Digital Sanskrit Buddhist Canon

३०. भिक्षुवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

30 bhikṣuvargaḥ

३०) भिक्षुवर्गः



आदर्शो भिक्षुः लोकमार्गदर्शकः

यो हिनस्ति न भूतानि मित्रवेत्ता सदाऽक्षयः।

पितृवत् सर्वभूतानि लोकस्तमनुपश्यति॥१॥



अदत्तादानविरतो नित्यं ज्ञानी जितेन्द्रियः।

प्रशान्तदेहकर्मा (च) तीर्णसम्भवसङ्क्रमः॥२॥



नाप्यालेख्यगता नापि चक्षुषा सा निरीक्ष्यते।

हतकामो दृष्टसत्यो मुक्तस्तादृश उच्यते॥३॥



समलोष्टाश्मकनकः वीतशोकः समाहितः।

न क्लेशोरगसम्पृक्तः स सौख्यं ध्रुवमाप्नुयात्॥४॥



कः भिक्षुर्विद्यते?

अर्थानर्थसमो यस्य लाभालाभौ तथैव च।

सुखदुःखसमायुक्तः भिक्षुः स खलु कथ्यते॥५॥



मित्रामित्रप्रहीणो यः समचेता जितेन्द्रियः।

विभेति यो न विषयैः विज्ञेयस्तादृशो यतिः॥६॥



विषयद्वेषी निर्वाणमधिगच्छति

विषमत्वाद्धि विषयान् द्वेष्टि धीरो गतव्यथः।

न तस्य दूरे निर्वाणं सम्यक्सम्बुद्धदेशितम्॥७॥



उदय-व्ययतत्त्वज्ञः सम्यग्दृष्टिरलोलुपः।

हिमवानिव निष्क्रम्य संसारान्मुक्तहेतुकः॥८॥



तृणचन्दनतुल्यो हि समतृष्णाम्बराशिनः।

स कौशेयसङ्घटिततृष्णया नैव बाधते॥९॥



लाभसत्कारसन्तुष्टः सन्तुष्टस्तृणसंस्तरैः।

वह्निवल्लाभसत्कारं यः पश्यति स पश्यति॥१०॥



बुद्धदेशिताः भिक्षुधर्माः

वाह्यते यो न विषयैस्तृणनद्या न वाहयते।

स्वकर्मफलतत्त्वज्ञः स भिक्षुर्बुद्धदेशितः॥११॥



नातीतं शोचते यो हि बुद्धया (चैव) गतस्पृहः।

प्रत्युत्पन्नक्रियायोगी न बुद्धिस्तस्य लिप्यते॥१२॥



निर्वाणे (च) मतिर्यस्य धर्मे नित्यं स्थिता भवेत्।

न वर्तते स संसारे शुक्लधर्मसमावृतः॥१३॥



नाविलं क्रियते यस्य चित्तं विद्याग्निकल्पया।

दारुवद्विषया यस्य तस्य दुःखं न विद्यते॥१४॥



इन्द्रियाणि वशे यस्य चेन्द्रियेषु वशानुगः।

ह्रियते यः पुमर्थैनो निकषस्तादृशो मुनिः॥१५॥



साधुवद्धिमनो यस्य क्षमावान् प्रियदर्शनः।

प्रह्लादयति चेतांसि स नृणां शशिवन्मुनिः॥१६॥



अरुणाभिरतो यस्तु हर्म्याग्रेषु न रज्यति।

सन्तुष्टः पांशुकूलेन भिक्षुर्भिक्षारतो भवेत्॥१७॥



शान्तो दान्तः सुधीरर्थात् तत्त्ववित् सुखदुःखयोः।

स यात्युत्तममध्वानं यत्र गत्वा न शोचति॥१८॥



ऋजुमत्पातकान्यस्य नित्यं ध्यानपरायणः।

प्राकृतैश्च मलै(र्हीनः) स योगी सत्यवर्त्मनि॥१९॥



सर्वेन्द्रियविघाती यः सर्वभूतहिते रतः।

शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर्भवति तादृशः॥२०॥



षडिन्द्रियरथारूढो रागशत्रुनिवारकः।

प्रज्ञाधीरः क्रियावान् यः स शान्तिपदमश्नुते॥२१॥



अरण्यवासी सन्तुष्टो भूमिवासी समाहितः।

धुनाति पापको धर्मश्चायुर्मेघानिवाम्बरः॥२२॥



शुभं वा देहकर्मान्तः शुभचर्यासु संरतः।

तत्त्वदृष्टिः क्रियादक्षो नाशयन्मारसाधनम्॥२३॥



दयालुर्भिक्षुर्निर्वाणमार्गे स्थितो भवति

रागात्यये न बाधेत शुभचित्तं गतालयम्।

मैत्र्या कारुण्यबहुलो भिक्षुर्नैर्य्याणिके स्थितः॥२४॥



यस्य रूपादयो नेष्टा विषया बन्धहेतवे।

स याति परमां शान्तिं यत्र गत्वा न शोच्यते॥२५॥



हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः।

मोक्षस्रोतस्यभिरतस्तृष्णया नैव रज्यते॥२६॥



यो नादत्तेऽशुभं कर्म शुभकर्मरतः सदा।

चन्द्रांशुनिर्मलगतिर्योगी भवति तादृशः॥२७॥



प्रदहन् पापकान् धर्मान् शुष्केन्धनमिवानलः।

विभ्राजते त्रिभुवने मुक्तपायो गतव्यथः॥२८॥



मोक्षेऽस्ति यस्य तु मनो न संसारे कथञ्चन।

नासौ बध्नाति संसारे मुक्तः पक्षी यथाम्बरे॥२९॥



वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः।

स मुक्त इति विज्ञेयस्तत्त्वविद् ऋतवांश्च सः॥३०॥



तथाप्येते सुखदुःखे मृष्टामृष्टैर्न लिप्यते।

दीप्तं पश्यति संसारं यः स योगी सतां मतः॥३१॥



भिक्षुर्भवति कीदृशः?

अथामूढमतिर्नित्यं नित्यं धर्मपरायणः।

भिक्षुवृत्तावभिरतो भिक्षुर्भवति तादृशः॥३२॥



न तृप्तिर्दर्शनारामैः साधूनां दर्शने रतिः।

निष्क्रान्तगृहकल्माषो भिक्षुर्भवति तादृशः॥३३॥



न नृत्यगीतसन्दर्शी (सत्यं) च पुनरीक्षते।

संरक्षितो श्मशानेषु भिक्षुर्भवति तादृशः॥३४॥



एकाहं परमं पिण्डमादत्तेऽन्यत्र काङ्क्षति।

त्रिभागकुक्षिसन्तुष्टो भिक्षुर्भवति तादृशः॥३५॥



वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते।

मुक्ताहारविहारो यो भिक्षुर्भवति तादृशः॥३६॥



कर्माण्यारभते यो न निराशः स च कर्मसु।

निरुद्धको नोपरतो भिक्षुर्भवति तादृशः॥३७॥



कायकोटिविनिर्मुक्तो मोहध्वान्तविवर्जितः।

अलिप्तः पापकैर्धर्मैभिक्षुर्भवति तादृशः॥३८॥



सर्वाशयजनानीतः सर्वाशयविवर्जितः।

सर्वाशयविनिर्मुक्तो भिक्षुर्भवति तादृशः॥३९॥



आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः।

सर्वार्थधर्मता ह्येषा भिक्षुर्भवति तादृशः॥४०॥



शान्तेन्द्रियो दृढमतिः कामपाकविवर्जितः।

एकाग्रसंस्थितमना भिक्षुर्भवति तादृशः॥४१॥



भूमिसङ्क्रमणज्ञो यो भूमितत्त्वनिदर्शकः।

भूमेः परापरज्ञो यो भिक्षुर्भवति तादृशः॥४२॥



सम्भवासम्भवान् धर्मान् हेतुप्रत्ययसम्भवान्।

जानीते विधिवत् सर्वान् भिक्षुर्भवति तादृशः॥४३॥



ब्रह्मचारी ऋतुज्ञानी स्त्यानमिद्धविवर्जितः।

कल्पोदग्रोऽवनौ दक्षो भिक्षुर्भवति तादृशः॥४४॥



शमस्थोविपश्यनाश्च चतुर्ध्यानरतश्च यः।

आलये मुदितारामो भिक्षुर्भवति तादृशः॥४५॥



पक्षिणो गगनस्थस्य छायेवानुगतः सदा।

सद्धर्मस्यानुजीवी स भिक्षुर्भवति तादृशः॥४६॥



क्लेशोपक्लेशबधकः समदर्शी शुभान्वितः।

अनापानविधिज्ञो यो भिक्षुर्भवति तादृशः॥४७॥



अनुक्रमविधिज्ञो यो योगवित् तत्त्वदर्शकः।

पारापारविधिज्ञो यो भिक्षुर्भवति तादृशः॥४८॥



यो न हृष्यति हर्षेषु भयेषु न बिभेति च।

मुक्तो हर्षभयोद्वेगैर्भिक्षुर्भवति तादृशः॥४९॥



जन्ममरणतत्त्वज्ञः सुरासुरनमस्कृतः।

परावरज्ञः सत्त्वानां भिक्षुर्भवति तादृशः॥५०॥



सङ्घाटिमात्रसंहृष्टः सञ्चयेषु न रज्यते।

अल्पेच्छो ब्रह्मचारी यो भिक्षुर्भवति तादृशः॥५१॥



एकाशी वृक्षमूले यः सदा ध्यानं समीहते।

लाभसत्कारविरतो भिक्षुर्भवति तादृशः॥५२॥



उपेक्षाकरुणारागो मोक्षदोषविवर्जितः।

निर्दग्धदोषसर्वस्वो भिक्षुर्भवति तादृशः॥५३॥



मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय च।

नान्ययोगाभिरक्तो यो भिक्षुर्भवति तादृशः॥५४॥



कौसीद्याभिरतो भिक्षुः नहि कल्याणमर्हति

न शय्यासनसम्भोगी भिक्षुर्बुद्धेन भाषितः।

कौसीद्यभिरतो यस्तु नासौ कल्याणमर्हति॥५५॥



क्लेशानां मूलपाकं हि कौसीद्यं यस्य विद्यते।

तस्य दुःखं महाघोरं संसारे सम्प्रवर्तते॥५६॥



कौसीद्यमेव यस्यास्ति तस्य धर्मो न विद्यते।

केवलं वस्त्रमात्रेण 'भिक्षुः' स इति कथ्यते॥५७॥



भिक्षुर्भवति न तादृशः

नाध्यापने रतिर्यस्य न ध्यानेनाशु रक्षति।

केवलं वस्तुमात्रेण भिक्षुर्भवति तादृशः॥५८॥



विहाराभिरतो यस्तु न रतो धर्मगोचरे।

स्त्री-मद्यलोलुपमतिभिक्षुरस्ति न तादृशः॥५९॥



(भवेन्मतिर्यस्य नित्यं विविधे) पापकर्मणि।

स भिक्षुर्देशितो बुद्धैः न भोक्ता स्वकगोचरे॥६०॥



वरमाशीविषविषं कथितं ताम्रमेव च।

भुक्तस्यात्यन्तदुःशीलैरधिकं पापभोजनम्॥६१॥



यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्पते।

यस्य पिण्डिकृताः क्लेशाः सर्पा इव विलेशयाः॥६२॥



स भिक्षुः पिण्डभोजी स्यान्न स्त्रीदर्शनतत्परः।

बन्धकं यदि चात्मानं कृत्वा परशुभक्षतिम्॥६३॥



भिक्षुर्दुर्गुणानां स्वरूपम्

कथं स भिक्षुर्विज्ञेयः सङ्घरत्नप्रदूषकः।

यस्येष्टा लाभसत्कारा विषया यस्य सम्मताः॥६४॥



नारिदर्शनसाकाङ्क्षी न भिक्षुर्न गृहीव सः।

राजसेविषु सृष्टाशो मद्यपः क्रोधनस्तथा॥६५॥



सदा भिक्षुर्बञ्चयते दायकान्ननु चेतसा।

उपायनान्युपादाय राजद्वाराश्रिता हि ये।

संरब्धा गृहिभिः सार्ध यथा नागा वनाश्रिताः॥६६॥



तस्मात् तानेव पुष्णन्ति वातेर्ष्यास्ते समागताः।

पुत्रदारान् परित्यज्य ये शान्ता रत्नमाश्रिताः॥६७॥



भिक्षोर्गुणानां माहात्म्यम्

प्रहाय दोषान् यो भिक्षुरस्ति दर्शनतत्त्ववित्।

रूपादिस्कन्धतत्त्वज्ञो मोक्षाय यतते सदा॥६८॥



धर्मावबोधाभिरतो ध्यानारामविहारवान्

तत्त्वलक्षणसम्बोधात् प्राप्नुयात् पदमव्ययम्॥६९॥



मैत्र्यारामो हि सततमुद्युक्तो धर्मगोचरे।

तत्त्वलक्षणतत्त्वज्ञो भिक्षुर्भवति तादृशः॥७०॥



योनिशस्तु मतिर्यस्य कामक्रोधैर्न हन्यते।

स भिक्षुरिति विज्ञेयो विपरीतस्ततोऽन्यथा॥७१॥



सर्वभूतदृढः शान्तः सर्वसङ्गतिवर्जितः।

सर्वबन्धननिर्मुक्तो भिक्षुर्भवति तत्त्ववित्॥७२॥



कर्मणि यस्य विज्ञानविषयैर्यो न हन्यते।

निर्मलः स्यात् कनकवत् सन्तुष्टो भिक्षुरुच्यते॥७३॥



प्रियाप्रिये मनो यस्य न लेपमनुगच्छति।

सङ्कल्पानां विधिज्ञो यः सर्वपापविवर्जितः॥७४॥



अन्यसंदुष्टचरितो धर्मशीलो जितेन्द्रियः।

अहीनसत्वो मतिमान् भिक्षुर्भवति तादृशः॥७५॥



शास्त्रे शास्त्रार्थविज्ञाने मतिर्यस्य सदा रता।

न पानभोजनरतः स भिक्षुः शान्तमानसः॥७६॥



भिक्षोः स्वरूपनिरूपणम्

वनारण्यविहारेषु श्मशाने तृणसंस्तरे।

रमते यस्य तु मनो भिक्षुर्भवति तादृशः॥७७॥



दोषाणां कर्मतत्त्वज्ञः फलवित् परिशेषतः।

हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद् वीतकल्मषः॥७८॥



(हत) किल्विषकान्तारो हतदोषो जितेन्द्रियः।

पुनर्भवविधिज्ञो यो भिक्षुः शान्तमनाः (स्मृत)॥७९॥



नोत्कर्षो हृष्टहृदये निन्दया नैव रूष्यति।

समुद्रतुल्यगाम्भीर्यो योगवान् भिक्षुरुच्यते॥८०॥



आवेणिको दृढमतिः सूक्ष्मवादी न लोलुपः।

कामवादी समो दक्षः स भिक्षुः शान्त उच्यते॥८१॥



कामधातूपगान् हेतून् रूपधातौ तथैव च।

आरुष्येषु च तत्त्वज्ञः शास्त्रा भिक्षुः स उच्यते॥८२॥



न लौकिककथासक्तः शत्रुदोषबधे सदा।

विषवद् यस्य विषयाः स भिक्षुर्देशितो बुधैः॥८३।



शुद्धा यस्य (हि)कामेषु मतिर्भवति नित्यशः।

स निर्मुक्तमतिर्भिक्षुर्मुक्तः संसारबन्धनात्॥८४॥



ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः।

हितकारी च सत्त्वानाम् आरण्यो भिक्षुरुच्यते॥८५॥



प्रश्नोत्तरमतिर्यस्य प्रतिभावन् जितेन्द्रियः।

स धर्मः कथितो ज्ञेयो विपरीतस्तृणैः समः॥८६॥



बुद्धशासने कीदृग् भिक्षुः शस्तः?

कायमानसभीर्यस्य सर्वदा नैव खिद्यते।

सर्वकृत्यकरो ज्ञेयो यः सङ्घाय च तत्परः॥८७॥



न परार्थ न लोभार्थ यशोऽर्थ कुरुते न तु।

सङ्घकार्ये मतिर्यस्य स मुक्तः सर्वबन्धनैः॥८८॥



न स्वर्गार्थ मतिर्यस्य लाभार्थ यशसे न वा।

निर्वाणार्थ क्रिया सर्वा स भिक्षुः स्रोत उच्यते॥८९॥



पापेभ्यो नित्यविरतः सत्कृत्येषु रतः सदा।

न पापमित्रसंसर्गी भिक्षुः स्याद् बुद्धशासने॥९०॥



मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः।

शिक्षापदेषु रक्तस्य निर्वाणं नातिदूरतः॥९१॥



जरामरणशीलस्य संसारविमुखस्य च।

ध्यानेऽपि न प्रमत्तस्य निर्वाणं नातिदूरतः॥९२॥



अनित्यताविधिज्ञस्य शून्यतावत्क्रियावतः।

ध्यानोत्कर्षविधिज्ञस्य निर्वाणं नातिदूरतः॥९३॥



धीरोऽयमग्रचोरोऽयं योऽयं भिक्षुरसंवृतः।

अन्तःपुरीवरस्रावी बहिश्चीवरसंवृतः॥९४॥



धर्मविनयाद् रिक्तो भिक्षुर्दुःखभागी भवेदेव

यथा यत्नमयो राशिः सर्वोऽसारश्च दुर्बलः।

एवं सञ्चरति रिक्तो वितथो भिक्षुवादिकः॥९५॥



स नारकेयो दुःशीलः सङ्घरत्नबहिष्कृतः।

कायस्य भेदान्नरकं नीयते चित्तवञ्चितः॥९६॥



वञ्चितो धर्मविनयाद् याति तत् स्वेन कर्मणा।

मलिनस्तमसा बद्धो दुःखभागी भविष्यति॥९७॥



अप्रावृतः शुभधमन् नग्नः साधुजुगुप्सितः।

नयते नरकं घोरं यथा धर्मबहिष्कृतः॥९८॥



अशोभनस्य निचयो दुःखद्वारमनावृतम्।

संसारबन्धनं तीव्रं दौःशील्यमिति कथ्यते॥९९॥



असंवरेण यो दग्धः स दग्धो वह्निना भृशम्।

तस्य संवरक्षीणस्य विनिपातो ध्रुवं स्थितः॥१००॥



कुकर्तृभिक्षुरपि नरकं याति



मनसा संवरस्थेन स्वाचारैः संवरायते।

समूढचर्यामारुह्य नरकायोपकल्पते॥१०१॥



अशुभं वर्धते तस्य दिवारात्रौ च सर्वतः।

यस्य शीलमयं रत्नं दौःशील्येन निवारितम्॥१०२॥



धर्मशून्यस्य रिक्तस्य तमसा संवृतस्य च।

विद्यतेऽसंवरस्तस्य यो न शौचाय कल्पते॥१०३॥



असंवरमयः पाशो मलिनः साधुवर्जितः।

आकर्षति स दुःशीलान् पापिष्ठान् शीलवर्जितान्॥१०४॥



असंवरैश्च दौःशील्यैः पापैश्च सह सङ्गतिः।

दूतका नरकस्यैते कामानामपि सेवकाः॥१०५॥



असंवृतप्रसूतस्य चपलस्य विशेषतः।

पापकर्माभियुक्तस्य नरकं नातिदूरतः॥१०६॥



किमेते नावगच्छन्ति कर्मणां सदृशं फलम्।

अक्षिपाताय मूढाय दुर्मतौ (ये) विमोहिताः॥१०७॥



अहन्यहनि वर्धन्ते पापनद्यो दुरासदाः।

दुःखोर्मिमालाश्चपलाः पापिष्ठजनहारिणः॥१०८॥



न तेषां सुकरं जन्म न तेषां सुकरं मनः।

अशीलाः पुरुषा ये वा शुक्लधर्मविवर्जिताः॥१०९॥



धर्मोऽत्युच्चः शुभो मार्गः

अत्युच्चश्च शुभो मार्गः स 'धर्म' इति कथ्यते।

तं प्राप्यमनुजः शीघ्रं प्रयाति पदमच्युतम्॥११०॥



ततोऽपवादाः साध्यन्ते शक्तिमन्तः सुखास्तु ये।

संवरस्य सदा दासास्तेषां दुःखं न विद्यते।

दौःशील्यपरमो ह्येष मलिनीकुरुते नृणाम्॥१११॥



ये शैक्ष्यपदविभ्रष्टा भागिनो नरकस्य ते।

एवं ज्ञात्वा नरः सर्व संवरं प्रतिपद्यते॥११२॥



शुभधर्मी भिक्षुर्निर्वाणं नातिचिरं प्राप्नोति

भवार्णस्य सर्वस्य सेतुभूतो हि संवरः।

शुद्धाजीवविशुद्धस्य शान्तवक्त्रस्य कर्मणः॥११३॥



ध्यायिनो विप्रमुक्तस्य निर्वाणं नातिदूरतः।

धूर्धरस्याप्रमत्तस्य श्मशानवनसेविनः॥११४॥



शायिनो भूतले नित्यं निर्वाणं नातिदूरतः।

पांशुशय्यावलम्बांसपातमेकं सजर्जरम्॥११५॥



सन्तोषः फलमूलैश्च स सुखी बुद्धसम्भवः।

विप्रमुक्तस्य कामेभ्यः सन्तोषो हीतरस्य च॥११६॥



सविमुक्तकचित्तस्य निर्वाणं नातिदूरतः।

कुहकामलमुक्तस्य रजो वा तस्य तायिनः॥११७॥



आकाशसमचित्तस्य निर्वाणं नातिदूरतः।

बहुबद्धपदैर्युक्ता विज्ञेया (भव)चारिका॥११८॥



नाशिका ब्रह्मचर्यस्य निर्वाणगतिदुःखिका।

सेव्यते या जनैर्नित्यं प्राकृतैः शीलवर्जितैः॥११९॥



अजस्त्रं परिवर्ज्या सा ध्यायिभिस्तत्त्वदर्शिभिः।

दौर्बल्यमूलमेका सा मनस्कारप्रणाशिका॥१२०॥



नाशिनी ब्रह्मचर्यस्य नरकस्य प्रदर्शिका।

भ्रंशिका स्वर्गमार्गस्य दुःखसागरशोषिका॥१२१॥



दूतिका प्रेतलोकस्य तिर्यग्योनिनिपातिका।

नाम्ना सङ्गणिका सेवा संसारे बन्धमातृका॥१२२॥



ध्यानाध्ययनशक्तैव वर्ज्या नित्यं हि भिक्षुभिः।

ध्यानाध्ययननिर्मुक्तो निमित्ताभिरतः सदा॥१२३॥



परधर्मो भयावहः

विवर्जितः शुभैर्धर्मैरपापगमनाय सः।

स्वधर्म यः परित्यज्य परधर्मेषु रज्यते॥१२४॥



धर्मद्वयपरिभ्रष्टो विनिपाताय कल्पते।

स्वगृहं यः परित्यज्य परवेश्यानि तिष्ठति॥१२५॥



सदाऽयं लाघवं याति निधनं चाशु गच्छति।

तथा यो विमतिर्भूतो विद्वन्मानी जनेच्छया॥१२६॥



स्वधर्मविरतिं कृत्वा परधर्मेषु वर्तते।

अधर्मे चाशयस्तस्य परलिङ्गोपजीविनः॥।१२७॥



तृणविद्याभिलिप्तोऽयं प्रेतः पापेषु पच्यते।

यशोऽन्तं पदमास्थाय पापकर्मणि वर्तते॥१२८॥



नासौ भिक्षुरिहोच्यते

शश्वत् स पतितो दृष्टः शासनान्तात् प्रवर्तते।

निस्पृहः कामचर्यासु निरामोदः प्रवर्जितः॥

आरब्धवीर्यः सन्तुष्टो ध्यायी भिक्षुरिहोच्यते॥१२९॥



न च कामेषु संसक्तो नित्याहारविहारवान्।

काषायसंवृतः क्षौरो नासौ भिक्षुरिहोच्यते॥१३०॥



निमित्तबोधको ( यस्तु) नक्षत्रगतिचिन्तकः।

राजसेवाप्रमत्तश्च न स भिक्षुरिहोच्यते॥१३१॥



वैद्यकर्माणि कुर्वश्च श्रुति सङ्ग्रथनं तथा।

सङ्कीर्णा दिनचर्या च कुर्वन् भिक्षुः प्रणश्यति॥१३२॥



ध्यानाध्ययनविद्वेषी रतः सङ्गणिकासु च।

लोभसत्कारलाभं च कुर्वन् भिक्षुः प्रणश्यति॥१३३॥



सुवर्णधातुसंसक्तो बहुमित्ररतिश्च यः।

अन्यलाभाभिलाषितो भिक्षुः पतति शासनात्॥१३४॥



तपसः सङ्गनिर्मुक्तो न पापगणसेवकः।

सक्तूदकेन सन्तुष्टः स भिक्षुर्निष्ठुरः स्मृतः॥१३५॥



कः शुद्धो भिक्षुः?

आगतान् विषयान् सर्वान् त्यजति ज्वलनोपमान्।

विशुद्धदोषो मणिवच्छुद्धो भिक्षुरिहोच्यते॥१३६॥



अन्तर्बहिर्विशुद्धात्मा ज्ञानादिभिरलङ्कृतः।

श्रद्धया शीलवस्त्रेण क्रियावान् भिक्षुरुच्यते॥१३७॥



लोभधर्मव्यतीतो यः स्थितो मेरुरिवाचलः।

सर्वलोकप्रियः शान्तः पारगो भिक्षुरुच्यते॥१३८॥



त्रिरात्रिवासी कुत्रापि कुशासनविधारकः।

गिरिगह्वरसेवी च विमुक्तो भिक्षुरुच्यते॥१३९॥



पापभीरुरसंस्पर्शी संवृतः च सुसंवृतः।

ज्ञानसेवी स्थिरः शान्त एकाकी भिक्षुरुच्यते॥१४०॥



अचलः प्रियवादी च पापमित्रविवर्जितः।

अशक्तः सर्वकृत्येषु मुक्तो भिक्षुरिहोच्यते॥१४१॥



राजसेवा कुकषायोक्तिसेवा

राजसेवा विगर्ह्यास्ति भिक्षोश्चारण्यवासिनः।

कुकषायोक्तिसेवाऽसौ मृत्युतस्करजीविका॥१४२॥



न हि राजसेवको भिक्षुर्यः सेव्यो देवतैरपि।

न हिंसासवसंसृष्टो महतेऽशुचिसेवकः॥१४३॥



भिक्षोः राजसेवा न शोभते

निर्मलस्य निरामस्य निस्पृहस्य च देहिनः।

संसारभयभीतस्य राजसेवा न शोभते॥१४४॥



वनारण्यश्मशानेषु पल्वलो गिरिभूमिषु।

प्रान्तभूमिषु ग्रामस्य स्थितः भिक्षुः प्रशोभते॥१४५॥



वनारण्यश्मशानेषु भिक्षुर्न राजसेवया।

ध्यानाध्ययननिर्मुक्तः कवलाहारभोजिता।

न भिक्षुरिति विज्ञेयः पिशाचसममानसः॥१४६॥



ध्यानाद्धि विमलं सौख्यं प्रवदन्ति मनीषिणः।

न तत्सुखात्सुखं चान्यदस्ति लोके कथञ्चन॥१४७॥



तदुत्तमध्यानसुखं मुक्त्वा यः पुरुषाधमः।

रसेषु रमते बालस्तेन मूढो विहन्यते॥१४८॥



विषयैर्भ्रामितस्यास्य नित्यं तद्गतचेतसः।

वर्धन्तेऽकुशला धर्माः परलोकापकर्षकाः॥१४९॥



आत्मज्ञो भिक्षुर्निर्वाणमधिगच्छति

आत्मनो यानहीनश्च गुरुपृच्छनकस्तथा।

भिक्षुरुद्युक्तवीर्यश्च निर्वाणमधिगच्छति॥१५०॥



श्रुतं यावद् भवत्येव तावदेव प्रभाषते।

आत्मज्ञो मानहीनश्च भिक्षुर्भवति तत्त्वविद्॥१५१॥



मानापमानहीनो यो मार्गामार्गविचक्षणः।

स्वपरार्थविधिज्ञो यः स तुष्टो भिक्षुरुच्यते॥१५२॥



मानिनः कुतः शान्तिः?

मानिनः क्रूरमनसश्चपलस्याल्पमेधसः।

लाभसत्कारयातस्य कुतः शान्तिर्भविष्यति?॥१५३॥



प्रसन्नाचारयुक्तस्य ज्ञानगोचरसेविनः।

संसारदोषभीतस्य प्रव्रज्या सफला मता॥१५४॥



स्वभावपरभावेषु यस्य बुद्धिर्नमुञ्चति।

न कर्मण्यविपाके च मार्गामार्गे तथैव च॥१५५॥



निवासोपहतो भिक्षुः सुखं न विन्दति

सदाचारवियुक्तस्य सुखदुःखाभयस्य च।

निवासोपहतो भिक्षुर्बालवद् दृश्यते परैः॥१५६॥



तृणवल्लघुतां याति स्वार्थाच्च परिहीयते।

निवासोपहतो भिक्षुः परिहीणवने स्थितः॥१५७॥



ध्यानाध्ययनकृत्येषु मनो नैव प्रवर्तते।

निवासोपहतो भिक्षुर्जनसञ्चयतत्परः॥१५८॥



सञ्चयव्यग्रमनसा जीवितं परिहीयते।

क्षिणोति रेतसं स्वस्य जीवितं नैव गच्छति॥१५९॥



कः दुर्गतिं याति ?

न च विन्दति यत् कृत्वा सुखमन्यत्र भुज्यते।

निवासोपहतो भिक्षुर्जनसञ्चयतत्परः।

पापानि याति नित्यं स तेन गच्छति दुर्गतिम्॥१६०॥



श्रामण्यधर्मस्य महत्त्वम्

अनभिप्रेतमनसो निराशस्य च देहिनः।

सर्वसङ्गविमुक्तस्य श्रामण्यं सफलं मतम्॥१६१॥



गिरिगह्वरवृक्षेषु नित्यं ध्यानविहारिणः।

प्रसीदति शुभं ज्ञानं दौःशील्यपरिवर्जितम्॥१६२॥



केषां सफलं जीवनम्?

सर्वसङ्गविनिर्मुक्तो विषयैर्न च वञ्चितः।

(स) भिक्षु निष्फलो ज्ञेयः शुष्केन्धनमिवानलः॥१६३॥



निर्वाणाभिरतस्य भिक्षोः प्रशंसा

निर्वाणाभिरतो यो हि भीतस्य विभवार्णवात्।

भिक्षुर्भवति शुद्धात्मा न निवासेन कर्हिचित्॥१६४॥



तृष्णा एव अनर्थकरी

लोभमोहेषु ये शक्तास्ते शक्ता तृष्णया सदा।

तृष्णाबन्धनबद्धानां नायं लोको न चापरः॥१६५॥



धर्मज्ञो दुर्गति न लभते

असंशक्ता मतिर्यस्य मिथ्याकर्मसु सर्वदा।

अपक्षपाती धर्मज्ञो न स गच्छति दुर्गतिम्॥१६६॥



कः मुनिरुच्यते?

दोषपङ्केमनो यस्य न लिम्पति कथञ्चन।

एकारामविहारीयो निराशो मुनिरुच्यते॥१६७॥



निर्मुक्तो विमलाचारो निवृत्तमलकल्मषः।

मुक्तो यो विषयैः सर्वैरारण्यो मुनिरुच्यते॥१६८॥



लोकधर्मैर्न निर्वेदं समायाति कथञ्चन।

सुखदुःखसमप्रज्ञो निर्मलो मुनिरुच्यते॥१६९॥



सन्तोषः परमो(धर्मो) नित्यं कामविवर्जितः।

निरामयः कृच्छ्रजीवी शुचिर्मुनिरिहोच्यते॥१७०॥



नयेन्न तेन संश्लेषं यत्र यत्रानुगच्छति।

एकचारी दृढमतिः क्रियावान् मुनिरुच्यते॥१७१॥



शुभाशुभानां सर्वेषां कर्मणां फलतत्त्ववित्।

शुभाशुभपरित्यागी लोकेऽसौ मुनिरुच्यते॥१७२॥



उद्युक्तो दोषनाशाय नित्यकामगतिः स्मृतः।

उदयव्ययतत्त्वज्ञो बुद्धिमान् मुनिरुच्यते॥१७३॥



देशकालविदां श्रेष्ठोऽद्वयवादी जितेन्द्रियः।

संसारभयभीतोऽयं प्रशान्तो मुनिरुच्यते॥१७४॥



कः भिक्षुः निर्वाणमधिगच्छति?

एकारामगतो भिक्षुः संक्षिप्तेन्द्रियपञ्चकः।

देहलक्षणतत्त्वज्ञो निर्वाणमधिगच्छति॥१७५॥



वीर्यवान् ( सत्यवाक्) भिक्षुर्नित्यं दोषविवर्जितः।

उद्यानमिव क्रीडाया निर्वाणमधिगच्छति॥१७६॥



कल्याणधर्मी भव

दग्धे क्लेशे वयं दग्धा वनं दग्धं यथाग्निना।

कल्याणधर्मे संरक्ता न रक्ता कामभोजने॥१७७॥



मायया जनाः वञ्चकाः भवन्ति

नित्यं प्राप्त्युत्सुका ये (हि) नित्यं स्वजनसंरताः।

मायया वञ्चका (ये तु ) मूढास्ते धर्मवर्त्मनि॥१७८॥



शुभकर्मणि मनः कार्यः

रमणीयान्यरण्यानि तत्रैव रमते मनः।

रमन्ते वीतरागास्ते न तु कामगवेषिणः॥१७९॥



स कथाभिरतो यस्तु रतो विषयतृष्णयोः।

न यास्यति पुरं शान्तं यो च मृत्युं न विन्दति॥१८०॥



अद्वयवादी भव

योऽत्यन्तशान्तमनसा नित्यं ध्यानपरायणः।

आदिमध्यान्तकल्याणो नित्यमद्वयगोचरः॥१८१॥



॥इति भिक्षुवर्गस्त्रिंशः॥



करुणा-दान-शीलानि-क्षान्तिर्वीर्यमथापि च।

ध्यानं प्रज्ञाऽथ निर्वाणो मनो भिक्षुश्च ते दश॥



॥इति तृतीयम् उदानम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project