण्डज्ञानं तत्सत्त्वशासकम्। (ज्ञा. सि. १५.३७)

दर्शनमार्गः

कतमो दर्शनमार्गः ? सप्त धर्माः। कतमे सप्त ? सप्त बोध्यङ्गानि। (व. ति. टी., पृ. ५१)

क्लेशावरणप्रतिपक्षे दर्शनमार्गः। (व. ति. टी., पृ. ५६)

दलः

दलशब्देन नाड्यः श्वासधर्मिण्यो गृह्यन्ते। (वि. प्र., पृ. १७९)

दशवायवः

आपानो ज्ञानधातौ त्रिविध इति भवेत् प्राणवायुश्च शून्ये
वायोर्मध्ये समानः शिखिनि पुनरुदानोऽम्भसि व्यान एव।
भूम्यां नागोऽथ कूर्मोऽपि कृकरपवनो देवतत्तो धनञ्ज-
श्चत्वारो वायुवह्न्योरपि पयसि महो संभवन्ति क्रमेण। (का. त. २.२४)

षोडशवर्षान्ते आकाशधातोरानन्दवायुः, ज्ञानधातोः सहजानन्दवायुः। (वि. प्र., पृ. १६९)

प्राणोऽपानः समानः कमलवसुदले मारुतश्चाप्युदानो
व्यानो नागश्च कूर्मोऽथ कृकरपवनो देवदत्तो धनञ्जः।
इत्येवं नाडिचक्रे दशविधपवनाः संस्थिताः कर्मभेदैः
शङ्खिन्यन्तं त्विडाद्यं स्वहृदयकमलं नाभिचक्रं समस्तम्॥
प्राणः प्राणं करोत्यर्कशशिपथगतस्त्वन्नपानं समस्तम्
आपानो नेत्यधस्तात् सकलसमरसं नेति काये समानः।
काये स्पन्दत्युदानो मुखकरचरणैर्गीतनाट्यं करोति।
व्यानो व्याधिं करोति प्रकृतिगुणवशाद् गात्रभङ्गं तथैव॥
नागोऽप्युद्गारमेव स्फुटकरचरणात् संकुचन् कूर्मवायुः
क्रोधं क्षोभं समस्तं स कृकरपवनो जृम्भिकां देवदत्तः।
कायं पञ्चत्वं गतं त्यजति न नृपते वायुरेको धनञ्ज
एवं प्राणादिसर्वे प्रकृतिगतगुणान् वायवो न त्यजन्ति॥ (का. त. २.४२-४४)

दशविद्याः

सर्वतन्त्रे श्रुते ज्ञाते सटीके महाधिपतित्वाय यथानुक्रमेणोक्ता दशविद्याः समर्पणीया गृहस्थशिष्येण गुवे। अत्र मूलतन्त्र भगवानाह--

भागिनेया दुहित्री च भगिनी जननी तथा।
भार्याया जननी चैव मातुलस्य तथाङ्गना॥
पितुर्भ्रातुस्तथा भार्या भगिनी जनकस्य तु।
स्वमातुर्भगिनी चैव स्वभार्या वररूपिणी॥
ताराद्या धर्मधात्वन्ता दशविद्याः स्वतोग्रजाः।
सेककाले प्रदातव्याः शिष्येण मोक्षकाङ्क्षिणा॥...
अयव्याद्यास्तु क्रमाच्छ्रूद्री क्षत्रिणी ब्राह्मणी तथा।
वैश्या डोम्बी च कैवर्ती नटीका रजकी तथा॥
चर्मकारी च चण्डाली धर्मधात्वन्तजा दश।
महाविद्याः समाख्याता भुक्तिमुक्तिफलप्रदाः॥

एवमुक्तक्रमेण दशपारमिता-दशवशिता-दशभूमि-दशबलान्याभिर्विसुद्धानि भवन्तीत्याधिपत्यकरणाय दशमुद्रा देया मण्डलाचार्यपदाभिलाषिणेति तथागतनियमः। (से. टी., पृ. २३)

दिव्या

त्वङ्मलस्य बहिर्द्योतमानस्य वहनाद् दिव्या सव्यकर्णे। (व. ति. टी., पृ. ४४)

दुन्दुरम्

अभव्यं दुन्दुरं ख्यातम्। (हे. त. २.३.५७)

दुन्दुरा असमयिनः। (हे. त. टी., प. ५४a)

दुन्दुरा रागादयः क्लेशाः। (हे. त. टी., प. ५४b)

दुहिता

गुणस्य दुहनात् प्रज्ञा दुहिता च निगद्यते। (हे. त. १.५.१८)
निरुत्तरबुद्धगुणानां परिपूरणाद् दुहिता। ३(हे. त. टी., प. २०a)

दूरङ्गमा

गुह्यगुदौ मेलापकम्, प्रज्ञोपाययोः समापत्तौ तन्मीलनान्नाड्यैक्याच्च। सैव दूरङ्गमा, तन्नाडीसौशीर्यस्य दूरत्वात्। (व. ति. टी., पृ. २८)

दृष्टयः

समा क्रूरा ललाटी च पातना कथिता सदा।
वश्या वामाश्रिता दृष्टिः पुत्तली द्वौ च वामतः॥
आक्ऱ्इष्टिर्दक्षिणे भागे पुत्तली द्वौ हि चोर्ध्वतः।
मध्यमा स्तम्भना दृष्टिर्द्वौ च नासाजडान्तरे॥
पूतना रेचकेनैव कुम्भकेन वशीकरेत्।
पूरकेणैव त्वाकृष्टिः प्रशान्तकेन स्तम्भना॥
पातना स्निग्धवृक्षेषु वश्या पुष्पे प्रकीर्तिता।
आकृष्टिर्वज्रवृक्षेषु स्तम्भना सचरे तृणे॥ (हे. त. १.११.१-४)

चतस्रो दृष्टयः--पातना, वश्या, आकृष्टिः, स्तम्भना चेति। समा अवक्राक्रूरा सक्रोधा ललाटीपुत्तलीभ्यां ललाटश्रिता पातना। या वामाश्रिताभ्यां वामप्रेक्षणी सा वश्या। या ऊर्ध्वाश्रिताभ्यां दक्षिणप्रेक्षणी साऽऽकृष्टिः। या तु नासाजटाश्रिताभ्यां संमुखप्रेक्षणी सा स्तम्भना। (हे. त. टी., प. ४२a)

देवता

देहे संभवतीत्यस्माद् देवतेति निगद्यते। (हे. त. १.५.१४)

देवतायोगः

वैरोचनाभिसम्बोधितन्त्रेऽपि द्विधदेवतायोगं निर्दिशति--देवतारूपमपि गुह्यकाधिपते! द्विविधम्--परिशुद्धमशुद्धं च। तत्र परिशुद्धमधिगतरूपं सर्वनिमित्तापगतम्। अपरिशुद्धं सर्वनिमित्तं रूपवर्णसंस्थानं च। तत्र द्विविधेन देवतारूपेण द्विविधकार्यनिष्पत्तिर्भवति। सनिमित्तेन सनिमित्ता सिद्धिरुपजायते। अनिमित्तेनानिमित्ता सिद्धिरिष्टा जिनवरैः।

सदाऽनिमित्ते स्थित्वा वै सनिमित्तं प्रसध्यते।
तस्मात् सर्वर्पकारेण निर्निमित्तं निषेध्यते॥ इति। (गु. स. प्र., पृ. ११९)

देवीकोट्टः

अथ चक्षुषी देवीकोट्टः। (व. ति., पृ. ३२)

देव्यास्तस्या एव कोट्ट इव कोट्टो देवीकोट्टः, तदाश्रये नेत्रद्वये तत्प्राप्तेः। (व. ति. टी., पृ. ३२)

देवीकोट्टे तु या नाडी मृद्वी लङ्केश्वरी मता।
बुक्कं वहति या नित्यं सर्वदेहाधिवासिनी॥ (व. ति., पृ. ४३)

दोषा

दुष्यते या स्वविषयेण विक्रियत इति दोषा चक्षुर्धातुवहा कक्षयोः, कक्षदर्शनान्मनोविकृतेः, ममेयमिति द्वेषोदयाच्च। द्वेषो दोष इति पर्यायौ। (व. ति. टी., पृ. ४४)

द्रुमच्छाया

द्रुमच्छायेव शीतलाऽऽप्यायनाद् द्रुमच्छाया। (व. ति. टी., पृ. ४७)
समाधीन्द्रियं द्रुमच्छाया। (व. ति., पृ. ५४)

द्वयेन्द्रियप्रयोगः

सत्यद्वयाद्वैधीकरणेन महावज्रधरनिष्पादनं द्वयेन्द्रियप्रयोगः। (गु. स. प्र., पृ. १६४)

द्वादशग्रन्थिभेदाः

इह प्राणिनां तनुगता द्वादशराशयो ग्रन्थिशब्देनोच्यन्ते, तेषां द्वादशराशीनां भेदा वर्षायनकालयुगऋतुमासपक्षदिनघटिकापाणीपलश्वासा इति। (वि. प्र., पृ. २५८)

द्वादशसत्यानि

अविद्या-संस्कार-विज्ञान-नामरूप-षडायतन-स्पर्श-वेदना-तृष्णा-उपादान-भव-जाति-जरामरणानीति द्वादश सत्यानि गर्भजानां सावरणानि, बुद्धानां निरावरणानीति। द्वादशसंक्रान्तिभेदेन प्राणवायुप्रवाहात् सावरणानि गर्भजानाम्, बुद्धानां निरावरणानि द्वादशाङ्गनिरोधादिति। (वि. प्र., पृ. २०)

द्वेषरतिः

द्वेषोऽक्षोभ्यस्तस्मिन् रतिर्द्वेषरतिः, नेयार्थः। द्वेषक्लेशविशुद्धे रतिर्द्वेषरतिः, नीतार्थः। (गु. स. प्र., पृ. २५)

धर्मः

स्वलक्षणधारणाद् धर्मो घटपटस्तम्भकुम्भादिभूतविकारः। तस्य स्वरूपेण नास्ति रूपमिति श्रिहेरुकतन्त्रतत्त्वपटले। (च. को. व्या., पृ. १७)

धर्मकायः

हृच्चक्रं धर्मकायः, हूँकारादिरूपस्कन्धधातूपसंहारकत्वात्। (व. ति. टी., पृ. ७८)
हृदयेऽपि तथा चैव पद्ममष्टदलान्वितम्। (व. ति., पृ. ७८)
अष्टदलमहापद्मे धर्मकायः प्रवर्तते। (व. ति., पृ. ७८)

धर्मचक्रे तु विख्यातो हूँकारोऽनाहतो मतः।
पञ्चस्वरसमायुक्तो यरलवैर्विभूषितः॥ (व. ति., पृ. ७९)

श्रीहेरुक एव धर्मकायः...स एव मन्त्रः...स एव घुणः। (व. ति. टी., पृ. ८३)

सुविशुद्धमहाज्ञानं सर्वदेवीस्वरूपकम्।
वज्रसत्त्व इति ख्यातं परं सुखमुदाहृतम्॥
स्वयम्भूरूपमेतत्तु धर्मकायं प्रकीर्तितम्। (व. ति., पृ. ८५)

प्राङ्निर्णीतः परमसुखस्वभावो हेतुप्रत्ययनिरपेक्षो यः स धर्मकाय इत्युच्यते। (व. ति. टि., पृ. ८५)

धर्मतत्त्वम्

प्रक्षेप्तुं चापनेतुं च शक्यते यत्र नैव हि।
प्रक्षेपाय च यत् त्यक्तं धर्मतत्त्वं तदुच्यते॥ (प्र. वि. सि. १.१८; अ. प्र. वि. सि., पृ. २१४)

धर्मधातुः

तदेव सर्वबुद्धानामालयं परमाद्भुतम्।
श्रेयः सम्पत्करं दिव्यं धर्मधातुः प्रकीर्तितम्॥ (प्र. वि. सि., १.२१)

तथता, भूतकोटिः, धर्मधातुरित्यनर्थानन्तरम्। (हे. त. टी., प. ८a)

मृतकं धर्मधात्वात्मकं विदुः। (हे. त. १.३.४)

मृतको हि निरात्मकः, नैरात्म्यं च धर्मधातुः, धर्मधातुनिष्ठाश्च डाकडाकिन्यः। (हे. त. टी., प. १४b)

धर्ममुद्रा

धर्ममुद्रा धर्मधातुस्वरूपा निष्प्रपञ्चा निर्विकल्पा अकृत्रिमा उत्पादरहिता करुणास्वभावा परमानन्दैकसुन्दरोपायभूता। प्रवाहनित्यत्वेन सहजस्वभावायाः प्रज्ञायाः सहजोदयत्वेन भिन्ना या सा धर्ममुद्रेत्यभिधीयते। अन्यल्लक्षणं तस्याः सङ्कुलाज्ञानान्धकारतरणिकिरणसदृशं गुरूपदेशतस्तृणतुषमात्राभ्रान्तिशल्यवर्जितं बोद्धव्यम्। सकलक्षितिजलपवनहुताशनैर्महाशबलितं त्रैलोक्यैकस्वभावं निस्तरङ्गशून्यताकरूणाभिन्नं च बोद्धव्यम्। .....ललना, रसना, तयोर्मध्यदेशे निवासिनी अवधूती। सैवाधिगतसकलपदार्थसहजस्वभावैकचित्तवृत्तेः सद्गुरूपदेशतो धर्ममुद्रा, महामुद्राया अभेदेन हेतुभूता। (अ. व. सं., पृ. ३३-३४)

धर्ममेघा

अङ्गुष्ठजानुनी उपश्मशानम्, पूर्ववत्। सैव धर्ममेघा, धर्मस्याधारणे स्थिरस्य मज्जोत्तरस्योर्ध्वस्रोतसा मेघवद्वऱ्षणे नीरुजो वा वृष्टियोगाद् बोधिचित्तकुन्दुरपातात्। (वा. ति. टी., ऱ्. २९)

धर्माक्षरम्

अनाहताक्षरमेव धर्माक्षरम्। .....परमविरमौ रागविरागौ कालविकालरूपौ द्वावुपेक्षध्वम्। तत्र धर्माक्षरमुक्त्रलक्षणं षोडशीकलारूपं मध्ये लक्षयेदिति। (दो. को. व्या., ऱ्. १६०-१६१)

धर्मानुस्मृत्युपस्थानम्

कुशलाकुशलाव्याकृतादिभेदभिन्नानां धर्माणां पूर्ववच्छून्यत्वाद् यत् स्मृतेरुपस्थानं तद्धर्मानुस्मृत्युपस्थानम्। (व. ति., पृ. ५२)

धर्माः

ध्रियन्ते बोधिसत्त्वैर्मार्गस्थैश्चेतसि व्यवस्थाप्यन्त इति धर्माः कुशलपक्षसंगृहीताः, अनाश्रवत्वात्, मार्गसत्त्वस्यैकान्तकुशलत्वात्। (व. ति. टी., पृ. ५२)

धर्मोदयः

तद्यथा भगवान् बुद्धः संबुद्धोऽकारसंभवः॥
अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः।
महाप्राणो ह्यनुत्पादो वाग्व्याहारविवर्जितः॥...
सर्वैश्वर्यादिधर्माणां बुद्धानामुदयो यतः।
स धर्मोदय आख्यातः पुण्यज्ञानमयः परः॥ (से. टी., पृ. ६९-७०)

धर्मोदयः सन्ध्याभाषया प्रज्ञाधर्मोदयः। ....पुनरपि सदर्थवेदनेन सम्यग् यथाभूतभावस्य धर्मस्य उदयस्थानं यद्भवति स एव धर्मोदयः। (च. को. व्या., पृ. ८४)

त्रिकोणाकारसंभूता धर्मोदय इति स्मृता।
चन्द्रार्कवारिसम्पूर्णा प्रज्ञारूपा महोज्ज्वला॥ (अ. क्र. ९८)

धर्मा आर्यधर्माः, तेषां समुदयोऽस्मिन्निति धर्मोदयो धर्मधातुः। इह तन्मुद्रायोषित्कमलं धर्मोदयः। (हे. त. टी., प. ३३b)

धर्मोदया

आकाशमहाभूतस्वभावं धर्मोदयाख्यं महावज्रधरस्वभावं शरच्छशधरधवलमधः सूक्ष्मम् उपरि विशालं त्रिकोणमन्तर्गगनस्वरूपम्। (सा. मा., पृ. १९५)

त्रिकोणं मण्डलं रम्यं वज्रारल्लिविनिःसृतम्।
धर्मोदयेति विख्यातं योषितां भग इत्यपि॥ (व. ति., पृ. ७१)

धातवः

धातवश्चतस्रो ज्ञानदेव्यः। (व. ति. टी., पृ. ६७)

धारणा

स्वमन्त्रं हृदये ध्यात्वा प्राणं बिन्दुगतं न्यसेत्।
निरुद्धमिन्द्रियं रत्नं धारयेद् धारणं स्मृतम्॥
निरोधवज्रगते चित्ते निमित्तोद्ग्रहः प्रजायते।
पञ्चधा तन्निमित्तं तु बोधिवज्रेण भाषितम्॥
प्रथमं मरीच्याकारं धूमाकारं द्वितीयकम्।
तृतीयं खद्योताकारं चतुर्थं दीपमुज्ज्वलम्॥
पञ्चमं तु सदालोकं निरभ्रगगनोपमम्।
स्थिरं तु वज्रमार्गेण स्फारयेत् तं स्वधातुषु॥ (से. टी., पृ. ३०)

धारणाया बलान्नित्यं वज्रसत्त्वं समाविशेत्। (से. टी., पृ. ३१)

एवं मानसत्राणभूतत्वात् स्वमन्त्रं प्राणं हृदये कर्णिकातः कर्णिकामध्ये ध्यात्वा बिन्दुगतम्, बिन्दुस्थानं ललाटम्, तत्र न्यसेद् निरोधयेत्। निरुद्धं सेन्द्रियं रत्नं धारयेद् गमनागमनरहितं कुर्यात्। धारणं स्मृतं धारणाङ्गमुक्तम्। निरोध्यतेऽत्रेति निरोधः, निरोधश्चासौ वज्रश्च निरोधवज्रोऽवधूतीमार्गः। तत्र गते चित्ते प्राणवायौ निमित्तोद्ग्रहः प्रजायते। निमित्तानां धूमादीनामुद्ग्रहः प्रतिभासो जायते उत्पद्यते। प्रथमद्वितीयनिमित्तविशेषकथनं तु गुरुपराधीनत्वकथनार्थम्। स्थिरं निश्चलीभूतं धारणाङ्गेन महारत्नं कर्तृकमिति चण्डालीं नाभिचक्रादुत्थापयेत्। वज्रमार्गेण मध्यमा खधातुषु उष्णीषचक्रे साऽप्युष्णीषकमलकर्णिकोत्थिता सती हंकारं स्र्वावयित्वा कायवाक्चित्तज्ञानस्वभावैश्चतुर्बिन्दूनानन्दादिभेदेन कुलिशमणिकमलकर्णिकां नयेदिति धारणानन्तरं स्वरश्चण्डाली ज्वलतीति गुरूपदेशः।

धारणाया बलादिति नियतं (नित्यं) शून्यताबिम्बं ग्राह्यं वज्रसत्त्वो ग्राहकचित्तं समाविशेत्। धारणाया बलेन प्राणस्य गतागतक्षयेण एकलोलीभवति। (से. टी., पृ. ३४)

धारा

धाराऽनामिका। (सा. मा., पृ. ६९)

ध्यानम्

पञ्चकामाः समासेन पञ्चबुद्धप्रयोगतः।
कलपनं ध्यानमुच्येत तद्ध्यानं पञ्चविधं भवेत्।
वितर्कश्च विचारश्च प्रीतिश्चैव सुखं तथा।
चित्तस्यैकाग्रता चैव पञ्चैते ध्यानसंग्रहाः॥
गुह्यतन्त्रेषु सर्वेषु विविधाः परिकीर्तिताः।
गुह्यत्रयोदयस्तर्को विचारस्तत्प्रयोगता॥
तृतीयं प्रीतिसंस्काशं चतुर्थं सुखसंग्रहम्।
स्वचित्तं पञ्चमं ज्ञेयं ज्ञानज्ञेयोदयक्षयम्॥
सर्वबुद्धमयं शान्तं सर्वकायप्रतिष्ठितम्॥ (से. टी., पृ. ३०)
ध्यानज्ञानं समापद्य पञ्चाभिज्ञात्वमाप्नुयात्। (से. टी., पृ. ३१)

पञ्चकामा इति सर्वे भावाः स्थिरचलात्मकाः। पञ्चबुद्धप्रयोगत इति सर्वबुद्धप्रयोगतः। स्वभावादेव सर्वभावाः सर्वबुद्धप्रयुक्ताः सर्वबुद्धमयाः। तेषां सर्वबुद्धमयानां सर्वभावानां योगिप्रत्यात्मवेद्यत्र्यध्वत्रैधातुकप्रतिभासैकरूपेण कल्पनं विकल्पनं विकल्पविभ्रमापगतं प्रबन्धप्रवृत्तं यद् दर्शनं तद् ध्यानमुच्यते। तच्च ध्यानं वितर्कादिभेदेन पञ्चविधं भवति।

कायवाक्चित्तात्मकं त्रैकालिकं त्रैधातुकं गुह्यत्रयम्। तस्य चैत्यस्थूलाकारेण त्रैधातुकप्रतिभासमात्रत्वेन सकृदुदयो...अवगतिरवबोधो यः स गुह्यत्रयोदयः। स एव वितर्कः। ....तस्मिन् वितर्कविषये प्रभोगता आभोगः स्थावरजङ्गमघटपतादिविशेषेण भावग्रहणं विचारः। प्रीतिसंकाशं विचारविषयेषु सर्वभावेषु चित्तारोपणहेतुभूतं सौमनस्यम्। आरोपितचित्तेभ्यः सर्वभावेभ्यः सुखसम्पत्तिः कायप्रस्रब्धिहेतुकः सुखसंग्रहः। ज्ञानस्य चक्षुरादिषट्प्रवृत्तिविज्ञानस्य ज्ञेये रूपादिके धर्मधातुपर्यन्ते उदयो ज्ञानज्ञेयोदयः, तस्य क्षयः चित्तस्य ग्राह्यग्राहकशून्यत्वलक्षणा चित्तैकाग्रता स्वचित्तमित्युक्तम्। तदेवंविधं चित्तं सर्वबुद्धमयम्, ग्राह्यादिविकल्पशमनात्। शान्तं त्रैधातुकप्रतिभासमात्रत्वेन शून्यतैकनिष्ठम्। सर्वकामप्रतिष्ठितम्, सर्वकामाः सर्वभावाः स्वाभिन्नप्रतिभासौकरूपेण प्रतिष्ठिताः स्थित अत्रेति। (से. टी., पृ. ३१-३२)

ध्यानाङ्गेन बिम्बे स्थिरचित्तो यदाऽनिमिषचक्षुर्भवति, तदा दिव्यचक्षुर्भवति। एवं दिव्यश्रोत्रादिको भवतीति पञ्चाभिज्ञात्वमाप्नुयात्। (से. टी., पृ. ३४)

ध्यानं च सर्वस्वभावानुगतानाभोगस्वरसवाहितया। (अ. व. सं., पृ. ३)

नगरम्

अङ्गुल्यां नगरः स्मृतः। (व. ति., पृ. ३५)

न गच्छन्तीति नगा अङ्गुल्यः, अतः परमप्रसरणान्नगरम्। (व. ति. टी., पृ. ३४)

नगरे तु सुवीराख्या मेदवसावहा स्थिता। (व. ति., पृ. ४७)

नरकम्

नरकं नरकपालम्। (हे. त. टी., प. ६४b)

महानरकं द्विजकपालम्। (हे. त. टी., प. ६७b)

नर्तकी नर्तकी भण्यते प्रज्ञा चञ्चलत्वान्महाकृप। (हे. त. १.५.१८)
आदिकर्मिकसत्त्वैः स्थिरीकर्तुमशक्यत्वान्नर्तकी। (हे. त. टी., प. २०a)

नष्टचन्द्रः

सूर्यस्य षोडशी कला उष्णीषकमले गता सैव नष्टचन्द्र इत्याख्यातः। (से. टी., पृ. ५५)

नाडी

द्वात्रिंशन्नाड्यः। द्वात्रिंशद् बोधिचित्तावहा महामुखस्थाने स्रवन्ते। तासां मध्ये तिस्रो नाड्यः प्रधानाः --ललना, रसना, अवधूती चेति।

ललना प्रज्ञास्वभावेन रसनोपायसंस्थिता।
अवधूती मध्यदेशे ग्राह्यग्राहकवर्जिता॥
अक्षोभ्यावहा ललना रसना रक्तवाहिनी।
प्रज्ञाचन्द्रावहा ख्याताऽवधूती सा प्रकीर्तिता॥ (हे. त. १.१.१३-१५)

बोधिचित्तावहा इति सहजवाहिन्यः। (हे. त. टी., प. ५b)

नाडीचक्रम्

तस्योर्ध्वे हृत्प्रदेशे वसुदलकमले संस्थितं नाडिचक्रं
प्राणाद्यं वायुवृन्दं रविशशिशिखिनो वामसव्ये न मध्ये।
वामे नाडी शशाङ्को वहति खलु सिता दक्षिणे रक्तसूर्या
मध्ये कालाग्निरुद्रा प्रवहति विषुवे हीननिश्वासषष्टिः॥ (का. त. २.४१)

पिङ्गाः सूक्ष्मास्त्विडाद्यास्त्रिविधपथगता रोहिणी हस्तिजिह्वा
पूषा षष्ठी जयाऽगापि च वसु नवमेऽलम्बुषा श्रीकुहे च।
दिक्संख्या शङ्खिनी या स्रवति नरपते बोधिचित्तं सुखान्ते
एतत् श्रीनाडिचक्रं भवति बहुविधं सन्धिभेदैरनेकैः॥ (का. त. २.४५)

एवं सर्वाः षट्त्रिंशत् कुलनायिका भवन्ति --षड् रसरूपिण्यः, षड् धातुरूपिण्यः, षडिन्द्रियरूपिण्यः, षड् विषयरूपिण्यः, षट् कर्मेन्द्रियरूपिण्यः, षट् कर्मेन्द्रियविषयरूपिण्यः; एवं षड् रूपप्रवर्तिन्यः, षड् वेदनाप्रवर्तिन्यः, षट् संज्ञाप्रवर्तिन्यः, षट् संस्कारप्रवर्तिन्यः, षड् विज्ञानप्रवर्तिन्यः, षड् ज्ञानप्रवर्तिन्य इति षट्त्रिंशत् कुलनाड्योऽप्याधाराध्येसम्बन्धेन द्वासप्ततिरिति ज्ञेयाः। (वि. प्र., ऱ्. १८८-१८९)

नाडीयोगः

ललनारसनयोर्योगान्नाडीयोगं मध्यमायां भावयेत् प्राणवायुम्, अपानं शङ्खिन्यां विण्मूत्रनाडीयोगमिति। (वि. प्र., पृ. २२८)

नाड्यः

नवस्रोतोगता नाड्यो नवद्वारेषु संस्थिताः।
दशमी भगमध्ये तु तासां श्रेष्ठतराऽपरा॥

ललाटस्थानमारभ्य हंकारचक्रनिर्णयम्।
स्रवन्त्यो बोधिचित्तानि द्वात्रिंशदप्यहर्निशम्॥ (व. ति., पृ. २६)

काकास्यादिस्वभावा नाड्यः। (व. ति. टी., पृ. २७)

स्थानानि सर्वनाडीनां समाख्यातानि सर्वतः।
एषु स्थानेषु डाकिन्यो नाडीरूपेण संस्थिताः॥ (व. ति., पृ. ३६)

द्वात्रिंशतो नाडीनां नामानि श्रिहेवज्रे....। एता द्वात्रिंशत् सन्ध्यानाडीचतुष्टयेन सह षट्त्रिंशत्। त्रिवृताद्या अवधूत्याद्याश्चाष्टौ वर्जयित्वा परिशिष्टा अभेद्याद्याश्चतुर्विशतिः प्रचण्डाद्या विज्ञेयाः। (व. ति. टी., ४३)

इत्येता वज्रयोगिन्यो नाडीरूपेण संस्थिताः।
चित्तचक्रस्य योगिन्यः सप्तत्रिंशदुदाहृताः॥
प्रज्ञापारमिता ह्येताः शरीरे संव्यवस्थिताः॥ (व. ति., पृ. ५०)

सप्तत्रिंशद्बोधिपाक्षिकधर्मविशुद्धाः शरीरगताः सर्वा नाड्यो देवतावर्णभुजसंस्थानमाश्रित्य संस्थिताः। (व. ति. टी., पृ. ५७)

नादः

प्रज्ञाग्राहकज्ञानविकल्पो नादः। (च. को. व्या., पृ. १४६)

नादो रश्मिरेखा। (सा. मा., पृ. १५३)

तेनैव भिद्यते नादो वह्निसन्तोषकारिणा।
सम्पूर्णं मण्डलं तेन भवत्येव न संशयः॥ (व. ति., पृ. ६३)
नादो हि सर्ववर्णानां पदवाक्यप्रभेदिनाम्।
एकः कारणतां प्राप्ते नाभिदेशे व्यवस्थितः॥...
अनेनाप्यायितो नादः सन्तोषपदभाग् भवेत्।
वसन्ततिलकायोगः स एष विनिगद्यते॥ (व. ति. टी., पृ. ६४)
नादस्तु मन्त्र इत्युक्तः। (व. ति., पृ. ६८)

यो।यं प्रागुक्तो नाभिधेशादुच्चारणात् प्राणवायुः, स एव सर्वमन्त्रहेतुत्वान्मन्त्र इत्युच्यन्ते। (व. ति. टी., पृ. ६८)

नामाभिषेकः

ब्राह्मणादिवर्णामेककल्कत्वाभिप्रायेणामुकवज्र इति नामकरणान्मैत्र्यादिचतुर्ब्रह्मविहारपरिपूर्त्या सर्वकालं रागद्वेषादिविशुद्धिर्निरावरणत्वेनेति नामाभिषेकः षष्थः। (से. टी., पृ. २१)

नासिका

नासिकाशब्देन नाभिहृत्कण्ठललाटोष्णीषकमलकर्णिकोच्यते। (से . टी., पृ. ३२, ४२)

निकायचतुष्टयम्

चत्वारो निकायाः -- स्थवरी, सर्वास्तिवादी, संविदी, महासंघी चेति। (हे. त. १.१.२९)

निकायो भिक्षुसंघः। (हे. त. टी., प. ९(अ)

निमित्तम्

अपरं ज्वालादिबिन्दुपर्यन्तं षडन्यनिमित्तं मायाजाले समाधिपटले प्रोक्तं भगवता।

तद्यथा--

गगनोद्भवः स्वयम्भूः प्रज्ञानानानलो महान्।
वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः॥
जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः।
विद्याराजोग्रमन्त्रेशो मन्त्रराजो महार्थकृत्॥

इति गाथाद्वयेन मायाजालेऽपरनिमित्तं भगवतोक्तं सन्ध्याभाषान्तरेण। पूर्वोक्तान्निरभ्रगगनाद् भवति प्रतिभासो यः स गगनोद्भवः स्वयम्भूः सर्वविकल्परहितचित्तादिति। अत्र प्रज्ञाज्ञानानल इति ज्वालाप्रतिभासः। वैरोचनो महादीप्तिरिति चन्द्रप्रतिभासः। स एव ज्ञानज्योतिर्विरोचन इति। जगत्प्रदीप इति सूर्यप्रतिबासः। ज्ञानोल्का इति राहुप्रतिभासः। महातेजाः प्रभास्वर इति विद्युत्प्रतिभासः। विद्याराजोग्रमन्तेश इति बिन्दुप्रतिभासे नीलवर्णचन्द्रमण्डलाकार इति। मन्त्रराजो महार्थकृदिति सर्वाकारत्रैधातुकभावप्रतिभासो मायास्वप्नप्रतिभासेन तुल्यो दृश्यते योगिना प्रत्याहारेणेति चक्षुरादीन्द्रियकरणेन। (से. टी., पृ. ४०-४१)

निमित्तमपि त्रिधा--आदिनिमित्तम्, मध्यनिमित्तम्, अन्तनिमित्तं चेति। आदिनिमित्तं धूमादिमार्गः षडङ्गयोगेन बिम्बनिष्पत्तिरक्षाणलाभः। मध्यनिमित्तं परमाक्षरक्षणैरष्टादशशतैरादिभूमिलाभः पञ्चाभिज्ञाऽदृष्टार्थसन्दर्शनं लौकिकसिद्धिप्राप्तिरिति। अन्तनिमित्तं बुद्धत्वं वज्रधरत्वमेकविंशतिसहस्रैः षट्शताधिकैः परमाक्षरक्षणैर्द्वादशभूमिलाभान्महामुद्रासिद्धिरिति। (वि. प्र., पृ. १९)

निमित्तदशकम्

सकलबाह्याध्यात्मव्यापकशुक्लधूमाकारः शून्याभासः। अयं च मेघाभासानन्तरमुत्पद्यते। यथोक्तम्--

"प्रथमं मेघवद् भाति द्वितीयं धूम्रसंनिभम्" इति।

एवं चलज्जलाकारमरीचिः, खद्योतदीपाकारौ प्रसिद्धौ, एतानि चत्वारि निमित्तानि नीरन्ध्रगृहेऽन्धकारभवत्वाद् रात्रियोग आकाशयोगश्च। यथोक्तं श्रीसमाजादौ प्रथमद्वितीयविलोमेन -

निरोधवज्रगते...निरघ्रगगनसन्निभम्॥ इति।

ततो निरघ्रगगनसमाभासपूर्वो वह्न्याकारः शून्याभासोज्ज्वलः। इन्द्रभास्कराभासौ प्रसिद्धौ। तम इति राह्वालोकः कृष्णरत्नवदाभासः। कलेति विद्युदाभासः। महाबिन्दुरिति सचराचरद्योतकनीलवर्णचन्द्रमण्डलाकाराभासः। एतानि षण्णिमित्तानि निरभ्रगगनालोकभवत्वाद् दिवायोगोऽभ्यवकाशयोगश्च। (से. टी., पृ. ४७-४८)

निमित्तपञ्चकम्

निरोधवज्रगते चित्ते निमित्तोद्ग्रहः प्रजायते।
पञ्चधा तन्निमित्तं तु बोधिवज्रेण भाषितम्॥

प्रथमं मरीच्याकारं धूमाकारं द्वितीयकम्।
तृतीयं खद्योताकारं चतुर्थं दीपमुज्ज्वलम्॥
पञ्चमं तु सदालोकं निरभ्रगगनोपमम्। (गु. स., पृ. १६४) (से. टी., पृ. ३०)

निरोध्यतेऽत्रेति निरोधः, निरोधश्चासौ वज्रश्च निरोधवज्रोऽवधूतीमार्गः। तत्र गते चित्ते प्राणवायौ निमित्तोद्ग्रहः प्रजायते निमित्तानां धूमादीनामुद्ग्रहः प्रतिभासे जायते उत्पद्यते। प्रथमद्वितीयनिमित्तविलोमकथनं तु गुरुपराधीनत्वकथनार्थम्। ( से. टी., पृ. ३३)

पृथिव्या अम्भसि लयनान्मरीचिकाकारं प्रतिभासते प्रथमं निमित्तम्। एवमम्भसस्तेजसि लयनाद् धूम्राकारं द्वितीयम्। तेजसो वायौ लयनात् खद्योताकारं तृतीयम्। सूक्ष्मधातोराभासत्रयभासनाद् दीपवदालोकपुञ्जस्वभावं चतुर्थम्। प्रकृत्याभासलयनान्निरभ्रगगनवत् सततालोकं प्रभास्वरमात्रं भवति पञ्चमम्। एतानि पञ्चनिमित्तानि निर्वाणं प्रापयन्ति। यथोक्तं कर्मान्तविभागे--

प्राङ्मही सलिलं गच्छेज्जलं गच्चति पावकम्।
पावको वायुमन्वेति वायुर्विज्ञानमाविशेत्॥
विज्ञानं धारणां त्वित्थं प्रभास्वरमथाविशेत्। (गु. स. प्र., पृ. ११८)

नियमः

नियमः श्रावककोटिसंवरः पञ्चकामोपभोगरहितः शीलसंवर इति। (वि. प्र., ऱ्. १५)

निरक्षरम्

क्षरति नश्यतीति क्ष्रम्। ततोऽन्यदक्षरम्। तद्विनिर्गतं निरक्षरम्, उत्पादनिरोधरहितमिति यावत्। (गु. स. प्र., पृ. ७१)

निरज्ञ्जनः

निर्गतानि अञ्जनानि रागद्वेषादिक्लेशा अस्मिन्निति निरञ्जनः सहजकायः। (दो. को. व्या., पृ. १४९)

निरन्तः (मन्त्रः)

प्रणवोऽस्ति न च स्वाहा स निरन्तो निगद्यते। (गु. स. प्र., पृ. १५३)

ओङ्कारादिफट्कारावसानिको निरन्ताख्यो मन्त्रः। (गु. स. प्र., पृ. २२१)

निरन्वयः

अन्वयः प्रज्ञोपायात्मको ग्राह्यग्राहकलक्षणो धर्मः, सोऽन्वयो निरस्तो येनाऽसौ निरन्वयः। (वि. प्र., पृ. १७)

इहान्वयः प्रज्ञापक्ष उपायपक्षश्च, सोऽन्वयो भिन्नपक्षो निरस्तो यस्मात् तत् तन्त्रं निरन्वयम्। प्रज्ञोपायात्मकं योगतन्त्रमिच्यद्वयमुच्यते। (वि. प्र., पृ. १८)

निरंशुकम्

अस्थ्याभरणं निरंशुकम्। (हे. त. २.३.५६)

निरोधवज्रः

निरोध्यतेऽत्रेति निरोधः, निरोधश्चासौ वज्रश्च निरोधवज्रोऽवधूतीमार्गः। (से. टी., पृ. ३३)

निर्माणकायः

चतुष्षष्टिदलं चैव निर्माण परिकीर्तितम्। (व. ति., पृ. ७८)

नाभिचक्रं निर्माणकायः, बुद्धबोधिसत्त्वरूपाणां स्कन्धायतनस्वभावसर्वसत्त्वानामुत्पद्यतेः। (व. ति. टी., पृ. ७८)

नाभिमध्ये स्थितं पद्मं चतुष्षष्तिदलान्वितम्। (व. ति., पृ. ७८)

निर्माणचक्रमध्ये तु वर्गाष्टकनिवेष्टिकः।
वर्णानामग्ररूपोऽसावकारः परमाक्षरः॥ (व. ति., पृ. ७९)

भगवध्यगतश्चासौ सर्षप इति विश्रुतः।
सूर्यरूपः समाख्यतो निर्माणकाय उच्यते॥ (व. ति., पृ. ८२)

निर्वाणम्

निश्चलं सर्संकल्पवायुभिरचलत्वात्, निर्विकल्पं मुद्रारहितत्वेन, निर्विकारमिन्द्रियातीतत्वात्, उदयान्तगमनरहितत्वेन शरदमलमध्याह्नसंनिभं खसमाकारमेतन्निर्वाणं भण्यते। (दो. को. व्या., १५९)

निर्वाणं महामुद्रापदम्। (दो. को. व्या., पृ. १६०)

संसाराद् ऋते न्यान्यन्निर्वाणमिति कथ्यते। ....
अमी धर्मास्तु निर्वानं मोहात् संसाररूपिणः। (हे. त. २.४.३२, ३४)

निष्पन्दः

कर्ममुद्रां प्राप्य निष्पन्दफलमुत्पद्यते। सदृशस्पन्दो निष्पन्दः। ...न तत् सहजं निष्पन्दम्, किन्तु सहजसदृशम्। तत्स्वरूपेण प्रज्ञाज्ञानानन्दत्रयं क्षणचतुष्ट्ययान्वितं सेके। हठयोगे च कर्ममुद्राया निष्पन्दफलमुक्तम्। (अ. व. सं., पृ. ४३-३३)

नैरात्म्ययोगिनी

त्रिनाड्यां चापयित्वा निराभाषीकृत्य सैव परिशुद्धाऽवधूतिका नैरात्म्ययोगिनी। (च. को. व्या., पृ. १४)

पक्षः

पक्षो गुरुदेवताविषये सम्प्रत्ययः। (गु. सं. प्र., पृ. ९८)

पक्षः संवृतिः परमार्थश्च। तयोरभ्यन्तरं मध्यम्। किं तत् ? सत्यद्वयाद्वैधीकारेण स्थितिः। (गु. स. प्र., पृ. १२१)

पञ्चक्रमः

उत्पत्तिक्रममादौ स्यान्मन्त्रमूर्तिप्रसाधकः।
चित्तनिध्यप्तिमात्रं तु द्वितीयः क्रम उच्यते॥
तृतीयश्च क्रमो रम्यः संवृतेः सत्यदर्शनम्।
सत्यस्य संवृतेः शुद्धिश्चतुर्थक्रम उच्यते॥
पञ्चमो युगनद्धाख्यो यत् सत्यद्वययोजनम्।
साधनाङ्गमिदं षष्ठं सर्वतन्त्रार्थसंग्रहम्॥ (गु. स. प्र., पृ. १)

पञ्चज्ञानानि

आदर्श-समता-प्रत्यवेक्षणा-कृत्यानुष्ठान-सुविशुद्धधर्मधातुलक्षणानि। (अ. व. सं., पृ. ३७)

पञ्चतथागतज्ञानम्

विचित्रज्ञेयचक्रप्रतिबिम्बितत्वात् स एवादर्शज्ञानम्। अपदादीनामेकतमत्वात् स एव समताज्ञानम्। स एव विवृतप्रविचयात् प्रत्यवेक्षणाज्ञानम्। जगदर्थस्य तत एव प्रवृत्तेः स एव कृत्यानुष्ठानज्ञानम्। धर्मतारूपत्वाद्धर्मधातुज्ञानमसाविति। (व. ति. टी., पृ. ८४-८५)

पञ्चतथागताः

मण्डलाधिष्ठितभूभागे चतुरस्रादिचतुर्णामन्यतममभिमतमण्डलकं कृत्वा तन्मध्ये विश्ववर्णाष्टदलकमलवरटाके सूर्यमण्डलोपरि नीलहूंकारपरिनिष्पन्नं भूस्पर्शमुद्राधरं कृष्णवर्णमक्षोभ्यम्, तदनु पूर्वदले शुक्ल ॐकारनिष्पन्नं शुक्लवर्णं बोध्यङ्गीमुद्राधरं वैरोचहम्, ततो दक्षिणदले पीतत्रांकारजं पीतवर्णं वरदमुद्राधरं रत्नसम्भवम्, ततः पश्चिमदले रक्तह्रींकारसम्भूतं रक्तवर्णं समाधिमुद्राधरममिताभम्, तत उत्तरदले शामखँकारजं शामवर्णमभयमुद्राधरममोघसिद्धिं च भावयित्वा...। एते पञ्चतथागताः कषायवस्त्रप्रावृताः सोष्णीषाः शिरस्तुण्डमुण्डिताः सूर्यमण्डलस्थाः। वैरोचनः परं शशिमण्डली। ततश्चत्वारोऽक्षोभ्याभिमुखाः, अक्षोभ्यस्तु साधकाभिमुकः। (अ. व. सं., पृ. ५)

पञ्चधातुडाकिन्यः

पातनी पृथ्वीधातुरब्धातुर्मारणी स्मृता॥
आकर्षण्यग्निधातुस्तु वायुर्नत्रेश्वरी मता।
आकाशधातुरुक्तस्तु पद्मज्वालिन्यनाकुला॥ (व. ति., पृ. १६-१७)

पञ्चप्रदीपम्

मांसग्रहणेन पञ्चप्रदीपपरिग्रहः। (गु. स. प्र., पृ. १९४)

महामांसं पञ्चप्रदीपम्। (गु. स. प्र., पृ. १९५)

गोश्वदन्तीहयनराणां मांसं मक्षिकाच्छ्र्दिमिश्रं मधुना मिश्रं भुक्तं पञ्चप्रदीपं सकलरुजहरं भवति। अपरं मक्षिकाच्छर्दिर्माधवी। (वि. प्र., पृ. २३६)

पञ्चबाणाः

पङ्च बाणा मादन-मोहन-निर्मोहन-मूर्च्चन-निश्चेष्टीकरणमिति पञ्च शराः। (गु. स. प्र., पृ. १९७)

पञ्चमण्डलम्

जानुद्वयकरद्वयशिरोभिः कृतनमस्कारमित्यर्थः। (त. सं. टी., पृ. २४)

पञ्च मार्गाः

संभारमार्गः, प्रयोगमार्गः, दर्शनमार्गः, भावनामार्गः, अशैक्षमार्गश्चेति पञ्च मार्गाः। (व. ति. टी., पृ. ५१)

एषां पञ्चानां मार्गाणां द्वाभ्यां संग्रहो वेदितव्यः--लौकिकमार्गेण, लोकोत्तरमार्गेण चेति। तत्र लौकिकमार्गे कति धर्माः ? द्वाविंशतिधर्माः। कतमे स्मृत्युपस्थान न्द् ओफ़् पगे १०९ ग्रोस्स्पगे ६५ नेत्।

सम्यक्प्रहाण-ऋद्धिपाद-इन्द्रिय-बलाख्यानि। लोकोत्तरमार्गे कति धर्मा ? पञ्चदश। कतमे ? सप्त बोध्यङ्गानि, आर्याष्टाङ्गमार्गश्चेति। (व. ति. टी., पृ. ५२)
पञ्चरत्नानि

पञ्चरत्नानि प्रवाल-मुक्ता-राजावर्त-सुवर्ण-रौप्याणि। (हे. त. टी., प. ४०a)

पञ्चरश्मयः

पञ्चरश्मयो यरलवहा इति वाय्वनलादिपञ्चबीजानि। (गु. स. प्र., पृ. २१८)

पञ्चवर्णं महारत्नम्

वामदक्षिणवाहद्वयनिरोधेन केवलमध्यमावाही प्राणवायुः पञ्चवर्णं महारत्नमित्युच्यते। (से. टी., पृ. ३३)

पञ्चस्कन्धबुद्धाः

रूपं वैरोचनो बुद्धो वज्रसूर्यस्तु वेदना।
पद्मनर्तेश्वरः संज्ञा संस्कारो वज्ररात् तथा॥
विज्ञानं वज्रसत्त्वस्तु.........। (व. ति., पृ. १४-१५)
पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः। (व. ति. टी., पृ. १५)

पञ्चस्कन्धाः

पञ्चस्कन्धाः पञ्चडाकाः। (व. ति. टी., पृ. ६७)

पञ्चाकाराभिसम्बोधिः

आदर्शज्ञानवांश्चन्द्रः समतावान् सप्तसप्तिकः।
बीजैश्चिह्नैः स्वदेवस्य प्रत्यवेक्षणमुच्यते॥
सर्वैरेकमनुष्ठानं निष्पत्तिः शुद्धिधर्मता। (१.८.६-७) (हे. त. टी., प. १५b)

आदर्शज्ञानरूपा सा समताज्ञानभाविनी।
सद्भूतप्रत्यवेक्षा च कृत्यानुष्ठानं सैव तु॥
सुविशुद्धधर्मधातुः सा। (हे. त. २.४.४६-४७)

पञ्चाक्षरं महाशून्यम्

अत्र पञ्चाक्षराणि स्वरसंज्ञान्यनुच्चार्याणि। तद्यथा-मध्ये अकारशून्यं कर्तिकाकारम्। दक्षिणे ऋकारशून्यं बिन्दुद्वयम्। वामे उकारशून्यं बिन्दुमेकम्। पूर्वे ह्रकारशून्यं दण्डाकारम्। पश्चिमे ऌकारशून्यं हलाकृतिः। एवं दीर्घगुणवृद्धियणादेशविकारा ज्ञातव्या इति। एवं वँकारः पञ्चाक्षरो महाशून्यो निरालम्बकरूणात्मकः परमाणुधर्मतातीतः प्रतिसेनारूपसदृशो योगिगम्य इति। (वि. प्र., पृ. ४८)

पञ्चामृतम्

पञ्चामृतेनेति दधि-दुग्ध-धृत-गोमूत्र-गोमयैः। (हे. त. टी., प. ११.११a-b)
पञ्चामृतेनेत्याध्यात्मिकेन। (हे. त. टी., प. ११b)
विण्मूत्रग्रहणेन पञ्चामृतपरिग्रहः। (गु. स. प्र., पृ. १९४)
विण्मूत्रं पञ्चामृतम्। (गु. स. प्र., पृ. १९५)

पञ्चामृतयोगः

इह "यथा बाह्ये तथा देहे" (पृ. ४७) इति वचनाद् बाह्ये पञ्चद्रव्याणि, अध्यात्मनि पञ्चद्रव्याण्येकीकृत्य पञ्चामृतयोगः, ततः पञ्चामृतं भक्षितं योगिनामायुदं स्यादिति। बाह्ये विट्शब्देन वैरोचनिर्बलिर्वलेर्वशाद् गन्धको विडुच्यते, अध्यात्मनि विडेव, अनयोस्तुल्यभागः। मूत्रं बाह्ये विष्णुनृपो भि(भृ)ङ्गराजरसम्, अध्यात्मनि मूत्रमेव। रक्तं बाह्ये अभ्रकम्, अध्यात्मनि स्त्रीपुष्पम्, तुल्यभागमिति। शुक्रं बाह्ये पारदः, अध्याट्मनि शुक्रमेव, अनयोः समभागमिति। नृमांसं बाह्ये त्रिफला, अध्यात्मनि मज्जा, अनयोरपि समभागमिति। एवं विडेकभागः, मांसस्य पादोनभागः, रक्तार्द्धभाग़ः, शुक्रस्य एकपादः, एतदेकीकृत्य मूत्रेण सप्तवारान् भावयेत्। आतपे भूयो भूयः शोषयित्वा ततः प्रत्यहं कर्षमात्रं धृत-मधुभ्यां भक्षितं षण्मासावधेरायुदं भवति, शाकाम्लतैललवणवर्जनादिति पञ्चामृतनियमः। (वि. प्र., पृ. २३६)

पञ्चायतनवीराः

नेत्रं तु मोहवज्राख्यं द्वेषवज्राभिधा श्रुतिः॥
ईर्ष्यावज्रस्तथा घ्राणं रागवज्रो मुखं स्मृतम्।
कायो मात्सर्यवज्रस्तु पञ्चैते स्थूलदेवताः॥ (व. ति., पृ. १५-१६)

पञ्चोपहारपूजा

पञ्चोपहाराः पुष्पादयः। ते पूजा पञ्चोपहारपूजा (गु. स. प्र., पृ. ७७)
पञ्चोपहारा पञ्चविषयाः। (गु. स. प्र., पृ. २१९)

पटलः

पटो यथा दंशमशकाद्युपद्रवं निवारयति, तथायं तन्त्रार्थः क्लेशकर्मजन्माद्युपद्रवनिवारणात् पट इव पटः, तं लाति गृह्णातीति तद्धारको ग्रन्थसमूहः पटलः। (गु. स. प्र., पृ. २९)

पद्मम्

भवदोषैरलिप्तत्वाज्ज्ञानं तत् पद्ममुच्यते। (ज्ञा. सि. १५-२५)
एकारं पद्ममित्युक्तम्। (अ. प्र. वि. सि., पृ. २३८)

पद्मनर्तेश्वरः

पादपृष्ठात् पद्मनर्तेश्वरस्य बोधिचित्तस्याश्रवरूपस्य प्रवर्तनात् पद्मनर्तेश्वरः। (व. ति. टी., पृ. ४९)

पद्मनर्तनं पद्मनर्तस्तत्रेश्वर इव प्रभवतीति पद्मनर्तेश्वरः। (व. ति. टी., पृ. ८२)

पद्मप्रकाशः

पद्मे प्रकाशते शोभत इति पद्मप्रकाशः स्वयम्भूः। (व. ति. टी. पृ. ८२)

पद्मभाजनम्

पद्मभाजनं कपालम्। (हे. त. टी., प. ६४a)

पद्मान्तकः

जगदाह्लादनं सर्वं नातिगृह्णन् विचारयन्।
भवेष्वलिप्तसम्बोधिस्तेन पद्मान्तकः स्मृतः॥ (ज्ञा. सि. १५.१७)

पद्मान्तककृत्

उदकालिप्तपद्मवत् क्लेशैरवलिप्तीकृत्य तानेव नाशयतीति पद्मान्तकृत्, नेयार्थः। पद्मं योनिः, तस्मिन् द्वयेन्द्रियसमापत्त्युपायेन परमानन्दसुखं करोत्युत्पादयतीति पद्मान्तकृत्, नीतार्थः। (गु. स. प्र., पृ. २६)

परद्रव्यरताः

सम्यक् संबुद्धज्ञानं यद् द्रव्यं तदभिधीयते।
तदाहरणशीला ये परद्रव्यरता मताः॥ (गु. स. प्र., पृ. ४७)

परमरतिः

परमरतिः परमा प्रज्ञा प्रभास्वरलक्षणं ज्ञानम्। (हे. त. टी., प. ४०b)

परमादिबुद्धः

एकक्षण-पञ्चाकार-विंशत्याकार-मायाजालाभिसम्बोधिलक्षणोऽक्षरसुखः परमः, तेनादिबुद्धः परमादिबुद्धः। (वि. प्र., पृ. १७)

परमेश्वरः

परमेश्वरः परमवीरयोगिनीस्वभावा वर्णास्तेषामीश्वरश्चक्रवर्ती। तथाहि नपुंसकबीजचतुष्तयपरिहारेणाकारादयो द्वादशवर्णा भगवान् द्वादशभुजः। दग्धबीजानि चत्वारि डाकिनी-लामा-खण्डरोहा-रूपिण्यः। कादयो हान्ता मकारबिन्दुलाञ्छितास्त्रिचक्रवीरवीरिण्यः। यादयो हान्ताः काकास्याद्याः। क्षकारः क्षयडाकः। मध्येऽकारो वज्रवाराहीति। (व. ति. टी., पृ. ७३)

पातालवासिन्यः

प्रेतपुरीमारभ्य कुलतान्तं पातालवासिन्यः। (व. ति. टी., पृ. २७)

पानम्

करुणा पीयते नित्यं सर्वसत्त्वार्थहेतुना।
योगपानरतो योगी नान्यपानेन मज्जनम्॥ (हे. त. १.६.२६)

सालम्बनभावना करुणा। तस्य महासुखरसास्वादः पानम्। तदेव पीयते नित्यमहर्निशं जगदर्थकरणाय। ....योगः समाधिः। स एव पानम्। तत्रैव रतिः प्रीतिः। अतो नान्यन्मदिरादिपानेन चर्यायोगेनामज्जनं कर्तव्यम्, मोहप्राधान्यान्महान् योगविघ्नः स्यात्। (हे. त. टी., प. २३b)

पपदेशना

यत्किञ्चिदस्यां जातवन्यासु वा जातिष्वनादिनिधने जातिसंसारे संसरता मया पापकं कर्म कायेन वाच मनसापि कृतं कारितं क्रियमाणमनुमोदितं तत्सर्वं भगवतां त्रैलोक्यमहोत्सवानां गुरुबुद्धबोधिसत्त्वानां पुरतः प्रतिदेशयामीति। (सा. मा., पृ. ५५)

द्वेषाच्च रागादथ मोहतोऽपि कायेन वाचा मनसोऽन्यतोऽपि।
पापं कृतं कारितमेव यत्तत् सर्वं जिनानां पुरतो दिशामि॥ (सा. मा., पृ. ११६)
मन्त्री शुभाभिवृध्यर्थं कुर्यात् पापस्य देशनाम्। (सा. मा., पृ. १६९)

यत्किञ्चिदनादिसंसारे संसरता मया पापकं कर्म कायेन वाचा मनसाऽपि कृतं कारितं क्रियमाणमनुमोदितं वा तत्सर्वं प्रतिदेशयामि। (सा. मा., पृ. २०१)

सर्वमात्मनः पापं प्रतिदेशयामि। (सा. मा., पृ. २२५)

यत्कृतं मया पापकं कर्म कारितमनुमोदितं तदद्य भगवत्याः प्रत्यक्षतो देशितं सर्वमिति। (सा. मा., पृ. ३७३)

पारमिता (दश)

दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता।
प्रणिधानं बलं ज्ञानं मताः पारमिता दश॥ (अ. व. सं., पृ. १२)

पावकी

अश्रुणा मुखस्य शोकस्य वा ज्वलनात् पावकी पादपृष्ठे। (व. ति. टी., पृ. ४६)

पीठानि

पीठं चैवोपपीठं च क्षेत्रोपक्षेत्रमेव च।
छन्दोहस्तु तथा चान्यदुपछन्दोहमित्यपि॥
मेलापकस्तथा चैव उपमेलापकस्तथा।
श्मशानोपश्मशानं च पीठादिदशभूमयः॥ (व. ति., पृ. ३०)

पुण्यपरिणामना

सप्तविधानुत्तरपूजया यदेव कुशलमुत्पन्नं तदेव संबोधये परिणामयामीति। (सा. मा., पृ. ५६)

सप्तविधानुत्तरपूजापापदेशनाकुशलमूलमुपजातं तत्सर्वं सम्यक् संबोधये परिणामयामीति। (सा. मा., पृ. २०२)

सर्वं चात्मनः कुशलमनुत्तरायां सम्यक्संबोधौ परिणामयामि। (सा. मा., पृ. २२५)

पुण्यानुमोदना

संबुद्धप्रत्येकश्रावकबुद्धानां तत्सुतानामपि बोधिसत्त्वानां सत्त्वानामपि त्रैलोक्योदरवर्तिना यदेव कुशलं तत्सर्वमनुमोदयामीति। (सा. मा., पृ. ५५)

पुण्यं च यत् सर्वतथागतानामन्यच्च संबोधिसमाश्रितानाम्।
प्रत्येकबुद्धस्य च सद्गुरूणां सर्वं जिनानां स्वनुमोदयामि॥ (सा. मा., पृ. ११६)

ततोऽनुमोद्य सम्बुद्धबोधिसत्त्वगणस्य च।
शैक्षाशैक्षादिसत्त्वानां कृत्स्नं पुण्यं स्वभावतः॥ (सा. मा., पृ. १६९)

सुगतप्रत्येकश्रावकजिनानां तत्सुतानामपि बोधिसत्त्वानां सदेवकसब्रह्मकलोकानां यत् कुशलं तत् सर्वमनुमोदयामीति। (सा. मा., पृ. २०१)

सर्वबुद्धबोधिसत्त्वार्यपृथग्जनानां सर्वकुशलमनुमोदे। (सा. मा., पृ. २२५)

पुद्गलः

पूर्यते कर्मभिर्गलति तेषामेव निर्जरणात्। (हे. त. टी., प. ३८a)

पुल्लीरम्

पुल्लीरे तु प्रचण्डाख्या नखदन्तवहा स्मृता। (व. ति., पृ. ४२)

पुष्पम्

इह पुष्पशब्देन ड(द्र)म्मरूपकद्रव्यमुच्यते। (वि. प्र., पृ. २४०)

पुष्पनस्यम्

पुष्पं स्त्रीरजः, बाह्ये केशराजिका भृङ्गराजः, तस्य रसः स्त्रीपुष्पतुल्यं सन्ध्यानं पुष्पनस्यम्। (वि. प्र. पृ. २३६)

पूजा

तद्रश्मेरेव निर्गतपुष्पधूपदीपगन्धचूर्णचीवरच्छत्रध्वजघण्टापताकादिभेस्तेषां च बाह्याध्यात्मपूजादिभिः संपूजनं पूजा। (सा. मा., पृ. ११६)

दशदिक्षु स्थिता बुद्धा बोधिसत्त्वाश्च नायकाः।
तेभ्यो नानाविधां पूजां कृत्वा पुष्पादिभिर्धिया॥ (सा. मा., पृ. १६९)

तदनु तेषामाकाशदेशावस्थितानां महाकारुणिकानां बुद्धबोधिसत्त्वानां दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकादिभिर्महती पूजा। (सा. मा., पृ. २०१)

स्वहृदि आदिस्वरसंभूतचन्द्रमण्डलस्थमष्टमं बीजं तदुद्भवपञ्चोपचारपूजान्वितो नानाविधदेवीः पूजाभ्रजालविसरैः पूजयेदिति पूजा। (सा. मा., पृ. ३७३)

षडायतनधातूनां स्कन्धादीनां विशेषतः॥
देवतारूपिणां तेषां डाकिनीनां तथैव च।
योगः पूजा समाख्याता तेन ते पूजिता यतः॥ (व. ति. टी., पृ. ६७)

निःस्वभ्वपदाभ्यासाद् देवतारूपभावना।
सा मता महती पूजा सर्वबुद्धप्रसाधनी॥ (व. ति. टी., पृ. ६७)

पूर्णः

क्लेशज्ञेयसमापत्त्यावरणवासनाया हरणमपगम एव पूर्णशब्देन व्यपदिश्यते। न ज्ञानच्छेदो न च तस्य पूरणम्। तदुक्तमागमे--

नित्योदितं तु बुद्धानां नाविद्यादुष्टचेतसाम्। (से. टी., पृ. ६२)

सरहपादैश्च--

जयति सुखराज एकः कारणरहितः सदोदितो जगताम्।
यस्य च निगदनसमये वचनदरिद्रो वभूव सर्वज्ञः॥ (से. टी., पृ. ६३)

बोधिचित्तस्य महासुखस्वभावो यः स पूर्णा भण्यते। इयमेव योगिभिः स्थिरीकरणीया। ....पूर्णायामस्थिरीकृतो ह्यसौ सुखेन्दुः पुनः पुनरुत्पद्यते नश्यति च। (से. टी., पृ. ६४)

पृथिवीमण्डलम्

हृदये पृथिवी चैव चतुरस्रं समन्ततः। (व. ति., पृ. ६२)

पोषधदनम्

प्रथमं तु पोषधदानम्। समन्वाहर भदन्ताचार्य ! अहमित्थंनामा अमुकनामा उपासको बुद्धं धर्मं सङ्घं शरणं गच्छामि यावदाबोधिमण्डतः। एवं द्विरपि त्रिरपि। एवं त्रिशरणगतं मां वदन्तो धारयन्त्विति। समन्वाहर आचार्य ! अहममुकनामोपासक इमां वेलामुपादाय यावत् श्वः सूर्योदयमिहान्तरे सर्वप्राणिवधात्, परस्वहरणात्, अब्रह्मचर्यात्, वाग्भेदात्, अनृतात्मकदोषजननात्, पानात्, विकालाशनात्, मालावर्णकनृत्यगीतलभितात्, शयनासनादुच्छ्रिताद्याहं विरतः करोम्यहं तावत्। तद्गुणैरष्टभिः पोषधगाथाः। (अ. व. सं., पृ. ३-४)

देशना सर्वपापानां पुण्यानां चानुमोदना।
कृत्योपवासं चरिष्यामि आर्याष्टाङ्गिकपोषधम्॥ (अ. व. सं., पृ. ६)

प्रकृतिः

प्रकृतिः संवृत्सत्यम्। (गु. सं. प्र., पृ. ३३।७१)

चतुर्विशत्यात्मिका प्रकृतिः पुरुषस्य ग्राहकधर्मिणो ग्राह्यधर्मिणी प्रकृतिः। स्वाभाविकी पुनर्ग्राह्यधर्मरहिताऽपरा प्रभास्वराऽस्तीति। (वि. प्र., पृ. १७३)

इह शरीरे आदावष्ट्विधा प्रकृतिः पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यहङ्कारात्मिकाष्टविधेति। ....त्रिविधा सत्त्वरजस्तमोभेदेन जाग्रत्स्वप्नसुषुप्तधर्मिणी प्रकृतिः। ...अपरा चतुर्थी प्रकृतिर्ज्ञानमूरिती। (वि. प्र., पृ. २१६)

आद्याः शून्यानि पञ्च प्रकृतिरविकृतिः श्रीकलाबिन्दुनादं
कालश्चित्तं च बुद्धिः प्रकृतिरपि तथान्ये स्वरा मारुताद्याः।
स्थूला वर्गाक्षराणि त्रिगुणितदशकं षोडशान्ये विकारा-
स्तेषां मध्ये न वज्री प्रकृतिविकृतिर्व्यापको निःस्वभावः॥ (का. त. २.८७)
शान्ते भावेऽमरत्वं भवति नरपते तामसे नारकत्वं
तिर्यक्त्वं राजसे च प्रवरभुवितले मानुषत्वं च मिश्रे।
भूतत्वं त्रिप्रकारं रजसि तमसि वै सात्त्विकोऽन्योन्यमिश्रै-
र्यद्भावं मृत्युकाले स्मरति च मनसा सम्भवस्तत्र जन्तोः॥ (का. त.२.९३)

प्रचण्डा

प्रशान्तं चण्डत्वं यस्याः सा प्रचण्डा, महासुखस्थानमासाद्येति यावत्। (व. ति. टी., पृ. ४६)
छन्दर्द्द्युत्पादः प्रचण्डा। (व. ति., पृ. ५३)

प्रज्ञा

प्रज्ञा बिम्बलक्षणा सर्वाकारावबोधिनी सर्वधर्मशून्यता। (से. टी., पृ. ७१)
ग्राह्यग्राहकरहिता स्वभावशून्यताधीः प्रज्ञा। (से. टी., पृ. ४७)
प्रज्ञा च सर्वधर्मानुपलब्धिलक्षाणाऽधिगमनतया। (अ. व. सं., पृ. ३)

तत्र ग्राह्यग्राहकाकारधारणी बुद्धिश्चतुर्धातुपञ्चस्कन्धस्वरूपषड्विषयात्मकाङ्गनास्वभावा प्रज्ञा (अ. व. सं., पृ. ३९)

प्रज्ञा चित्रं विपाकश्च विमर्दश्च विलक्षणम्।
अस्यास्तत्त्वमतो विद्धि येनासि जगतो विभुः॥
प्रज्ञा भवः समश्चासौ त्रिकायं च त्रियानकम्।
सैव चक्रं सुखोपायं योगिनां तदहं परम्॥
मञ्जुवज्रो महामाया वज्रडाकस्तथाऽपरे।
प्रज्ञैव भेदतो भाति मुक्तिः सैव जिनात्मिका॥...
विज्ञायापगतं चित्तं निरालम्बमनुत्तरम्।

शान्तं शुद्धं निराभासं वित्तिः प्रज्ञेति कीरित्ता॥ (अ. व. सं. पृ. ५२) प्रज्ञा पङ्कजम्। (त. सं., पृ. ५२)

प्रज्ञा पङ्कजम्। (त. सं. टी., पृ. ९)

परामर्षणयोगेन धर्माणां निःस्वभावता।
ज्ञानज्ञेयविभागेन प्रज्ञातत्त्वं तदुच्यते॥ (प्र. वि. सि. १।१४)

बिसतन्तुसमाकारा अध ऊर्ध्वं व्यवस्थिता।
प्रज्ञा नामेति विख्याता सर्वबुद्धैस्तु मातरः॥ (अ. क्र. १०८-१०९)

धर्मतोऽप्रविचयलक्षणा श्रुतचिन्ताभावनामयी। द्विविधा प्रज्ञा-प्रत्यवेक्षणा नैवेर्धिकी चेति। प्रति प्रति प्रत्यवेक्षते, अन्विष्यते, ज्ञायते, चक्षुर्वज्रेणा ऱ्ह्यते सा प्रत्यवेक्षणा प्रज्ञा। नैर्वेधिकी निर्विद्ध्यतेऽनया प्रत्यवेक्षणा सा नैर्वेधिकी प्रज्ञा (अ. प्र. वि. सि., पृ. २११)

अभावलक्षणा प्रज्ञा। ...निःस्वभावलक्षणा प्रज्ञा। (अ. प्र. वि. सि., पृ. २१२)

प्रज्ञा पद्मं विधीयते। ...तेन पद्मस्वभावेन लोचना-मामकी-पाण्डरा-तारा-समन्त-भद्रा-पञ्चदेवीशून्यतास्वभावा प्रज्ञा स्वभावेनोक्ता। (अ. प्र. वि. सि., पृ. २१६)

योषित् तावद् भवेत् प्रज्ञा। (हे. त. १.८.२८)

सर्वधर्माणां शून्यता प्रज्ञा। (हे. त. टी., प. ३७b)

प्रज्ञाज्ञानाभिषेकः

प्रज्ञाज्ञानैत्यत्र व्युत्पत्तिद्वयम्--प्रज्ञया ज्ञानम्, तत्रैव बाह्यज्ञानम्। तत्र ग्राह्यग्राहकाकारधारणी बुद्धिश्चतुर्धातुपञ्चस्कन्धस्वरूपषड्विषयात्मकाङ्गनास्वभावा प्रज्ञा। तस्या निमित्तभूताया बोधिचित्तज्ञानमिति पूर्वा व्युत्पत्तिः। आकारद्वयशून्या सैव विज्ञानमित्यपरा व्युत्पत्तिः। (अ. व. सं., पृ. ३८-३९)

प्रकृष्टं ज्ञानं प्रज्ञा सर्वधर्मस्वचित्तमात्रताज्ञानम्, तत्प्रतिपादनार्थमभिषेकः प्रज्ञाज्ञानाभिषेकः....। बाह्यमुद्रया तत्प्रज्ञाज्ञानं वेदितव्यम्। तस्मिन्नभिषेकेऽभिषिक्तेऽधिमात्रेन्द्रियाणां मायोपमसमाधिर्धर्ममुद्रोपदेशः कथ्यते। (हे. त. टी., प. ७b)

प्रज्ञाधृक्

प्रविदयलक्षणा प्रज्ञा, तां धारयतीति प्रज्ञाधृक्, नेयार्थः। प्रज्ञा चन्द्राभासः, तां सूक्ष्मधातुना धारयतीति प्रज्ञाधृक्, नीतार्थः। (गु. स. प्र., पृ. २४)

प्रज्ञान्तकः

मिथ्याज्ञानं निर्वायाशु मूढसत्त्वप्रकाशितम्।
सम्यग्ज्ञानप्रकृष्टात्मयोगात् प्रज्ञान्तकः स्मृतः॥ (ज्ञा. सि. १५.१६)

प्रज्ञान्तकृत्

प्रज्ञया क्लेशं नाशयतीति प्रज्ञान्तकृत्,नेयार्थः। विकल्पात्मिका प्रज्ञा, तस्याः प्रभाश्वरप्रवेशेनान्तं करोति प्रज्ञान्तकृत्, नीतार्थः। (गु. स. प्र., २६)

प्रज्ञापारमिता

या च समन्तभद्रा देवती शून्यतारूपात्मिका, सा प्रज्ञापारमिता चतुर्देवीज्ञानात्मिका स्फारणसंहरणस्वभावेन व्यवस्थिता श्रीमहावैरोचनाकारज्ञानपरिणतस्वभावा समन्तभद्रा प्रज्ञापारमिताशब्देनोक्ता। ...या समन्तभद्रा प्रज्ञापारमिता साऽभावरूपा आकाशलक्षणत्वेन शून्यताकारा विविक्ता प्रकृतिप्रभास्वरा ज्ञानज्ञेयरहिता निःस्वभावलक्षाणा धर्मकायपरिणता सती वैनेयजनं प्रति सा व्यवस्थिता सती निर्माणादिकं प्रतिभासयति। (अ. प्र. वि. सि., पृ. २१६)

प्रज्ञा आलोकः। ....प्रज्ञोपायोपलब्धयः प्रज्ञेत्यभिमताः। तेषां पारमन्तम्, इता गता प्रज्ञापारमिता। ....परमार्थसत्यम्। (गु. स. प्र., पृ. ७०)

प्रज्ञाभिषेकः

विरमानन्दः प्रज्ञाभिषेकः। ...क्वचिद् योगतन्त्रे प्रज्ञोपाययोरन्योन्यलिङ्गनम्, तद्विशुद्धिः प्रज्ञाभिषेकः। (हे. त. टी., प. ५०a-b)

प्रज्ञेन्द्रियम्

समाधीन्द्रियोदानितान् धर्मान् भूतप्रत्यवेक्षया यद्विचारयति तत्प्रज्ञेन्द्रियम्। (व. ति. टी., पृ. ५४-५५)

प्रज्ञोपायः

उभयोर्मेलनं यच्च सलिलक्षीरयोरिव।
अद्वयाकारयोगेन प्रज्ञोपायः स उच्यते॥ (प्र. वि. सि. १.१७)

न केवलप्रज्ञामात्रेणं बुद्धत्वं भवति, नाप्युपायमात्रेण, किन्तु यदि पुनः प्रज्ञोपायलक्षाणौ समतास्वभाऔ भवतः, एतौ द्वावभिन्नरूपौ भवत, तदा भुक्तिर्मुक्तिश्च भवतीति। तथा चोक्तम् --

उपानयत्यभिमतं यन्नौकेवानुकूल्यतः।
तदानुकूलयोगेन सैवोपायः प्रकीर्तितः॥ (अ. प्र. वि. सि., पृ. २१४)

प्रज्ञया उपायः प्रज्ञोपाय इति, प्रज्ञाजनित उपाय इत्यर्थः। (अ. प्र. वि. सि., पृ. २१६)

प्रणामश्लोकः

लोकधातुष्वनन्तेषु यावन्तः ससुता जिनाः।
कायेन मनसा वाचा तान् सर्वान् प्रणमाम्यहम्॥ (सा. मा., पृ. २)

प्रतिष्ठा

पटादिषु देवतानामवस्थानम्ं प्रतिष्ठा। (हे. त. टी., प. ४२b)

प्रतिसेना

प्रतिसेनाशब्देन साधकचिन्तितो दर्पणादिषु प्रतिभासमानोऽर्थोऽभिधीयते। (से. टी., पृ. ४९)

प्रतिसेनादर्शनं कुमारिकया इवेति। (से. टी., पृ. ३१, ३८)

प्रतिसेनावतारतन्त्र किल दर्पणखङ्गाङ्गुष्ठप्रदीपचन्द्रसूर्योदककुण्डनेत्रेष्ववस्तुषु प्रतिसेनावतार उक्तः। (से. टी., पृ. ४९)

प्रतिसेनाव्यां हि दर्पणाद्युपलभ्यमानशरीरायां न रूपलक्षणम्, परमाणुद्रव्यसंरोहाभावात्। नारूपलक्षणम्, उपलभ्यमानस्य दुरपक्रमत्वात्। (से. टी., पृ. ७१)

प्रत्ययः

इह मन्त्रनये त्रिविधः प्रत्ययो भगवतोक्तः -- प्रथमं तावत् तन्त्रप्रत्ययः, ततो गुरुप्रत्ययः, तत आत्मप्रत्ययः। (वि. प्र. पृ. ३५)

आगमात् प्रत्ययश्चैव गुरुतः प्रत्ययस्तथा।
आत्मतः प्रत्ययश्चैव परतः प्रत्ययस्तथा॥
चतुर्भिः प्रत्ययैर्ग्राह्यम्..........।

इति तु वसन्ततिलकटीकायामुद्दृतं (१०।१०) गुह्यतत्त्वप्रकाशवचनम्।

प्रत्याहारः

दशानामिन्द्रियाणां तु स्ववृत्तिस्थं तु सर्वतः।
प्रत्याहार इति प्रोक्तः कामाहारं प्रति प्रति॥ (से. टी., पृ. ३०)
प्रथाहारं समापस्य सर्वमन्त्रैरधिष्ठ्यते। (से. टी., पृ. ३१)

इन्द्रियाणि इन्द्रियार्थाश्च इन्द्रियाणि, तेषां दशानामिन्द्रियाणां विषयविषयिणां स्ववृत्तिः स्वस्मिन्नात्मनि अनुवृत्तिर्वर्तनम्। सत्तामात्रता स्ववृत्तिः। विषयविषयिणां विषायभावोपगमनविषयग्रहणव्यापा(रो)परतिः स्ववृत्तिरित्यर्थ। तत्र स्थितं स्ववृत्तिस्थम्, न तु ग्राह्यग्राहकरूपेण प्रवृत्तिः स्ववृत्तिः। काम्यन्तेऽभिलष्यन्त इति कामा रूपादयो विषयाः, तेषामिन्द्रियैर्यदाहरणं स कामाहारः, तं कामाहारं प्रति चक्षुरादिभिरिन्द्रियै रूपादिविषयग्रहणं लक्षीकृत्य प्रतिनिवृत्तिः प्रत्याहार इति प्रोक्तः। (से. टी., पृ. ३१)

प्रथाहारं समापद्य धूमादिदशनिमित्तानुपूर्वेण त्रैधातुकबिम्बदर्शनं प्रत्याहाराङ्गेन स्थिरीकृत्य। यदा च बिम्बदर्शनं स्थिरीकृतं भवति प्रत्याहारेण, तदा योगी सर्वमन्त्रैरथिष्ठ्यते वचसा वरदानादिकं ददाति। (से. टी., पृ. ३४)

इह संसारिणामाहारश्चक्षुरादीन्द्रियै रूपादिविषयग्रहणम्, तत्परित्यागः प्रत्याहार इत्युच्यते। (से. टी., पृ. ४३)

प्रभाकरी

कक्षस्तनौ क्षेत्रम्, स्वेदक्षीरव्याजेन बोधिचित्तप्रसेचनात्। सैव प्रभाकरी, तदवलोकनान्मन आनन्दप्रभोत्पत्तेः। (व. ति. टी., पृ. २८)

प्रभावती

अग्निवर्णप्रभायुक्तत्वात् प्रभावती। (व. ति. टी., पृ. ४७)

मीमांसर्द्ध्युत्पादः प्रभावती। (व. ति. पृ., ५३)

प्रभास्वरम्

प्रभास्वरम्

प्रभास्वरं परमार्थसत्यम्। (गु. स. प्र., प. ३३, ७१)

पमुदिता

तत्र शिरःशिखादक्षिणकर्णपृष्ठानि पीठं बोधिचित्तास्पदम्, सैव प्रमुदिता, लयादिक्रमेणानन्दत्रयजननात्। (व. ति. टी., पृ. २८)

प्रयोगमार्गः

कतमः प्रयोगमार्गः ? दश धर्माः। कतमे दश ? पञ्चेन्द्रियाणि पञ्चबलानि चेति। (व. ति. टी., पृ. ५१)

तत्र प्रयोगमार्गे चत्वारो निर्वेधभागीया धर्माः - ऊष्मगताः, मूर्धगताः, क्षान्तिगताः, लौकिकाग्रधर्माश्चेति। ...तत्र प्रथमयोर्निर्वेधभागीययोरर्थे श्रद्धादयस्तानि पञ्चेन्द्रियाणीत्युच्यन्ते। .....निवर्तन्ते हि श्रद्धादयो यदा तदेन्द्रियव्यपदेशभाजिनो भवन्ति, यदा विपक्षेणाश्रद्धाकौशीद्यविस्मृतिविक्षेपायोनिशोमनसिकारपर्यायदौष्प्रज्ञैर्न निवर्तन्ते, पञ्च बलानि भवन्ति। (व. ति. टी., पृ. ५४-५५)

प्रवणा

पुरीषवाहित्वात् प्रवणा, वर्णव्यत्ययात् प्रणवा; वैरोचनप्रवाहिनी हृदये। (व. ति. टी., पृ. ४५)

प्राणातिपातिनः

स्कन्धादिनिःस्वभावत्वं ये कुर्वन्ति शमथोदितम्।
प्राणातिपातिनस्ते स्युरग्रयानव्यवस्थिताः॥ (गु. स. प्र., पृ. ४७)

प्राणायामः

पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभ्अकम्।
निश्चार्य पिण्डरूपेण नासिकाग्रे तु कल्पयेत्॥
पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम्। (से. टी., पृ. ३०)

प्राणायामेन नियतं बोधिसत्त्वैवेक्ष्यते। (से. टी., पृ. ३१)

पञ्चज्ञानानि अक्षोभ्यादिपञ्चबुद्धा ललनापञ्चमण्डलधर्मिणो विज्ञानादिपञ्चस्कन्धाः, तन्मयं श्वासं वामनासापुटे। इह पचभूतशब्देन रसनापञ्चमण्डलधर्मिणः पृथिव्यादिपञ्चधातवो (गृह्यन्ते)। तत्स्वभाअं श्वासं पञ्चभूतस्वभावकम्, (तस्मिन्) सव्यनासापुटे निश्चार्य पिण्डरूपेण। इह पिण्डं सव्यापसव्यमण्डलात्मकत्वं मध्यमायामवधूत्यां प्राणवायोः। तं च प्राणवायुं निश्चार्य पिण्डरूपेण नासिकाग्रे। अत्र नासिकाशब्देन नाभिहृत्कण्ठललाटोष्णीषकमलकर्णिकोच्यते। तं च प्राणवायुं निश्चार्य तस्माद् नासिकाया अग्रे कल्पयेद् भावयेत्। कर्णिकायां कर्णिकामध्ये न सव्यापसव्यकमलदले। अयमेव वामदक्षिणवाहद्वयनिरोधेन केवलमध्यमावाहिप्राणवायुः पञ्चवर्णं महारत्नमित्युच्यते। प्राणायाम इति वज्रजाप इति च मध्यमाभिन्नाङ्गत्वेन जप्तव्यः। (से. टी., पृ. ३२-३३)

यदा शशिरविमाऱ्गरहितो योगी भवति सदा मध्यमावाहकः, तदा प्राणायामेन शुद्धः सन् निरीक्ष्यते बोधिसत्त्वैः प्रशस्यते च। (से. टी., पृ. ३४)

प्राणायामो नाम ललनारसनावामदक्षिणमार्गनिरोधः। अवधूतीमध्यमार्गे प्राणवायोः सदा प्रवृत्तिरिति। पूरककुम्भकरेचक्रयोगेनावधूत्यां ओक्ङ्कारेण श्वासं हूँकारेण निरोधं आःकारेण निःश्वासं चन्द्रसूर्यराहुस्वभावेन कुरुते योगीति प्राणायामाङ्गम्। (से. टी., पृ. ३८-३९)

प्रेङ्खणम्

आगतिः प्रेङ्खणं प्रोक्तम्। (हे. त. २.३.५७)

प्रेतपुरी

प्रेताधिवासिनी लिङ्गे। (व. ति., पृ. ३४)

प्रेतानां पञ्चानामाकाशानां पुरी इव पुरी प्रेतपुरी सा ध्वजयुगली। (व. ति. टी., पृ. ३४)

प्रेताधिवासिनीसंस्था श्लेष्मला चक्रवेगिनी। (व. ति., पृ. ४६)

प्रेमणी

लोहितवहनाद्वसन्तपुष्पैः प्रेमोत्पादनात् प्रेमणी ऊर्वोः। (व. ति. टी., पृ. ४६)

फट्

फडिति मारणद्योतकं बीजम्। (गु. स. प्र., पृ. १६४)

फलचतुष्टयम्

एवंकारे च निष्यन्दं विपाकं धर्मचक्रतः।
पुरुषकारं सम्भोगे वैमल्यं सुखचक्रके॥
फलं चतुर्विधं प्रोक्तं निस्यन्दाद्यैर्विभेदितम्।
कर्मभुग भगवती प्रज्ञा कर्ममारुतचोदिता॥
यथा कृतं तथा भुक्तं निष्यन्द इति शब्दितम्।
विपाकं तद्विपर्यासं कर्मण्यल्पे महत्फलम्।
पुरुषकारमुपार्जनं वैमल्यं योगशुद्धितः॥ (हे. त. २.४.५६-५८)

एवंकारो योनिचक्रम्, तत्र निष्यन्दफलम्। धर्मचक्रे विपाकफलम्। संभोगचक्रे पुरुषकारफलम्। महासुखचक्रे वैमल्यफलम्। ....कर्ममुद्राभवनया प्रपञ्चलक्षणया तदनुरूपता प्रपञ्चचर्यया वक्ष्यमाणया संहरणस्फुरणादिना यथा आत्मनो वज्रधरकायो जगदर्थकारी कृतः, तथायं भुञ्जनप्राप्ति निष्यन्द इति शब्दितम्, निष्यन्दो हि हेतुसदृश इति वचनात्। विपाकमिति तद्विपर्यासम्, सदृशाद् विपरीतम्। तल्लक्षनं धर्ममुद्रायामस्तु। तथाहि-- धर्ममुद्रायां मायोपमसमाधिना निष्प्रपञ्चचर्यायां विहरन् सन् स्वल्पेऽपि कर्मणि मत्फलं वज्रधरपदं प्राप्नुयात्। महामुद्रायां संभोगे च पुनः पुरुषकारफलम्। तथा ह्यत्यन्तनिष्प्रपञ्चचर्यया आत्मनः पौरुषेयं साध्यं फलम्, अतः पुरुषकारफलम्, हीनवीर्याणां तत्राधिकाराभावात्। वैमल्यमिति। योगो महामुद्रायोगः, तस्य विसुद्धिः सेनानन्तरं महामुद्रासिद्धिः। तथाहि-अस्य कल्पासंख्येयभावनाविश्
उद्धधियामधिमात्रेन्द्रियाणां भावनानिरपेक्षैव महामुद्रासिद्धिः। फलं महासुखचक्रे स्थितम्। (हे. त. टी., प. ५८a-५९a)

बिलम्

बलं मांसम्। (हे. त. २.३.५६)

बालबुद्धिः

बालो मजुघोषः, तस्मिन् बुद्धिश्चिन्ता यस्य स बालबुद्धिः साधकः। (गु. स. प्र., पृ. १९७)

बिन्दुः

दीर्घहूँकारमुपायग्राहकज्ञानविकल्पं बिन्दुरिति। (च. को. व्या., पृ. १४९)

बिन्दुरित्यनया संज्ञया चतुर्थं शून्यमवगन्तव्यम्। ....तद्यथा--संज्ञास्कन्धतोयधातुजिव्हारूपपादादानं च -- एषां निरावरणता समरसत्वमेकलोलीभूतत्वं बिन्दुरिति चतुर्थाक्षरमहाशून्यमिति। अस्य संज्ञाचिह्नं मध्यचिह्नाद् वामेन बिन्दुमेकमनुच्चार्यमिति। (वि. प्र., पृ. ४८)

तस्य मध्ये तु हंकारो बिन्दुरूपो ह्यनाहतः। ....स्थितं तद्बीजरूपेण श्रवत्यमृतरूपेण....। (व. ति., पृ. ६२-६३)

मस्तिष्कस्य मध्येऽनाहताक्षरो हंकारः स्रवदमृतप्रसरत्वाद् बिन्दुर्वेदनशीलो बिन्दुरित्युच्यते। (व. ति. टी., पृ. ६३)

बिन्दिरिन्दुस्वरूपेण जगदाह्लादकारकः।
महासुखे महाचक्रेऽनाहताक्षररूपधृक्॥ (व. ति. टी., पृ. ६४)

बिम्बनिष्पत्तिः

तेन बीजेन देवतादेहस्य विश्वदलकमलकर्णिकारस्थितसूर्यादिमण्डलोपरि शवारूढस्यार्थपर्यङ्कताण्डवकारिणो निष्पत्तिर्बिम्बनिष्पत्तिः। (हे. त. टी., प. १४a)

बीजम्

इह द्वीन्द्रियसंयोगाद् यच्च्युतं भगरक्तं गुह्यकमले तद् बीजमित्युच्यते। (वि. प्र., पृ. १५९)

बीजसंग्रहः

तस्मिन्नेव प्रभास्वरे (चित्ते) यथायोगं सूर्यादिमण्डलोपरि किरणमालिदेवताबीजं दृष्ट्वा तस्माद् बीजाद् योगिनीकुलानन्तनिर्माणेन जगदर्थं कृत्वा तस्मिन्नेव बीजे समुपसंहारो बीजसंग्रहः। (हे. त. टी., प. १३b-१४a)

बुद्धः

वासनाक्षयजातेन ह्यद्वयो बुद्ध उच्यते। (अ. क्र. २८)

सत्त्वा बुद्धा एव किन्तु आगन्तुकमलावृताः।
तस्यापकर्षणात् सत्त्वा बुद्धा एव न संशयः॥ (हे. त. २.४.६९)

न बुद्धो लभ्यतेऽन्यत्र लोकधातुषु कुत्रचित्।
चित्तमेव हि संबुद्धो न बुद्धोऽन्यत्र दर्शितः॥ (हे. त. २.४.७५)

वस्तूनि सर्वधर्मास्तेषां बुद्धः सर्वाकारज्ञानं तेन ज्ञानेनाहं बुद्धः। (हे. त. टी., प. ४६a)

बुद्धो विगतमलं चित्तम्। (वि. प्र., पृ. २३)

बुद्धत्वम्

बुद्धत्वं सर्वज्ञता-सर्वाकारज्ञता-मार्गज्ञता-मार्गाकारज्ञता-दशबल-वैशारद्यादिगुणविभूतयः। (वि. प्र., पृ. १६)

बुद्धत्वं नाम संसारवासनारहितं चित्तम्। बुद्धो विगतमलं चित्तम्। (वि. प्र., पृ. २३)

स्वरूपावबोधाद् बुद्धस्तस्य भावो बुद्धत्वम्, तत् स्वदेह एव स्थितं व्यवस्थितम्। अत एव तदेव बुद्धक्षेत्रम्, अत्रैव प्रकृतिसिद्धस्य सहजबुद्धस्यावस्थानात्। (व. ति., पृ. २९)

बुद्धपूजा

रूपं शब्दं गन्धं रसं स्प्रष्टव्यं धर्मधातुकम्।
कृत्वा तन्निःस्वभावं स्याद् बुद्धपूजा तदुत्तमा॥
चक्षुरादिज्ञानसम्भूतैः पञ्चाभिज्ञोपशोभितैः।
एभिः पञ्चोपहाराख्यैर्लघु बुद्धत्वमाप्नुयात्॥ (गु. स. प्र., पृ. ५४)

बुद्धरत्नकरण्डकम्

बुद्धरत्नं परमाक्षरसुखं करण्डकं वज्रमणिपद्ममिति बुद्धरत्नकरण्डकम्। (वि. प्र., पृ. २०)

बुद्धाः

बुद्धा अक्षोभ्यादयः। (गु. स. प्र., पृ. ९३)
बुद्धास्त्र्यध्ववर्तिनो जिनाः। (गु. स. प्र., पृ. १०१)

बोधः

बोधो ग्राह्यग्राहकरूपेण प्रतिपत्तिः। (हे. त. टी, प. ३३a)

बोधिः

सत्त्वान् बोधयत्यात्मस्वरूपमिति बोधिः। (गु. स. प्र., पृ. ९५)
बोधिमप्रतिष्ठितनिर्वाणम्। (गु. स. प्र., पृ. १३९)
स्वरूपपरिज्ञानमेव बोधिः। (व. ति. टी., पृ. ९)

बुद्ध्यन्त्यनया सर्वमात्मस्वरूपमिति बोधिः। पुद्गलनैरात्म्यलक्षणा बोधिः श्रावकबोधिः प्रादेशिकी, धर्माणां द्रव्यत्वेनाभ्युपगमात्। तया विमुच्यमानाः श्रावकबोधौ निपतेयुः, सा बोधिः स्वार्थमात्रप्राधान्यादविशुद्धत्वात् प्रादेशिकीत्युच्यते। उभयनैरात्म्यलक्षणा तु बोधिः सम्यक्संबोधिर्व्यापकत्वाद् व्यापिका, धर्माणां तत्त्वभावेनावस्थानात्। (व. ति. टी., पृ. ५१-५२)

बोधिचित्तम्

बोधिचित्तं सांवृतस्पन्दरूपं शुक्रम्। (दो. को. व्या., पृ. १५०)

शून्यताकरुणाभिन्नं बोधिचित्तमिति स्मृतम्। (सा. मा., पृ. १११)

बोधिचित्तं भवेच्चन्द्रं पञ्चदशकलात्मकम्।
आलिरूपं महासौख्यं योगिन्यस्तस्यांशकाः॥ (हे. त. २.४.२६)

मण्डलचक्राद्युपायेन स्वाधिष्ठानक्रमेण च।
बोधिचित्तमुत्पादयेद् वैवृतिसंवृतिरूपकम्॥

संवृतं कुन्दसंकाशं विवृतं सुखरूपिणम्।
स्त्रीकक्कोलसुखावत्यामेवंकारस्वरूपके॥

सुखस्य रक्षणादेव सुखावतीति शब्दितम्। (हे. त. २.४.२९-३१)

शून्यताकरुणाद्वयस्वभावं बोधिचित्तम्। (हे. त. टी., प. ९a)

बोधिचित्तं महासुखम्

बोधिचित्तं महासुखमिति सकलक्लेशोपक्लेशजनितदुःखक्षयरतिलक्षणम्। (हे. त. टी., प. ५२a)

बोधिचित्तोत्पादः

उत्पादयामि सम्बोदौ चित्तं बोधाय देहिनाम्।
भद्रचर्यां चरिष्यामि सर्वसत्त्वहितोदयाम्॥ (सा. मा., पृ. ३)

इत्थं मयोपार्जितपुण्यवृन्दादुत्पादयाम्येष सुबोधिचित्तम्। (सा. मा., पृ. ११७)

अहो बताहमनुत्तरां सम्यक्संबोधिमभिसंबुद्देयं सर्वं सर्वसत्त्वानामर्थाय हिताय सुखाय यावदत्यन्त(दक)निष्ठे निर्वाणधातौ बुद्धबोधौ प्रतिष्ठापनाय च। (सा. मा., पृ. २२५)

भवसागरे पतितान् सत्त्वान् तेषामुद्धरणं कर्तुं चित्तवज्रं श्रेष्ठं करोम्यहमिति बोधिचित्तोत्पादः। (सा. मा., पृ. ३७३)

बोधिसत्त्वः

अस्योत्पादादुत्पादितं बोधिचित्तं बोधिसत्त्वं इत्युच्यते। (सा. मा., पृ. १११)

बोधिचर्या समासेन बोधिसत्त्वो निगद्यते। (हे. त. १.१.५a)

बोधिसत्त्वाः

बोधिसत्त्वा मैत्रेयादयः। (गु. स. प्र., पृ. ९३)

बोधिः परमार्थः, सत्त्वः संवृतिसत्यम्, ते आत्मा देहो यस्य स बोधिसत्त्वात्मा। ... सत्यद्वयेन परिगृहीतं रूपं बोधिसत्त्वः। (गु. स. प्र., पृ. १००-१०१)
बोधिः परमार्थसत्यम्, सत्वः संवृतिसत्यम्। तयोरद्वयरूपेण यः स्थितः स बोधिसत्त्वो महावज्रधरः। (गु. स. प्र., पृ. १०९)

बोध्यङ्गानि

तस्यावबोधेरङ्गान्युपाया बोध्यङ्गानि। अङ्गान्युपायाः पक्ष्या अभिव्यक्तिकरणानीति पर्यायाः। (व. ति. टी., पृ. ५२)

निरावरणं ज्ञानं बोधिः। येन सत्यदर्शनं चेतसि समाधीयते, तत् समाधिसंबोध्यङ्गम्। येन तत्रैवोत्साहः, तद्वीर्यसंबोध्यङ्गम्। येन तत्रैव चित्तं निःसंशयं करोति, तत् प्रीतिसंबोध्यङ्गम्। तयैव प्रीत्या कायवाक्चित्तकर्मण्यतः क्लेशोष्मप्रहाणादतिशीतला भवति, तत् प्रस्रब्धिसंबोध्यङ्गम्। सम्यग्भावस्वरूपपरिज्ञानं तद्धर्मप्रविचयसंबोध्यङ्गम्। तत्रैव चैतस्यसंप्रमोषः स्मृतिसंबोध्यङ्गम्। समाधावासक्त्यनासक्त्योरुदासीनतोपेक्षासंबोध्यङ्गम्। (व. ति. टी., पृ. ५५-५६)

बोलः

वज्रं बोलकं ख्यातम्। (हे. त. २.३.६०)

बोलो महाकरुणामयश्चित्तवज्रः। (हे. त. टी., प. ५२a)

कोल्लगिरौ शिरसि स्थितोऽहङ्कारो बोलः। (हे. त. टी., प. ५४b)

बौद्धं ज्ञानम्

रूपाद्यायतनादीनि प्रभुज्यन्ते स्वयं यतः।
षड्भुजं कथ्यते तेन ज्ञानं बौद्धं तथागतैः॥ (ज्ञा. सि. १५.२३)

ब्रह्मविहारचतुष्टयम्

चत्वारो ब्रह्मविहाराः--मैत्री, करुणा, मुदिता, उपेक्षा चेति। (धर्मसंग्रह, म. सू., भा. १, पृ. ३३०)

रागवृद्धिलक्षणा करुणा, द्वेषनाशात्मिका मैत्री, मोहक्षयात्मिका मुदिता, अक्षरसुखात्मिका उपेक्षा। (से. टी., पृ. ६६)

ब्रह्माग्निः

कर्ममारुतनिर्धूतो ब्रह्माग्निस्त्रिकटे स्थितः। (व. ति., पृ. ६७)

मन्थमन्थानसंयोगात् कर्मणो यत्र तद्भूतो ब्रह्माग्निस्तत्त्वमयो ज्वलनः। स त्रिकटे तदधो गुह्ये त्रिकोणे ज्वलन्नास्ते स्वभावेन। गहिरपि ब्रह्माग्निः शान्तिके शस्यते। स चारणिनिर्मथनादुद्भवतीति। (व. ति. टी., पृ. ६७)

भक्षम्

भक्षं तृप्तिकरं ज्ञेयम्। (हे. त. २.३.५८)

भगम्

हृदयं ज्ञानं... तदेव भगम्, सर्वक्लेशभञ्जनात्। (ज्ञा. सि., पृ. १३९)

भगः

भगः परमार्थसत्यम्। (गु. स. प्र., पृ. ६७)

भगवान्

विशुद्धषड्धातुकत्वादैश्वर्यादिगुणलक्षणो भगो विद्यतेऽस्येति भगवान्। तदुक्तं मूलतन्त्रे --

ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः।
ज्ञानस्यार्थप्रपन्नस्य षण्णां भग इति स्मृतः॥

षट्त्रिंशत्पृथिव्यादिशुद्धधात्वार्यवज्रैश्वर्यादिगुणास्तासां षड् भगास्ते प्रकीर्तिताः।

हेवज्रेऽपि --

भञ्जनं भगमाख्यातं क्लेशमारादिभञ्जनात्।
प्रज्ञावाह्याश्च ते क्लेशास्तस्मात् प्रज्ञा भगोच्यते॥ (से. टी., पृ. ३)

भगा ऐश्वर्यादयो गुणा विद्यन्ते यस्य स भगवान्। तथा चोक्तम् --

ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशस्यः श्रियः।
रूपस्यार्थ(थ)प्रयत्नस्य षण्णां भगमिति श्रुतम्॥ (हे. त. टी., प. १b)

भगवानिति हेवज्रमूर्तिर्वज्रधरः। (हे. त. टी., प. १b)

भगोऽस्यास्तीति बुद्धस्य भगवानिति कथ्यते।
भगानि षड्विधान्याहुरैश्वर्यादिगुणाखिलाः।
अथवा क्लेशमाराणां भञ्जनाद् भगवानिति॥ (हे. त. १.५.१५)

भाग्यसम्पन्नत्वादशेषविपक्षभञ्जनाच्च भगवान्। (गु. स. प्र., पृ. १२)

आष्टगुणैश्वर्ययोगाद् भगवान्। (गु. स. प्र., पृ. १८)

मारक्लेशभञ्जनाद् भगः, सर्वज्ञैश्वर्यादिगुणसमूहः, स भगोऽस्यास्तीति भगवान्। (वि. प्र., पृ. १७)

भगिनी

भगिनीति तथा प्रज्ञा विभागं दर्शयेद् यथा। (हे. त. १.५.१६)

संवृतिपरमार्थयोर्विभागकथनाद् भगिनी। (हे. त. टी., प. २०a)

भयाष्टकम्

सिंहहस्तिवह्निसर्पचौरनिगडजलेभ्यो भयम्। (त. सं. टी., पृ. २६)

भवः

संवृतिबोधिचित्तो हि भवः। (च. को. व्या., पृ. ७०)

अभूतकल्पसम्भूतो भावसंकल्पनात्मकः।
भवः स एव चाख्यातो बालव्यामोहको बुधैः॥ (प्र. वि. सि. १.३)

भवः संसारः। ...चन्द्रसूर्यचिह्नपरिणामेन बवतीति भवो देवताकारः। (हे. त. टी., प. ४८a)

भव्यतानुज्ञा

मण्डलतत्त्वं मण्डलविशुद्धिलक्षणं देवतातत्त्वं देवताविशुद्धिलक्षणमाचार्यपरिकर्म च मण्डलसाधनज्ञानं पञ्चप्रदीपं चामृतभक्षाणं च भव्यतातत्त्वं च नैःस्वाभाव्यम्। एषामुत्पन्नक्रमलक्षणा धर्मचक्रप्रवर्तनार्थमनुज्ञा (भव्यतानुज्ञा) (अ. व. सं., पृ. ३८)

भावः

भावः शाश्वतग्रहः। (त. सं. टी., पृ. ३)

सर्वे ते शुद्धभावा हि यस्माद् बुद्धमयं जगत्। (हे. त. १.९.४)

भवत्युत्पद्यते गतेर्गत्यन्तरमिति भावः, पञ्चस्कन्धलक्षणं शरीरम्। (हे. त. टी., प. ४b)

भावना

ललाटे कायभावना, हृदि वाग्भावना, गुह्ये चित्तभावना। कायादिबिन्दूनां समाहार एकत्वं वज्रमणौ, तत्र ज्ञानभावना। (से. टी., ६२)

भावना प्रतिभासस्तु मण्डलाद्वयोगातः। (व. ति., पृ. ६८)

बाह्ये कायवाक्चित्तान्यालम्ब्य योगिनां प्रतिभासते। अध्यात्मनि निर्माणादिचतुर्मण्डलेषु मुद्रानिकायादिप्रतिभास एव भावना। निःस्वभावतालम्बनं वा मण्डलाद्वययोगः, सैव भावना। उक्तं च --

अभावो भावना भावो भावना नैव भावना।
इति भावो न भावः स्याद् भावनातो न लभ्यते॥ (व. ति. टी., पृ. ६८)

भावनामार्गः

कतमो भावनामार्गः ? माऱ्गाङ्गानि। कति मार्गाङ्गानि ? आर्याष्टाङ्गो मार्गः। (व. ति. टी., पृ. ५१)

ज्ञेयावरणप्रतिपक्षो भावनामार्गः। (व. ति. टी., पृ. ५६)

भावाः

भवन्ति हेतुप्रत्ययेभ्यः सकाशादिति भावाः स्कन्धधात्वायतनादिकाः स्थिरचलाः पदार्थाः। (से. टी., पृ. ५९)

अण्डजा जरायुजा उपपादुकाः संस्वेदजा देवासुरादिप्रकृतिकाः सर्वे भावाः स्वभावेन परिशुद्धा योगीन्द्रस्य। (च. को. व्या., पृ. ३२)

भाविकी

वुक्कं भावयतीति स्रवतीति भाविकी, चक्षुर्द्वये। (व. ति. टी., पृ. ४४)

भिक्षुः

भिक्षुः कोटिशिक्षापदी। (दो. को. व्या., पृ. ८४)

भूचर्यः

कामरूपादारभ्य हिमालयान्तं भूचर्यः। (व. ति. टी., पृ. २७)

भूतकोटिः

सर्वधर्माणां प्रकृतिस्तथता भूतकोटिः स्वभाव इति पर्यायाः। (हे. त. टी., प. ४१a)

परमार्थतो निर्वाणं सर्वेषां भूतकोटिः। (हे. त. टी., प. ५६b)

आकाशधातुः भूतकोटिः। (गु. स. प्र., पृ. २११)

भूतयोनिः (चतुर्धा)

इह लोकधतौ चतुर्धा भूतयोनिः--इह पृथिवीयोनिः स्थावरा बाह्ये, अध्यात्मनि लोमानिः; बाह्ये वायुयोनिरण्डजाः, अध्यात्मनि यूकाः; बाह्ये उदकयोनिः कृमिकुलादयः संस्वेदजाः, शरीरेऽपि कृमिकुलादीनि; बाह्ये जरायुजाः शुक्रसम्भूताः, अध्यात्मनि शुक्रमेव। बाह्येऽनुक्तत्वादित्याकाशधातुः रसरूपा उपपादुकाः, अध्यात्मन्यण्डरूपाः सूक्ष्मप्राणिन इति भूतयोनिश्चतुर्धा च। (वि. प्र., पृ. १७५)

भूमयः (द्वादश)

मुदिता, विमला, अर्चिष्मती, प्रभाकरी, सुदुर्जया, अभिमुखी, दूरङ्गमा, अचला, साधुमती, धर्ममेघा, समन्तभद्रा, निरुपमा, ज्ञानवती चेति। त्रयोदशी भुमिस्तु अप्रतिष्ठितनिर्वाणधातुरूपा। (हे. त. टी., प. २५b)

मज्जनम्

इह ग्राह्यचित्ते ग्राहकचित्तस्य यस्तस्मिन् प्रवेशो बाह्यविषयेष्वप्रवृत्तिः प्रत्याहारो ध्यानं प्राणायामो धारणा मज्जनमित्युच्यते षडङ्गे। (से. टी., पृ. ४६)

मण्डलम्

मण्डलं सारमित्युक्तं बोधिचित्तं महत् सुखम्।
आदानं तत् करोतीति मण्डलं मलनं मतम्॥ (हे. त. २.३.२७)

तथा च गुटिकातन्त्रे--

सर्वाङ्गभावनातीतं कल्पनाकल्पवर्जितम्।
मात्राबिन्दुसमायुक्तमेतन्मण्डलमुत्तमम्॥ (दो. को. व्या., पृ. १५८)

सर्वाङ्ग भावनातीतं कल्पनाकल्पवर्जितम्।
मात्राबिन्दुसमातीतमेतन्मण्डलमुत्तमम्॥ (ज्ञा. सि., पृ. १४१)

मण्डलं पादलेखः स्यान्मलनान्मण्डलमुच्यते। (हे. त. १.५.१९)

मण्डलं सारमित्युक्तम्। महासुखं ज्ञानं लाति गृह्णातीति मण्डलम्। किं तत् ? पादलेखः पादाङ्गुष्ठयोर्दृढाकुञ्चनम्। मनलाद् मण्डलमुच्यते। "मल मल्ल धारणे" धातुः, महासुखस्य धाऱ्अणान्मण्डलमुच्यते। (हे. त. टी., प. २०b)

मण्डलशब्दः सारपर्यायः। ...ततः पारमार्थिकमण्डलम्। (हे. त. टी., प. ५२

maNDaH sAraH taM lAti gRRihNAtIti maNDalam . cittamaNDalam . gu। sa। pra। pRRi। 41

maNDaM sAraM saMvRRitisatyam taM lAti gRRhNAtIti maNDalam neyArthaH . maNDaM sAraM paramArthasatyam taM lAti gRRhNAtIti maNDalam . yathokaM bhagavatA vyAkhyAtantre --

sarvA~NgabhAvanAtItaM kalpanAkalpavarjitam .
mAtrAbindusamAtItametanmaNDalamuttmam .. neyArthaH . gu। sa। pra। pRRi। 45

maNDaM sAraM lAti gRRihNAti svIkarotIti maNDalam . gu। sa। pra। pRRi। 132

tadeva maNDamityuktaM vastUnAM sAramuttamam .
tad gRRhNAti lAtIti sharIraM maNDalaM matam ..

saptatriMshanmahAnADIcakraM hi maNDalaM matam .
bodhicittaM mahAratnaM maNDalaM tattvamaNDAlam ..

brahmAdInAM ca devAnAM niSpattirmaNDalAdataH . va। ti। pRRi। 64-66
sahajarUpametattu jinAnAM maNDalAdikam .. . ति., पृ. ६८)

मण्डलचक्रम्

कालचक्रभगवतो मण्डलचक्रं पञ्चरत्नमयपरिघटितदेवतादेवत्यात्मकं चतुरस्रं चतुःशतहस्तायामम्। बाह्ये कायमण्डलं चतुरस्रं चतुर्द्वारं चतुस्तोरणं श्मशानाष्टकविभूषितं पञ्चप्राकारवेष्टितम्। ....कायमण्डलार्धमानमध्ये चतुरस्रं वाङ्मण्डलं चतुरस्रं चतुर्द्वाऱ्अं चतुस्तोरणभूषितं पञ्चप्राकारवेष्टितम्। वाङ्मण्डलार्धमानं चित्तमण्डलं चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितं त्रिःप्राकारवेष्टितम्। तदर्धेन ज्ञानचक्रं षोडशस्तम्भोपशोभितम्। एतदर्थेनाष्टदलकमलम्। कमलत्रिभागा कर्णिका। एवं कायवाक्चित्तमण्डलानि सर्वलक्षणपूर्णानि हारार्धहारसंयुक्तानि रत्नपट्टिकावेदिकावकुलिकासहितानि दर्पणार्धचन्द्रघण्टाविराजितानि। (वि. प्र., पृ. २६-२७)

मण्डलवासिनी

सर्वदोषहरं ज्ञानं सर्वताथागतं परम्।
मण्डलवासिनी ख्याता सर्वसंशोदनोद्यतम्॥ (ज्ञा. सि. १५.१२)

मत्स्यम्

मत्स्यं भक्ष्याणि। (गु. स. प्र., पृ. १९१)

मदनम्

मदनं मद्यम्। (हे. त. २.३.५६)

मध्या

मध्या शिखी। (सा. मा., पृ. ६९)

मन्त्रः

तथा मनस्त्राणभूतत्वान्मन्त्रोऽपि परमाक्षरज्ञानमुच्यते। मूलतन्त्रे च--

कायवाक्चित्तधातूनां प्राणभूतो यतस्ततः।
मन्त्रार्थो मन्त्रशब्देन शून्यताज्ञानमक्षरम्॥
पुण्यज्ञानमयो मन्त्रः शून्यताकरुणात्मकः। (से. टी., पृ. ६९)

मननात् त्राणनाच्च मन्त्रः, शून्यताकरुणाद्वयस्वभावं बोधिचित्तम्। (हे. त. टी., प. ९a)

परमार्थमननात्, जतत्त्राणनाच्च मन्त्रः। पारमार्थिकबोधिचित्तं मन्त्रः, मन्त्रनिष्यन्दत्वात्। (हे. त. टी., प. ११a)

नादस्तु मन्त्र इत्युक्तः। (व. ति., पृ. ६८)

योऽयं प्रागुक्तो नाभिदेशादुच्चारणात् प्राणवायुः, स एव सर्वमन्त्रहेतुत्वान्मन्त्र इत्युच्यते। (व. ति. टी., पृ. ६८)

यः कश्चित्प्रसरो वाचां जन्तूनां प्रतिपद्यते।
स सर्वो मन्त्ररूपो हि तस्मादेव प्रजायते।

नादो हि मन्त्र इत्युक्त.....मन्त्रो वर्गेश्वरः परः॥ (व. ति., पृ. ७५)

नाभिदेशादुच्चारन् महासुखध्वनिरितरो वा नाद एव मन्त्रः, मनस्त्राणनाद् गुप्तभाषणात्। (व. ति. टी., पृ. ७५)

स्वभावो मन्त्रवर्गस्य परमाक्षर एककः।
तत्परिज्ञानमात्रेण मन्त्राः स्युः कर्मकारिणः॥
अत एव हि नेच्छामो मन्त्रान् वर्णस्वरूपिणः।
नहि शक्तास्तृणस्यापि कुब्जीकरणहेतवः॥ (व. ति. टी., पृ. ७२)
रतिकाले समुत्पन्ने यं भाषन्ते पुरन्ध्रयः।
व्यक्ताव्यक्तस्वभावोऽसौ नादो मन्त्र इति स्मृतः॥ (व. ति. टी., पृ. ७६)

मन्त्रजापः

मन्त्रजापो नाम प्राणसंयमः। (से. टी., पृ. ४३)

मन्त्रनयः

मन्त्रनयमिति पञ्चविधं क्रिया-चर्या-योग-योगोत्तर-योगनिरुत्तरभेदेन।

मन्त्र्यते गुरुभिरुपांशु कथ्यते यः स मन्त्रः, तद्विषयचर्यां तां नयति प्रापयतीति नयः सप्तविधः। यदुत--

मण्डलं गणकुण्डं च वलिर्मेलापकक्रमः।
तत्त्वं सप्तविधाख्यानं स मन्त्रनय उच्यते॥ (गु. स. प्र., पृ. ९०)

मन्त्रवादः

चतुर्विधो मन्त्रवादः--यदुत मन्त्रसंज्ञा, मत्रार्थः, मन्त्रविदर्भणम्, वज्रवाक् स्वरवर्जिता चेति। (गु. स. प्र., पृ. ९०)

मरणम्

मरणं मोक्षः, तत्रैव चित्तचैतसिकाविद्यालक्षणानामस्तङ्गमात्, तदेव मरणम्। (हे. त. टी., प. २१a)

मरुः

अङ्गुष्ठस्तु मरुः प्रोक्तः। (व. ति., पृ. ३५)

मस्य महासुखस्य रवनाद् नदनाद् मरुः पादाङ्गुष्ठे। (व. ति. टी., पृ. ३५)

खेदं वहति या शुष्का मरौ तु चक्रवर्तिनी। (व. ति., पृ. ४७)

मलयजम्

मलयजं मिलनं मतम्। (हे. त. २.३.५६)

मलयदेशः

शिरो मलयदेशस्तु। (व. ति., पृ. ३१)

तत्र मलय इति महासुखस्वभावं संवृतिपरमार्थाभिन्नबोधिचित्तं लीयते यत्र स मलयः, तथाभूतो देशो मलयदेशः शिरः, तत्रैव तस्य भावात्। (व. ति. टी., पृ. ३१)

महाकङ्कालः

महान्तं कं शिखास्थितं सत्तदेव केशरोम कालयतीति महाकिङ्कालः। (व. ति. टी., पृ. ४८)

महाचित्तं

महासुखरूपं चित्तं महाचित्तम्। (हे. त. टी., प. ४९a)

महादिव्यम्

महान्तो लोकोत्तरा वज्रसत्त्वादयो दिव्याः प्रविश्य यस्मिन्नावेशक्षणे तिष्ठन्ति तन्महादिव्यम्। (गु. स. प्र., पृ. १७१)

महान्

अत्यद्भुतस्य कर्ता च महानित्यभिधीयते। (गु. स. प्र., पृ. २१)

महानासा

महत्यो गुह्यहृन्मुखेषु नासिका यस्याः सा महानासा। (व. ति. टी., पृ. ४७) चित्तर्ध्युत्पादो महानासा। (व. ति., पृ. ५३)

महाबलः

गुह्याच्छरीरधारणसमर्थस्य श्लेष्मणो वहनान्महाबलः। (व. ति. टी., पृ. ४९)

महाबला

गमनागमनयोर्महद्बलं यस्याः सा महाबला। (व. ति. टी., पृ. ४८)
सम्यग्दृष्टिर्महाबला। (व. ति., पृ. ५६)

महाभैरवा

तृतीयौली ग्रन्थिभेदान्महाभैरवा।(व. ति. टी., पृ. ४७)
श्रद्धाबलं महाभैरवी। (व. ति., पृ. ५५)

महामुद्रा

महती चासौ मुद्रा चिति महामुद्रा। महामुद्रा निःस्वभावा ज्ञानक्षेयाद्यावरणवर्जिता शरदमलमध्याह्नगगनसंकाशा सकलसम्पदाधारभूता भवनिर्वाणैकस्वरूपाऽनालम्बनकरुणाशरीरा महासुखैकस्वरूपा। ...तया महामुद्रयाऽचिन्त्यस्वरूपया समयमुद्राख्यं फलं जायते। (अ. व. सम्., पृ. ३४-३५)

महती चासौ मुद्रा च महामुद्रा। महत्त्वं पुनरस्याः सर्वाकारवरोपेतत्वं न प्रादेशिकत्वम्। ....फलमुद्रा तु महामुद्रा। ....महत्त्वं चास्याः प्रहाणमहत्त्वेनाधिगममहत्त्वेन च। तत्र प्रहाणमहत्त्वं सर्वासनसर्वावरणप्रहाणलक्षणस्वाभाविकाख्यप्रभास्वर-साक्षात्करणलक्षाणम्। अधिगममहत्त्वं तु परिशुद्धसर्वबुद्धात्मकयुगनद्धाख्यकायसाक्षात्कारस्वभावम्। (से. टी., पृ. ५६-५७)

महामुद्रया निष्पन्दाक्षरभावना तु सर्वज्ञत्वलक्षणलोकोत्तरसिद्धिसाधनी। (से. टी., पृ. ६२)

....... महामुद्रा संस्थिता नाभिमण्डाले॥
आदिस्वरस्वभावा सा धीति बुद्धैः प्रकल्पिता।
सैव भगवती प्रज्ञा उत्पन्नक्रमयोगतः॥ (हे. त. २.४.४०-४१)

महामुद्रेति परमा मुद्रा, आध्यात्मिकीति यावत्। (हे. त. टी., प. ५७a)

उत्पन्नक्रमपक्षे सैव मुद्रा सैव सहज इति। (हे. त. टी., प. ५७a)

भूर्भुवःस्वःप्रपूज्यत्वान्महतीं मुदं हर्षं द्रवति गच्छतीति महामुद्रा। (गु. स. प्र., पृ. ९६)

महायानः

महान्तो बहवः सत्त्वा येन बुद्धत्वं यान्ति स महायानः। (गु. स. प्र., पृ. ७३)

महायानमार्गः

महायानमार्ग इति मञ्जुश्रियो वज्रकुलेन कलशगुह्यप्रज्ञाज्ञानाभिषेकः। (वि. प्र., पृ. २२)

महावीरः

नाभेर्वज्राणां महटमपि भयङ्करफुफ्फुसप्रवर्तकत्वान्महावीरः (व. ति. टी., पृ. ४९)

महावीर्या

महद्वीर्यमुत्थाने यस्याः सा महावीर्या। (व. ति. टी., पृ. ४८)
सम्यग्वाग् महावीर्या। (व. ति., पृ. ५६)

महासत्त्वः

महाज्ञानरसैः पूर्णो महासत्त्वो निगद्यते। (हे. त. १.१.५)

महासुखम्

अनन्तसुखरूपत्वात् श्रीमहासुखसंज्ञितम्। (प्र. वि. सि. १.२७)

महासुखावासः

धर्मधातुराकाशलक्षणोऽसंकीर्णो धर्मोदयो लोकोपमामतिक्रान्तः समन्तभद्रो महासुखावासः। (वि. प्र., पृ. १६)

मातरः

मातर इति चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि। ....यदि वा मात्रादिशब्दैः पञ्चेन्द्रियाण्यभिधीयन्ते। तानि शब्दरूपरसादिभिः पञ्चकामगुणैस्तर्पयेत्। इयमेव....निरुत्तरा पूजा। (हे. त. टी., ६७a)

मातरा

ऊर्ध्वं फुफ्फुसवहनान्मातेव मातरा, मातरं प्रत्यभिलाषजननाच्च जगज्जननाच्च नाभौ। (व. ति. टी., पृ. ४५)

मातृगृहम्

ब्रह्माणी वैष्णवी रुद्राणी इन्द्राणी कौबेरि वाराही चामुण्डा चेति सप्तलोकमातरः। तासां गृहे श्मशानशून्यागारचतुष्पथैकलिङ्गैकवृक्षेषु। (गु. स. प्र., पृ. १५७)

मानसद्वारम्

तृतीयं मानसं द्वारं चन्द्रसूर्यप्रभेदतः।
प्रवेशान्निर्गमाच्चैव द्वारं चैवोत्तमं भवेत्॥
प्रधानमुत्तमं द्वारमध ऊर्ध्वं प्रकीर्तितम्।
अधोद्वारेण विज्ञानमूर्ध्वद्वारेण धातवः॥
वैरोचनादयो बुद्धा ऊर्ध्वद्वारे चलाः स्थिताः।
अधोव्यवस्थितिस्तेषामूर्ध्वेन तु विसर्जनम्॥ (व. ति., पृ. २२-२३)

मामकी

सर्वताथागतं ज्ञानमात्मीयं मामकं मतः।
अन्योन्यव्यापकादेव मामकी तेन तत्स्मृतम्॥ (ज्ञा. सि. १५.११)

मारः

मारो नाम सत्त्वानां संसारचित्तं वासनामलः, .....मारः समलं चित्तम्। (वि. प्र., पृ. २३)

मार्गः

इह खलु त्रिविधो मार्गः--ज्योतिर्मार्गो धूममार्गो विमिश्रमार्गः। एषु अर्चिरध्वा ज्योतिः सूर्यः....धूममार्गो ज्योतिश्चन्द्रः। ....व्यामिश्रो दिवारात्रिधर्मा। (वि. प्र., पृ. २२४)

मार्गाश्रयणम्

मार्गः संबुद्धोक्तः। स चाश्रयणीयो मया नान्य इति। (सा. मा., पृ. ५६)

संश्रित्य जैनं परिशुद्धमार्ग ब्रह्मेन्द्ररुद्रप्रभृतिष्वनर्घम्। (सा. मा., पृ. ११७)

मार्गस्तथागतोक्तः। स चाश्रयणीयो मया नान्य इति। (सा. मा., पृ. २०२)

एषोऽहमनुत्तरसम्यक्संबोधिमार्गमाश्रयामि यदुत वज्रयानम्। (सा. मा., पृ. २२५)

मालतीन्धनम्

व्यञ्जनं मालतीन्धनम्। (हे. त. २.३.५८)

मालवः

बाहुमूलं तु मालवः। (व. ति., पृ. ३२)

बाह्वोरन्तर्भुजयोर्यदेतन्मूलद्वयम्, स्कन्धद्वयं तत्रैव मालवम्। मालानां विजातीयविकल्पानां लवनात् छेदनात् मालव इत्युच्यते। (व. ति. टी., पृ. ३२)

मालवे तु द्रुम्च्छाया हृदयस्था जिनेश्वरी। (व. ति., पृ. ४३)

माहेन्द्रमण्डलम्

माहेन्द्रमण्डलं गुदपद्मस्थम्। तस्योदये पीतवर्णरश्मिर्विनिर्तत्यार्धयामं तिष्ठति। तदा पौष्टिकं कुर्यात्। (गु. स. प्र., १४३)

मुदिता

मुदिता पुनः कीदृशी ? धातुत्रयावस्थितानां सत्त्वानां यानि सुचरितानि तेषु तद्भोगैश्वर्यादिषु हृष्टचित्तता। (सा. मा., पृ. ५७)

चित्तप्रीतिविशेषलक्षाणवतीं संमोदिकाम्। (सा. मा., पृ. ९७)

नित्यं सद्गुणसंयोजनेच्छां प्रमुदितां तथा। (सा. मा., पृ. १००)

का मुदिता ? उत्पादितकुशलमूलपरभोगैश्वर्यादिषु हृष्टचित्तता। (सा. मा., पृ. ११५)

व्यवसायसंसिद्ध्युपायदर्शनात् प्रहर्षणं मुदिता। (सा. मा., पृ. १३८)

मुदितां प्रमोदरूपाम्। (सा. मा., पृ. १७२-१७३)

मुदिता तु ईदृशी-प्रमोदो मुदिता, अथवाऽसदृशे बुद्धत्वे तदुपाये च सर्व एव संसारिणः सत्त्वा मया प्रतिष्ठापयितव्या इत्यध्याशयो मुदिता, यद्वा विश्वेषां यानि कुशलानि तेषु तद्भोगैश्वर्यादिषु च आकृष्टचित्तता। (सा. मा., पृ. २०३)

दिव्यसुखावियोगनियमाकारां मुदिताम्। (सा. मा., पृ. २२५)

मोदन्तां सत्त्वां इत्याकारा मुदिता। (सा. मा., पृ. ३१५)

परसुखतुष्टिं मुदिताम्। (सा. मा., पृ. ३८५)

दिव्यसुखाविच्छेदनियमाकारां मुदिताम्। (हे. त. टी., प. १३b)

मुद्गरम्

संसारजलनिमग्नैर्यस्माज्ज्ञानं न ज्ञायते।
बुद्धानुगानां सत्त्वानां ताडनाद् मुद्गरं स्मृतम्॥ (ज्ञा. सि. १५.२६)

मुद्रा

मुदं सुखविशेषं रतिं ददातीति मुद्रा। .....मुदं परमाक्षरसुखज्ञानलक्षणां रतिं सर्वकालमादत्ते पूर्वावस्थाया अचलनयोगेनेति मुद्रा। (से. टी., पृ. ५६)

चक्री कुण्डल कण्ठी च हस्ते रुचक मेखला।
पञ्चबुद्धविशुद्द्या च प्रज्ञा मुद्राः प्रकीर्तिताः॥ (हे. त. १.३.१४;८.१७)

मुद्रा पञ्च कुलानीति कथ्यते मोक्षहेतुना।
वज्रेण मुद्र्यतेऽनेन मुद्रा तेनाभिधीयते॥ (हे. त. १.४.४)

वज्रम् अभेद्यम् ज्ञानम्, तेनानेन मुद्र्यते मुदं हर्षं महासुखं जनयते, तेन हेतुना मुद्रेत्युच्यते। (हे. त. टी., प. १८b)

वज्रे डोम्बी भवेन्मुद्रा पद्मे नर्ती तथैव च।
कर्मणि रजक्याख्याता ब्राह्मणी च तथागते॥
रत्ने चण्डालिनी ज्ञेया पञ्चमुद्रा विनिश्चिताः। (हे. त. १.४.६-७)

करस्फोटो भवेन्मुद्रा अङ्गुल्यामोटनं तथा। (हे. त. १.५.२०)

धर्ममुद्रा चिह्नमुद्रा महामुद्रेति त्रिविधा मुद्रा। हूँकारादीन् धर्ममुद्रा। वज्रादीन् चिह्नमुद्रा। अक्षोभ्यादिदेवताचक्रं महामुद्रा। (गु. स. प्र., पृ. ४२)

मुद्रासमयः

स्वेष्टदेवतास्वभावस्त्वमिति ख्यापयितुं मुद्रासमयः। (अ. व. सं., पृ. ३८)

मूत्रम्

मूत्रं व्यञ्जनम्।(गु. स. प्र., १९१)3

मृषावादरताः

अध्यात्मं च तथा बाह्यं प्रत्ययोद्भवदेशकाः।
मृषावादरतास्ते स्युरस्थानस्थितियोगिनः॥ (गु. स. प्र., पृ. ४७)

मेरुः शरीरकङ्कालं कटिमारभ्य स्कन्धपर्यन्तमिति नियमः। (वि. प्र., पृ. १७६)

मेरुगिरिः

वरः श्रेष्ठो गिरिः कङ्कालरूपो मेरुगिरिः। तथा च सम्पुटे--

स्थितः पादतले वायुर्भैरवो धनुराकृतिः।
स्थितोऽस्ति कटिदेशे तु त्रिकोणोद्धरणस्तथा॥
वर्तुलाकाररूपो हि वरुणस्त्रिदले स्थितः।
हृदये पृथिवी चैव चतुरस्रा समन्तताः॥
कङ्कालदण्डरूपो हि सुमेरुर्गिरिराट् तथा॥ (दो. को. व्या., पृ. १५६)

मैत्री

तत्रेयं मैत्री सर्वसत्त्वेष्वतिशयितहितैकपुत्रस्नेहलक्षणा। (सा. मा., पृ. ५७)

सत्त्वेष्वेकतनुजतोषसमतासंलक्षितां मित्रताम्। (सा. मा., पृ. ५७)
मैत्रीं सत्पुत्रसम्प्रीतिसहस्रगुणितां जने। (सा. मा., पृ. १००)

का मैत्री? या सर्वसत्त्वेष्वेकपुत्रप्रेमता। (सा. मा., पृ. ११५)

जगदेकपुत्रप्रेमलक्षणा मैत्री। (सा. मा., पृ. १३८)
मैत्रीं सर्वसत्त्वेष्वेकपुत्रप्रेमतालक्षणाम्। (सा. मा., पृ. १७२)

तत्र केयं मैत्री ? सर्वसत्त्वेष्वेकपुत्रप्रेमतालक्षाणा, अथवा हितसुखोपसंहाराकारेति। (सा. मा., पृ. २०२-२०३)
सर्वसत्त्वेषु सुखोपसंहाराकारां मैत्रीम्। (सा. मा., पृ. २२५)
परसौख्यसम्पदिच्छा मैत्री। (सा. मा., पृ. ३१५)
परहितचिन्तां मैत्रीम्। (सा. मा., पृ. ३८५)
मैत्रीं सर्वसत्त्वेषु निरुत्तरसुखोपनयनाकाराम्। (हे. त. टी., प. १३a)

मोहरतिः

मोहो वैरोचनस्तस्मिन् रतिः, नेयार्थः। मोहविशुद्धे रतिर्मोहरतिः, नीतार्थः। (गु. स. प्र., पृ. २५)

यक्षिण्यः

मांसमद्यरुधिराद्याहारा यक्षिण्यो मैथुनपराः। (गु. स. प्र., पृ. २०५)3

यमदंष्ट्रिणी

उत्पन्नानामकुशलानां धर्माणां प्रहाणं यमदंस्ट्रिणी। (व. ति., पृ. ५७)

यमदाढी

अनुत्पन्नानां कुशलानां धर्माणामुत्पादनं यमदाढी। (व. ति., पृ. ५७)

यमदूती

उत्पन्नानां कुशलानां धर्माणां संरक्षणं यमदूति। (व. ति., पृ. ५७)

यममथनी

अनुत्पन्नानामकुशलानां धर्माणामनुत्पादनं यममथनी। (व. ति., पृ. ५७)

यमान्तकः

मरणादिभयान्मुक्तं सर्वताथागतं परम्।
प्रकृष्टं दमनज्ञानं ततो यमान्तकः स्मृतः॥ (ज्ञा. सि. १५.१५)

यमान्तकृत्

यमो नरकस्तस्य भगवान् महाक्रोधसमाधिनाऽन्तं करोति नाशयतीति यमान्तकृत्, नेयार्थः। यमो मोहान्धकारोऽविद्या, तस्य परमार्थसत्येनान्तं करोति नाशयतीति यमान्तकृत्, नीतार्थः। (गु. स. प्र., पृ. २६)3

याचना

निरुत्तरधर्मदेशनां भगवन्तस्तथागता देशयन्तु, यया त्वरितमेव सत्त्वाः संसारागाधसागरं तरन्तीति। (सा. मा., पृ. ५६)

तादृशीं निरुत्तरा धर्मदेशनां भगवन्तस्तथागता देशयन्तु, यया झटित्येव संसारिणः सत्त्वा भवबन्धार्न्निमुक्ता भवन्तीति। (सा. मा., पृ. २०२)

युगनद्धः

एकः स्वाभाविकः कायः शून्यताकरूणाद्वयः।
नपुंसकमिति ख्यातो युगनद्ध इति क्वचित्॥ (सा. मा., पृ. ५०५)

युगनद्धकायः

संवृतिसत्यमेव च परार्थसत्यात्मकप्रभासवरपरिशुद्धमादर्शज्ञानादिरूपवैरोचनाद्याधेयदेवतावृन्दं कूटागाराद्याधारमण्डलं च। तदेव लोकोत्तरमण्डलतया सर्वतन्त्रराजेषु गीयते। समस्तबुद्धधर्मस्वभाअतया चैतदेव सत्यद्वयाधीभावस्वभावं युगनद्धाख्यमुच्यते। तस्माद् युगनद्धकाय एव धर्मकायः सांभोगिकस्वाभाविकाभ्यां पृथग्भूतो योगिप्रत्यात्मवेधः। (से. टी., ५७)

योगः

योगः समाधिः। (हे. त. टी., प. ४३a)

त्रिशरणगमनादि देवतारूपचित्तं देवतायोगः। (हे. त. टी., प. ४४a)

एकचित्तता सहजयोगः। (हे. त. टी., प. ४४a)

योगस्तु त्रिविधो ज्ञेयो।धिष्ठानः परिकल्पितः।
निष्पन्नो चित्तबिम्बस्य योगो बुद्धैस्तु वर्णितः॥
अधिष्ठानमात्राहङ्कारयोगोऽधिष्ठान उच्यते।
बोधिचित्तविशुद्धिस्तु मन्त्रबीजोदयो महान्॥
क्रमनिष्पन्नबिम्बस्तु मुद्रागणैस्तु कल्पितः।
तत्कल्पितेति कथितो योगः कल्पित उच्यते॥
सर्वाकारवरोपेतः स्फरेत् संहारकारकः।
झटिति ज्ञाननिष्पन्नो योगो निष्पन्न उच्यते॥ (गु. स. प्र., पृ. ११९)

न च योगशब्द उपायार्थवाचकः प्रज्ञार्थवाचको वा। योगशब्दः प्रज्ञोपायार्थवाचक इति -

योगो नोपायकायेन नैकया प्रज्ञया भवेत्।
प्रज्ञोपायसमापत्तिर्योग उक्तस्तथागतैः॥ (वि. प्र., पृ. १८)

योगः शून्यताकरुणाभिन्नं विशुद्धत्त्वं विशुद्धचित्तम्। (वि. प्र., पृ. २२२)
प्राणापानयोः परस्परं संयोगो योगः। (वि. प्र., पृ. २२९)
योगः पूरकरेचकयोरेकता कुम्भक इति। (वि. प्र., पृ. २३०)

योगः (षडङ्गः)

षडङ्गयोगश्च सम्यक्सम्बोधिलक्षणाया उत्तमायाः सिद्धेः साधनत्वेन उद्देशनिर्देशप्रतिनिर्देशैः समाजोत्तरे भगवता कथितो यथा....। (से. टी., पृ. २९-३१)

प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा।
अनुस्मृतिः समाधिश्च षडङ्गो योग उच्यते॥ (से. टी., पृ. ३०)

एषां श्लोकानां संक्षेपतो विवृतिरुच्यते। (से. टी., पृ. ३१-३४)
कालचक्रोत्तरे तु मञ्जुश्रीपादैरतिस्फुटमुक्तः षडङ्गयोगो यथा....। (से. टी., पृ. ३४)
श्रीकालचक्रेऽप्युक्तो विमलप्रभायां विस्तरेण व्याख्यातश्च। (से. टी., पृ. ३५-३६)

मन्त्रयाने पारमितायाने च द्विधा योगाभ्यासः। ...समाजादौ रात्रियोगेन, नामसंगीत्यां दिवायोगेन सन्ध्याभाषान्तरेण भगवतोक्तः। (से. टी., पृ. ३७)

षडङ्गयोग आर्यवज्रपाणिपादैरप्युक्तः। (से. टी., पृ. ३८)

षडङ्गस्य पुनरादिभावनोपदेशस्तन्त्रान्तरेषूक्तः। इह श्रीसमाजोत्तरे सेवा उपसाधनं साधनं महासाधनं चेति। (से. टी., पृ. ३९-४५)

इदानीं हठयोग उच्यते.....नादाभ्यासोऽत्रैवोक्तः। (से. टी., पृ. ४५)

योगाङ्गचतुष्टयम्

सेवा

सेव्यते मुमुक्षुभिरभ्यस्यत इति सेवा। धूमादिबिम्बदर्शनपर्यन्तं प्रत्याहाराङ्गं ध्यानाङ्गं च। सा खलूत्तमा सेवा ज्ञानामृतेनैव षडङ्गयोगेनैव कर्तव्या। (से. टी., पृ. ३१)

धूमादिनिमित्तभावना सेवा। (से. टी., पृ. ३६)

सेवाकाले महोष्णीषबिम्बं विभाव्य यत्नतः।
उपसाधनकाले तु बिम्बं चामृतकुण्डलीम्॥

साधने देवताबिम्बं भावयेद् योगतत्परः।
महासाधनकाले तु बिम्बं बुद्धाधिपं विभुम्॥ (से. टी., पृ. ३९)

अत्र सन्ध्याभाषान्तरेणोष्णीषबिम्बं बुद्धबिम्बं त्रैधातुकमशेषतः। आकाशे धर्मोदये चित्तवज्रं प्रतिष्ठाप्य सेवाकाले प्रथमकाले प्रत्याहारेण भावयेद् ध्यानाङ्गेन स्थिरीकुर्यादिति। (से. टी., पृ. ३९)

एवं प्रत्याहारेण ध्यानेन सेवाङ्गमुच्यते। (से. टी., पृ. ४१)

उपसाधनम्

अमृतकुण्डलीबिम्बसंज्ञया सन्ध्याभाषान्तरेण वायुरुच्यते। ...एवं बिन्दुस्थाने पिण्डरूपेण निरोधितः प्राणः। तेनैव तस्य धारणोच्यते। एवमङ्गद्वयेनोपसाधनममृतकुण्डलीबिम्बेनेति। तदेवोपसाधनं वज्रजाप इत्युच्यते। प्राणायामधारणोपसाधनमुच्यते। (से. टी., पृ. ४१-४२)

साधनम्

साधने देवताबिम्बमिति। इह धारणाबलेन नाभिस्थां चण्डालीं ज्वलितां पश्यति योगी सर्वावरणरहितां प्रतिसेनोपमां महामुद्रामनन्तबुद्धरश्मिमेघान् स्फारयन्तीं प्रभामण्डलविराजिताम्। तामनुस्मृतिं साधनमाह। (से. टी., पृ. ४२)

महासाधनम्

धारणान्ते चण्डालीं योगी भावयेदिति नियमः। ततस्तस्या ज्ञानार्चिषा स्कन्धधात्वायतनादीनि दग्धान्येकलोलीभवन्ति। वामदक्षिणनाडीगतानि विज्ञानादीनि पृथिव्यादीनि च मण्डलस्वभावानि ललाटे चन्द्रमण्डले प्रविष्टानि। ततश्चण्डाल्या ज्ञानार्चिषा चन्द्र द्रुते सति यद्बोधिचित्तं बिन्दुरूपेणाधोगतं कण्ठे हृदि नाभौ गुह्यकमले आनन्दपरमविरमस्वभावेन, ततो वज्रमणिं यावत् सहजानन्दस्वभावेनेति, अथवा विचित्रविपाकविमर्दविलक्षणस्वभावेनेत्येवं षोडशकलापूर्णं मण्यन्तर्गतं यदा सुखं ददाति भावनाबलेन। (सुरत)सदृशमिति दृष्टान्तमात्रम्। स्वरूपतो द्वीन्द्रियजं (सुखं) कोटिसहस्रतमीमपि कलां नार्हति परमाक्षरसुखस्येति। इहाक्षरसुखावस्था या सहजानन्दरूपिणी सा।वस्था काप्यविज्ञेया बालयोगिनाम्, (सा) बोधिसत्त्वैः शून्यतासमाधिरित्युच्यते, न पुनर्लौकिकरूढ्यैव नास्तिक्यार्थानुयायिनी। एवं षडङ्गयोगेन बुद्धत्वं योगिनां सिद्ध्यति। (से. टी., पृ. ४२)

योगतन्त्रम्

इह योगे शीलमस्यास्तीति योगी, एवं योगिनी च। अतो योगतन्त्रं योगिनीतन्त्रं च भवति। .... तस्मात् प्रज्ञोपायात्मकं तन्त्रं योगतन्त्रम्। (वि. प्र., पृ. १८)

योगपीठानि

चत्वारि योगपीठानि आत्म-पर-मन्त्र-तत्त्व-पीठाख्यानि यथाक्रमं नाभिहृत्कण्ठशिरांसि। (व. ति. टी., पृ. ६)

योगाभ्यासः

त्रिविधो योगाभ्यासः--बौद्धः, आसुरः, भौतश्च। तत्र बौद्धो योगः शून्यताकरूणात्मकः। आसुरः कल्पनाधर्मः। भौतिको द्विप्रकारः--शाश्वतरूप उच्छेदरूपश्च। तेषु दिवाभागे बौद्धयोगिनां ज्ञानोत्पत्तिः। रात्रिभागे आसुरयोगिनाम्। चतुःसन्ध्यारहिते काले बौतयोगिनां ज्ञानोत्पत्तिरिति। (वि. प्र., पृ. २२२)

योगी

योगः षडङ्गयोगो लब्धोत्कर्षपर्यन्तः, स योगो येषामस्ति ते योगिनो महावज्रधरपदप्राप्ताः। (से. टी., पृ. ६०)

प्राणापानयोः परस्परं संयोगो योगः, स यस्यास्तीति योगी। (वि. प्र., पृ. २२९)

रजः

कृष्णरजः श्मशानाङ्गारेण, सितरजो नरास्थिचूर्णेन, पीतरजो हरितलक्तेन, रक्तरजः श्मशानेष्टकेन, हरितरजश्चौर्यपत्रनरास्थिचूर्णाभ्याम्। (हे. त. १.२.२०)

रजकी

रजकीति दुहिता च नर्तकी च प्रकथ्यते।
रञ्जनात् सर्वसत्त्वानां रजकीति तथा स्मृता॥ (हे. त. १.५.१७)

निरुत्तरसुखेन रञ्जनाद् रजकी। (हे. त. टी., प. २०(a)

रजोमण्डलम्

रजोमण्डलं भगवतः कायो ज्ञेयः। (से. टी., पृ. १७)

रत्नम्

रतिमनन्तसुखं तनोतीति रत्नं चतुर्थानन्दं बोद्धव्यम्। (च. को. व्या., पृ. १३३)

रत्नं तु दुर्लभादपि। (ज्ञा. सि. १५.२४)

रत्नमा संसारस्थायि परमानास्रवमहासुखम्। (गु. स. प्र., पृ. ७८)

रत्नधृक्

सर्वाशापरिपूरकं रत्नं धारयतीति रत्नधृक्, नेयार्थः। भूतकोटिरत्नं धारयतीति रत्नधृक्, नीतार्थः। (गु. स. प्र., पृ. २४)

रत्नवज्रः

गुह्यात् पीतवर्णस्य पूयस्य प्रवर्तनाद् रत्नवज्रः। (व. ति. टी., पृ. ४९)

रत्नसम्भवम्

रत्नानि प्रभवन्त्येव बुद्धादीनि यतो ध्रुवम्
ज्ञानं सत्त्वार्थसंयुक्तं रत्नसंभवमुच्यते॥ (ज्ञा. सि. १५.७)
रत्नसम्भुर्भावरत्नम्। (स. सि. २.७)

रत्नसम्भवः

सर्वतथागतानां रत्नं संवृतिबोधिचित्तम्, ततः संभवतीति रत्नसम्भवः, नेयार्थः। सर्वतथागततानां रत्नं परमार्थबोधिचित्तम्, तस्मात् सम्भवतीति रत्नसम्भवः, नीतार्थः। (गु. स. प्र., पृ. २४)

आकाशपथं समताज्ञानम्, तस्माद् वर्तते निष्पाद्यते तत्संभवतया यः स आकाशपथवर्तको रत्नसम्भवः। (गु. स. प्र., पृ. ५१)

रत्नयोः संभोगनिर्माणयोः संभवोऽत इति रत्नसंभवः। (व. ति. टी., पृ. ८५)

रत्नेशः

रत्नेशः सर्वबुद्धरत्नानामाश्रयत्वात्। (हे. त. टी., प. १९b)

रसना

दक्षिणनासापुटे उपायसूर्यस्वभावेना रसना स्थिता। तथा च हेवज्रे--"रसनोपायसंस्थिता"। (दो. को. व्या. पृ. १५१)

रागः

रञ्जत्यशेषदुःखौघानुत्थांस्तु दुःखहेतुतः।
सर्वसत्त्वान् यतस्तस्मात् कृपा रागः प्रगीयते॥ (प्र. वि. सि. १.१५)

रागरतिः

रागोऽमिताभस्तस्मिन् रती रागरतिः, नेयार्थः। रागविशुद्धे रतिः, नीतार्थः। (गु. स. प्र., पृ. २५)

रागविरागौ

रागो बोधिचित्तस्य शुक्लपक्षः, विरागः कृष्णपक्ष इति। (से. टी., पृ. २६)

राजा

राजते सूर्यसंयोगाच्चीनपिष्टवद् विरोचत इति राजा। (व. ति. टी., पृ. ८२)

रामेश्वरः

रामेश्वरस्तथा ख्यातो भ्रूमध्ये....। (व. ति., पृ. ३२)

रामा च रामा च ते रामे ललनारसनास्वभावे भ्रुवौ, तयोर्मध्ये ईश्वरत्वं यस्य ज्ञार्चिषस्तद् भ्रूमध्यमित्यूर्णाकोषम्। (व. ति. टी., पृ. ३२)

रामेश्वरे तु या नाडी प्रसिद्धा खर्वरीति सा।
अस्थिमालाव्यवस्था हि स्थिता कठिनभावतः॥ (व. ति., पृ. ४२-४३)

रूपिणी

वाय्वाकाशं रूपयति विशोधयतीति रूपिणी। (व. ति. टी., पृ. ४१)
चित्तानुस्मृत्युपस्थानं रूपिणी।(व. ति., पृ. ५१)

लङ्केश्वरी

लङ्का शरीरपुरी, तस्यामीश्वरी स्वामिनी लङ्केश्वरी। (व. ति. टी., पृ. ४७)
स्मृतीन्द्रियं लङ्केश्वरी। (व. ति., पृ. ५४)

लम्पाकः

लम्पाकः कण्ठमध्यके। (व. ति., पृ. ३३)

लम्बिकाऽधराऽमृतास्वादनलम्पटा रसना, तद्योगाल्लम्पाकः कण्ठः। (व. ति. टी., पृ. ३३)

उदरस्था सुभद्रा वै लम्पाके परिकीर्तिता। (व. ति., पृ. ४५)

ललना

वामनासापुटे प्रज्ञाचन्द्रस्वभावेन ललना स्थिता। तथा च हेवज्रे--"ललना प्रज्ञास्वभावेन"। (दो. को. व्या., पृ. १५१)

लामा

अब्धात्वाकाशे लसनाल्लामा। (व. ति. टी., पृ. ४१)
वेदनानुस्मृत्युपस्थानं लामा। (व. ति., पृ. ५१)

लिङ्गम्

लिङ्गं संवृतिसत्यम्। (गु. स. प्र., पृ. ६७)

लोकोत्तरसत्यम्

लोकोत्तरसत्यं धूमादिनिर्मित्तेन निर्विकल्पचित्तेन उत्पन्नक्रमेण महामुद्रासिद्धिसाधनमिति। (वि. प्र., पृ. २०)

लोचना

सूक्ष्ममौदारिकं रूपं त्रैकाल्यपरिभावितम्।
दृश्यते सर्वक्षेत्रस्थं लोचना तेन कथ्यते॥ (ज्ञा. सि. १५.१०)

लौकिकलोकोत्तरआभिषेकाः

लौकिकास्तावद् उदकम्, मुकुतः, पट्टम्, वज्रघण्टा, महाव्रतम्, नाम, अनुज्ञा, कलशः, गुह्यम्, प्रज्ञाज्ञानमिति गर्भजानां लोकसंवृत्या दशाभिषेकाः कायवाक्चित्तज्ञानधातुस्कन्धायतनकर्मेन्द्रियापरिशुद्ध्येति। लोकोत्तर एकादशतमश्चतुर्थस्तत्पुनस्तथेति नियमान्महामुद्रापरमाक्षरज्ञानलक्षणो गुरुवक्त्रं कायवागादिनिरावरणत्वेन शोधक इति। (वि. प्र., पृ. २१)

लौकिकाभिषेकाः -- उदक-मुकुटा-पट्ट-वज्रघण्टा-महाव्रत-नाम-अनुज्ञा इति सप्त, तथोत्तराः--कलशो गुह्यः प्रज्ञाज्ञानमिति। लोकोत्तराभिषेक एकादशमश्चतुर्थ इति। (वि. प्र., पृ. ५१)

लौकिकसत्यम्

लौकिकसत्यम्ं मण्डलचक्रविकल्पभावना लौकिकसिद्धिसाधनमुत्पत्तिक्रमेणेति। (वि. प्र., पृ. २०)

वज्रम्

यथा अक्षोभ्यमुद्रया ज्ञानं मौलं पृष्ठमन्यत्, तथा वज्रसत्त्वमुद्रया विज्ञानमपि पृष्ठं मौलं वज्रमिति स्यात्। उक्तं च वज्रशेखरे--

दृढं सारमसौशीर्यमच्छेद्याभेद्यलक्षणम्।
अदाहि अविनाशि च शून्यतावज्रमुच्यते॥ (अ. व. सं., पृ. २३, ३७)

द्वादशाङ्गुलिपरिमाणेन द्वादशाङ्गप्रतीत्यसमुत्पादविशुद्ध्या वज्रम्। ...अभेद्यं वज्रमिति हेवज्रे। (अ. प. सं., पृ. ३७)

परमाद्यं वज्रम्। परममुत्कृष्टत्वात्, आद्यं सुखस्यादिकारणभूतत्वात्, तदेव पात्रम्, सुखस्याधारभूतत्वाद् विद्यापङ्कजमेवाभिधीयते। अवधूतीगतं यदा बोधिचित्तं भवेत् तदा वज्रमभिधीयते। (त. सं. टी., पृ. ७)

बोधिचित्तं भवेद् वज्रम्। (ज्ञा. सि. १५.२४)

बोधिचित्तं भवेद् वज्रम्। (ज्ञा. सि. १५.२४)
वंकारं वज्रमित्याहुः। (अ. प्र. वि. सि., पृ. २१८)
आसां शुक्रं भवेद् वज्रम्। (हे. त. २.३.६३)

वज्रम् अभेद्यं ज्ञानम्। (हे. त. टी., प. १८b)

वज्रघण्टा

वज्रघण्टाऽपि पूर्वाभिसन्धानेन द्वादशङ्गुलपरिमाणाऽधोमुखाम्भोजवज्रसमापत्तिनिःस्वभावत्वेन सर्वधर्मस्वभावं प्रतिपादयितुमभेद्यज्ञाननिगदतां धर्मोदयस्य बोधयितुं मूर्धाधोभागे च वज्रावलीयुगलमालिनी। (अ. व. सं., पृ. ३७)

वज्रचतुष्कम्

प्रथमं शून्यताबोधिर्द्वितीयं बीजसंग्रहम्।
तृतीयं बिम्बनिष्पत्तिश्चतुर्थं न्यासमक्षरम्॥
एभिर्वज्रचतुष्कैश्च सेवा सामान्यलक्षणम्। (गु. स. १८।१३३) (से. टी., पृ. २९)

वज्रजटिलः

स्तनाभ्यां वज्रजटिलरूपस्य पित्तधातोर्जननाद् वज्रजटिलः। (व. ति. टी., पृ. ४९)

वज्रजापः

प्राणायाम इति वज्रजाप इति च मज्ञमाभिन्नाङ्गत्वेन जप्तव्यः। (से. टी., पृ. ३३)
तदेवोपसाधनं वज्रजाप इत्युच्यते। (से. टी., इत्युच्यते। (से. टी., पृ. ४२)

आलि-काल्योर्वामदक्षिणपुटनाडीभ्यो गतागतनिरीक्षणं तयोरेव गुरूपदेशतो विधारणं च जापः, स एव वज्रजापशब्देनोच्यते। (हे. त. टी., प. २०a-b)

वज्रडाकिनी

वज्रं संवरमनाहताक्ष्रद्वारस्थमनाहतं खगमुखैकरसं स्रवत्सुधं दुग्धाब्धितरङ्गभङ्गान् मुञ्चन्तं डयति गच्छतीति वज्रडाकिनी। (व. ति. टी., पृ. ७)

वज्रदेहः

वज्रवद् दृढो देहो यस्य बाहुमूलाद् हृदयप्रवर्तको वज्रदेहः। (व. ति. टी., पृ. ४८)

वज्रधरः

इह ग्राह्यचित्ते ग्राहकचित्तस्य यस्तस्मिन् प्रवेशो बाह्यविषयेष्वप्रवृत्तिः प्रत्याहारो ध्यानं प्राणायामो धारणा मज्जनमित्युचय्ते षडङ्गे। तस्मान्मज्जनान्निर्वाणसौखमच्युतमपि सहजं चाक्षरं वै चतुर्थं सुखं बालप्रौढस्पन्दानां परं लोकोपमामतिक्रान्तं त्रैलोक्याचारमुक्तमित्यर्थः। हसितेक्षणस्पर्शालिङ्गनपाणिव्याप्तिद्वन्द्वरहितं कर्ममुद्राज्ञानमुद्राहेतुरहितं शून्यतासर्वाकारप्रतिभासलक्षणमिति। इदं बुद्धवक्त्रं ज्ञानवक्त्र यस्याचार्यस्य हृदयगतं भावितं स्वानुभवं सुखगतं शिष्येभ्यः प्रतिपादनाय वर्तते सर्वकालं स गुरुर्वज्रधर इत्यर्थः। (से. टी., पृ. ४५)

वज्रं द्रव्यं धारयतीति वज्रधरो मदनसहितनृकपालः। ....वज्रमद्वयज्ञानं धारयतीति वज्रधरः। (त. सं. टी., पृ. ९)

एकारं भगमित्युक्तं वंकारं कुलिशं स्मृतम्।
मयेति चालनं प्रोक्तं वज्रधरस्य लक्षणम्॥
शुक्राकारो भवेद् भगवान् तत्सुखं कामिनी स्मृतम्।
धर्मसंभोगरूपत्वं वज्रधरस्य लक्षणम्॥ (हे. त. टी ., प. २a)

वज्रं धारयतीति वज्रधरः (अक्षरार्थः), आदर्शादिज्ञानपञ्चकं तन्मयत्वेन धारणाद् वज्रधरः (समस्ताङ्गम्), मनोमयदेहधारणाद् वज्रधरः (गर्भी), वज्रमद्वयज्ञानं तस्य तन्मयत्वेन धारणाद् वज्रधरः (कोलिकम्)। (गु. स. प्र., पृ. ५५-५६) न्द् ओफ़् पगे १५० ग्रोस्स्पगे १०६।

वज्रधरहृदयम्
वज्रम् अभेद्यज्ञानम्, तद् धारयतीति वज्रधरः सम्यक्संबुद्धः, हृदयमप्रकाश्य त्वाद् धर्मोदयोऽभिधीयते। (त. सं. टी., पृ. ६)

वज्रधात्रेश्वरी

हृदयस्था महादेवी योगिनां योगवाहिनी।
जननी सर्वबुद्धानां वज्रधात्रेश्वरी स्मृता॥ (गु. स. प्र., पृ. ४८, २०२)

वज्रधात्वीश्वरी

आसां (लोचना-मामकी-पाण्डरवासिनी-तारिणीनां) मध्ये आलिस्वभावा वज्रसत्त्वस्वरूपिणी वज्रधात्वीश्वरी नायिका। इयमेव भगवती तथता-शून्यता-प्रज्ञापारमिता-भूतकोटि-नैरात्म्येति व्यपदिश्यते। (अ. व. सं., पृ. ४३)

वज्रधृक्

वज्रधृगिति पञ्चाकाराभिसम्बोधिसंसूचकम्। वज्रं धारयतीति वज्रधृक्, नेयार्थः। सत्यद्वयात्मकं वज्रज्ञानं धारयतीति वज्रधृक्, नीतार्थः। (गु. स. प्र., पृ. २३)

वज्रपदम्

वज्रो हेवज्रः, तस्य पदमालीढप्रत्यालीढमण्डलसमपादार्धपर्यङ्कादिकम्। (हे. त. टी., प. २२a)

इह मन्त्रनये द्विधा वज्रपदम्--एकं लौकिकसंवृत्या, द्वितीयं परमार्थतः। तयोर्लोकसंवृत्या वज्रपदं मारणादौ समयसिद्धिदायकम्, परमार्थसत्येन वज्रपदं. महामुद्रासिद्धिफलदायकमिति। (वि. प्र. पृ., १९)

वज्रप्रभः

वज्ररत्नवत् प्रभा यस्य, तस्य चक्षुषि स्थित्वा बुक्कस्य प्रवर्तकत्वाद् वज्रप्रभः। (व. ति. टी., पृ. ४८)

वज्रभद्रः

कण्ठादुदरप्रवर्तकत्वाद् वज्रभद्रः, कण्ठोदराभ्यामादिमध्यान्तकल्याणवज्रमयधर्मचक्रप्रवर्तकत्वात्। (व. ति. टी., पृ. ४९)

वज्रमभेद्यमच्छेद्यं महदिति। तदेव यानं मन्त्रनयं पारमितानयं फलहेत्वात्मकम्, एकलोलीभूतम्। (वि. प्र., पृ. १६३)

वज्रयोगः

संवृतिपरमार्थसत्यस्वभावयोः संयोगो मीलनं वज्रयोगः। स चाद्वयो युगनद्धाख्योऽक्षरश्चेति। (से. टी., पृ. ७०)

विशुद्ध-धर्म-मन्त्र-संस्थानात्मकैर्वज्रयोगैः, शून्यताऽनिमित्ताप्रणिहितानभिसंस्कारविमिक्षणैः, करुणामैत्रीमुदितोपेक्षाब्रह्मविहारैः, ......सहजसम्भोगनिर्माणकायरूपैः। तत्र स्वभावाभावातः शून्यम्, तस्य शून्यस्य भावः शून्यता। ....शून्यता गम्भीरोदारा, अतीतानागताभावाद् गम्भीरा, अतीतानागतदर्शनादुदारा, तयोपलक्षितं तद्ग्राहकं वा ज्ञानं शून्यताविमोक्षः। तेन विशुद्धं तुर्यावस्थाक्षयाक्षरं महासुखम्। कं सुखं तद्रुणद्धीति करुणालक्षणं ज्ञानवज्रम्। स एव सहजकायः प्रज्ञापायात्मको विशुद्धो योग इत्युच्यते।

निमित्तं बुद्धो बोधिरित्यादि विकल्पचित्तं हेतुः। शून्यत्वादेव हेत्वभावः। ततो न विद्यते निमित्तं यस्य तदनिमित्तं ज्ञानमनिमित्तविमिक्षः। तेन विशुद्धं सुषुप्तिक्षयान्नित्यानित्यादिद्वयरहितं मैत्र्यात्मकं कायद्वयस्फरणैर्जगदर्थकारि निर्विकल्पात्मकं चित्तं चित्तवज्रम्। स एव धर्मकायः प्रज्ञोपायात्मको धर्मात्मा योग इत्युच्यते।

अनिमित्तादेव तर्काभावः, अतर्कादप्रणिहितम्। प्रणिधानं सम्बुद्धोऽहं भवामीत्यादिकं न विद्यते यस्य तदप्रणिहितविमोक्षः। तेन विशुद्दः स्वप्त्नक्षयादक्षयोऽनाहतो ध्वनिः सर्वसत्त्वरुतात्मको मन्त्रमुदितालक्षणः। सर्वसत्त्वरुतैः सर्वसत्त्वानां मोदनान्मनसस्त्रानभूतत्वाच्च मन्त्रो वाग्वज्रम्। स एव संभोगकायः प्रज्ञोपायात्मको मन्त्रयोग इत्युच्यते।

प्रणिधानाभावान्न विद्यतेऽभिसंस्कारः सितरक्तप्राणायामविज्ञानलक्षणो यस्यासावनभिसंस्कारविमोक्षः। तेन विशुद्धो जाग्रदवस्थाक्षयात् स्फारितानन्तानन्तनिर्माणकायैः क्लेशप्रतिपक्षमार्गोपनायको रौद्ररागशान्तादिरूपैरसंकीर्ण उपेक्षात्मकः कायवज्रः। स एव निर्माणकायः प्रज्ञोपायात्मकः संस्थानयोग इति। तदुक्तं विमलप्रभायां प्रथमश्लोकव्याख्याने--स एव सहजकायः शून्यताविमोक्षविशुद्धो ज्ञानवज्रः सर्वज्ञः प्रज्ञोपायात्मकः शुद्धयोग इति। स एव धर्मकायोऽनिमित्तविमोक्षविशुद्धश्चित्तवज्रो ज्ञानकायः प्रज्ञोपायात्मको धर्मात्मको योग युत्युक्तः। स एव संभोगकायोऽप्रणिहितविमोक्षाविशुद्धो वाग्वज्रो दिनकरवपुः प्रज्ञोपायात्मको मन्त्रयोग इत्युक्तः। स एव निर्माणकायोऽनभिसंस्कारविमोक्षाविशुद्धः कायवज्रः पद्मपत्रायताक्षः प्रज्ञोपायात्मकः संस्थानयोग इति। (से. टी., पृ. ५-६)

गुह्यादुष्णीषान्तषट्चक्रे क्रमेण-वज्रसत्त्व-महासत्त्व-बोधिसत्त्व-समयसत्त्व-वज्रयोग-कालचक्रषण्णामकः। ...स एव यतः कायादिवज्राणां प्रज्ञया बिम्बेनाक्षरबिन्दुभिश्च सहयोग एकत्वम्, निर्जितक्रोधत्वान्महाक्रोधो मारविजयित्वात् क्रुद्धमाररिपुश्चोपदिष्ट इति वज्रयोगः। (से. टी., पृ. ७३)

अस्ति-नास्तिव्यतिक्रान्तो भावाभावक्षयोऽद्वयः।
शून्यताकरुणाभिन्नो वज्रयोगो महासुखः॥
परमाणुधर्मतातीतः शून्यधर्मविवर्जितः।
शाश्वतोच्छेदनिर्मुक्तो वज्रयोगो निरन्वयः॥ (वि. प्र., पृ. ४४)

षोदशाकारं तत्त्वमिति। स एव सहजकायः शून्यताविमोक्षविशुद्धो ज्ञानवज्रः सर्वज्ञः प्रज्ञोपायात्मको विशुद्धयोग इति। स एव धर्मकायोऽनिमित्तविमोक्षविशुद्धश्चित्तवज्रो ज्ञानकायः प्रज्ञोपायात्मको धर्मयोग इत्युक्तः। स एव सम्भोगकायोऽप्रणिहितविमोक्षविशुद्धो वाग्वज्रो दिनकरवपुः प्रज्ञोपायात्मको मन्त्रयोग इत्युक्त। स एव निर्माणकायोऽनभिसंस्कारविमोक्षविशुद्धः कायवज्रः पद्मपत्रायताक्षः प्रज्ञोपायात्मकः संस्थानयोग इत्युक्तः। एवमेतं वज्रयोगं चतुर्विधम्....। (वि. प्र., पृ. ४५)

एष वज्रयोगो ज्ञनपटले विस्तरेण वक्तव्यः। (वि. प्र., पृ. ४६)

वज्रयोगिनी

वज्रम् अनुपलम्भज्ञानम्, तेन सह योगोऽस्या अस्तीति। (त. सं. टी., पृ. ४)

वज्रयोषित्

हृदयं ज्ञानं तदेव वज्रयोषित्, अभेद्यप्रज्ञास्वभ्वत्वात्। (ज्ञा. सि., पृ. १३९)

वज्ररतिः

वज्रोऽमोघसिद्धिस्तस्मिन् रतिर्वज्ररति, नेयार्थः। वज्रज्ञाने रतिः, नीतार्थः। (गु. स. प्र., पृ. २५)

वज्रव्रताभिषेकः

रूपादिविषयचक्षुरादीन्द्रियसंशुद्धिः प्राकृतविषयनियमेन महामुद्रासिद्धिप्रापकत्वाद् वज्रव्रताभिषेकः पञ्चमः। (से. टी., पृ. २१)

वज्रसत्त्वः

वज्रेण शून्यता प्रोक्ता सत्त्वेन ज्ञानमात्रता।
तादात्म्यमनयोः सिद्धं वज्रसत्त्वस्वभावतः॥

शून्यताकृपयोर्भेदः प्रदीपालोकयोरिव।
शून्यताकृपयारैक्यं प्रदीपालोकयोरिव॥

भावेभ्यः शून्यता नान्या न च भावोऽस्ति तां विना।
अविनाभावकमियत् कृतकानित्ययोरिव॥ (अ. व. सं., पृ. २४)

अभेद्यं वज्रमित्युक्तं सत्त्वं त्रिभवस्यैकता।
अनया प्रज्ञया युक्त्या वज्रसत्त्व इति स्मृतः॥ (हे. त. १.१.२४)

प्रज्ञोपायस्वभावयोश्चन्द्रसूर्ययोः समायोगजनितबीजोद्भवचिह्नं वज्रम्, तद्गर्भस्थितं बीजं सत्त्वम्, वज्रसहितः सत्त्वो वज्रसत्त्वः। (हे. त. टी., प. ४५b)

इह पञ्चाक्षरो महाशून्यः स्वरसमूह शुक्रश्चन्द्र इत्युच्यन्ते, बिन्दुशून्यः षडक्षरो व्यञ्जनसमूहो रजः सूर्य इत्युच्यते। अत्र शुक्रं चन्द्रो वंकारो वज्रम्; रजः सूर्य एकारः पद्मम्। अनयोर्वज्रपद्मयोरेकत्वं वज्रसत्त्व इति। वज्रं परमसुखं ज्ञानं शुक्रम् सत्त्वः सर्वाकारप्रज्ञाबिम्बं ज्ञेयं रविरिति। ज्ञानविज्ञानाधिष्ठितनिरावरणमेकलोलीभूतं तत्त्वं जगदर्थकारि भवति। (व. ति. टी., पृ. ४९)

वज्रसमयः

इतः प्रभृति असंस्कृतो भेदयुगनद्धवानिबोधिधर्मसमयस्त्वमिति बोधयितुं वज्रसमयः। (अ. व. सं. पृ. ३८)

वज्रसमयो द्वयेन्द्रियसमापत्तिः, गर्भी। वज्रसमयः प्रभास्वरम्, कोलिकम्। (गु. स. प्र., पृ. २२)

वज्रसिंहासनम्

वज्रसिंहासनं चन्द्रसूर्याग्निमण्डलमच्छेद्यमभेद्यम्। एकारो वाऽऽकाशधातुर्वज्रसिंहासनम्। (वि. प्र., पृ. १६)

वज्रहूँकारः

नासाग्रादन्यत्र द्वारप्रवर्तकत्वाद् वज्रहूँकारः। (व. ति. टी., पृ. ४९)

वन्दना

स्वजृद्बीजरश्मिरेव निर्गतसमस्ताकाशदेशव्यापिगुरुबुद्धबोधिसत्त्वान् स्फुरणसंहरणाकारेण जगदर्थक्रियाकरुणैकपरान् दृष्ट्वा स्वहृद्बीजकिरणैरेव दिव्यगन्धपुष्पप्रकरादिकं निश्चार्य मण्डलपूर्वकं कृताञ्जलिना गुरुबुद्धबोधिसत्त्वचरणकमलविन्यस्तमूर्ध्ना प्रणामना वन्दना। (सा. मा. पृ. ११५-११६)

पूजयित्वा परमकारुणिलो योगी भक्तिनम्रः कायवाक्चित्तेन वन्दयेदिति वन्दना। (सा. मा., पृ. ३७३)

वरकुलिशधरम्

वरश्च वरश्च कुलिशधरश्च वरकुलिशधरम्। ...अमी त्रयः शून्यसंज्ञाः स्युः। प्रथमवरसंज्ञया द्वितीयशून्यमुक्तः। तद्यथा--संस्कारस्कन्धवायुधातुघ्राणसंस्पर्शवागिन्द्रियविट्स्रावाः, एषां निरावरणता समरसत्वमेकलोलीमूतत्वं वरमिति द्वितीयाक्षरशून्यम्। अस्य संज्ञाचिह्नं मध्यानाहतचिह्नात् पूर्वेण दण्डाकारं रेखामात्रमनुच्चार्यमिति। द्वितीयवरसंज्अया पञ्चमं शून्यमित्युक्तम्। तद्यथा--रूपस्कन्ध-पृथीधातुकायेन्द्रियगन्धपाय्वालापाः, एषां निरावरणता समरसत्वमेकलोलीभूतत्वं वरमिति पञ्चमाक्षरशून्यम्। अस्य संज्ञाचिह्नं मध्यानाहतचिह्नात् पश्चिमेन हलाकृतिमनुच्चार्यमिति। एवमुक्तक्रमेण पञ्चभिरेकलोलीभूतैः पञ्चाक्षरो महाशून्यो वँकारो वज्रसत्त्वो महासुखकुलिशमुच्यते। [कुलिशधरशब्दोऽपि द्रष्टव्यः] (वि. प्र., पृ. ४८)

वसन्तः

.... हुँकार उच्चारयितुमशक्यत्वादनाहतः, सर्वविकल्पभयेभ्यो निर्गतत्वाद्वीरः, स एव सर्वदेहिनां हृदयानन्दजनकत्वाद् वसन्त इव वसन्तो भगवान् श्रीहेरुक इति ज्ञातव्य। (व. ति. टी., पृ. ३७-३८)

वसन्त इति विख्यातो देहिनां हृदिनन्दनः। (व. ति., पृ. ३८)

वसन्ततिलका

येयं वाद्बाग्निसदृशी ज्ञानाग्निर्मन्थमन्थानसंयोगलक्षणकर्ममारुतोब्दोधिता नाभिदेशाज्ज्वलन्ती ऊर्धवार्गेण गत्वा तं वीरं हृदयस्थं तदमृतनिर्झरधारासारेण तथैव द्रावितेन स्पृष्टा, अत एवाद्वययोगाट् समापत्त्याऽवस्थिता वसन्ततिकलेत्युच्यते (व. ति. टी., ३८)

एष श्रीहेरुको वीरो वसन्ततिलका स्मृता। (व. ति., पृ. ३८)

वाराहीति सुविख्याता वसन्ततिलका स्मृता। (व. ति., पृ. ८६)

वसन्तं हूँकारादिस्तिलकेव तिलका। (व. ति. टी., पृ. ८६)

वसन्ततिलकायोगः

अनेनाप्यायितो नादः सन्तोषपदभाग् भवेत्।
वसन्ततिलकायोगः स एष विनिगद्यते॥ (व. ति. टी., पृ. ६४)

वँकारम्

वँकारं कुलिशं स्मृतम्। (हे. त. टी., प. २a)

वंकारः

वंकार-महासुरत-महाराग-सहज-परमाक्षर-बिन्दु-तत्त्व-ज्ञान-विशुद्धचित्तसंज्ञानां मध्ये नैका वंकारसंज्ञा प्रधाना, सर्वासां महामुद्रासहजानन्दाक्षरसुखप्रतिपादनत्वात्। (वि. प्र., पृ. ३४)

वं वज्री वज्रसत्त्वश्च वज्रभैरव ईश्वरः।
हेरुकः कालचक्रश्च आदिबुद्धादिनामभिः॥ (वि. प्र., पृ. ४०)

एवं वँकारः पञ्चाक्षरो महाशून्यो निरालम्बकरुणात्मकः परमाणुधर्मतातीतः प्रतिसेनारूपसदृशो योगिगम्य इति। (वि. प्र., ४८)

वाक्चक्रम्

इत्येवं सर्वदेशास्तु वाक्चक्रे संव्यवस्थिताः।
भूचरीणां समाख्याताः स्थानविशेषरूपिणाम्॥ (व. ति., पृ. ३४)
वाक्चक्रे संस्थिता नाड्यो भूचर्यो दूतयः स्थिताः। (व. ति., पृ. ४५)

क्षेत्रोपक्षेत्रछन्दोहोपछदोहाख्येष्वष्टौ नाड्यो भूचर्यो वाक्चक्रे। (व. ति. टी., पृ. ४५)

वाग्द्वारम्

अपरं चतुर्विधं द्वारं वाचिकं स्मृतम्॥
आग्नेयं चैव वायव्यं माहेन्द्रं वारुणं तथा। (व. ति., पृ. २०-२१)

तेभ्यः (वाग्द्वारेभ्यः) एव वामदक्षिणमध्यनाडीरन्ध्रयुक्तेभ्यो भगवती वर्णमातृका उदेति। (व. ति. टी., पृ. २१)

पूर्वस्मिन् वाचिके द्वारे डाकिन्यश्च चतुर्विधाः। (व. ति., पृ. ४८)

वामनी

तदुदये वा वामनाकारे सत्त्वधातूत्पादात् स्नायूनां वहनाद् वामनी, तदुदये वा भुत्कस्य वमनाद् वामकर्णे। (व. ति. टी., पृ. ४४)

वामहस्तः

हस्तो धारणकर्मा, तत्साधर्म्याद् हस्तो वातः, वामनासिकापुटस्थितः (श्वासः)। (त. सं. टी., पृ. ११)

वामा

वामनस्यैव पूर्णस्य मांसस्य वहनाद् वामा पृष्ठे। (व. ति. टी., पृ. ४४)

वायव्यमण्डलम्

वायव्यमण्डलं नाभिपद्मस्थम्। तस्योदये कृष्णश्यामवर्णरश्मिर्विनिर्गत्यार्धयामं तिष्ठति। तदा रौद्रकर्म कुर्यात्। (गु. स. प्र., पृ. १४३)

वायुः

नासया निश्चरन् रेचको वायुः, प्रविशन् पूरकः, पूरिताभ्यन्तरः कुम्भकः, प्रविश्य निश्चलीभूतः प्रशान्तः। (हे. त. टी., ४२a)

वायुमण्डलम्

स्थितः पादतले वायुर्वैरम्भो धनुराकृतिः। (व. ति., पृ. ६१)

वायुवेगा

वायुवदध ऊर्ध्वं दश दिक्षु च वेगो जवो यस्याः सा वायुवेगा, ओलिद्वयिऽपि (व. ति., टी., पृ. ४७)

वार्यबलं वायुवेगा। (व. ति., पृ. ५५)

वाराही

वरं बोधिचित्तम् आहिनोतीति वाराही। हि गतौ। आङ्पूर्वकात् संज्ञायामण्, पृषोदरादित्वादात्वम्। महासुखस्थितं भगवन्तमन्वेतीत्यर्थः। (त. सं. टी., पृ. २)

अस्यैव सहजा प्रज्ञा स्थिता तद्रूपधारिणी॥
कर्ममारुतनिर्धूता जवलन्ती नाभिमण्डले।
वाराहीति सुविख्याता....। (व. ति., पृ. ८६)

वायुरेफाभ्यां मातरश्वतहुतभुग्भ्यामीरयति स्रावयतीति वाराही। (व. ति. टी., पृ. ८६)

वारणमण्डलम्

वारुणमण्डलं हृत्पद्मस्थम्। तस्योदयकले श्वेतवर्णो रश्मिर्विनिर्गत्यार्धयामं तिष्ठति। तदा महाशान्तिं कुर्यात्। (गु. स. प्र., पृ. १४३)

विकटदंष्ट्रः

विकटा मांसमयी दंष्ट्रा पृष्ठे यस्य स तथा विकटदंष्ट्रः। (व. ति. टी., पृ. ४८)

विकुर्वणम्

तत्रालीढादिना विग्न्चूर्णनं कायविकुर्वणम्। प्रलयमेघनिनादेन मन्त्रोच्चरणं वाग्विकुर्वणम्। सर्वघ्नेषु शून्यतालम्बनं चित्तविकुर्वणम्। (गु. स. प्र., पृ. १९१)

विघ्नान्तकः

विघ्नादिभिर्विमुक्त्मा ज्ञानं सर्वार्थसाधकम्।
सर्वबुद्धमयं सिद्धं तेन विघ्नान्तकः स्मृतः॥ (ज्ञा. सि. १५.१८)

विघ्नान्तकृत्

विघ्नानामन्तं विनाशं करोतीति विघ्नान्तकृत्, नेयार्थः। विघ्नाश्चत्वारो धातवः, ते क्षयवृद्धिभ्यां शरीरपीडनाद् विघ्नाः, तेषामुपायज्ञानोदयेन विनाशं करोतीति विभ्नान्तकृत्, नीतार्थः। (गु. स. प्र., पृ. २६-२७)

विचित्रम्

विचित्रं विविधं ख्यातमालिङ्गनचुम्बनादिकम्। (हे. त. २.३.७)
विचित्रे प्रथमानन्दः। (हे. त. २.३.९)

विट्

विड् अन्नम्। (गु. स. प्र., पृ. १९१)

विद्या

इह संसारे लोकव्यवहारे विद्या या, परमार्थतत्त्वविषयेऽविद्या सा। ...विद्येत्यविकल्पिताध्यात्मविद्या शून्यता सर्वाकारैरुपेता,....विद्या अनालम्बिनी अनास्रवसुखात्मिकेति। विद्या हेतुफलात्मिका हेतुफलैकलोलीभूताऽग्निप्रभा दहनैकलोलीभूतवदिति। (वि. प्र. पृ. २५८)

विद्याधरः

डाकडाकिन्यादिसमयाः, तेषामग्रास्तेषु विद्या तत्साधनमन्त्रः, तं धारयतीति विद्याधरः। (गु. स. प्र., पृ. ११३)

विद्यापुरुषः

सर्वतथागतमन्त्रा ओंकारादयः। तैर्निष्पन्नसमयो महावज्रधरः। तदेव मन्त्रपरायणानां तत्त्वं विद्या प्रज्ञापारमिता। तत्समुत्थितपुरुषो विद्यापुरुषः।

विद्याष्टकम्

जननी भगिनी चैव दुहिता भागिनेयिका।
मातुलस्य तथा भार्या मातृभगिनी च स्वसृका॥
पितुर्भगिनी तथा चैव अष्टौ विद्याः प्रकीर्तिताः। (हे. त. २.५.५९)

नैता लोकसम्बह्दिन्यः। जननीति आचार्यस्य प्रिया, सैव शिष्यस्य माता। भगिनीति तस्याः सखी। दुहितेति आचार्यस्य शिष्या। भागिनेयी तच्छिष्या। मामकस्य भार्येति मातुः प्रियसखलस्य वल्लभा। मातुर्भगिनी आचार्यस्य सखी। स्वसृकेति शिष्यस्य प्रिया। पितुर्भगिनी आचार्यस्य भगिनी। (हे. त. टी., प. ६५a)

अशुद्धचित्तशोधनाद् भगिनी भवेच्चक्षुः।
भागिनेयी श्रोत्रमेव च जननी भण्यते घ्राणम्॥
रसना दुहिता तथा मनो भवेद् भार्या।
षडेता वरा विद्या महामुद्राप्रदायिकाः॥ (हे. त. टी., ६७a-b)

विद्यास्थानानि

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश॥

इति परयूथ्यपक्षः,

लक्षणं हेतुविद्या च तथैवाध्यात्मिकी पुनः।
चिकित्साशिल्पविद्ये द्वे विद्यास्थानानि पञ्च तु॥ (व. ति. टी., पृ. ७२)

विपाकः

विपकं तद्विपर्यासं सुखज्ञानस्य भुञ्जनम्। (हे. त. २.३.७)

परमानन्दो विपाकजे। (हे. त. २.३.९)

विमर्दः

विमर्दमालोचनं प्रोक्तं सुखं भुक्तं मयेति च। (हे. त. २.३.८)
विरमानन्दो विमर्दे च। (हे. त. २.३.९)

विमला

वामकर्णभ्रूमध्यचक्षुर्बाहुमूलमुपपीठम्, पीथसमीपम्। सैव विमला, ज्ञानाग्निना विकल्पमलदाहात्। (व. ति. टी., पृ. २८)

वियोगा

प्रायेण मांसभक्षणाद् वियोगा विकल्पजननाद्वा गुदे। (व. ति. टी., पृ. ४६)

विरुपाक्षः

मेढ्रात् सीमान्तस्य त्रिनेत्रस्य प्रवर्तकत्वाद् विरूपाक्षः। (व. ति. टी., पृ. ४९)

विलक्षाणः

विलक्षणं त्रिभ्योऽन्यत्र रागारागविवर्जितम्। (हे. त. २.३.८)

विशुद्धिः

यया सर्वे भावा निर्दोषा भवन्ति सा विशुद्धिः। (हे. त. टी., प. ३५a)

विश्वपद्मम्

तस्य मेरोः (कङ्कालापरपर्यायस्य) यदेतच्छिरस्तन्मध्ये या अभेद्याद्या द्वात्रिंशन्नाड्यस्ता एव विश्वपद्मं भगवत आसनं विज्ञेयम्। (व. ति. टी., पृ. ६२)

विश्वबिम्बम्

अन्तरालवलम्भितयाऽर्धोन्मीलितलोचनाभ्यां शून्य आकाशे ग्राह्यग्राहकरहिते यन्नानुकल्पितं स्वप्नवद् बिम्बं योगिप्रत्यक्षं तद्बिम्बं विश्वबिम्बम्। (से. टी., पृ. ४८)

विश्ववज्रम्

अन्योन्यव्यापकाभेदाद् विश्ववज्रमिति स्मृतम्। (ज्ञा. सि. १५.२७)

विष्ठा

पित्ताख्यं विष्ठं वहतीति विष्था स्तनद्वये। (व. ति. टी., पृ. ४४)

वीरक्रमः

वीरक्रमो न बाह्ये देहे प्राणक्षयो ह्यसावुक्तः। (वि. प्र., पृ. ७)

वीरचर्याव्रतम्

वीरचर्याव्रतमेव यौराज्यव्रतचर्येति वज्रकापालिकचर्याव्रतमिति चोक्तं श्रीसम्पुटतन्त्रे। (वज्रावली, पृ. २१९)

वीरमती

वीरो जनकत्वेन विद्यते यस्याः सा वीरमती, "नाभिमध्ये स्थितो वीरः" इति वचनात्। (व. ति. टी., पृ. ४७)

श्रद्देन्द्रियं वीरमती। (व. ति., पृ. ५४)

वीराः

प्रज्ञारविन्दैर्यैर्योगीन्द्रैर्निरन्ञ्जनरूपेणावगतं तेऽस्मिन् भवमण्डले विषायारिविमर्दनाद् वीराः। (च. को. व्या., पृ. ७०)
वीराश्चतुविंशतिधातवस्ते चन्द्रचरणाः। (व. ति. टी., पृ. ८९)

वीर्यम्

वीर्यं चाष्टलोकधर्माबाधोपसहनतया। (अ. व. सं., पृ. ३)

वीर्येन्द्रियम्

श्रद्देन्द्रियोदानितान् धर्मान् उत्साहयति तद्वीर्येन्द्रियम्। तच्च चतुष्प्रकारम्-- आरम्भवीर्यम्, अपरिक्रमवीर्यम्, प्रत्यवेक्षावीर्यम्, प्रतिपत्तिवीर्यं चेति। (व. ति. टी., पृ. ५४)

वेदनानुस्मृत्युपस्थानम्

वेदनापि साताद्यात्मिका षड्विज्ञानकाया तदाश्रितत्वादष्टादशधा। सापि सातादीनामतीतादिभेदेनासत्त्वात् शून्येति स्मृतेरुपस्थानं स्वचेतसीति वेदनानुस्मृत्युपस्थानम्। (व. ति. टी., पृ. ५२)

वेमचित्री

वेमचित्री असुराधिपतिः। (हे. त. टी., प. ६४a)

वैभाष्यम् (वैभाषिकः)

विरागाय भाषा विभाषा, सैव वैभाष्यम्। तच्च श्रावकयानम् अवदानशतकत्रिदण्डकमालादिकम्। (हे. त. टी., प. ६७b)

वैरम्भः

धनुराकारत्वाद् विशिष्टारम्भत्वात् स एव वैरम्भः। स्वार्थेऽण्। वैकृतवत् पादविहारणात्मिका च क्रिया वैरम्भ इत्युच्यते। (व. ति. टी., पृ. ६१-६२)

वैरोचनम्

लोचना वज्रसत्त्वानां दीप्यमाना स्वभावतः।
ज्ञानं ताथागतं शुद्धं तद् वैरोचनमुच्यते॥ (ज्ञा. सि. १५.५)

वैरोचनस्तथागतः। (स. सि. २.७)

वैरोचनः प्रभास्वरमयत्वात्। (हे. त. टी., प. १९a)

बोलक्ककोलयोगेन स्पर्शात् काठिन्यवासना।
कठिनस्य मोहधर्मत्वान्मोहो वैरोचनो मतः॥ (हे. त. २.२.५३)

आकाशवत् कायो यस्य तदाकाशकायज्ञानमादर्शज्ञानम्, तस्मात् संभूतो वैरोचनः, तन्मयत्वात्। (गु. स. प्र., पृ. ५१)

अङ्गुष्ठाभ्यां श्वेतवर्णस्य खेटस्य प्रवर्तकत्वाद् वैरोचनः। (व. ति. टी., पृ. ४९)

स्वसंवेद्यरूपेण रचनात् स एव वैरोचनः। (व. ति. टी., पृ. ८५)

व्रतव्याकरणम्

बाह्यव्रतनिराकरणार्थं वज्रव्रतदानम्। पृथिव्यादिस्वभ्वतासूचनाय व्याकरणम्। तथा हि भुवो धरादेः स्वः स्वरूपं भूर्भूया इति हि भूर्भूवःस्वरित्यस्यार्थः। (अ व सं., पृ. ३८)

शक्तिचतुष्टयम्

इच्छाशक्तिः क्रिया या स्वमनसि जगतो ज्ञानशक्तिस्तृतीया
भावालोकं प्रवेशं समरसकरणेऽर्थोपलब्धिः करोति।
भूयस्त्यागं चतुर्थी त्रिभुवननमिताऽद्वया वै क्रमेण
तासां मध्ये न किञ्चिद् ग्रसति नरपते मुञ्चते नैव वज्री॥ (का. त. २.९०)
चित्तशक्तयोऽत्र जाग्रत्स्वप्नसुषुप्तितुर्यालक्षणाः। (वि. प्र., पृ. २१९)

शमथः

अनन्यचित्तो हि नाम शमथलक्षणो भावनाविशेषः। स च क्रमादभ्यासलभ्यः। (हे. त. टी., ४३ब्)

शरीरदानम्

शरीरदानं कृत्वा चर्यां कृतवान्, "शरीरदानं दत्त्वा च पश्चात् चर्यां समारभेत्" (हे. त. १.६.१९) इति वचनात्। दानं दत्तं च शरीरावधि। (अ. व. सं., पृ. ३)

शरीरमण्डलम्

"शरीरं मण्डलं रम्यं चतुर्द्वारं यथोदितम्" इत्यादिना, "तद् गृह्णाति लातीति शरीरं मण्डलं मतम्" इत्यादिना च विवृतं सम्पूर्णेऽष्टमे निर्देशे। (व. ति., पृ. ६०-६९)

तत्र शरीरमेव मण्डलम्, चित्तवाक्कायमण्डलनाडीधातुरूपाणां योगिनीवीराणामाश्रयत्वात्। (व. ति. टी., पृ. ६०)

यथायं कायः पादाधस्तादुष्णीषाद्यं प्रमाणवांस्तथा प्रसारितबाहुरपि तत्प्रमाण एव (इति देहमण्डलस्य चतुरस्रत्वं सिद्धम्)। (व. ति. टी., पृ. ६५)

सर्वमत्रैव बोद्धव्यं मण्डलादि यथोदितम्। (व. ति., पृ. ६९)

यदिहानुक्तमण्डलादीनि मण्डलोपकरणानि सूत्ररजोमूपरिग्रहावाहनस्थापनविसर्जनमण्डलसाधनाभिषेकस्नानवलिप्रभृतयस्तत्रैव देहमण्डले बोद्धव्याः, ज्ञातव्या इति यावत्। तथाहि--मध्यनाडी सूत्रम्। ....भिषेकोऽत्र। तन्निष्यन्दानां रसनास्वादो वलिरिति। (व. ति. टी., पृ. ६९-७०)

शर्वरी

अन्त्रमालासु महासुखस्य स्वापनाच्छार्वरी रात्रिर्विकल्पजननाच्च नासाग्रे। (व. ति. टी., ४५)

शान्तम्

अष्टादशधातुविकाररहितम्। (से. टी., पृ. ६०)

शिवत्वम्

इह शुक्रबिन्दोर्भेदं च्यवनसुखावस्थालक्षणम्, तदेव शिवत्वम्। (वि. प्र., पृ. २५८)

शीतदा

गुणवर्तिमेदोजालिकयाऽन्त्राणि परिवर्त्य तिष्ठति, तद्वाहिनी शीतदा, तस्यां शीतस्पर्शदायित्वान्मुखे। (व. ति. टी., पृ. ४५)

शीलम्

कायवाक्चेतसां सर्वसत्त्वार्थाय संवरणाच्छीलम्। (अ. व. सं., पृ. ३)

शुक्रम्

सुगिति शोकः, तं क्रकच इव भिनत्तीति शुक्रं परमानन्दः। (गु. स. प्र., पृ. ७१)

शुचं शोकं क्रकचवत् पातयति नाशयतीति शुक्रं मद्यम्। (गु. स. प्र., पृ. १९०)

शुद्धम्

क्लेशमलैरसंस्पृष्टम्। (से. टी., पृ. ६०)

शुद्धः

शुद्धः परिनिष्पन्नः। (हे. त. टी., प. ५४a)

शुद्धकायः

अप्रतिष्ठितनिर्वाणाख्यमहासुखसंज्ञकः शुद्धकायः। ....महासुखसंज्ञकशुद्धकायाद् विपरीतेन यः कायबिन्दुः स तुर्यावस्थाक्षयतः शुद्धकायः। ...धर्मसंभोगनिर्माणकायाः शुद्धकायात् स्फुरन्ति। (से. टी., पृ. ५५-५६)

शूकरास्या

सम्यक्स्मृतिः शूकरास्या। (व. ति., पृ. ५६)

शून्यम्

प्राणिनां मरणान्ते स्कन्धपरित्यागादुत्पत्त्यंशिकस्कन्धग्रहणाद् यदन्तरालं शून्यतालक्षणमेकं त्रिभुवनदर्शनं तच्छून्यमित्युच्यते। (से. टी., पृ. ४३)

ज्ञानस्कन्धविज्ञानस्कन्धज्ञानधात्वाकाशधातुमनःश्रोत्रशब्दधर्मधातुदिव्येन्द्रियभगमूत्रस्रावशुक्रच्युतिश्च--एषां निरावरणता समरसत्वमेकलोलीभूतत्वं शून्यमित्युच्यते, न सर्वाभाव इति, योगिस्वसंवेद्यत्वात्। तदेवानाहतमुक्तं जिनैः। अस्यानाहतस्य संज्ञाचिह्नं सव्यवामपूर्वापरमध्ये कर्तिकाकारं रेखामात्रमनुच्चार्यं प्रथमाक्षरमहाशून्यमिति। (वि. प्र., पृ. ४७)

शून्यचतुष्टयम्

शून्य-अतिशून्य-महाशून्य-सर्वशून्यमिति चतुःशून्यस्वरूपेण पत्रचतुष्टयम्। (दो. को. व्या., पृ. १५१)

शून्यता

सर्वाकारवरोपेतशून्यतालक्षणः। (अ. व. सं., पृ. ४०)
सर्वधर्मनिःस्वभावतया सर्वतथागतज्ञानपरिज्ञानं शून्यता। (ज्ञा. सि., पृ. १३५)
सम्भोगकायश्चापि शून्यतालक्षणः। शून्यता च सर्वाकारवरोपेतत्वेन व्यवस्थिता मायामरीचिस्वप्नप्रतिबिम्बप्रतिश्रुत्कोदकचन्द्रनिर्मितोपमस्वभावतया प्रतिपद्यते। (अ. प्र. वि. सि., पृ. २१६)

शून्यताबोधिः

सर्वभावान् मनसावलम्ब्य चित्तमात्रेमेवेदमसति बाह्याकारे विषयाकारं भ्रान्त्या प्रतिभासते। तद्यथा स्वप्न इति। तदपि प्रतिभासस्वरूपं चित्तमेकानेकस्वभावरहितं निराभासं प्रभास्वरमयं पश्येत् (इत्येषा शून्यताबोधिः) (हे. त. टी., प. १३b)

शून्यं तत्त्वम्

अहमपि शून्यम्, विकल्पगोचरत्वात्। जगदपि शून्यं विकल्पमात्रमेव। त्रिभुवनमपि शून्यम्। निर्मले मलरहिते सहजे महासुखम्। न पापं न पुण्यं संभवति। तथा चोक्तम् --

अनाविलमहाज्ञाने ज्योतीरूपप्रभास्वरे।
पापपुण्यकथा कुत्र विकल्पागोचरे शुभे॥ (दो. को. व्या., पृ. ७१)

शौण्डिनी

सुरासवक्षीबत्वात् शौण्डिनी। (व. ति. टी., पृ. ४८)
धर्मप्रविचयसम्बोध्यङ्गं शौण्डिनी। (व. ति., पृ. ५५)

श्मशानम्

श्वसतीत्यनया युक्त्या श्मशानेत्यभिधीयते। (हे. त. १.३.१६)

शवानां वसतिरिति नैरुक्तो वर्णलोपः। शवानामावास इत्यर्थः। ....कथं देहः श्मशानम्--

श्वसतीत्यनया युक्त्या श्मशानेत्यभिधीयते। (हे. त. टी., प. १५b)

श्यामादेवी

प्रेमोद्गमाच्छ्यामा चासौ सर्वचक्रेषु क्रीडनाद् देवीति श्यामादेवी। (व. ति. टी., पृ. ४७)

समाधिबलं श्यामादेवी। (व. ति., पृ. ५५)

श्रद्देन्द्रियम्

श्रद्धा भाविनि लोकोत्तरमार्गे सत्त्व(त्य)रत्नत्रयादौ वा चेतसः संप्रत्ययस्तच्छ्रेद्धेन्द्रियम्। (व. ति. टी., पृ. ५४)

श्रायः

शवः श्रायः। (हे. त. २.३. ५६)

श्र्वाकाः

पुद्गलनैरात्म्यावरोधेनार्हत्वं प्राप्नुवन्ति ये ते श्रावकाः। (गु. स. प्र., पृ. २०४)

श्रीमान्

श्रीः लोचना, या यस्य विद्यते स श्रीमान्। (गु. स. प्र., पृ. १२१)
श्रीः पाण्डरवासिनी, तया युक्तः श्रीमान्। (गु. स. प्र., पृ. १२१)

श्वानास्या

सम्यग्व्यायामः श्वानास्या। (व. ति., पृ. ५६)

षट्कर्मेन्द्रियाणि

षोडशवर्षान्ते ज्ञानधातौ दिव्येन्द्रियं भवतीति षट्कर्मेन्द्रियनियमः। (वि. प्र., पृ. १६८)

षट्कुलानि

अक्षरंसुखं ज्ञानधातुः, विज्ञानमाकाशधातुः, संस्कारो वायुधातुः, वेदना तेजोधातुः, संज्ञा तोयधातुः, रूपं पृथ्वीधातुरिति गर्भजानां सावरणानि, बुद्धानां निरावरणानीति। (वि. प्र., पृ. २०)

एते धातवः षडिन्द्रियाणां षट् कुलानीति। एवं कायवाक्चित्तकुलानि स्वभावकुलेन सार्धं चतुःकुलानि भवन्ति। कायत्रयं कायचतुष्कं भवति, अवस्थात्रयमवस्थाचतुष्कं भवति; एवं पञ्च स्कन्धकुलानि ज्ञानस्कन्धेन सार्धं षट्कुलानि भवन्ति गर्भजानामिति। कन्याया द्वादशाब्दौः, पूंसः षोडशाब्दौः। कन्याया रजःकालं यावत् त्रिकुलं पञ्चकुलं वेदितव्यम्। पुरुषस्य शुक्रच्युतिकालं यावत् त्रिकुलं पञ्चकुलं वेदितव्यम्। ज्ञानधातुद्भवकाले उभयोश्चतुष्कुलं षट् कुलमामरणादिति। तथा मूलतन्त्रे भगवनाह -- "त्रिकुलं पञ्चकुलं चैव स्वभावैकं शतं कुलम्" इति। (वि. प्र., पृ. ५०)

षट्चक्राणि

उष्णीषः शून्यधातौ भवति सुरनृणां ज्ञानधातौ च गुह्यं
हृत्पद्मं वायुधातौ प्रकटशिखिनि वै कण्ठचक्रं स्फुरद्धि।
तोये भ्रूमध्यपद्मं वसुवसुदलकं नाभिचक्रं च भूम्यां
षट्सन्धिः पादपाण्योर्महिजलहुतभुग्मारुतेषु त्रिसंख्या॥ (का. त. २.१५)

द्वादश चक्राणि वक्ष्यमाणे वक्तव्यानीत्यष्टादशचक्रनियमः। (वि. प्र., पृ. १६९)

गुन्योष्णीषे च नाभौ सहजजिनतनुर्निःस्वभावस्वभावा
हृच्चक्रे धर्मकायो भवति हि नृप सम्भोगचक्रे जिनस्य।
बिन्दौ निर्माणकायो भवति गुणवशाच्चाधिदैवक्रमेण
हृच्चक्रं कण्ठचक्रं शिरसि च कमलं धर्मसम्भोगशुद्धम्॥
नाभौ कण्ठे च गुह्ये शिरसि च हृदये तद्वदुष्णीषमध्ये
मातुर्भर्तुः क्रमेण त्रिविधमपि भवेत् कायवाक्चित्तवज्रम्।
चक्रं रत्नं खपद्मं जलजमसिवरं षट्कुलं वज्रयुक्तं
तान्यूर्ध्वाधस्त्रिनाड्यविधपथगताश्चन्द्रसूर्याग्निभेदैः। (का. त. २.२७-२८)

षट्चित्तविकाराः

मात्सर्यं ज्ञानधातौ भवति वरतनौ चाम्बरे द्वेषचित्तम्
ईर्ष्याचित्तं हि वायौ प्रकटितमनले रागचित्तं तथैव।
तोये श्रीमानचित्तं प्रकृतिगुणवशान्मोहचित्तं धरण्यां। (का. त. २.२३)

षट्त्रिंशद् (धातवः स्कन्धाश्च)

कायभेदेन स्कन्धेन्द्रिया ह्रस्वस्वरव्यञ्जनधर्माः, धातुविषया दीर्घस्वरव्यञ्जनधर्माः। षड्रसा धातुविकारभेदेन षट्त्रिंशद् धातवो भवन्ति, षट्स्कन्धाः षडिन्द्रियादिभेदेन षट्त्रिंशत् स्कन्धा भवन्ति। तद्यथा--षड् रसाः, षड् धातवः, षडिन्द्रियाणि, षड् विषयाः, षट् कर्मेन्द्रियाणि, षट् कर्मेन्द्रियविषया इति षड् रसधातुविकाराः। शोत्रविज्ञानादि षड् विज्ञानानि, एवं षट् संस्काराः, षड् वेदनाः, षट् संज्ञाः, षड् रूपस्कन्धाः, षड् ज्ञानस्कन्धा इति स्कन्धविकाराः। (वि. प्र., पृ. ४९)

दानं गोमयमन्बुना च सहितं शीलं च समार्जनं
क्षान्तिः क्षुद्रपिपीकापनयनं वीर्यं क्रियास्थापनम्।
ध्यानं तत्क्षणमेकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला
एताः पारमिताः षडेव लभते कृत्वा मुनेर्मण्डलम्॥
भवति कनकवर्णः सर्वरोगैर्विमुक्तः
सुरमनुजविशिष्टश्चन्द्रवद् दीप्तकान्तिः।
धनकनकसमृद्धो जायते राजवंशे
सुगतवरगृहेऽस्मिन् कायकर्माणि कृत्वा॥ (अ. व. सं., पृ. ६)

षट्सत्त्वाः (स्कन्धाः)

असावेवाद्वयोऽक्षर ऊर्ध्वरेता गुह्यनाभिहृट्कण्ठगमनेन यथाक्रमं वज्रसत्त्वादिनामचतुष्टयं लभते। ललाटगः पूर्वोक्तविशुद्ध्यादिचतुर्विधयोगाख्यः, उष्णीषगः कालचक्र इति नामेति षट्सत्त्वाः। (से. टी., पृ. २९)

गुह्यादुष्णीषान्तषट्चक्रे क्रमेण वज्रसत्त्व-महासत्त्व-बोधिसत्त्व-समयसत्त्व-वज्रयोग-कालचक्रषण्णामकः। अस्य निर्देशः--वज्रमिति आदिवज्रं शून्यबिम्बम्। तद् यस्मादभेद्यं तस्मान्महार्थम्। हमोद्देशः--यः सत्त्वः कामधात्वादिरूपकायवाक्चित्तैकत्वाख्यः स परमाक्षरमुद्दिश्यत इति वज्रसत्त्वः। यद्वा वज्रमभेद्यं कायवाकचित्तैकरसं महासुखज्ञानं सत्त्वं त्रैभवस्यैकता ज्ञेयमाभ्यामैक्यं परमाक्षरं स महान् महासुखपूर्णत्वान्महाराग उद्दिष्टः। स च सत्त्वो भूमिभिः पूर्णत्वात् सर्वसत्त्वरतिङ्कर उद्दिष्ट इति महासत्त्वः। यद्वा महच्छब्देनात्र परमाक्षरसुकम्, तेन पूर्णो यः सत्त्वो भूमिश्च स महासत्त्वः। यतोऽसौ बोधौ शून्यताकरुणात्मिकायां धर्मचक्रे स्थितोऽचलस्थितः क्लेशादिरूपेद्वेषसंघानां विजयित्वान्महाद्वेषो महारिपुश्चोद्दिष्टः, ततः सत्त्व इति बोधिसत्त्वः। स यतः समयस्य चन्द्रामृताख्यशुक्रस्य सुखेऽच्युतिरूपं भक्षणं मोहविजयित्वान्महामोहो मूढधियां मोहघातकश्चोद्दिष्टस्ततः समसत्त्वः। स एव यतः कायादिवज्राणां प्रज्ञया बिम्बेनाक्षरबिन्दुभिश्च सह योग एकत्वम्, निर्जितक्रोधत्वान्महाक्रोधि मारविजयित्वात् क्रुद्धमाररिपुश्चोद्दिष्ट इति वज्रयोगः। यतः स कालो महासुखम्, तस्मादुपायादपरित्यक्तचक्राख्यान्तर सत्त्वार्थो भगवान्। अत एव सत्त्वान् मोचयित्वा महालोभः क्षरलोभघातकश्चोपदिष्ट इति कालचक्रः।

षण्णाडीरूपषडरचक्रेऽमी वज्रसत्त्वादयह् प्रत्येकं षट्प्रकाराः। तत्राधः शङ्खिनीरूपारेऽक्षरज्ञानम्, रसनारूपदक्षिणारेऽक्षरवेदना, अवधूतिरूपोर्ध्वारेक्षरविज्ञानम्, विण्णाडीरूपपश्चिमारेऽक्षररूपम्, मूत्रनाडीरूपपूर्वारेऽक्षरसंस्कारः, ललनाख्योत्तरारेऽक्षरसंज्ञा इति षट्स्कन्धाः। (से. टी., पृ. ७३)

षडायतनानि

षडायतनानि षट्चक्रवर्तिनः खण्डकपालाद्याः। (व. ति. टी., पृ. ६७)

षड्गतिः

नरक-प्रेत-तिर्यक्-मनुष्य-असुर-देवानां गतिः षड्गतिः। (वि. प्र., पृ. २५६)

षड्दर्शनानि

षड्दर्शनान्युच्यन्ते--ब्रह्म-ईश्वर-अर्हन्त-बौद्ध-लोकायत-सांख्याश्च। (दो. को. व्या., पृ. ७२)

षण्मुद्राः

चक्री कुण्डलं कण्ठिका रुचकं मेखला भस्म यज्ञोपवीतमिति (षण्मुद्राः)। (वि. प्र., पृ. १८६)

षष्थजिनः

षष्ठो जिनो वज्रसत्त्वो द्रव्यमभिधीयते, ततस्तदुत्पत्तेः, कारणे कार्योपचारात्। ....षष्ठो वज्रसत्त्वः, तदुत्पत्तिहेतुत्वाद् बोधिचित्तमेव वज्रसत्त्वोऽभिधीयते, कारणे कार्योपचारात्। तेनोपलक्षणभूतेन। न तु प्रज्ञाकमलोदयगतं बोधिचित्तं विधेयम्, तदा महासुखासंभवात्। तथा चादिबुद्धे --

पतिते बोधिचित्ते तु सर्वसिद्धिनिधानके।
मूर्च्छिते स्कन्धविज्ञाने कुतः सिद्धिरनिन्दिता॥ (त. सं. टी., पृ. ६)

षोडशकरुणाः

शुक्लपक्षश्चन्द्रमा उपायः। ...करुणा त्रिधा--सत्त्वावलम्बिनी, धर्मालम्बनी अनवलम्बिनी चेति। तत्र सत्त्वावलम्बिनी एकादश्याद्याः पञ्च तिथयः पूर्णिमापर्यन्तम्। पूर्णिमान्तकृष्णप्रतिपत्प्रेवेशयोर्मध्ये षोडशी करुणा। (वि. प्र., पृ. २१)

षोदशतत्त्वानि

निर्माणकायः, निर्माणवाक्, निर्माणचित्तम्, निर्माणज्ञानम्; सम्भोगकायः, सम्भोगवाक्, सम्भोगचित्तम्, सम्भोगज्ञानम्; धर्मकायः, धर्मवाक्, धर्मचित्तम्, धर्मज्ञानम् सहकायः, सहजवाक्, सहजचित्तम्, सहजज्ञानमिति आनन्द-परम-विरम-सहजभेदेन षोडश तत्त्वानि। गर्भजानां सावरणानि षोडशार्धार्धबिन्दुमोचनत्वादिति। बुद्धानां निरावरणानि षोडशार्धार्धबिन्दुधरत्वादिति। (वि. प्र., पृ. २०-२१)

षोडशशून्यताः

अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, महाशून्यता, शून्यताशून्यता, परमार्थशून्यता, संस्कारशून्यता, असंस्कारशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, स्वलक्षणशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, अभावशून्यता, अभावस्वभावशून्यता। (हे. त. टी., प. ३६a)

कृष्णपक्षः सूर्यः प्रज्ञा। ....शून्यतायास्त्रयो भेदाः--शून्यता, महाशून्यता, परमार्थशून्यता चेति। तत्र शून्यता पञ्चस्कन्धशून्यता कृष्णप्रतिपदाद्याः पञ्च तिथयः। महाशून्यता पञ्चधाशून्यता षष्ठ्याद्याः पञ्च तिथयः। परमार्थशून्यता पञ्चेन्द्रियशून्यता एकादश्याद्याः पञ्च तिथयः। तेन पञ्चदश तिथयः प्रञ्चदशशून्यता अमापर्यन्तम्। अमान्तशुक्लप्रतिपत्प्रवेशयोर्मध्ये षोडशी शून्यता सर्वाकारा। (वि. प्र., पृ. २१)

षोडशानन्दाः

ते चानन्दा भेदेन षोडश। तत्र कामा इति कायानन्दः, आनन्द इति वागानन्दः, कम्पेति चित्तानन्दः, अक्षर इति संज्ञया ज्ञानानन्दः। एवं चतुष्केणानन्दयोग एक इति। तथा पूर्णा इति कायपरमानन्दः। अत्र परमानन्दादित्रयोऽन्तादिना वाक्चित्तज्ञानवज्राणि। ...अतः परमानन्द इति वाक्परमानन्दः। तद्भवश्चित्तपरमानन्दः। शक्तिरिति ज्ञानपरमानन्दः। इति द्वितीयो योगः। ज्वाला इति कायविरमानन्दः। विरमानन्दः इति वाग्विरमानन्द। घूर्ण इति चित्तविरमानन्दः। बिन्दुरिति ज्ञानविरमानन्दः। इति तृतीयो योगः तथा ॐण्ट्रा इति कायसहजानन्दः। सहजानन्द इति वाक्सहजानन्दः। निद्रेति चित्तसहजानन्दः। नाद इति ज्ञानसहजानन्दः। एवं चतुर्विधः कायः। निर्माणसंभोगधर्मस्वाभाविकभेदेन कायश्चतुर्धा, वाक्चतुर्धा, चित्तं चतुर्धा, ज्ञानं चतुर्धेति। एवं षोडशानन्दभेदाः श्रीतन्त्रे विस्तरेण द्रष्टव्याः। (से. टी., पृ. २७)

सत्यद्वयम्

प्रथमं संवृतिसत्यम्, द्वितीयं परमार्थसत्यं चेति। (से. टी., पृ. ७१)
द्वे सत्ये। तद्यथा -- संवृतिसत्यम्, परमार्थसत्यं चेति। (धर्मसंग्रह, म. सू., भा. १, पृ. ३३५)

सप्तरत्नानि

पद्मराग-इन्द्रनील-वैदूर्य-मरकत-वज्र-मुक्ता-प्रवालमिति सप्तरत्नानि। (गु. स. प्र., पृ. ७८)

सप्तालङ्काराः

पञ्चसंख्य उपोद्घातो न्यायश्चापि चतुर्विधः।
षट्कोटिकं च व्याख्यानमाख्यानं च चतुर्विधम्॥
पञ्चमो द्विप्रभेदश्च षष्ठः पञ्चप्रभेदवान्।
सप्तमो द्विप्रभेदः स्यादलङ्कारः समासतः॥ (गु. स. प्र., पृ. २)

१. उपोद्घतः (पञ्चसंख्यः)

का संज्ञा अस्य तन्त्रस्य किंनिमित्तमिदं कृतम्।
को वा कर्ता प्रमा कास्य किं वा चास्य प्रयोजनम्॥
तन्त्रस्य नाम संज्ञा स्यान्निमित्तं रागिणो जनाः।
कर्ता तु वज्रसत्त्वोऽस्य परिमाणं तु कीर्त्यते॥
परिच्छेदोऽथ कल्पश्च खण्डः पटल एव च।
चतुर्विधं भवेत् तच्च ग्रन्थतश्चापि संख्यया॥
प्रयोजनं तु गणितं शान्तिकादिक्रियाविधिः।
अष्टौ च सिद्धयश्चैव बुद्धत्वमपि चोत्तमम्॥ (गु. स. प्र., पृ. २)

२. न्यायः (चतुर्विधः)

सन्तानश्च निदानं च निरुक्तिर्हेतुरित्यपि॥
जन्मोत्पत्तिर्मनुष्येषु सन्तान इति कथ्यते।
अन्तःपुरस्य मध्याच्च निष्क्रमस्तु निदानक्रम्॥
संवरो विनयोद्दिष्टो निरुक्तिरिति गद्यते।
फलाकाङ्क्षी चरेद् धर्मं स हेतुरिति कथ्यते॥
अयं विरागधर्मस्य चतुर्धा न्यायमिष्यते।
रागधर्मनये वक्ष्ये प्रस्फुटार्थावबोधनम्॥
पञ्चबुद्धकोलोत्पत्तिः सन्तान इति कथ्यते।
पुनरेककुलीभावं निदानं च प्रदर्शितम्॥
वज्रादिग्रहणं चैव निरुक्तिरिति कथ्यते।
शृङ्गारादिरसैश्चर्या हेतुरित्यभिधीयते॥ (गु. स. प्र., पृ. २-३)

३. षट्कोटिकं व्याख्यानम्

मन्त्राश्चि(च्चित)त्तादतः कायाद् विशुद्धेर्योगवाहतः।
क्रमशः पञ्चपिण्डार्थान् ज्ञात्वा षट्कोटिमाविशेत्॥ (गु. स. प्र., पृ. १)
षट्कोटिकं च व्याख्यानम्। (गु. स. प्र., पृ. २)
पुनस्तृतीयोऽलङ्कारः षट्कोटिपदनिश्चयः।
योगतन्त्रनयोद्दिष्टो मुद्रितार्थप्रबोधनः॥
सन्ध्यायभाषा-नोसन्ध्या-नेय-नीतार्थभेदतः।
यथारुतं च नरुतं षट्कोटिरिति कीर्तितम्॥
प्रच्छन्नदुर्भगानां च नेयार्थं भाषते जिनः।
सद्भूतार्थप्रकाशानाय नीतार्थं भाषते पुनः॥
विशिष्टरुचिसत्त्वानां धर्मतत्त्वप्रकाशनम्।
विरुद्धालापयोगेन यत् तत् सन्ध्यायभाषितम्॥
मण्डलादिप्रकल्पेषु चर्यायां च यथायथम्।
उत्तानमर्थकथनं तद् यथारुतभाषितम्॥
कोटाख्यकादयः शब्दा लोकशास्त्रबहिष्कृताः।
तथागतानां संकेता नरुतं तत्प्रकीर्तितम्॥
मृद्विन्द्रियाणां सत्त्वानां प्रबोधार्थमतिस्फुटम्।
तत्त्वस्य कथनं व्यक्त नोसन्ध्या समुदाहृतम्॥ (गु. स. प्र., पृ. ३)

सन्ध्याभाषा न च सन्ध्याभाषं नेयार्थमर्थं न च नेयमर्थम्।
यथारुतं नैव यथारुतं च षट्कोटिकायं खलु योगतन्त्रे॥ (गु. स. प्र., पृ. १०)

४. आख्यानम् (चतुर्विधम्)

अक्षरार्थः समस्ताङ्गं गर्भी वाऽप्यथ कोलिकम्॥
प्रथमस्त्वेक एव स्यात् समस्ताङ्गं द्विभेदकम्।
गर्भी च त्रिविधः ख्यातो द्विविधः कोलिको मतः।
बाह्यशास्त्रविदो नैके शब्दमात्रपरायणाः।
तद्व्युत्पत्तिप्रकाशाय अक्षरार्थो निगद्यते॥
सूत्रान्तादौ प्रपन्नानां कौकृत्यविनिवृत्तितः।
उत्पत्तिक्रमयोगाच्च समस्ताङ्गं प्रकाशितम्॥
गर्भीति गर्भमस्यास्ति रागधर्मप्रकाशनम्।
संवृतेः सत्यसंबोधज्ञानत्रयविवेचनम्॥
प्रभास्वरप्रकाशश्च युगनद्धप्रबोधनम्।
द्विविधः कोलिकः प्रोक्तः कोलः पर्यन्तवाचकः॥ (गु. स. प्र., पृ. ३)

५. व्याख्यानम् (द्विविधम्)

इच्छेत् श्रावयितुं वक्ता भूयो द्विविधभेदतः।
सत्रव्याख्याननिर्दिष्टं शिष्याख्यानं द्वितीयकम्॥
यथारुतं नसन्ध्या च नेयार्थं वापि योजयेत्।
अक्षरार्थः समस्ताङ्गं सत्रव्याख्यानमुच्यते॥
नरुतं नियतार्थश्च सन्ध्याभाषा तथैव च।
गर्भी वै कोलिकं चापि शिष्यव्यख्यानमिष्यते॥
क्रमद्वयं समाश्रित्य व्याख्याभेदः प्रदर्शितः।
व्याख्यातन्त्रानुसारेण विनेयेषु तथागतैः॥ (गु. स. प्र., पृ. ४)

६. पुद्गलपञ्चकम् (षष्ठालङ्कारः)

लोके नियतिसंभूताः सर्वदा श्रवणार्थिनः।
अनेकाकारबुद्धित्वात् पुद्गलाः पञ्च समताः॥
रत्नचन्दनपद्माश्च पुण्डरीकस्तथोत्पलः।
प्रकृत्या भिन्नसंज्ञास्ते सर्वज्ञेन च भाषिताः॥
अश्रुत्वा वस्तु निखिलं धारणायां विचक्षणः।
क्षणाद् विस्मरणं याति प्रख्यातोत्पलपुद्गलः॥
ग्राह्यं श्रुत्वाधिकं भूरि न शक्नोति प्रकाशितुम्।
कुण्डीकर्पासवद् भूयः पुण्डरीकाख्यपुद्गलः॥
श्रद्धावान् जनकारुण्यो विकासहृदयश्रुतेः।
निष्पर्ववेणुवत् श्रावी पद्मविख्यातपुद्गलः॥
अल्पश्रुतिरहङ्कारी निर्मूलं बहु भाषते।
न शक्नोत्यनुग्रहं कर्तुं चन्दनाख्यातपुद्गलः॥
सुशीलो विशदो दक्षः प्रज्ञावानेकसन्धिकः।
श्रुत्वा प्रकाशयेत् सम्यक् प्रख्यातो रत्नपुद्गलः
पुण्डरीकोत्पलौ चैव पद्म चन्दन एव च।
चत्वारः पुद्गला ह्येते सत्रव्याख्यानपुद्गलाः॥
निष्पन्नक्रमयोग्यश्च सदाचारविभूषणः।
रत्नपुद्गलनामायं शिष्यव्याख्यानभाजनः॥
पात्रापात्रं परीक्ष्यैवं पुद्गलज्ञानभेदतः।
व्याख्यानं द्विविधं कुर्याद् वज्राचार्यो विचक्षणः॥ (गु. स. प्र., पृ. ४)

७. सप्तमालङ्कारः

एभिः षड्भिरलङ्कारैः सत्यद्वयविनिर्णयः।
स सप्तमो ह्यलङ्कारो निष्पन्नक्रमसाधनः॥(गु. स. प्र., पृ. ५)

समतायोगः

एकस्वभावस्तु महासुखभाव एव योगीश्वरस्य समतायोगः। (च. को. व्या., पृ. १५८)

समयः

समयो मन्त्रतन्त्रमुद्रादिः। (वज्रावली, पृ. १८०)

स्फुरणयोगेन समन्तात् क्रमणं समयः। यथार्थविनेयोपायैर्नानाकारैस्त्रिधातुगमनं समयः। (हे. त. टी., प. ३b)

समयचतुष्टयम्

"प्राणिनश्च त्वया घात्याः" (१६.५९) इत्यादिसमयचतुष्टयं पञ्चमपटलोक्त (पृ. ४७-४८)-सन्ध्याभाषाव्याख्यानेन ज्ञेयम्। (गु. स. प्र., पृ. १९३)

"परस्वहरणम्" (१६.९५) इत्यादिसंवरं नवमपटले (पृ. ८४) सन्ध्याभाषया विवृतम्। (गु. स. प्र., पृ. २०२)

समयमण्डलम्

समयो महावज्रधरः, तस्य मण्डः सारभूतो विधिः, तं लाति गृह्णातीति समयमण्डलम्। (गु. स. प्र., पृ. ९४)

समयमुद्रा

सम्भोगनिर्माणकायाकारस्वभावेन स्वच्छाकारेण च सत्त्वार्थाय वज्रधरस्य हेरुकाकारेण विस्फुरणं यत् सा समयमुद्रेत्यभिधीयते। तां च समयमुद्रां गृहीत्वा चक्राकारेन पञ्चविधं ज्ञानं पञ्चविधं परिकल्प्य आदर्श-समता-प्रत्यवेक्षणा-कृत्यानुष्ठान-सुविशुद्धधर्मधातुभिः, आदियोग-मण्डलराजाश्रि-कर्मराजाश्रि-बिन्दुयोग-सूक्ष्मयोगैः समयमुद्राचक्रं भावन्त्याचार्याः। (अ. व. सं., पृ. ३५)

समयवज्रः

समयवज्रोऽमोघसिद्धिः। अत्र पुनस्तत्त्वलीनः सर्वनीवरणविष्कम्भी समयवज्रशब्देन विवक्षितः। (गु. स. प्र., पृ. १७)

समयसत्त्वः

नित्यसमयप्रवृत्तत्वात् समयसत्त्वोऽभिधीयते। (हे. त. १.१.५)

समयसंवरे

समयं भक्ष्येत् तत्र प्रदीप्यन्तं समाहितः।
नादिं गादिं तथा हादिमन्तश्वमादिश्वं च वा॥ (हे. त. १.११.८)

यदेव करोति तदेवास्य समयः। यदेव न करोति स एवास्य संवरः। (हे. त. टी., प. २३a)

समयस्य गोकुदहनादेः। (हे. त. टी., प. ६७a)

समरसम्

समं तुल्यमिति प्रोक्तं तस्य चक्रो रसः स्मृतः।
समरसं त्वेकभावमतेनार्थेन भण्यते॥ (हे. त. १.८.४०; स. सि. २.४)

समाजम्

द्वयोरेकीभावः समाजम्, अक्षरार्थः। चन्द्रपद्मसमायोगं समाजम्, समस्ताञ्गम्। प्रज्ञोपायसमायोगं समाजम्, गर्भी। संवृतिपरमार्थसत्ययोर्मीलनं समाजम्, कोलिकम्। (गु. स. प्र., २१-२२)

समाजः

समासतश्चित्तं समाजरूपीति। समासतः सर्वधर्माणामेकाकाररूपतो यदुत महासुखाकारतश्चित्तमिति बोधिचित्तं समाजरूपीति। धर्ममुद्रामहामुद्राबिहिषेकरूपं वा ज्ञानं सत् समाज इत्यभिधीयते (अ. व. सं., पृ. ३५)

समाधिः

प्रज्ञोपायसमापत्त्या सर्वभावान् समासतः।
संहृत्य पिण्डरूपेण बिम्बं मध्ये विभावयेत्॥
झटिति ज्ञाननिष्पत्तिः समाधिरिति सङ्गितम्। (से. टी., पृ. ३१)
समाधिवशितामात्र निरावरणता भवेत्। (से. टी., पृ. ३१)

प्रज्ञोपायसमापत्त्या निष्पान्दादिक्रमेण व्यमकमलोद्गमेऽक्षरसुखवशाज्ज्ञेयज्ञानैकलोलीभूतत्वेन वैमल्यावस्थायां सर्वभावान् प्रतिभासरूपान् स्थावरजङ्गमान् समासतः संक्षेपात् संहृत्य उपसंहृत्य पिण्डयोगेन परमानाश्रवमहासुखात्मकप्रभास्वरैकरूपेण भक्षितसर्वलोहादिधातुरसैकरूपसिद्धिरसरूपेणेव तस्य परमानाश्रवमहासुखैकरसप्रभास्वरसय मध्ये बिम्बं संवृतिसत्यात्मकं भावयेत् पश्येत्। ...ज्ञानस्य सत्यद्वयाद्वैधीभावस्य झटिति निष्पत्तिरधिगमः समाधिरिति। (से. टी., पृ. ३३-३४)

इह ग्राह्यग्राहकचित्तयोरेकत्वेन यदक्षरं सुखं भवति, तत्सुखं समाधिरित्युच्यते। तस्य वशितामात्रं तस्मादचलनं ततो निरावरणत्वं भवेत्। परमाक्षरज्ञानलक्षणप्रभास्वरज्ञानवश्तिआमात्रादेव निरावरणता भवेदित्यर्थः। तदित्तरकालं सत्यद्वयाद्वैधीभावलक्षणभूतनयात्मकसमाध्यवगमः फलभूतो भवति। (से. टी., पृ. ३४-३५)
समाधीयते चेतसि स्थाप्यत इति समाधिः। (गु. स. प्र., पृ. ११५)

समाधीन्द्रियम्

स्मृतीन्द्रियोदानितान् धर्मान् यन्मनसि सर्वसारान्तरपरिहारेण स्थापयति, तत् समाधीन्द्रियम्। (व. ति. टी., पृ. ५४)

समारोपः

सकलकल्पनाकलङ्कानङ्किता महामुद्राभावना समारोपः। (से. टी., पृ. ४८/३)

संभारमार्गः

तत्र संभारमार्गः कतमः ? द्वादश धर्माः। कतमे द्वादश ? चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वारि ऋद्धिपादाश्चेति। (व. ति. टी., पृ. ५१)

संभोगकायः

कण्ठमध्ये गतं चापि पद्मं तु षोडशच्छदम्। (व. ति. टी., पृ. ७८)

कण्ठचक्रं संभोगकायः, अप्येषां धर्मामृतपरिभोगदानात्यनुरश्वादाच्च। (व. ति. टी., पृ. ७८)

षोडशारे तु संभोगः। (व. ति., पृ. ७८)

संभोगचक्रमध्ये तु ओंकारो वर्णदीपकः।
चतसृभिः कलाभिस्तु समन्तात् परिवारितः॥ (व. ति., पृ. ७९)
यदा कण्ठे महारागरूपेण चन्द्रमाः स्थितः।
संभोगस्तु तदाख्यातो बुद्धानां काय उत्तमः॥ (व. ति., पृ. ८१-८२)

सर्वधर्मप्रकृतिपरिशुद्धता

चतु प्रमाणभावनानन्तरं सर्वधर्मप्रकृतिपरिशुद्धतां चिन्तयेत् -- सर्व एवामी धर्माः प्रकृत्या स्वरूपेण परिशुद्धाः, अहमपि प्रकृतिपरिशुद्ध इत्यादिकमामुखयेत्। इमामेव सर्वधर्मप्रकृतिपरिशुद्धतां ॐ स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहमित्यनेन दृढी कुर्यात्। (सा. मा., पृ. ५७-५८)

चतुर्ब्रह्मविहारभावनानन्तरं सर्वधर्मप्रकृतिपरिशुद्धतां भावयेत्। सर्व एव धर्माः प्रकृत्या स्वभावेन परिशुद्धाः, अहमपि प्रकृतिपरिशुद्ध इत्यादिकमामुखीकुर्यात्। इमां च सर्वधर्मप्रकृतिपरिशुद्धतामनेन मन्त्रेणाधितिष्ठेत्--ॐ स्वभावशुधाः सर्वधर्माः स्वभावशुद्धोऽहमिति। (सा. मा. पृ. २०३)

सर्वधर्मशून्यता

सर्वधर्मप्रकृतिपरिशुद्धतामामुखीकृत्य सर्वधर्मशून्यतां ध्यायात्। तत्रेयं शून्यता-- मनोमात्रमेवेदं तेन तेनाकारेण प्रकाशात्मकं प्रतिभासते। यथा स्वप्ने नास्ति मनसो बाह्यं मनोग्राह्यम्। ग्राह्याभावाद् ग्राहकमपि मनो नास्ति। ततश्च मनःस्वरूपाः सर्वधर्माः। तेषां ग्राह्यग्राहकादिसकलकल्पनाप्रपञ्चशून्यता तत्त्वम्, परमार्थ इति यावत्। अयमर्थः--अद्वैतप्रकाशमात्रात्मकं सचराचरं जगदिति चिन्तिनीयम्। इमामेव शून्यता ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहमित्युमुना मन्त्रेणाधिष्ठेत्। (सा. मा., पृ. ५८)

सर्वधर्मप्रकृतिपरिशुद्धतां विभाव्यं सर्वधर्मशून्यतां विभावयेत्। तत्रेयं शून्यता--ग्राह्यग्राहकादिसकलकल्पनाप्रपञ्चवञ्चितचित्राद्वैतप्रकाशमात्रात्मकं सचराचरं विश्वमिति चिन्तयेत्। इमामेव शून्यतामनेनापि मन्त्रेणाधितिष्ठेत् --ॐ शून्यताज्ञानवज्रस्वभावाकोऽहमिति। (सा. मा., पृ. २०४)

ततः सर्वधर्मान् मनसाऽवलम्ब्य विचारयेत्। चित्तमेवैतत् तेन तेनाकारेण भ्रान्तं प्रतिभासते। यथा स्वप्ने नास्ति चित्ताद् बाह्यचित्तं ग्राह्यग्राहकाभावाद् चित्तमपि ग्राहकं भवति तस्माच्चितशरीराः सर्वधर्माः। तेषां ग्राह्यग्राहकशून्यता परमार्थ इत्येवमेकान्तेन निश्चित्य भ्रान्तिसमारोपितं भ्रान्तिचिह्नं सर्वधर्माणामाकारमपहाय तेषां प्रकृतिमेव केवलामद्वयविज्ञप्तिलक्षणां शुद्धस्पटिकसंकाशां शरदमलमध्याह्नगगनोपमामनन्तां पश्येत्। इदमुच्यते लोकोत्तरं शून्यताज्ञानं निष्प्रपञ्चं निर्विकल्पम्। ततस्तन्मन्त्रेणाधितिष्ठेत् -- ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम्। सैव भगवती प्रज्ञापारमिता सैव परमा रक्षा। (सा. मा., पृ. २२५-२२६)

सर्षपः

सर्षपैर्बोधिचित्तबिन्दुभिः। (गु. स. प्र., पृ. १९२)

सहजम्

सहजं सत् सर्वं सहजच्छायानुकारित्वात् सहजमित्यभिधीयते। सहजच्छाया सहजसदृशं ज्ञानं प्रतिपादयतीति। सहजं प्रज्ञाज्ञानम्। अत एव प्रज्ञाज्ञानात् सहजस्योत्पत्तिर्नास्ति। यस्मात् सहजं नाम स्वरूपं सर्वधर्माणामकृत्रिमम्, स्वलक्षाणमिति यावत्। .... आचार्याः कुशलतया प्रज्ञाज्ञानमासाद्य सहजमनुभूतमिति कृत्वा सन्तोषमुत्पादयन्ति, सन्तुष्टाश्च सन्तो धर्ममुद्राया वार्तामपि न जानन्ति। धर्ममुद्रामजानाना केवलया कर्ममुद्रया कृत्रिमया कथमकृत्रिमभूतं सहजाख्यं ज्ञानमुत्पद्यते। सजातीयात् कारणात् सजातीयस्यैव कार्यस्योत्पत्तिर्भवति, न तु विजातीयात्। यथा शालिबीजात् शाल्यङ्कुरोत्पत्तिर्भवति, न तु कोद्रवस्य। तथा धर्ममुद्राया अकृत्रिमायाः सकाशादकृत्रिमं सहजमुत्पद्यते। ...कर्माङ्गनाया आनन्दसन्दोहरत्नाकरं सरोरुहम्। तत् स्वच्छमास्थानं बोलकक्कोलरससंयोगेन अवधूत्या संवृतिबोधिचित्तमण्यन्तर्गतं यदा भवेत्, तदा क्षणिकनामापरं सहजाख्यं ज्ञानमुत्पद्यते। (अ. व. सं. पृ. ३२-३३)

कक्कोले बोलकं क्षिप्त्वा कुन्दुरु कुरुते व्रती।
तस्मिन् योगसमुद्भूतं कर्पुरं सहजं स्मृतम्॥ (दो. को. व्या., पृ. ६९)

चण्डालीयोगभावनया महासुखचक्रे चित्तस्थिरीकरणं हि सहजस्फुटीकरणकारणमिति। (दो. को. व्या., पृ. ७१)

सहजस्य परिज्ञानेऽन्यं मोक्षं न किञ्चिदस्ति। ...अन्यैः सर्वैर्मोक्षसमूहं यत् परिकल्पितं पृथक् पृथक् तत्सर्वं सहजमेवेति नान्यत्। ...सहजमजानानाश्च भ्रमन्ति संसारे घटीयन्त्रवत्। स च सद्गुरुपर्युपाश्रितेनोपलभ्यते। तत्र सहजे वाच्यवाचकौ

न लभ्येते--

वाच्यवाचकसंबन्धान्न विद्येत् सहजस्त्रिषु।
देशनापादयोगेन स्थापितं भगवता क्वचित्॥
पुस्तके दृश्यमाने च सत्त्वार्थाय न संविदाम्।
यद् यद् द्रक्ष्यति वस्तुश्च भ्रान्तिरूपादिकल्पना॥
तत्तद्वस्तु न दृश्येत अभ्रान्तं गुरुपर्वया। इति।

....यत्किञ्चित् शास्त्रपुराणादिव्याख्यानं क्रियते, तत् सर्वं सहजस्यैव नान्यस्य। (दो. को. व्या., पृ. ८६-८७)

सहजमेकं परं तत्त्वमस्ति। (दो. को. व्या., पृ. १५५)

द्वैविध्यं सहजं ततः। (हे. त. १.८.२७; स. सि. १.५)
सहजं चतुर्विधं यस्मादुत्पन्नक्रमपक्षतः। (हे. त. १.८.३०; स. सि. १.८)
सहजमेभिर्विवर्जितम्। (हे. त. १.८.३४)
नान्येन कथ्यते सहजं न कस्मिन्नपि लभ्यते।
आत्मना ज्ञायते पुण्याद् गुरुपर्वोपसेवया॥ (हे. त. १.८.३६; स. सि. १.१५)

सहजं संसारनिर्वाणयोर्दोषकलङ्कानङ्कितस्वभावम् (हे. त. टी., प. ३१b)
सहज इति सहजानन्दः सम्बोधिः। (हे. त. टी., प. ३९a)

आध्यात्मिकप्रज्ञोपायाभ्यां सहजाभ्यां यदुत्पन्नमनास्रवलक्षणं तत्सहजं परमार्थशब्देनोच्यते। (हे. त. टी., प. ४१a)

अनुत्पादलक्षणा शून्यता, सैव परमा प्रज्ञा। ताभ्यामभिन्नं प्रभास्वरलक्षणं पारमार्थ्कसम्बोधिचित्तशब्देन कथितम्। (हे. त. टी., प. ४१b)

धर्माणां प्रकृतिः सहज इति पर्यायः। (हे. त. टी., प. ४७b)

न रागो न विरागश्च मध्यमं नोपलभ्यते।
त्रयाणां वर्जनादेव सहजं बोधिरुच्यते॥ (हे. त. १.१०.१७)
निस्तरङग्सजहाख्यविचित्रम्। (हे. त. १.१०.३४)

निस्तरङ्गः स्वरूपात्मा सर्वे देहे व्यवस्थितः। ...
सहजात्यां यदुत्पन्नं सहजं तत् प्रकीर्तितम्।
स्वभावं सहजं प्रोक्तं सर्वाकारैकसंवरम्॥ (हे. त. १.१०.४१)
तस्मात् सहजं जगत्सर्वं सहजं स्वरूपमुच्यते। (हे. त. २.२.४४)

सहजकायः

स एव भगवान् मन्त्रनये फललक्षणे सहजानन्दः सहजकाय इत्युक्तो ग्राह्यग्राहकवर्जितो विज्ञानधर्मतातीतो भवनिर्वाणाप्रतिष्ठितो बुद्धानां समाजो देवीनां संवरश्च। (वि. प्र., पृ. ४३)

सहजतनुः

आध्यात्मिका विद्या प्रज्ञापारमिता प्रकृतिप्रभास्वरा महामुद्रा सहजानन्दरूपिणी धर्मधातुनिष्पन्दपूर्णावस्था सहजतनुरित्युच्यते। (से. टी., पृ. ६९)

बिन्दुः शून्यो भवति। स च बिन्दुरच्युतः सन् परमाक्षर उच्यते। परमाक्षरोऽप्यकारः। अकारसंभवः सम्यक्संबुद्धः प्रज्ञोपायात्मको वज्रसत्त्वो नपुंसकपदं सहजकाय इत्युच्यते। ....स च कालचक्रो भगवान् परमाक्षरः सुखपदम्। (से. टी., पृ. ६९)

संवरः

सर्वधातूनां समाहारो मेलापकः समाजः संवर इति। (से. टी., पृ. २६)

बाह्यानामौदारिकाणामध्यात्मगतं यो योगी निश्चिनुयात् तत् तेषां संवरम्, संवृतत्वात् संक्षेपवरत्वात्। (हे. त. टी., प. ६a)

संवरः सेकः। (हे. त. टी., प. ७a)

संवृतिः

अनुयोगस्तु संवृतिः। (अ. क्र. ६४)
वाक्प्रपञ्चस्तु संवृतिः। (अ. क्र. ७८)

सादृश्यम्

सादृश्यं यथा दर्पणार्पितं मुखस्य प्रतिबिम्बं मुखं न भवति। न पूर्वं सिद्धिर्नाप्यधुना सिद्ध्यति। तदेव मुखप्रतिबिम्बं सादृश्यमात्रमापादयति, तथापि लोकाः स्वमुखं दृष्टमिति कृत्वा भ्रान्त्या सन्तुष्टा भवन्ति। (अ. व. सं., पृ. ३२-३३)

साधुमती

अङ्गुलीपादपृष्ठे श्मशानम्, सर्वपीठात्मत्वाद्विकल्पपदानुभूतेश्च। सैव साधुमती, साधुनो नैरात्म्यस्य तत्र विद्यमानत्वात्। (वि. ति. टी., पृ. २८)

सामान्या

धातुसाम्यस्य श्लेष्मणो वहनात् सामान्या गुह्ये। (व. ति. टी., पृ. ४६)

सालिजम्

महामांसं सालिजं प्रोक्तम्। (हे. त. २.३.६०)

सिद्धा

स्वेदोत्पादः समापत्तौ सर्वत्र सिद्धः. तद्वाहित्वात् सिद्धा जङ्घयोः, सिद्धनिमित्तोत्पादनं प्रति वा तदधिकारात्। (व. ति., टी., पृ. ४६)

सिद्धिः

लौकिकसिद्धिरित्यकनिष्ठभुवनपर्यन्ताधिपत्यम्। उत्तरसिद्धिरिति सवासनसर्वक्लेशज्ञेयसमापत्त्यावरणप्रहाणितो द्वादशभूमिप्रतिलम्भेन सम्यक्संबुद्धत्वम्। (से. टी., पृ. ३)

सिद्धिस्त्रैधातुकेश्वरत्वम्। (से., पृ. ४७)

त्रिविधा सिद्धिरुत्तममध्यमाधमाः। तत्रान्तर्धानमुत्तमा, भूगतनिधानदर्शनं मध्यमा, वशीकरणमधमा सिद्धिः। (गु. स. प्र., पृ. २२२)

सिद्ध्यष्टकम्

अञ्जन-गुटिका-पादुका-सिद्धौषधि-मणि-मन्त्र-यक्षस्त्री-परपुरप्रवेशाख्यम्। (त. सं. टी., पृ. २७)

सिन्धुः

सिन्धुस्तु पादपृष्ठं वै। (व. ति., पृ. २५)

पादापृष्ठादङ्गुष्ठे बोधिचित्तस्य स्पन्दनात् सिन्धुः पादपृष्थम्। (व. ति. टी. पृ ३४)

सिन्धौ महाबला ख्याता सशोका चाश्रुवाहिनी। (व. ति., पृ. ४७)

सिह्लकम्

स्ववय्म्भुः सिह्लकं ज्ञेयम्। (हे. त. २.३.५९)

सुखम्

सुखं द्वीन्द्रियजं तत्त्वं देवानां रागिणां स्मृतम्।
त्रैलोक्याचारनिर्मुक्तं बुद्धानां सुखमक्षरम्॥
हसितेक्षणादिभिर्मुक्तं सर्वद्वन्द्वविवर्जितम्।
कार्यकारणनिर्मुक्तं त्रैलोक्याभासमद्वयम्॥...
अप्रतिष्ठं यथाऽऽकाशं व्यापि लक्षणवर्जितम्।
उक्तं तत्परं तत्त्वं वज्रज्ञानमनुत्तरम्॥..
अप्रतिष्ठं यथाऽऽकाशं व्यापि लक्षणवर्जितम्।
अनिर्देश्यमरूपं च एतत्तत्वस्य लक्षणम्॥..
यद्विशुद्धमिवाकाशमज्ञानतिमिराकुलैः।
चन्द्रकैरिव संछन्नं वस्तुभिर्वेद्यते जिनैः॥ (से. टी., पृ. ५८-५९)
सुखं कृष्णं सुखं पीतं सुखं रक्तं सुखं सितम्।
सुखं श्यामं सुखं नीलं सुखं कृत्स्नं चराचरम्॥
सुखं प्रज्ञा सुखोपायः सुखं कुन्दुरुजं तथा।
सुखं भावः सुखाभावो वज्रसत्त्वः सुखः स्मृतः॥ (हे. २.२.३२-३३)

सुखावती

अमिताभस्य तथागतस्य बुद्धक्षेत्रं सुखावतीत्युच्यते। इह तु नैरात्म्यादीनां भगानि सुखावतीसंक्षेपाणि, निरुत्तरसुखस्य रक्षणात्। (हे. त. टी., प. ४६b)

विहरेऽहं सुखावत्यां सद्वज्रयोषितो भगे।
एकाराकृतिरूपे तु बुद्धरत्नकरण्डके॥ (हे. त. २.२.३८)

योषिद्भगे सुखावत्याम्। (हे. त. २.२.४१)

स्त्रीकक्कोलसुखावत्यामेवंकारस्वरूपके।
सुखस्य रक्षणादेव सुखावतीति शब्दितम्॥(हे. त. २.४.३०-३१)

सुचन्द्रः

शीतानद्युत्तरे षण्णवतिकोटिग्रामशम्भलमहाविषयाधिपतिर्देवासुरनागनिर्माणकायैः षण्णवतिमहाराजकुलप्रसूतैर्महारत्नमुकुटबद्धैः कोटिकोटिग्रामाधिपतिभिर्नमस्कृतचरणारविन्दः सर्वसत्त्वभाषान्तरैस्तथागतोक्तधर्माणां संग्राहकत्वेन सर्वतथागतश्रोतृत्वात् षोडशकलावरणप्रहाण्या चन्द्रविमलप्रभात्वाच्च शोभनश्चासौ चन्द्रश्चेति सुचन्द्रो गुह्याधिपतिराढकवतीनिवासी श्रीवज्रपाणिः। (से. टी., पृ. १)

तन्निर्माणकायः सुचन्द्रो राजाऽध्येषयति। तदुक्तं मूलतन्त्र--

त्रैलोक्यनायकं बुद्धं बोधिसत्त्वामरादयः।
स्वस्वासने निषण्णास्ते मन्त्रयानश्रुतार्थिनः॥...
दीपङ्करेण या पूर्वं मन्त्रयानस्य देशना।
कृताऽस्माकं तु कर्तव्या गौतमेनाद्य साधुना॥
अथातः शम्भलाख्यातो वज्रपाणिविनिर्मितः।
सुचन्द्रनृप आयातः सद्धर्मश्रीधर्मधातुकम्॥
आदौ प्रदक्षिणं कृत्वा शास्तुः पादाम्बुजद्वयम्।
रत्नपुष्पैः समभ्यर्च्य प्रणिपत्य पुनः पुनः॥
कृताञ्जलिपुटो भूत्वा संबुद्धस्याग्रतः स्थितः।
तत्न्रस्याध्येषकः शास्तुस्चन्द्रः संगीतिकारकः॥(से. टी., पृ. २)

वज्रयाने अडकवतीनिवासी महायक्षाधिपतिर्महाबोधिसत्त्वो वज्रपाणिस्तथागतस्याध्येषकः संगीतिकारश्च। कथं सम्भलविषयकलापग्राममाधिपतेः सूर्यप्रभस्य विजयादेवीगर्भसम्भूतः सुचन्द्रो राजाध्येषकः। (वि. प्र., पृ. २२, २४)

सुदुर्जया

मुखकण्ठौ छन्दोहौ, रसोपभोगे छन्दवृत्तेः। सैव सुदुर्जया, रसान्निवर्तयितुमशक्यत्वात्। (व. ति. टी., पृ. २८)

सुभद्रः

सुखादाप्यायिकागुणवर्तिप्रवर्तकत्वात् सुभद्रः। (व. टि. टी., पृ. ४९)

सुभद्रा

शोभनं तर्पणं भद्रं कल्याणं यस्याः सा सुभद्रा। (व. ति. टी., पृ. ४७)
प्रज्ञाबलं सुभद्रा। (व. ति., पृ. ५५)

सुमनाः

खेटेन योगिनां सौमनस्यजननात् सुमनाः पादपृष्ठे। (व. ति. टी., पृ. ४६)

सुराभक्षी

सुरां सुधां भक्षयतीति सुराभक्षी, ज्ञानोलौ। (व. ति. टी., पृ. ४७)
स्मृतिबलं सुराभक्षी। (व. ति., पृ. ५५)

सुरावैरी

सुराणां स्नायूनां वैरी वामकर्णात् प्रवर्तकः सुरावैरी। (व. ति. टी., पृ. ४८)

सुवर्णद्वीपम्

सुवर्णस्य सुसितत्विषश्चित्तस्य द्वीपमिव द्वीपं जङ्घाद्वयमेवैतत्। व. ति. टी., पृ. ३४)
जङ्घाद्वयं तु विख्यातं सुवर्णद्वीपसंज्ञकम्। (व. ति., पृ. ३५)
प्रस्वेदवाहिनी नाडी सुवर्णद्वीपसंस्थिता।
समाकुला सुदीप्ताङ्गी मता सा चक्रवर्मिणी॥ (व. ति., पृ. ४६)

सुवीरा

सुष्ठु विरादकारात् प्रभवतीति सुवीरा। (व. ति. टी., पृ. ४८)
उपेक्षासम्बोध्यङ्गं सुवीरा।(व. ति., पृ. ५५)

सूक्ष्मा

केशरोम्णां सुसूक्ष्माणां वहनात् सूक्ष्मरूपा शिखायाम्। (व. ति. टी., पृ. ४४)

सूत्रान्तम् (सौत्रान्तिकः)

सूत्रान्तमिति। अनघिगम्भीराणि सूत्राणि सूत्रान्तानि एकगाथा-चतुर्गाथा-उपधारिणी-षण्मुखी-भद्रचर्या-ललितविस्तर-दशभूमिकादीनि। (हे. त. टी., प. ६७b-६८a)

सूर्यम्

सूर्यम् उत्पादाद्वयज्ञानम्। (च. को. व्या., पृ. ४९)

सूर्यः

सूर्यशब्देन प्राणवायुः। (वि. प्र., पृ. १९६)
अत्रेडापिङ्गलासुषुम्नानामधिपतिः प्राणः सूर्यो नाभेरूर्ध्वं प्रवाहतः। (वि. प्र., पृ. १९६)

सूर्यनाडी (रसना)

नाभेरूर्ध्वं तु या नाडी वहत्यूर्ध्वमुखी तथा।
कण्ठमध्ये तु विश्रान्ता रक्तवहा प्रकीर्तिता॥ (व. ति., पृ. ८०)

येयं दक्षिणपार्श्वे रसनाख्या नाडी, सा ऊर्ध्वमुखी नाभेरारभ्य कण्ठं यावद् रक्तं वहति। (व. ति. टी., पृ. ८०)

सेकः

सिच्यते कायादिकं निर्मलं निरावरणं क्रियतेऽनेनेति सेकः। (से. टी., पृ. २-३)

डाकिनीवज्रपञ्जरेऽप्येकादशैव सेका उक्ताः। तथाहि--

प्रथमं तोयसेकेन द्वितीयं मौलिसेकतः।
तृतीयं पट्टसेकेन चतुर्थं वज्रघण्टया॥
पञ्चमं स्वाधिपेनैव नामसेकं तु षष्ठकम्।
बुद्धाज्ञा सप्तमं सेकं कलशं सेकमष्टमम्॥
नवमं गुह्यसेकेन दशमं प्रज्ञाभिषेकतः।
तत्त्ववज्रप्रयोगेण सर्वान् वज्रपदान् ददेत्॥
व्याकरोति स्वयं शास्ता एष सेकविधिं स्वयम्।
आचार्यो नावमन्तव्यः सुगताज्ञां न लङ्घयेत्॥ इति (से. टी., पृ. २७)

एवमेकादशोऽभिषेकः प्रधानस्तत्त्ववज्रप्रयोगेणेति भगवतो विष्पष्टवचनाच्चतुर्थो वैकादशो वाऽभिषेकः पृथग् नावगन्तव्यो विद्वद्भिरिति। (से. टी., पृ. २८)

यथासंख्यमेषां कुम्भादीनां चतुर्णां सान्वयानि क्षराक्षरस्पन्दनिस्पन्दाख्यानि नामानि। ...तथा बालप्रौढवृद्धप्रजापतिसंज्ञकानि। ...चतुर्दलोष्णीषपद्मात् शुक्रामृतधारायाः षोडशदलललाटे कमलकर्णिकायामागमनेन यत् कायानन्द-वागानन्द-चित्तानन्द-ज्ञानानन्दात्मकं सुखानुभवनं तद् बालम्। प्रथमसेकप्राप्तत्वाद् योगी पयोधराभिषिक्तो बाल इत्युच्यते। ततस्तस्या भगे ईषद्वज्रोद्दोलनेन बोधिचित्तच्युतमिति।द्वात्रिंशद्दलकरकमलादष्टदलहृत्कमलकर्णिकायां यत्कायपरमानन्द-वाक्परमानन्द-चित्तपरमानन्द-ज्ञानपरमानन्दात्मकं सुखानुभवनं तत् पूर्वादतिरिच्यमानत्वात् प्रोढौ गुह्याभिषेकः। ततो गाढोद्दोलनेन स्पन्दं गत इति चतुःषष्टिदलनाभिकमलद्वात्रिंशद्दलगुह्यकमलागमनेन शुक्रेन्दोः पञ्चदशकमलस्याग्रगस्वच्छद्रवस्य स्पन्दाख्यस्य वज्रमणिसुषिरपर्यन्तागमनेन यदधिमात्रं कायविरमानन्द-वाग्विरमानन्द-चित्तविरमानन्द-ज्ञानविरमानन्दात्मकं सुखानुभवनं स वृद्धः प्रज्ञाज्ञानाभिषेकः। महामुद्रेति गगनोद्भवबिम्बम्। तस्याः स्वरसबाह्यभावनाख्यानुरागाज्जातं निस्पन्दत इति निरुद्धो वज्रमणेर्बाह्यस्पन्दो भगेऽच्युतसुखतया यस्य चन्द्रामृतस्य स कायसहजानन्द-वाक्सहजानन्द-चित्तसहजानन्द-ज्ञानसहजानन्दात्मको महाज्ञानाख्यश्चतुर्थः सेकः। असौ निरावरणलोकोत्तरज्ञानाधिगतः सिद्धरसवत् ताम्रादिधातूनां स्वर्णभावेनेव सावरणस्कन्धधात्वादीनां पञ्चतथागतपञ्चदेवतादिर्पजाभावेन निष्पादकत्वात् प्रजापतिः। (से. टी., पृ. २८)

बाह्यवारिणेव बाह्यमलस्य अविद्यामलक्षालनाय सिच्यतेऽनेनेति सेकः। (अ. व. सं., पृ. ३६)

संवरः सेकः। ...तथा च वक्ष्यति--

सेकं चतुर्विधं ख्यातं सत्त्वानां हितहेतवे।
सिच्यते स्नाप्यतेऽनेन सेकस्तेनाभिधीयते॥ (२.३.१२) (हे. त. टी., प. ७a)

सेका

सिञ्चति हृदयान् सुधारसेनेति सेका बाहुमूलद्वये। (व. ति. टी., पृ. ४४)

सेवा

बोधिलिङ्गालम्बनं सेवा। (गु. स. प्र., पृ. ११५)
सेव्यते मुमुक्षुभिरभ्यस्यत इति सेवा। (गु. स. प्र., पृ. ११६)
उत्तमसाधनस्थानां तु वज्रचतुष्कं शून्यताचतुष्टयम्, तेन सेवा कार्या। (गु. स. प्र., पृ. १२०)

सौख्यम्

बोधिचित्तादृते नान्यत् सौख्यमस्ति त्रिधातुके
बोधिचित्तमयं सौख्यं सर्वसौख्यप्रसर्पणम्॥(ज्ञा. सि., पृ. १४१)

सौराष्ट्रम्

ऊरू सौराष्ट्र उच्यते। (व. ति., पृ. ३४)

सौख्यस्य राष्ट्रम्, विशिष्टकालदर्शने च ऊरुद्वयमेवान्योन्यम्। (व. ति. पृ. ३४)
सौराष्ट्रे लोहिताख्या तु शण्दिनी डाकिनी मता। (व. ति. टी., पृ. ४६)

स्तम्भः

स्तम्भो नाम देवतावेशात् पूर्वं पात्रस्य प्राकृताहङ्कारमपनीय स्तिमितभावेन काष्ठवत् स्थित्यवस्था स्तम्भनम्। (गु. स. प्र., पृ. १७१)

स्तोभः

स्तोभमुत्पतनकम्पनभ्रमणम्। (गु. स. प्र., पृ. १७१)

स्थविरः

स्थविरो यो दशवर्षोपपन्नः। (दो. को. व्या., पृ. ८४)

स्मृतीन्द्रियम्

वीर्येन्द्रियोदानितान् धर्मान् येन पुनः पुनरामुखीक्रियन्ते, न विस्मर्यन्ते, तत् स्मृतीन्द्रियम्। (व. ति. टी., पृ. ५४)

स्मृत्युपस्थानानि

कायानुस्मृति-वेदनस्मृति-चित्तानुस्मृति-धर्मानुस्मृतिनामकानि चत्वारि स्मृत्युपस्थानानि। ...श्रावकदर्शने तु नित्य-सुख-शुचि-सात्मकचतुर्विपर्यासप्रतिपक्षानित्याशुचिदुःखानात्मलक्षणानि चत्वारि स्मृत्युपस्थानानीति विशेषः। मन्त्रदर्शने तु स्वसंविद्रूपा डाकिन्यः कायादीनां धर्मतारूपा ज्ञेयाः। (व. ति. टी., पृ. ५२-५३)

स्रुक्सुर्वौ

स्रुवं तु रसनाख्याता हृच्चन्द्रो ललनात्मकः। (व. ति., पृ. ६७)

वामदक्षिणगे ललनारसने अधोद्रव्यवाहित्वात्वाद् यथाक्रमं स्रुक्स्रुवौ ज्ञेयौ। (व. ति. टी., पृ. ६७)

स्वभावः

स्वभावश्चैवा[ना]द्यनुत्पन्नं न सत्यं न मृषेति च। ...पञ्चाकाराणां प्रतीत्यसमुत्पन्नानां पञ्चतथागतस्वभावत्वम्, स्वभावस्य च शून्यताकरुणाऽभिन्नत्वाद् शून्यताकरुणाऽभिन्नंजगदिति स्थितम्। ...

प्रतीत्यसम्भवादेव गन्धर्वपुरवत् स्फुटम्।
न स्वभावस्थितं विश्वं नाकाशाम्भोजसंनिभम्॥

उक्तं च हेवज्रे (२।४।३४)

अमी धर्मास्तु निर्वाणं मोहात् संसाररूपिणः। (अ. व. सं., पृ. २६-२७)

स्वभावकायः

द्वात्रिंशत्तु दलं पद्मं मूर्ध्नि मध्ये व्यवस्थितम्। (व. ति., पृ. ७८)

शिरश्चक्रं महाज्ञानं स्वभावकायः, पारमार्थिकबोधिचित्तस्वरूपत्वात्। (व. ति. टी., पृ. ७८)
.................द्वात्रिंशच्छदके तथा।
महासुखमहाज्ञानं समन्तात् संव्यवस्थितम्॥ (व. ति., पृ. ७८)
महासुखमहाचक्रे हंकारो बिन्दुरूपकः। (व. ति., पृ. ७९)

स्वाधिष्ठानम्

स्वाधिष्ठानं नाम संवृतेः सत्यदर्शनम्। (से. टी., पृ. ४०)

मायास्वप्नगन्धर्वपुरप्रतिसेनादिवदकल्पितशेषस्कन्धधात्वायतनादिदर्शनं संवृतिसत्यदर्शनं स्वाधिष्ठानं चोच्यते। (से. टी., पृ. ५७)

स्वाधिष्ठानं शून्ये त्रैधातुकदर्शनं नाम। (वि. प्र., पृ. ७)

स्वाहा

स्वाहेति मन्त्रदेवतासमाश्वासनम्। (गु. स. प्र., पृ. १६४)

हठयोगः

इदानीं हठयोग उच्यते। इह यदा प्रत्याहारादिभिर्बिम्बे दृष्टे सत्यप्यक्षरक्षणं नोत्पद्यतेऽयन्त्रितप्राणतया तदा नादाभ्यासाद्धठेन प्राणं मध्यमायां वाहयित्वा प्रज्ञाब्जगतकुलिशमणौ बोधिचित्तबिन्दुनिरोधादक्षरक्षणं साधयेन्निष्पन्देनेति हठयोगः। नादाभ्यासोऽत्रैवोकः। (से. टी., पृ. ४५)

हयकर्णा

हयवद्दक्षिणकर्णेन निर्गच्छतीति हयकर्णा। (व. ति. टी., पृ. ४७)
समाधिसम्बोध्यङ्गं हयकर्णा। (व. ति., पृ. ५५)

हयग्रीवः

उरुभ्यां बलवतो रक्तस्य प्रवर्तनाद् हयग्रीवः। (व. ति. टी., पृ. ४९)

हरिणी

षड् विषयान् भवग्रहान् हरति खण्डयतीति हरिणी। सन्ध्याभाषया सैव ज्ञानमुद्रा। (च. को. व्या., पृ. २१)

हविर्भाजनम्

शिरःकपालमेतत्तु हविर्भाजनमुच्यते। (व. ति., पृ. ६७)

यदेतच्छिरःकपालं मूर्ध्नि कपालम्, तदेव चन्द्राज्यहविष आधारभूतत्वाद्धविर्भाजनं नान्यत्। (व. ति. टी., पृ. ३४)

सीमान्तमध्यगा चापि हिमालये खगानना। (व. ति., पृ. ४५)

हूंकारः

मध्यवृत्तेर्निरुत्तरधर्मतासूचको हूंकारः। तस्यार्थः--ह इति हेतुवियुक्तः, ऊ इति ऊहापगतः, अँ इति अप्रतिष्ठितसर्वधर्म इति। (अ. व. सं., पृ. ३७)

हृद्वज्रः

सर्वतथागताः प्रोक्ताः पञ्चस्कन्धा जिनैरिह।
तदात्मकायवाक्चित्तो हृद्वज्रोऽसौ महासुखः॥ (गु. स. प्र., पृ. १३)

हृष्टवदना

सीमन्तो वरटकमध्यस्तद्वाहित्वाद् हृष्टवदनात् करस्पर्शात् प्रज्ञोपाययोः सानन्दनन्दनत्वान्मेढ्रे। (व. ति. टी., पृ. ४५)

हेतुदायिका

गात्रपुष्टौ मेद एव हेतुस्तद्वहनाद्धेतुदायिका पादाङ्गुलीषु। (व. ति. टी., ४६)

हेरुकम्

शून्याशून्यं तु हेरुकम्। (हे. त. २.५. ७०)

शून्याशून्यं प्रज्ञोपाययोरेकरसरूपत्वात्। एतदेव ज्ञानं हेरुकशब्दवाच्यम्, शून्यताकरुणयोरद्वयरूपत्वात्। (हे. त. टी., प. ६६a-b)

हेरुकः

सर्वरूपस्तु हेरुकः। (व. ति., पृ. १५)

सर्वेषां (पञ्चस्कन्धानां) रूपं सहजात्मकमस्यास्तीति सर्वरूपी व्यापको यः स श्रीहेरुको भगवान् षष्ठो महावज्रधरः, धर्मतास्वभावो विज्ञेय इति शेषः। (व. ति. टी., पृ. १५)

सर्वायतनधातुस्तु हेरुकः परमेश्वरः। (व. ति., पृ. १६)

कङ्कालो दण्डरूपोऽसौ हेरुकः परमाश्रयः।
स्कन्धधात्वादिबुद्धानां स्तूप इत्यभिधीयते॥ (व. ति. टी., पृ. १९)

सम्यक्समाधिर्भगवान् श्रीहेरुकः। (व. ति., पृ. ५६)

एष श्रीहेरुको वीरो वसन्ततिलका स्मृता। (व. ति., पृ. ३८)

तत्र निर्माणचक्रे नाभौ स एव वसन्तोऽकारो ह्रस्वरूपः। हृदि धर्मचक्रे नादबिन्दुयुक्तहूंकाराकारः। संभोगचक्रे कण्ठे स एव त्रिमात्रः प्लुतः प्रणवरूपः। नाडीकौटिल्यात् तस्य त्रिपरिवर्तश्चण्डाल्याः प्रवेशान्निर्गमाच्चेति कृत्वा। ललाटे महासुखचक्रे बिन्दुनादविभूषितोऽनाहताक्षरो हंकारः। तदेव विलोमेन शिरःकण्ठहृदयनाभिरूपः श्रीहेरुको मन्त्रमूर्तिः। (व. ति.टी., पृ. ३८-३९)

पादाङ्गुलिभ्योऽभेद्यहूँकाररूपस्य मेदसः प्रवर्तकत्वात् श्रीहेरुकः। (व. ति. टी., पृ. ४९)

कायत्रयस्वभावो भगवान् श्रीहेरुकः। (व. ति. टी., पृ. ८६)

हेवज्रम्

हेकारेण महाकरुणा वज्रं प्रज्ञा च भण्यते।
प्रज्ञोपायात्मकं तन्त्रम्......॥ (हे. त. १.१.७)

हेकारमिति महाकरुणाम्, वज्रं सर्वधर्मशून्यताम्। (हे. त. टी., प. ६०b)

होमः

प्रज्ञाग्नौ चण्डालीज्वलनतीक्ष्णत्वात् दाहोज्ज्वले होमोऽसौ विज्ञेयः। (व. ति. टी., पृ. ६६)

आभ्यन्तरैस्तु शुक्राद्यैर्बाह्यैः रूपादिभिस्तथा।
हविभिः क्रियते होमः प्रज्ञाग्नौ तु महोज्ज्वले॥ (व. ति., पृ. ६६-६७)

-------*********--------

END

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project