Digital Sanskrit Buddhist Canon

२०. कौसीद्यवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

20 kausīdyavargaḥ

२०) कौसीद्यवर्गः



कौसीद्येन ज्ञानहानिः

कौसीद्यमतिमाया च दम्भः पारुष्यमेव च।

नियातभूमयो दृष्टा ज्ञानस्य च विवर्जनम्॥१॥



संश्लेषश्चाप्यसाधूनां साधूनां वर्जनं तथा।

नाशस्य हेतवः शक्ता मिथ्यादर्शनमेव च॥२॥



अदेशकालसंरंभो वाच्यावाच्यमजानतः।

अनर्थभूमयो ह्येता विस्रम्भश्चापि तन्मयः॥३॥



अनर्थभूमयः

येन तेन च सम्प्रीतिः यत्र तत्र च भोजनम्।

लाघवं जनयत्यन्तेऽप्रशंसा चात्मनस्तथा॥४॥



धैर्यनाशः स्मृतिभ्रंशो विरोधः पार्थिवेन च।

अक्रान्तमृत्यवो ह्येते क्रूरता मनसि स्थिता॥५॥



अकर्माफलतत्त्वज्ञो धर्माधर्मवहिष्कृतः।

पुरुषः साधुनिर्मुक्तः प्रपातगमनाशयः॥६॥



कौसीद्यमतिनिद्रा च रसना गृह्यते तथा।

पुंद्वेषयोनयः प्रोक्ताः पारुष्यवचनं तथा॥७॥



लोभोऽपमानस्य कारणम्

अतिलोभोऽपमानश्च अतिमानश्च चापलम्।

धर्मवर्ज्या कामसेवा मोहस्य परिदीपिकाः॥८॥



दोषाणां मूलं कौसीद्यम्

त्रयाणामिह दोषाणां कौसीद्यं मूलमुच्यते।

वीर्यारम्भेण दुष्यन्ते दोषा मनसि सम्भवाः॥९॥



वीर्यारम्भेण हि फलं ह्यवश्यमुपभुज्यते।

न्यायेनारब्धतत्त्वस्य कर्मणो दृश्यते फलम्॥१०॥



कर्मणस्त्रिविधस्यास्य फलं त्रिविधमुच्यते।

त्रिराशिनियतं तच्च त्रिशूलं त्रिभवानुगम्॥११॥



कौसीद्यसेविनो दुर्गतिः

पापसेवी प्रचण्डो यः कौसीद्यमपि सेवते।

धर्मविद्वेषकः क्रूरोऽनुत्पथानुपधावति॥१२॥



यस्य तस्य च सन्तुष्टो यस्य तस्य प्रकुप्यति।

यत्र तत्र च संसक्तो स मूढ इति कथ्यते॥१३॥



कौसीद्यं (यत्) स्वमनसः प्रमादविषमूर्च्छितम्।

प्रपातं तं च संरब्धमविसंवादकं परम्॥१४॥



वीर्यारम्भे महापापकौसीद्यमलवर्जिताः।

विमुक्तेरुपभोक्तारस्ते जनाः सुखभागिनः॥१५॥



कौसीद्यं सर्वधर्माणामजरामरकारकम्।

तेन दोषेण महता नरा दुःखस्य भागिनः॥१६॥



सहायश्च सुखावेशी तस्मात् तत् परिवर्जयेत्।

तेन विद्धो हि पुरुषः स्वधिस्तुत्यः समन्ततः॥१७॥



कुसीदस्याल्पभागस्य मोहापहृतचेतसः।

कुत्सितः स्वजनैः सर्वैर्न गतिर्विद्यते शिवा॥१८॥



कौसीद्यरतः पापीभवति

कौसीद्यपापसंसर्गीस्त्यानमिद्धं तथैव च।

मोक्षद्वारविघाताय भवन्त्येते महाभयाः॥१९॥



दुःखस्यैतानि हर्म्याणि

आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता।

दुःखस्यैतानि हर्म्याणि तेभ्यो रक्षेन्नु पण्डितः॥२०॥



कौसीद्येनाभिभूता ये निरारम्भा गतित्विषः।

सोच्छ्वासमरणं तेषां जीवितं चापि निष्फलम्॥२१॥



जीवमाना न जीवन्ति कौसीद्योपहता नराः।

मृत्योरत्यधिकं ह्येतत् कौसीद्यमिति मन्यते॥२२॥



आरब्धवीर्या एव भवसागरं तरन्ति

कौसीद्यपङ्कमग्ना ये मग्नास्ते दुःखसंस्तरे।

आरब्धवीर्या ये पुंसस्ते तीर्णा भवसागरात्॥२३॥



कौसीद्यान्मन्दवीर्यो यः सदा पापरतश्च यः।

स जीवमानोऽपि मृतो मृतस्तु नरकाय सः॥२४॥



मानवानां निर्धनत्वे कौसीद्यं कारणम्

निर्धनाः पशुभिस्तुल्यास्ते नरा दुःखभागिनः।

परपिण्डाशिनो दीनाः कौसीद्यं तत्र कारणम्॥२५॥



प्रायशस्तु कुसीदानां परदारोपजीविनाम्।

रताभिलाषोऽत्यधिको मैथुने च सदा रतिः॥२६॥



ते तत्त्वकारिका रिक्ताः केवलाहारतत्पराः।

मृत्युकाले समुत्पन्ने दह्यन्ते स्वेन चेतसा॥२७॥



शीतोष्णं च सहन्त्येते क्षुत्पिपासे तथैव च।

गात्रान्ता च क्रिया कार्या यात्रा धर्माय सर्वदा॥२८॥



अतः कौसीद्ये न मतिः कार्या

न कौसीद्ये मतिं कुर्यात् कुशीले शीलकामुकः।

संसारे सीदति नित्यं न च दुःखात् प्रमुच्यते॥२९॥



कुदीदान्वितः लोकवञ्चितो भवति

परिभूय सतां मध्ये कुसीदाल्लोकवञ्चितः।

वञ्चितश्च भवत्यन्ते शर्मणो वा विमुच्यते॥३०॥



धर्मेण विमुक्तिर्भवति

वीर्यवान् स्मृतिसंलब्ध एकान्तनिरतः सदा।

विमुक्तपापकैधर्मैर्मोक्षं प्राप्नोति यत्नतः॥३१॥



कुकर्मेषु मतिः न कार्या

एवंविधा दुःखपरम्परा हि,

सत्त्वः कुकर्मेषु (मतिं) न कुर्यात्।

लोके त्रिदोषानलसम्प्रदीप्ते,

कुर्यात् परां शान्तिकृपा मृते न॥३२॥



॥इति कौसीद्यवर्गो विंशः॥



चित्तञ्च वाक् तथा कर्म संयोजनन्तु पापकम्।

नरक-प्रेत-तिर्यक्-क्षुत्-कौसीद्यानि विदुर्दश॥



॥इति द्वितीयम् उदानम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project