Digital Sanskrit Buddhist Canon

१९. क्षधावर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 19 kṣadhāvargaḥ
(१९) क्षधावर्गः



क्षुधापीडिता नरा अशुभं कुर्वन्ति

संसारे प्रायशो दुःखं त्रैधातुकक्षुधामयम्।

येनेमे पीडिताः सत्त्वाः कुर्वन्त्यशुभमात्मनः॥१॥



स्वदेहे युक्तितो वह्निर्बुभुक्षेत्यधीयते।

शेषो दहति लोकान् वै कल्पानल इव द्रुमान्॥२॥



लोकोत्तरमिमं वह्निं गच्छन्तमनुगच्छति।

नात्मनिर्वाणसन्दृष्टं कल्पान्तरशतैरपि॥३॥



नाऽनलस्य हि तद्वीर्य क्षुधाया यादृशं बलम्।

त्रैधातुकमिदं कृत्स्नमाहारं प्रति वर्तते॥४॥



मोहयेद् विविधा चिन्ता लोके मनुजसम्भवाः।

ताः सर्वा भोजनार्थाय भवन्ति त्रिभवार्णवे॥५॥



दुःखमनिर्वचनीयम्

अन्तराभवसंस्थस्य कृष्यमाणस्य कर्मभिः।

दीर्घागमस्य यद् दुःखं न तद् वर्णयितुं क्षमम्॥६॥



अविद्‍येन्धनमग्नस्य दह्यमानस्य चोष्मणा।

गर्भस्थस्य हि यद् दुःख न तद् वर्णयितुं क्षमम्॥७॥



आहाररसगृद्धस्य नित्यं तद्गतचेतसः।

यद् दुःखं परगृद्धस्य न च वर्णयितुं क्षमम्॥८॥



दृढा विदग्धमनसः कामे वा तप्तचेतसः।

यद् भवत्यधिकं दुःखं न तद् वर्णयितुं क्षमम्॥९॥



अप्रियैः सह संसर्गो विषयास्तस्य नित्यशः।

प्रणष्टे हृदि यद् दुःखं न तद् वर्णयितुं क्षमम्॥१०॥



तृष्णाविषविदग्धस्य नित्यं पर्येषणात्मकम्।

आमृत्यु यद् भवे दुःखं न तद् वर्णयितुं क्षमम्॥११॥



अव्युच्छिन्नं बहुविधं यद् दुःखं पापमित्रजम्।

अपायजनकं यस्य न तद् वर्णयितुं क्षमम्॥१२॥



व्यसनं पुत्रदाराणां यद् दृष्ट्(वा) हृदि जायते।

नरकाणां महामार्गो न तद् वर्णयितुं क्षमम्॥१३॥



क्षुत्पिपासाविदग्धस्य दीप्यमानस्य वह्निना।

यद् दुःखं नष्टमनसो न तद् वर्णयितुं क्षमम्॥१४॥



अजस्त्रं परिभूतस्य मित्रज्ञातिसुहृज्जनैः।

यद् भवेच्छोकजं दुःखं न तद् वर्णयितुं क्षमम्॥१५॥



दारप्रलम्बनगतं दुश्चलं प्रियचेतसः।

यद् दुःखं जीर्णकायस्य न तद् वर्णयितुं क्षमम्॥१६॥



मृत्युना ह्रियमाणस्य तस्मांल्लोकात्मनो रसात्।

यद् दुःखं जायते वृत्तौ न तद् वर्णयितुं क्षमम्॥१७॥



दानैरशुभनाशः

यत् कुर्वन्त्यशुभं बाला यच्च गच्छति दुर्गतिम्।

तदाहरति दानेन कथयन्ति मनीषिणः॥१८॥



अतः सुकृतेषु मनः कार्यम्

प्रतिदुष्कृतकर्माणि वर्जनीयानि सर्वदा।

सुकृतेषु मनः कार्य दानशीलविभूषितम्॥१९॥



॥इति क्षुधावर्ग एकोनविंशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project