Digital Sanskrit Buddhist Canon

१८. तिर्यग्वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 18 tiryagvargaḥ
१८) तिर्यग्वर्गः

परद्रोहं कदापि न कुर्यात्



भक्षणं भवदन्योन्यवधबन्धावरोधनम्।

तिर्यग्योनिं समासाद्य तस्माद् द्रोहं विवर्जयेत्॥१॥



मोहोपहतचित्ताश्च शीलदानविवर्जिताः।

तिर्यग्योनौ व जायन्ते बालास्तृष्णाविडम्बिताः॥२॥



गम्यागम्यं न विन्दन्ति भक्ष्याभक्ष्यं तथैव च।

कार्याकार्यबहिर्भूता धर्माधर्मतिरस्कृताः॥३॥



पञ्चेन्द्रियजरामूढास्तृष्णापाशवशानुगाः।

क्रोधेर्ष्यामतिसंग्रस्तास्तिर्यग्योन्युपगा नराः॥४॥



पर्येष्ट्‍युपहता मर्त्याः प्रमादोपहताः सुराः।

क्षुत्तर्षव्यसनाः प्रेताः कारणात्ते च नारकाः॥५॥



के तिर्यग्योनिपरायणाः?

परस्परबधात्युक्तास्तिर्यग्योनिपरायणाः

एवं बहुविधैस्तैस्तैर्व्यसनैराकुलं जगत्॥६॥



मात्सर्योपहतो दुष्कृत न कुर्यात्

न कुर्याद दुष्कृतं कर्म मात्सर्योपहतः परम्।

मात्सर्योपहता यान्ति प्रेतास्तिर्यक्षु जन्तवः॥७॥



केषां सफलं जन्म?

तेषां हि सफलं जन्म तेषां बुद्धिरवञ्चिता।

ते च पूज्याः सदा सद्भिर्येषां धर्मे सदा मतिः॥८॥



ज्ञानरथावरूढैर्मुक्तिर्भवति

एवं त्रिदोषाकृतकर्मसारं

जगद् भ्रमत्येव दुरावगाधम्।

करोति यस्तस्य च शुद्धसत्त्वोऽ-

वमाननां ज्ञानरथावरूढः॥९॥



॥इति तिर्यग्वर्गोऽष्टादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project