Digital Sanskrit Buddhist Canon

३६. स्तुतिवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 36 stutivargaḥ
(३६) स्तुतिवर्गः



बुद्ध-स्तुतिः

समसत्त्वाग्रवेदाय सर्वसत्त्वेषु बन्धवे।

सन्मार्गसार्थवाहाय भवबन्धनभेदिने॥१॥



(ना)नादृष्टिविभेदाय सर्वसंशयमोचिने।

सम्यग्दृष्टिनिवेशाय नमः सञ्ज्ञानचक्षुषे॥२॥



सर्वसङ्कटभेदाय त्रिदोषमलशोधिने।

नमो नक्षत्रभूताय सर्वबीजफलोरुहे॥३॥



सर्वप्रज्ञाकराग्राय सर्वध्यानाग्रवेदिने।

सर्वरत्नोत्तमार्याय नमोऽलानाग्रदर्शिने॥४॥



इयं सा लोकनाशस्य विप्रयुक्तस्य तापिनः।

प्रतिमा दृश्यते शान्ता मोक्षमुद्‍घाट्‍यकारिका॥५॥



समर्चतीमां नित्यं (यः) पुरुषः शान्तमानसः।

स मुच्यते भवभयान्निवृत्तिं चाधिगच्छति॥६॥



एतच्छान्तपदं रम्यमेतन्नैष्ठिकमुच्यते।

यदयं भाषते धर्म निर्वाणपुरदेशिकः॥७॥



अस्य वाक्यं समालम्ब्य पुरुषाधीनविक्रमाः।

आकर्षन्ति पदं नित्यं यदनन्तसुखावहम्॥८॥



एतत् पूर्व समारुहय पुरुषास्तत्त्वचिन्तकाः।

त्रिलोकौघार्णवं घोरं तरन्ति भवसागरम्॥९॥



अयं स चक्षुर्लोकस्य समन्ताद्धि विचक्षुषः।

अयं ज्योतिः परं ज्योतिर्यज्ज्योतिःकाष्ठसम्भवम्॥१०॥



कल्पान्तं प्राणिनां चित्ते नृणां रागादिभिर्मलैः।

ज्ञानतोयेन महता शोधयत्येव वाङ्नृपः॥११॥



यन्न दृष्टं पदं सर्वैस्तीर्थिकैर्ज्ञानपाणिभिः।

तत्पदं विमलैर्वाक्यैस्त्वया नृणां प्रदर्शितम्॥१२॥



प्रमादपरमोऽनाथो जनोऽयं तारितस्त्वया।

तीर्णः पारगतो नाथस्तारयत्यघनाशनात्॥१३॥



हितार्थ सर्वजगतस्त्वमेवैको व्यवस्थितः।

अहितानां हितायैव त्वमेव पुरुषोत्तमः॥१४॥



अनादिमति संसारे नृणां क्लेशापहारकैः।

त्वया विशोधितो वाक्यैस्तमः सूर्योदये यथा॥१५॥



अक्षयः सर्वधर्माणां ज्ञानलोककरो महान्।

त्वमेवैको जगन्नाथ लोकोत्तरगुणार्णवः॥१६॥



॥इति स्तुतिवर्गः षट्त्रिंशः॥



पुण्य-देव-सुखैर्मित्र-राज-स्तुतिभिरन्विताः।

सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः॥



॥इति चतुर्थम् उदानम्॥

ये च धर्मा हेतुभवा तेषां तथागतोऽवदत्।

तेषां च यो निरोधश्चैवंवादीमहाश्रमणः॥



पुण्यमवाप्तमन्त्रक्लेशं

विभिद्याजनवलाश्रीकम्।

यावज्जगद्‍व्याकुलं तर्कनिष्ठैः

समाकुलं वेत्ति सत्यवचनैः॥



वैपुल्यमहागम्भीरोदधिसूत्रवराद् भिक्षु(णा)अवलोकितसिंहेनोद्‍धृतमिति।



मोहाऽशिवादिरहितस्य वाक्यविद्यस्य विपुलार्जनस्य 'धर्मसमुच्चयो' नाम

धर्मपर्यायः समाप्तः।



॥इति शुभम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project