Digital Sanskrit Buddhist Canon

२३. शीलवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

23 śīlavargaḥ

(२३) शीलवर्गः



शीलं सूर्य इव शोभते

धनानामुत्तमं शीलं सूर्यो ज्योतिष्मतामिव।

विहाय गच्छति धनं शीलं स्थितमिवाग्रतः॥१॥



शीलेन त्रिदशान् याति ध्यानगोचरमेव वा।

नास्ति शीलसमं ज्योतिरस्मिंल्लोके परत्र च॥२॥



अल्पेन हेतुना स्वर्ग प्राप्नोति स्वर्गकामिकः।

तस्माद् दुश्चरितं हित्वा नित्यं सुचरितो भवेत्॥३॥



चेतनाभावितं दानं शीलं च परिरक्षितम्।

नीयते देवसन्दत्तं पञ्चकामगुणान्वितम्॥४॥



सुरक्षितेन शीलेनैव सुखं प्राप्तुं शक्यते

न माता न पिता नार्था दयिता नापि बान्धवाः।

न सुखा (स्ते) तथा दृष्टा यथा शीलं सुरक्षितम्॥५॥



शीलवान् पुरुषो सुखमवाप्नुते

शीलं त्राणमिहामुत्र शीलं गतिरिहोत्तमम्।

शीलवान् पुरुषो नित्यं सुखात् सुखमवाप्नुते॥६॥



दानशीलसमाचारा ये नरा शुभचारिणः।

ते यान्ति देवसदनं रचिताः स्वेन कर्मणा॥७॥



निधानमव्ययं शीलं शीलसौख्यमतर्कितम्।

शीलाधिका हि पुरुषा नित्यं सुखविहारिणः॥८॥



शीलं रक्षतु मेधावी यथा यानं सुखत्रयम्।

प्रशंसावृत्तलाभं च प्रेत्य स्वर्गे च मोदते॥९॥



शीलवान् निर्वाणं प्राप्नोति

शीलवान् यो हि पुरुषः शीलमेवाति सेवते।

ससुखो निर्वृत्तिं याति यत्र मृत्युर्न विद्यते॥१०॥



अनादिमति संसारे तृष्णामोहादिभिर्वृते।

ज्योतिर्भूत सदाशीलं तस्माच्छीलमनाविलम्॥११॥



शीलं धनमसंहार्य राजचौरोदकादिभिः।

तस्माच्छीलं सदा सेव्यं दौःशील्यं च विगर्हितम्॥१२॥



शीलाभिरतपुरुषः निर्वाणं ह्यन्तिके स्थितम्।

शीलवान् पुरुषो धन्यः शीलवांश्चापि सेव्यते॥१३॥



रविवद् भ्राजते शीलं दौःशील्यं चैव गर्हितम्।

निर्मलं वीतकान्तारं निर्ज्वरं वीतकाङ्क्षि च॥१४॥



शीलप्रशस्तसम्बुद्धैर्निर्वाणपुरगामिकम्।

आयुर्याति ध्रुवं धीमान् नित्यं शीलेनं वृंहितम्॥१५॥



शीलरहिताः पशुभिः समाः

न बिभेन्मृत्युकाले च शीलेन परिरक्षितः।

शीलमाद्यन्तकल्याणं सर्वसौख्यप्रवर्तकम्।

शीलवान् पुरुषो धन्यो दौःशील्याभिरतः पशुः॥१६॥



तीरं नैव समायान्ति पुरुषाः शीलवर्जिताः।

कार्याकार्य न विन्दन्ति तस्माच्छीलं समाचरेत्॥१७॥



शीलवस्त्रेण ये छन्नास्ते छन्नाः पुरुषा मताः।

शीलेन वर्जिता ये तु नग्नास्ते पशुभिः समाः॥१८॥



शीलवान् पुरुषः स्वर्ग गच्छति

शीलवान् पुरुषः स्वगमुद्यानमिव गच्छति।

बन्धुवन्मन्यते तत्र शीलवान् (सु) प्रमागतः॥१९॥



शुचिशीलसमाचाराः शुभधर्मसमन्विताः।

देवलोकोपगास्तेषु जनाः सुकृतकारिणः॥२०॥



शीलेन परिबृंहिता गुणा वर्धन्ते

यो न प्रार्थयते कामान् शीलवान् पुरुषः सदा।

गुणास्तस्य प्रवर्धन्ते शीलेन परिबृंहिताः॥२१॥



शीलं स्वर्गस्य सोपानम्

महार्घमुत्तमं शीलमस्मिंल्लोके परत्र च।

तस्मात् प्रहाय त्रैगुण्यं शीलमेव सदा चरेत्॥२२॥



देवेभ्यो रोचते तद्धि त्राणं शीलं शुभान्वितम्।

भावितं परमं धन्यं परलोकोपगामिकम्॥२३॥



शीलवान् यदि जानीयात् फलं शीलस्य यादृशम्॥२४॥



शस्त्रं सुतीक्ष्णमादाय वाणं छिन्द्यादिहात्मनः।

अस्त्रोपमस्य निन्द्यस्य अभिसौख्यसमन्वितम्॥२५॥



शीलस्य फलं सुगतेन प्रदर्शितम्

फलं शीलस्य विमलं सुगतेन प्रदर्शितम्।

आदौ शस्तं तथा मध्ये निधने शस्तमेव तत्॥२६॥



फलं शीलस्य विपुलं सुखात् सुखमुत्तमम्।

शीलचर्या परं सौख्यं धनचर्या न तादृशी॥२७॥



नरा धनेन हीयन्ते शीलेन न कथञ्चन।

शोचते पुरुषस्तेन पृथक् वा तद्विराजते॥२८॥



शुभं तस्मान्मुनिवरैः प्रशस्तं सार्वगामिकम्।

उद्यानमिव गच्छन्ति पुरुषाः शुभचारिणः।

देवलोकसमं तेषां सौख्यानामाकरं (परम्)॥२९॥



स्वर्गगमनार्थ शीलं समाचरेत्

सुशीलितस्य शीलस्य भक्षितस्याप्यनेकशः।

फलं विपच्यते स्वर्गस्तस्माच्छीलं समाचरेत्॥३०॥



शीलं स्वर्गस्य सोपानमाकरं सुखनिर्वृते।

शीलवर्जी हि पुरुषो न क्वचित् सुखमेधते॥३१॥



शीलवान् असंख्यानि सौख्यानि लभते

शीलाम्भसा प्रसन्नेन विप्रकीर्णेन सर्वदा।

स्नात्वा गच्छन्ति पुरुषा देवलोके च निर्वृते।

यद्दिव्यमाल्याभरणैर्दिव्यैः सौख्यैः समन्विताः॥३२॥



रमते देवभवने तत् सर्व शुभहेतुकम्।

असंख्यानि च सौख्यानि वर्धमानानि सर्वदा॥३३॥



लभते पुरुषः सर्व यः शीलमनुवर्तते।

शुभचारी सदा सत्यः पूज्यते सोऽपराजितः॥३४॥



अनेकसौख्यदायकं शीलमाचरणीयम्

शुभेन शोभते मर्त्यः पूज्यते राजभिः सदा।

शुभेन शोभते मर्त्यस्तस्माच्छीलं समाचरेत्॥३५॥



अनेकसौख्यजनकं सर्वमाश्वासकारकम्।

शीलं सुचरितं कार्य दुष्कृतं च विवर्जयेत्॥३६॥



ये दानशीलकर्त्तारः स्वर्गतद्‍गतमानसाः।

तेषां सकल्मषं शीलं विषमिश्रं यथौदनम्॥३७॥



नानाविधस्य शीलस्य रक्षितस्याप्यनेकशः।

शुभकार्यविपाकाय देवेषु परिपच्यते॥३८॥



शीलाम्भसा प्रसन्नेषु सङ्कीर्णेषु च सर्वदा।

स्नात्वा गच्छन्ति मनुजा देवांश्चात्यन्तिकं सुखम्॥३९॥



दानशीलाः सदा दान्ताः सर्वभूतहिते रताः।

ज्ञानयुक्ता मैत्रचिता गतास्ते देवसम्मितिम्॥४०॥



हतदोषाः क्रियावन्तः शीलरत्नेन भूषिताः।

सर्वसत्त्वदयावन्तः सुरलोकेषु ते बुधाः॥४१॥



विशुद्धकाञ्चनप्रख्या निर्ध्मातमलकल्मषाः।

सम्यक् कर्म सुसंलग्ना देवलोकेषु ते बुधाः॥४२॥



सर्वसत्त्वदयावन्तः सर्वसत्त्वहितैषिणः।

सर्वपापविरक्ता ये तेषां वासः सुरालये॥४३॥



अहन्यहनि ये शीलं रक्षन्ति सुपरीक्षकाः।

अहन्यहनि तेषां हि सुखं भवति नैकशः॥४४॥



शीलवाजिनमारूढा देवभवनं प्रयान्ति

शीलवाजिनमारूढाः पुरुषास्तत्त्वचिन्तकाः।

प्रयान्ति देवभवनं क्रीडायुक्तमनेकशः॥४५॥



या क्रीडा देवभवने यच्च सौख्यमनुत्तमम्।

तत् समग्रस्य शीलस्य फलमुक्तं तथागतैः॥४६॥



देवसुखं शीलजमेव

यद्दिव्यमाल्याभरणा दिव्याम्बरविभूषिताः।

क्रीडन्ति विबुधाः सर्वे तत्सर्व शुभहेतुकम्॥४७॥



पद्मोत्पलवने रम्ये वनोपवनभूषिते।

स्वर्गे रमन्ति ये देवास्तत् सर्व शुभजं फलम्॥४८॥



यदाकाश इवातस्थुर्दिव्यरत्नविभूषिताः।

विराजन्तेऽमला देवास्तच्छीलस्य महत् फलम्॥४९॥



यत्काननेषु रम्येषु चित्रेषु पुष्पितेषु च।

रमन्ति गिरिपृष्ठेषु सुरास्तच्छीलजं फलम्॥५०॥



स्वगृहं हि यथा मर्त्याः प्रविशन्ति गतव्यथाः।

तथा शीलसमाचाराः प्रयान्ति त्रिदिवं नराः॥५१॥



एतत् सुजीवितं श्रेष्ठं यच्छीलपरिरक्षणम्।

मरणानां परं मृत्युः यच्छीलपरिवर्जनम्॥५२॥



शीलमनुपमं कार्यम्

एतान् गुणान् सदा मत्वा प्रियत्वमपि चात्मनः।

शीलं सुरक्षितं कार्य दौःशील्यं च विवर्जयेत्॥५३॥



शीलचारी सदा दान्तः क्षमावांश्च सुदर्शनः।

सोपानमिव चारूढं प्रयात्यानन्दसन्निधिम्॥५४॥



शीलेन प्लवभूतेन संसारोत्तरणम्

फलं शीलस्य तु सुखं देवलोकेषु पच्यते।

शीलेन प्लवभूतेन संसारादुत्तरन्ति च॥५५॥



शीलाम्भसा विशुद्धा ये स्वायत्ता धीरचेतसः।

जाम्बूनदमयैः पुष्पैस्तेऽत्रार्चन्ति दिवौकसः॥५६॥



ये नवादातमनसो नित्यं शीलेन भूषिताः।

ते यान्ति देवसदनं यत्र सौख्यमनन्तकम्॥५७॥



सौख्यात् सौख्यतरं यान्ति नराः सुकृतकारिणः।

क्रीडन्ति देवसदने शीलेन परिबृंहिताः॥५८॥



शीलसोपानमारूढाः सुगतिं प्रयान्ति

शीलसोपानमारुह्य ज्ञानेन परिबृंहिताः।

नराः प्रयान्ति सुगतिं ज्ञानेन च परायणा॥५९॥



सुप्रसन्नेन मनसाशीलं यदभिरक्षितम्।

तस्य शीलस्य शीतस्व सुखमेतदुपस्थितम्॥६०॥



शीलस्य परिणामो सुखदायकः

सुरक्षितस्य शीलस्य भावितस्याप्यनेकशः।

परिणामे सुखीभूत्वा निर्वाणं चाधिगच्छति॥६१॥



शीलं रक्षत्युपायेन शीलं नयति सङ्गतिम्।

तस्माच्छीलं सदा रक्ष्यं परिणामोऽस्य शीतलः॥६२॥



मृत्युकाले समुत्पन्ने शीलवानकुतोभयः।

न मे दुर्गतिना त्राणं शीलं हि त्राणमुत्तमम्॥६३॥



कुत्सितशीलस्य कुत्सितः परिणामः

काचाभ्रपटलं यस्य शीलं भवति कुत्सितम्।

स कुत्सितेन शीलेन कुत्सितो जायते नरः॥६४॥



शीलविरहितः मूढो भवति स्वर्गमपि न याति

शीलमूलेन लब्ध्वेदं सुखं स्वर्गेषु देहिभिः।

तृष्णाक्षयो न भवति स पश्चात् परितप्यते॥६५॥



तस्माच्छीलवता नित्यं शीलमेव विशिष्यते।

निःशीलः पुरुषो मूढो न स्वर्गमधिरोहति॥६६॥



पञ्चकामोपमं दिव्यं यदिदं भुज्यते सुखम्।

तच्छीलस्य विशुद्धस्य प्राप्यते हि फलं महत्॥६७॥



यत्तेजः काञ्चनस्यास्य मेरुपर्वतशालिनः।

तच्छीलतेजसस्तेजः कलां नार्हति षोडशीम्॥६८॥



दीप्यमानैः सदा शीलैः निर्धातुकनकत्विषा।

संयुक्तास्त्रिदिवं यान्ति पण्डिता स्वेन कर्मणा॥६९॥



त्रिविधशीलस्य त्रिविधं फलम्

हीनमध्यविशिष्टस्य शीलस्य त्रिविधस्य वै।

फलं हि त्रिविधं दृष्टं हीनमध्योत्तमं तथा॥७०॥



प्रमादरहितं शीलमप्रमादोपबृंहितम्।

नित्यं तत् सुखदं दृष्टं धर्मतेयं व्यवस्थिता॥७१॥



शीलप्रभया सूर्यसहस्त्रस्यादि पराभवः

शीलोद्भवा या विमला प्रभा भवति देहिनाम्।

न सा सूर्यसहस्त्रस्य संयुक्तस्य भविष्यति॥७२॥



शीलं सप्तविधं रम्यं यो रक्षति नरोत्तमः।

स कामं भुञ्जति फलं सुगतेन च देशितम्॥७३॥



शीलचर्या विना स्वर्ग न यान्ति

शीलचर्या समाश्रित्य सम्यग्दर्शनतत्परः।

मर्त्यलोकाद् दिवं यान्ति न कष्टं तपचारिणः॥७४॥



यच्छीलं शीलसंस्पर्श परिणामेऽपि शीतलम्।

निषेवते सदामूढः स पश्चात् परितप्यते॥७५॥



सप्तविधेन शीलेन देवसान्निध्यं प्राप्यते

शीलं सप्तविधं धन्यमविसंवादकं पदम्।

शीलेन रक्षितः पुरुषो देवानामन्तिकं गतः॥७६॥



शीलेन शोभनं फलं मिलति

यथा पक्षैर्दृढैः पक्षी स्वेदच्छत्रं निहन्ति (वै)।

तथा नरो दृढः शीलैर्देवलोकाय कल्प्यते॥७७॥



श्रुतिमात्रं च (तच्छीलं) रम्याद् रम्यतरं च तत्।

लभते पुरुषः कर्ता फलं शीलस्य शोभनम्॥७८॥



दान-शील-तपोरत्नं हृदयैश्च समाश्रितम्।

देवता वा मनुष्यो वा लभते परमं पदम्॥७९॥



अन्तर्बहिश्च निःसाराः पुरुषा धर्मवर्जिताः।

संसारात् फलकाङ्क्षिभ्यः सद्धर्मो न (च) रोचते॥८०॥



अन्तर्बहिश्च ये सारास्ते नरा वस्तुतो दृढाः।

ये धर्मचारिणः शान्ताः परसत्त्वहितैषिणः॥८१॥



अनुत्तरः शीलवतां सुगन्धः

न केतकी चम्पक-पुष्पगन्धा,

तमालके नागरुचश्च गन्धः।

प्रयान्ति गन्धा हिं यथा सुरेण,

अनुत्तरः शीलवतां सुगन्धः॥८२॥



दौःशील्यं सदा वर्ज्यम्

तस्माच्छीलं सदा कार्य दानज्ञानतपोधनैः ।

दौःशील्यं च सदा वर्ज्यविषशस्त्रानलोपनम्॥८३॥



शीलेन एव सुखमवाप्नुते

एवं सुरक्षितं शीलं नरान् नयति सङ्गतिम्।

न हि शीलादृते कश्चित् पदं सुखमवाप्नुते॥८४॥



देवगुणसदृशं शीलं सदाऽऽचरेत्

तस्माद् देवगुणं मत्वा शीलमेव सदाऽऽचरेत्।

न शीलसदृशं किञ्चिदन्यत् त्राणमिहास्ति वै॥८५॥



॥इति शीलवर्गस्त्रयोविंशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project