Digital Sanskrit Buddhist Canon

२२. दानवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

22 dānavargaḥ

(२२) दानवर्गः



शुद्धाशुद्धदानपरिभाषा



गुणद्वादशसंयुक्तं मलैर्द्वादशभिर्विना।

दानं भवति शुद्धं तद् विपरीतं सकल्मषम्॥१॥



दानरहिता एव पुरुषाधमाः

देवानामथ (वा) नृणां धनस्य बलमुत्तमम्।

दानेन रहिता पादे पतन्ति पुरुषाधमाः॥२॥



लोभमात्सर्यमलिनाः पुत्रदारवशानुगाः।

मनुजा निधनं यान्ति केवलाहारकांक्षिणः॥३॥



लोभग्रन्थिविमोक्षाय याञ्चावृक्षक्षयाय च।

तमोनिचयनाशाय प्रदानमिह दीयते॥४॥



दाता परलोकं गच्छति

अघतां चरते दानं दातापि तदनन्तरम्।

मार्गसन्दर्शवद् दानं परलोकं समृच्छति॥५॥



दानाम्भसि नराः स्नात्वा शीलोर्मिपरिभाविते।

ज्ञानविस्तीर्ण(विमलं) पारं दुःखस्य यान्ति वै॥६॥



दोषनाशकाः त्रयो दीपाः

पुरुषेण त्रयो दीपाः प्रज्वाल्या हितमिच्छता।

दानं शीलं तथा ज्ञानमेते दोषविनाशकाः॥७॥



तृष्णाविवर्णा दुर्गन्धिवितर्कोर्मिझषाकुले।

दुःखार्णवे प्लुता ह्येते ज्ञानशीलेषु रक्षिताः॥८॥



क्लेशस्य भेषजं दानं, शीलं, ज्ञानम्

क्लेशव्याधिनिहन्तारस्त्रयो वै भेषजाः स्मृताः।

दानं शीलं तथा ज्ञानमेते नित्यं सुखावहाः॥९॥



प्रमादविषमं (चित्तं) संकल्पकुटिलं लघु।

वध्यते बन्धनैरेतैस्त्रिभिर्ज्ञानादिभिर्नृणाम्॥१०॥



दोषाग्निभिः (सदा) प्लुष्टो यैरिदं दह्यते तदा।

दानादिज्ञानयोगेन हत्वा गच्छति निर्वृतिम्॥११॥



न दान-ज्ञान शीलेषु येषां सम्मिश्रिता मतिः।

ते नित्यदुःखिताः सत्त्वाः सुखं तेषां न विद्यते॥१२॥



दातारो मात्सर्यमलवर्जिता भवन्ति

अदानव्रीडितसुखाश्चित्तदोषेण वञ्चिताः।

भवन्ति विबुधाः हित्वा तस्माद् दानपरो भवेत्॥१३॥



दानोत्कर्षक्रमैर्युक्ताः मात्सर्यमलवर्जिताः।

भवन्ति हृष्टमनसो देवाः क्रीडापरायणाः॥१४॥



क्षुत्पिपासामयो वह्निर्य प्रधानं प्रधावति।

मात्सर्य वै फलं सर्व तदुक्तं तत्त्वबुद्धिभिः॥१५॥



दानप्रशंसा

यो ददाति सुखं तस्य नीयते जायते सुखम्।

सुखं भवति दानाद्धि तस्माद् दानं प्रशस्यते॥१६॥



लोकालोककरं दानं गच्छन्तमनुगच्छति।

गतं च मन्त्रदानेन युज्यते भद्रवत्सलैः॥१७॥



अविसंवादकं स्थानमेतदुक्तं तथागतैः।

अविसंवादकत्वाच्च नित्यं दानपरो भवेत्॥१८॥



दानी भवार्णवं तरति

मात्सर्यारिं विनिर्जित्य कृत्वा चित्तं शुभान्वितम्।

ये प्रयच्छन्ति दानानि ते तरन्ति भवार्णवम्॥१९॥



क्षयैस्तु त्रिविधैर्दानं त्रिषुकारं त्रिधाऽर्जितम्।

तस्य क्षतान्वितस्यैवं फलं दृष्टं त्रिचक्षुषा॥२०॥



कः मार्गः सुखावहः?

दानमादौ सदा देयं शीलं लभ्यं प्रयत्नतः।

तृष्णा ज्ञानेन हन्तव्या मार्ग एष सुखावहः॥२१॥



अनित्या पापिका तृष्णा लोकस्याहितकारिका।

न शक्यं तद्विना श्रेयः प्राप्तुं पदमनुत्तमम्॥२२॥



अदानस्य परिणामः

अदाने न मनः कार्य नित्यं दानरतो भवेत्।

अदानात् क्षुत्पिपासाभ्यां दह्यते प्रेतभूमिषु॥२३॥



दानेन शीलरक्षा सदा कार्या

राजा भवति दानेन चक्रवर्ती सुधार्मिकः।

दानभूमिं समाश्रित्य शीलं रक्षन्ति पण्डिताः॥२४॥



शीलवानपि कालज्ञोऽज्ञानाद् (वै) परिमुच्यते।

दुःखनैर्याणिको मार्गः शस्तोऽयं मुनिपुंगवैः॥२५॥



तं विदित्वा महावीरो नित्यं दानरतो भवेत्।

अदा(ना)दपि देवेषु देवा हि न सुखा मताः॥२६॥



दानी यत्र कुत्रापि वसन् सुखी भवति

आजन्मविपिने मर्त्या भवन्ति सुखभागिनः।

दानस्य तत्फलं सर्वचेतनाभावितस्य हि॥२७॥



तिर्यक्ष्वपि समुत्पन्ना भवन्ति सुखभागिनः।

तत्सर्व दानजं सौख्यं कथयन्ति मनीषिणः॥२८॥



यत् प्रेताः प्रेतभवने भवत्याकारभोजिनः।

स्वयं कृतस्य दानस्य फलं भवति तादृशम्॥२९॥



दानविरहितस्य दुर्दशा भवति

(न)दद्यात् क्षुत्पिपासे च दह्यन्ते येन देहिनः।

सर्वदा न तपस्ताभ्यां फलं भवति शीतलम्॥३०॥



प्रमादी मृत्युसमये दाहं प्राप्नोति

पूर्व प्रमादचारी यो न दानादिषु वर्तते।

स पश्चान्मृत्युसमये दह्यते स्वेन चेतसा॥३१॥



दानस्य फलम्

प्रियो भवति दानेन चेतसामपि तुष्यति।

पश्चाद् भवति स श्रीमान् दानस्य फलमीदृशम्॥३२॥



यत्र दानादि चित्तस्यास्त्युपभोगाय सर्वदा।

तत्र निर्धनतैषा वा दयया परिरक्षितम्॥३३॥



यद् भुज्यते सदा चित्तं गुरुभ्यश्चापि दीयते।

यद् वनं शोभनं दृष्टं विपरीतं यथा तृणम्॥३४॥



दुर्बलानां सदार्तानां सत्त्वानां चक्षुरन्वितम्।

दानं निःकल्पसंयन्त्रमस्मिंल्लोके परत्र च॥३५॥



मनुष्यभूमौ दानस्य फलम्

मनुष्यभूमौ दानानि दत्त्वा यान्ति शुभां गतिम्।

न देवा दानपतयः फलभूमिरसौ मता॥३६॥



कर्ममाहात्म्यम्

कर्मभूमिर्मनुष्याणां फलभूमिः सुरालयः।

कर्मायत्तं फलं सर्व न फलं स्यादहेतुकम्॥३७॥



को मृतैः समः?

ध्यानाध्ययननिर्मुक्तो दानशीलविवर्जितः।

सुवर्णकंकणैर्युक्तो जीवन्नपि मृतैः समः॥३८॥



स जीवति हि लोकेऽस्मिन् यो धर्ममनुवर्तते।

धर्ममूढः सदा मूढो जीवन्नपि मृतैः समः॥३९॥



अज्ञानी तु बालिश एव

मनुष्यचर्मणा छन्नस्तिर्यग् भवति बालिशः।

यस्य ज्ञानप्रदीपेन हृदयं नावभासितम्॥४०॥



भवत्येतावता पुरुषः यः शीलमनुवर्तते।

शीलभ्रष्टः पुमान् सर्वश्चाभिस्तुत्योऽपराक्रमः॥४१॥



दानहीनः प्रेतविग्रहवान्

दानहीनः प्रमादी (च) पापचारी चलेन्द्रियः।

नासौ मर्त्य इति ज्ञेयः प्रेतो विग्रहवानयम्॥४२॥



ज्ञानेन हीनो मृत एव

ज्ञानशीलविनिर्मुक्तो दानरत्नविवर्जितः।

जीवमानोऽपि पुरुषो मृत इत्यभिधीयते॥४३॥



को देवः?

दानशीलतपोध्यानाद् वीर्यस्मृतिसमाधिमान्।

पुरुषः पुरुषैरेजे देवैरपि स वन्द्यते॥४४॥



गुणवांस्तु नरो वन्द्यः निर्गुणः पशुभिः समः।

गुणागुणविधिज्ञो यः स देव इति कथ्यते॥४५॥



केषां सफलं जीवनम्?

सुजीवितं भवेत्तस्य यस्य त्यागे स्थितं मनः।

नहि त्यागविनिर्मुक्तं जीवितं जीवनं मतम्॥४६॥



दानं नित्यं सुखावहम्

पञ्चगत्युपपन्नानां सत्त्वानां स्वेन कर्मणा।

मातृवत् पितृवद् दृष्टं दानं नित्यं सुखावहम्॥४७॥



दानरता भवसङ्कटान्मुच्यन्ते

एतां भूमिमवस्थाप्य सत्त्वो दानरतो भवेत्।

दानशीलरता नित्यं मुच्यन्ते भवसङ्कटात्॥४८॥



॥इति दानवर्गो द्वाविंशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project