Digital Sanskrit Buddhist Canon

३३. सुखवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

33 sukhavargaḥ

३३) सुखवर्गः



सुखस्वरूपनिरूपणम्

अनुत्तरेषु सौख्येषु ध्यानोपात्तेषु ये रताः।

तेषां सुखं यथावत् स्यात् निर्वाणपुरदर्शकम्॥१॥



नवेन सुखदुःखेन पुराणमभिहन्यते।

देवस्यैतन्नवेनैव पुराणमभिहन्यते॥२॥



धू(म) मिश्रं यथा काष्ठं वि(ष्ठा) मिश्रं यथोदनम्।

तथा सुखमिदं सर्वमस्वत्वं नावगम्यते॥३॥



निर्वाणपुरगामिनां सुखम्

तत् सुखं यद् वितृष्णानामेकान्तसुखचारिणाम्।

निर्मोहिणामरागाणां निर्वाणपुरगामिनाम्॥४॥



तेषां विमलमाद्यन्तं सौख्यानामपि तत् सुखम्।

येषां तृष्णानुगा चाशा सर्वथा नैव चेतसि॥५॥



सङ्गृहीतस्य चित्तस्य निरात्मस्य च सर्वतः।

कार्याकार्येषु मूढस्य सुखं नित्यमुपस्थितम्॥६॥



कः श्रेष्ठः सुखी?

सा बहिर्निहता येन नन्दिसंसारहेतुकी।

स धीरः पारगः श्रेष्ठः सुखी निर्वाणमाश्रितः॥७॥



नैतत् सुखेन तृष्णानां यद् रागद्वेषसंयुतम्।

यत्र रागादिनिर्मुक्तं तत् सुखं निर्मलं मतम्॥८॥



कुत्र तृष्णा न बाधते?

देवलोके समासाद्य यः सुरो नावमन्यते।

स सुखात् सुखतां याति यत्र तृष्णा न बाधते॥९॥



तदन्त्यसुखि श्रेयो यत्र मृत्युर्न विद्यते।

मृत्युपाशैर्न बद्धस्य न सुखं विद्यते क्वचित्।

यत् सुखं कामजनकं न तत् सौख्यं सतां मतम्॥१०॥



यत्र कामविनिर्मुक्तस्तत्सुखात् सुखमुत्तमम्।

यत् सुखं जनयेत् श्रेयः (पयोमिश्रं) यथोदनम्॥११॥



यत्र तृष्णाविनिर्मुक्तिः पयोमिश्रं यथोदनम्।

यथा पद्मवने गृद्धा यान्ति(ते) क्रव्यभक्षिणः॥१२॥



एवं शान्तेष्वरण्येषु न भान्त्यशुभचारिणः।

क्वचिच्छान्तं वनं रम्यं क्वचिद् देवाः प्रमादिनः॥१३॥



कः परमं सुखं प्राप्नोति?

विपरीतं न सदृशं भानोः शीता यथा प्रभा।

गततृष्णस्य यत् सौख्यं मुक्तदुःखस्य तायिनः॥१४॥



तस्यान्तरेण सौख्यस्य सुखमेतन्न गण्यते।

ध्यायिनस्त्वप्रमत्तस्य मुक्तपापस्य सर्वदा॥१५॥



तत् सुखं तत् परं सौख्यं नेदं तृष्णाविदां मतम्।

मुनिसेव्यं वनमिदं सेवितं च सुभाषितैः॥१६॥



नार्हा (यूयं) रागगणं सेवितुं भो सुरोत्तमाः।

यदेतद् भवतां सौख्यमेतन्न खलु शाश्वतम्॥१७॥



तत् सुखं परमं शान्तं वीततृष्णै निषेव्यते।

निःसेवितं वनमिदं ये गताः परमं पदम्॥१८॥



यत् प्राप्य सर्वदुःखस्यच्छेदो भवति सर्वथा।

ब्रह्मचर्यादनिर्मुष्टाः शीलालापेन वञ्चिताः॥१९॥



भिक्षूणां वने वास एव सुखावहः

नार्हन्ति सेवितुं रम्यं वनं शान्तं सुभाषितम्।

शान्तं च भावितं (चैव) रमते शुभगोचरे॥२०॥



न रागचारिणां चित्तं रमते वनगोचरे।

न रागव्याकुलं चित्तं वनेषु लभते धृतिम्॥२१॥



कः पुरुषोत्तमः?

श्रव्याऽमूढा मतिर्यस्य नित्यं त्रिभुवनं करे।

स रतिं लभते शान्तिं वने पुरुषसत्तमः॥२२॥



सुखाय वनं सेव्यम्

स कल्परागकुटिलो नित्यं रागादिभिर्वृतः।

स शान्तिं नैव लभते वने शान्ते सुखावहे॥२३॥



येषां तु मनसा नित्यं वने ध्याननियोगिनाम्।

वनं तेषां सदारम्यं न तु रागगवेषिणाम्॥२४॥



वनेषु भावितं चित्तं नगरेषु न कुप्यते।

तस्माद् वनं सदा सेव्यं नगरं नैव शस्यते॥२५॥



विक्षिप्यते हि नगरे नृणां रागादिभिर्वृतः।

विक्षिप्त मोहकुटिलं वनं भूयः प्रसीदति॥२६॥



तस्माद् वनं परं शान्तं योगिनामालयं महत्।

संसेव्यं वीतमनसा यस्य तद् वीतकल्मषम्॥२७॥



रतिं मा कृथा

प्रशान्तेन्द्रियचित्तस्य या रतिर्योगिनो हृदि।

नासौ शक्तिः सहस्रस्य (मानवानां) भविष्यति॥२८॥



या ध्यायिनो रतिर्दृष्टा व्यवदानाय सर्वदा।

न यामेष्वपि सा दृष्टा नित्यं रागानुरागिणी॥२९॥



रतिर्या कामवशगा सा नित्यं दुःखसम्भवा।

या तु क्लेशवशात् प्रीतिः (सा प्रीतिः) शाश्वता नहि॥३०॥



कः श्रेयस्पदं प्राप्नोति?

श्रेयो वनेषु चरितं तत्तदुच्चरितं नृभिः।

यस्मात् तत् प्रतिबद्धं हि श्रेयसां पदमुच्यते॥३१॥



सुसम्भृतेन धर्मेण रक्षितेनेव चेतसा।

सुदृष्टं लभते स्थानं यत्र दोषो न विद्यते॥३२॥



यः क्षिप्तमनसा नित्यं न च धर्मपरायणः।

तेषां वृथा सुखमिदं गच्छति न निवर्तते॥३३॥



तत्त्वज्ञा दुःखं न पश्यन्ति

ये तु तत्त्वविदो धीराः पश्यन्ति जगतः स्थितिम्।

अनित्यदुःखशून्यानां तेषां दुःखं न विद्यते॥३४॥



सुखधर्मस्य चरणं ज्ञानस्य च निषेवणम्।

अहिंसा सत्यवचनं तदप्येकान्ततः स्थितम्॥३५॥



कः स्वर्ग याति?

एकधर्मव्यतीता ये येऽधर्मपरिवञ्चकाः।

त्रिस्थानलक्षणाविष्टास्ते जनाः स्वर्गगामिनः॥३६॥



सुखस्य स्वरूपम्

उदयव्ययधर्माणामनित्यं कर्मजं हि तत्।

तत् सुखं सास्त्रवं नित्यं न भूतं न भविष्यति॥३७॥



तत् सुखं तद्वितृष्णस्य नीरागस्य हि देहिनः।

मुक्तिर्भवति दोषस्य पारस्थस्य हि तापिनः॥३८॥



तत् किञ्चित् सास्रवं सौख्यं तत् सर्व क्षणिकं मतम्।

रागबन्धाद् विनिर्मुक्तं तत् सर्व निश्चलं सुखम्॥३९॥



ये न क्षिपन्ति दुःखेन सुखे येषां न सङ्गतिः।

ते दुःखसुखनिर्मुक्ता निर्वाणसुखगामिनः॥४०॥



अनुपायेन ये मूढाः प्रार्थयन्ति सुखं सदा।

बालुकाभिर्यथा तैलं यल्लभ्यं नित्यमेव तत्॥४१॥



न चेतसा नरः प्राज्ञो मनोरथशतैरपि।

शक्रोऽपि तत् सुखं कर्तु यथा कर्म कृतं महत्॥४२॥



सुखाय धर्ममाचरेत्

ससुखं यस्य तु मनः सद्धर्मानुचरो भवेत्।

दुःखैर्मुक्त्यभिलाषोऽयं स धर्मे कुरुते मतिम्॥४३॥



नाहेतुकं सुखं दृष्टं दुःखं वा त्रिविधात्मकम्।

सुखे दुःखे पृथग्भावे तस्मान्नु सुकृत चरेत्॥४४॥



नेदं सौख्यं सदा शस्तमध्रुवं विप्रलोपि च।

तृष्णाविषेण सम्मिश्रं विषमिश्रं यथोदनम्॥४५॥



तत् सौख्यं (हि)सतां शस्तं यत्र मृत्युर्न विद्यते।

न च प्रियेण विश्लेषो नाप्रियेण समागमः॥४६॥



कीदृशं सुखं दुःखजनकम् ?

यदेतत् स्त्रीमयं सौख्यमेतद् दुःखाय कल्प्यते।

तद्बीजवर्तका दृष्टा नरकेषूपपत्तये॥४७॥



यत् सुखं दुःखजनकं कथं तत् सुखमिष्यते?

दुःखाद् दुःखतरं ज्ञेयं परिणामवशेन तत्॥४८॥



यदेतद् भुज्यते सौख्यमेतत् कालेन नश्यति।

सूर्यस्तास्तङ्गतस्यैवं रश्मयः सह चारिणः॥४९॥



विकृतिं यस्य (च ) मनः सुखदुःखैर्न गच्छति।

स धीमान् सुरलोके च गत्वान्यल्लभते सुखम्॥५०॥



भुक्तं सुखं पुराणं तु हीनकर्म करोति च।

पुराणं सुकृतं शीर्ण मृत्युकाले न बुध्यते॥५१॥



सर्व सुखमनित्यं भवति

यदिदं दृश्यते सौख्यं मनोवाक्कामजंभृशम्।

अनित्यं तद् विनाशत्वमचिरेण भविष्यति॥५२॥



फेनबुद्बुदसङ्काशं मरीच्युदकसन्निभम्।

चञ्चलोर्मि सुखं सर्व विनिपातो भवार्णवे॥५३॥



निष्प्रतीकारविषमः सर्वभूतभयावहः।

चक्रवातप्रवेगो (वै) मृत्युराजैष धावति॥५४॥



नाशयित्वा सुखं सर्व नाशयित्वा च जीवितम्।

कर्मसङ्कल्पवाह्येषु लोकमन्यत्र नेष्यति॥५५॥



यदतीव सुखं नृणां तद्धि सौख्याय कल्प्यते।

यन्नैष्यति सुखं किञ्चित् तद्धि नैव विगण्यते॥५६॥



वर्तमानं तु यत् सौख्यं तृष्णाविषविवर्जितम्।

सर्व ह्यनात्मजं दुःखमनित्यं संस्कृतं बलम्॥५७॥



लौकिकं सुखं न सुखम्

यद् सुखं त्रिषु लोकेषु न शस्तं तत्त्वदर्शिभिः।

तेन मत्वा कथं देवा भवन्ति विगतज्वराः?॥५८॥



अविष्टोवतकालोऽयं भैरवो याति सत्त्वरम्।

यो भोक्ष्यते सुरान् सर्वान् शुष्केन्धनमिवानलः॥५९॥



अतियाति सुखं सर्व क्रियतां श्रैयसं मनः।

मा पश्चात् संभवो योगे मृत्युकालो भविष्यति॥६०॥



सुखमस्थिरं भवति

जन्मान्तरसहस्रेषु यद् मुक्तं कर्मजं सुखम्।

तरङ्गसन्निभः क्वायं(जानीयाद्) बालिशोऽस्थिरम्॥६१॥



कः सुखेन प्रसीदति?



न सुखैस्तृप्यते बालस्तथा काष्ठैर्यथाऽनलः।

तस्मान्न (सुख) सक्तस्य सुखं भवति नैष्ठिकम्॥६२॥



विषस्य दोषमुक्तस्य कामदोषानुदर्शिनः।

ध्यायिनश्चाप्रमतस्य तत् सुखं यदनाविलम्॥६३॥



सुखी भवति तत् प्राप्य न सुखं भवजन्मनः।

बन्धमिश्रं विषं यद्वद् धर्मसौख्योदयस्तथा॥६४॥



कामविरहितः सुखमश्नुवते

तस्मात् तत्सुखसक्तानां नित्यं कामगवेषिणाम्।

भवन्त्यनेकसौख्या(नि)तस्मात् कामो न जायते॥६५॥



ज्ञानेनैवेन्द्रियाणि स्वगोचरे निवर्तन्ते

नेन्द्रियाणां जयः शक्यः कर्त्तु विषयगोचरे।

ज्ञानेन हि निवर्तन्ते इन्द्रियाणि स्वगोचरे॥६६॥



बाला एव गतिपञ्चके भ्रमन्ति

दुःखे सुखाभिसंसक्ता नित्यं बाला (हय)मेधसः।

विपर्यया परिभ्रान्ता भ्रमन्ति गतिपञ्चके॥६७॥



कुत्र सुखं दुःखसदृशं भवति ?

यदत्यन्तसुखं दृष्टं तत् सुखं सत्यमुच्यते।

यत्र दुःखं विपाकं स्यात् तत् सुखं दुःखमेव तत्॥६८॥



पापस्याकरणमेव सुखम्



अन्यागतस्य दुःखस्य प्रतिघातयते बुधः।

पापस्य हेतुजं दुःखं पापस्याकरणं सुखम्॥६९॥



॥इति सुखवर्गो त्रयस्त्रिंशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project