Digital Sanskrit Buddhist Canon

२७. प्रज्ञावर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 27 prajñāvargaḥ
(२७) प्रज्ञावर्गः



प्रज्ञा मातेव हितकारिणी

धर्मानुसारिणी प्रज्ञा वीर्येण परिवृंहिता।

समाधिबलसंयुक्ता मातेव हितकारिणी॥१॥



प्रज्ञा गतिपञ्चकात् त्रायते

सा हि सन्त्रायते सर्वान् पुरुषान् गतिपञ्चकात्।

न माता न पिता तत्र गच्छन्तमनुगच्छति॥२॥



प्रज्ञाशिखरमारुह्य शीलकन्दरशोभनम्।

भवदोषमिदं सर्व पश्यति (ज्ञान) भूषणः॥३॥



समाधिना भवार्णवं तरति

इन्द्रियाणीन्द्रियार्थेभ्यो यदा विन्दन्ति तत्पदम्।

तदा समाधिना ज्ञान भवसागरमुत्तरेत्॥४॥



दान-शील-तपो-ध्यानै-र्ज्ञानमेवाग्रमुच्यते।

अपवर्गाद् यदा ज्ञानं ज्ञानशीले सुखावहे॥५॥



प्रज्ञा अष्टमो मार्गस्तथागतेनोपदिष्टः

चक्षुषां च परा दृष्टा प्रज्ञोक्ता (या)सुनिर्मला।

मार्गाणां चाष्टमो मार्गः शिवः प्रोक्तस्तथागतैः॥६॥



प्रज्ञाबलं सर्वोत्तमम्

चतुर्णा चैव सत्यानामग्रे द्वे तु प्रकीर्तिते।

बालानां च सदा दृष्टं प्रज्ञाबलमिहोत्तमम्॥७॥



जन्मपद्वतिर्ज्ञानशस्त्रेण छेत्तव्या

ज्ञानशस्त्रेण तिक्ष्णेन लता छेद्या दुरासदा।

हन्तव्या दोषनिवहाश्छेत्तव्या जन्मपद्धतिः॥८॥



न ज्ञानात्परो बन्धुः

अमृतानां परं ज्ञानं श्रेयसां निधिरुत्तमम्।

न ज्ञानाच्च परं बन्धुर्न ज्ञानाद्‍धनमुत्तमम्॥९॥



ज्ञानशीलयुता प्रज्ञा सेवितव्या

ज्ञानशीलयुतावृद्धा वीतरागा गतस्पृहाः।

सेवितव्याः सदा सन्तस्तत्त्वमार्गनिदर्शकाः॥१०॥



क्लेशादीन् प्रज्ञाशस्त्रेण विदारयेत्

प्रज्ञावज्रेण तीक्ष्णेन महोदयवसेन च।

महायोगरथारूढः क्लेशादीन् प्रविदारयेत्॥११॥



॥इति प्रज्ञावर्गः सप्तविंशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project