Digital Sanskrit Buddhist Canon

१६. नरकवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 16 narakavargaḥ
(१६) नरकवर्गः



अष्टौ नरकाग्नयः

कृत्वा दुष्कृतकर्माणि सत्त्वा विषमजीविनः।

या गतिः प्रेत्य गच्छन्ती तानपायान् (हि मे) शृणु॥१॥



सञ्जीवं कामसूत्रं च सम्पातं द्वौ च रौरवौ।

तमोपरं महाचित्रपतनं च प्रतापनम्॥२॥



इत्येते नरका अष्टावाख्याता दुरतिक्रमाः।

रौद्रकर्माभिसङ्कीर्णाः प्रत्येकं क्षोभदा (मताः)॥३॥



नरकाग्नीनां भयानकत्वम्

चतुःस्कन्धाश्चतुर्द्वारा विभक्ता भागशो मिताः।

अयः प्राकारपर्यन्ता अयसा प्रतिदुःखिताः॥४॥



तप्तायोमयसं भूमिर्ज्वलन्ती तेजसोद्गता।

अनेकयोजनशतं दहति स्वचिंषा (भृशम्)॥५॥



कन्दर्पदमना घोरा अर्चिष्मन्तो दुरासदाः।

रोमहर्षणरूपास्तेऽप्याहुर्दुःखा भयानकाः॥६॥



नरके पतिता भृशं तप्यन्ते



एते पतन्ति नरके ऊर्ध्वपादा अवाङ्मुखाः।

ऋषीणामतिवक्तारः संयतानां तपस्विनाम्॥७॥



ते पुनस्तत्र पच्यन्ते तप्ताम्भसि कृता इव।

क्रन्दमाना दिवारात्रौ, नगा वातेरिता इव॥८॥



प्रणदन्ति महानादं तीव्रदुःखैः प्रतापिताः।

सर्वा दिशश्च धावन्ति नारकैः पुरुषैर्द्रुताः॥९॥



कुदृष्ट्या मोहयित्वार्थे मोहपाशावृतो जनः।

प्राप्नोति नरकं घोरं कारणोदधिसंवृतः॥१०॥



कुदृष्ट्या दग्धसर्वस्वो मनुष्यः पुरुषाधमः।

तथा बद्धोऽस्ति नरके मानिनां घोरकारणम्॥११॥



ये मिथ्यावशमापन्नाः पुरुषा मन्दमेधसः।

ते सर्वे नरकं यान्ति चित्तैर्हि परिवञ्चिताः॥१२॥



कुकृतफलम्

यस्त्वया दुष्कृतं पूर्व कृतं चित्तानुवर्तिना।

तस्य भुङ्क्तफलं मूढ विपाकोत्तम (माप्स्यसि)॥१३॥



हार्याणि परिचित्तानि, संसेव्याः परयोषितः।

ह्रस्वा (हि) जन्तवो नित्यं स्वचित्तपरिवञ्चिताः॥१४॥



तस्य कर्मविपाकस्य वश एव त्वमागतः।

किं क्रन्दसि स्वयं कृत्वा कुकर्म पुरुषाधम!॥१५॥



ये नराः कुकृतं कृत्वा पञ्चत्वं यान्त्यमेधसः।

येषां तु निष्फलं जन्म बीजमुप्तं यथोषरे॥१६॥



अल्पमाधुर्यसंयुक्तान् कामान् कटुविपाकिनः।

सेवते यस्त्वसौ मूढः स याति तमसो तमः॥१७॥



किं कृतं मूढ भवता पुत्रदारसुखार्थिना।

दहस्ये नरके चैकः स्वकर्मफलवञ्चितः॥१८॥



केषां दुष्करं जीवनम्?

यः पुत्रदारवशगः सेवते दुष्करं नरः।

स याति नरकत्वं (च) पापं तदनुभूयते॥१९॥



न दारा न सुता नार्थ न मित्राणि कथञ्चन।

मृत्युकाले समुत्पन्ने रक्षन्ति समुपस्थिताः॥२०॥



येषां सांक्लेशिकं चित्तं तृष्णया परिवञ्चितम्।

सहायता कुतस्तेषां कस्मात् (त्वं) परितप्यसे?॥२१॥



हृतोऽसि पूर्वविषयैस्तृष्णया परिवञ्चितः।

किं क्रन्दसि स्वयं कृत्वा कुकृतं मूढचेतनः॥२२॥



न तथाग्निर्न शस्त्राणि न विषं नारयः स्थिताः।

बाधते पुरुषं लोके यथा दुष्कृत्यमात्मजम्॥२३॥



पक्षिणां नीडवासवत् भवचक्रम्

दिग्भागे हि यथा गत्वा संश्रयन्ते वनस्पतीन्।

विहगाः कालमुत्थाय तथा प्राणिसमागमः॥२४॥



नाशयित्वा परं द्रव्यं कृत्वा लोकव्यतिक्रमं।

किं करोत्यशुभं कर्म मोहेन परिवञ्चितः॥२५॥



येन याति परां शान्तिं येन यात्यसुरालयम्।

तत्र हेतुः परं मोहस्तमसामपि यत् तमः॥२६॥



कुटुम्बाय कृतं पापं नरके पातयति

पुत्रदारमयैः पाशैश्चानीता नरकालयम्।

यदर्थ क्रियते पापं युष्माभिश्चित्तवञ्चितैः॥२७॥



मित्राणि पुत्राः (पितरौ किं ) बन्धुजन-बान्धवाः।

येषामर्थे कृतं पापं भवद्भिर्मन्दबुद्धिभिः॥२८॥



नूनमात्मा न ते कान्तो बभूव नरभूमिषु।

येन त्वया कृतं पापं पुत्रार्थेन नराधमः॥२९॥



येन पूर्वकृतं पापं पश्चान्न परितप्यते।

स याति नरकं घोरं पुत्रकारणवञ्चितः॥३०॥



पापकर्म-फलम्

किं करिष्यन्ति पुत्रास्ते किं दाराः किं च बान्धवाः।

दहस्यनादिनरके वह्निः कर्म दुनोत्यसौ॥३१॥



स्वयं कृत्वाऽशुभं कर्मासुखोदयमनिन्दितः।

तप्यसेऽपि वृथाधानः पश्चान्मोहेन वञ्चिकः॥३२॥



रागद्वेषानुगाः पापं मोहेन परिवञ्चिताः।

अघं प्रयान्ति ते सर्वे पुत्रदारसुखार्थिनः॥३३॥



अन्तर्गतेन च पुनर्बहिःस्थेन च वह्निना।

दह्यमानो(हि)दुःखेन नरके पापकर्मणा॥३४॥



वशं प्राप्ताः स्वचित्तस्य सर्व एव विडम्बिताः।

किं क्रन्दसि वृथा नादे वह्निना परितापितः॥३५॥



पापानुगफलं दृष्टम्

अथ पापानि कर्माणि कृतवानसि मन्यसे।

दुर्मते तत्र मा क्रन्द किं वृथा परिदेवसे॥३६॥



पापेषु रक्ष्यते मूढः कारणाशुचि रक्ष्यते।

पापानुगफलं दृष्टं हेतुप्रत्ययसम्भवम्॥३७॥



कस्मान्न सेवितो धर्मः पापञ्च नहि वर्जितम्।

पापाद् बहिश्च पुरुषो नरकं नैव पश्यति॥३८॥



यो न विन्दन्ति मूढात्मा फलं पापस्य कर्त्तृकम्।

सोऽवश्यं लभते दोषान् कथं भोक्ष्यसि दुर्मते॥३९॥



पापेन वञ्चित पूर्वं पापेन परिदह्यते।

न करिष्यसि पापानि त्वदुःखेनैव यास्यसि॥४०॥



कृतवानसि पापानि शुभानि न कथञ्चन।

पापेन दह्यते तस्मादशुभे न मनः कृथाः॥४१॥



किं दुःखादपि दुःखम्?

नास्ति दुःखादतो दुःखं यः पापमनुसेवते।

तस्मात् पापं न सेवेत यदि दुःखं न वाञ्छसि॥४२॥



कुटुम्बिजनानां स्पष्टोक्तिः

तस्यान्तर्हृदये बिम्बं किन्तु शान्तिर्न विद्यते।

कारुण्यास्पदभूताः स्मो नास्माकं करुणाहृदि॥४३॥



यथा कृतं भवद्भिश्च पापं मोहावृतैर्बहु।

तद् वः प्रधावते गाढं न च ये तत्र हेतवः॥४४॥



शीलं न रक्षितं मूढ पापं च बहु सञ्चितम्।

सम्भूतस्य च पापस्य फलमेतदुपस्थितम्॥४५॥



न वयं कारणं तत्र यूयमेव हि कारणम्।

यः पापं कुरुते कर्म स हेतुस्तस्य कर्मणः॥४६॥



भवद्भिर्यत् कृतं पापं तृष्णाशापविडम्बितैः।

तद् वो प्रपद्यते घोरं किमस्मान् परिभाषत॥४७॥



नाकृतं पच्यते पापं न पापं स्यादहेतुकम्।

येन यद्धि कृतं पापं तस्य तत् परिपच्यते॥४८॥



पापी नरकं याति

तद् भवन्तः क्रियाहीना मद्यपानेन वञ्चिताः।

पतिता नरके तीव्रे किं वृथा परितप्यथ॥४९॥



ते यूयं कामपरमाः घोरं नरकमागताः।

कारणेष्वपि तीव्रेषु किं तथा परितप्यथ॥५०॥



यदा कृतानि पापानि भवद्भिः काममोहितैः।

तदा कस्मान्न निकृष्टं किमद्य परितप्यथ॥५१॥



हेतुभूतो हि नरको मृषावादस्य देशितः।

हेतुर्वै सेवितं पूर्व निष्फलं परिदेवथ॥५२॥



नार्थेन लभते सत्यं न कृच्छ्रेणोपपद्यते।

तस्मात् सत्यं परित्यज्य मृषावादेषु रज्यसे॥५३॥



पूर्वेषु पापमहितं भवता मूढचेतसा।

कृतं भवद्भिः कुकृतं (दुष्कृत्यं ) परिपच्यते॥५४॥



पापक्षयाद् विनिर्मुक्तो नरकं नोपलभ्यते।

नाक्रन्दमानाः पुरुषाः विमुच्यन्ते कथञ्चन॥५५॥



पापकर्तृ फलं स्वयमेव भुङ्‍क्ते

किं क्रन्दथ वृथा मूढा वञ्चिताः स्वेन कर्मणा।

मुञ्चिता वञ्चिता बाला वृथा क्रन्दन्त्यबुद्धयः॥५६॥



अहितैर्हितरूपैस्त्वं मित्ररूपैश्च शत्रुभिः।

विप्रलब्धोऽसि भो मर्त्य! गच्छन्नसि महत् तमः॥५७॥



नान्यः शत्रुर्यथा कर्म दुष्कृतं तव पापकम्।

कर्मणा त्रिविधेनाऽथ नीयसे यमसाधनम्॥५८॥



कस्मादसि ततो मूढ, वञ्चितः पुत्रसंज्ञकैः।

न दानादिषु बुद्धिस्तैः कृता (ते) मोहवञ्चिता॥५९॥



अस्मांल्लोकात्परं लोकं शत्रुपृष्ठोरगो यथा।

शत्रूणां प्रथमः शत्रुः सर्वपापनिदर्शकः॥६०॥



विषाग्निशस्त्रप्रतिम! स्वयं हि दुष्कृतं कृतम्।

त्वया कृतानि कर्माणि त्वमेवमनुभोक्ष्यसे॥६१॥



यस्य शान्तं सदा चित्तं विषयैर्यो न हन्यते।

न ह्यवस्थामिमां यान्ति तथात्वमनुपश्यसि॥६२॥



नरकस्य ध्वनिं श्रुत्वा कथं क्रन्दसि दुर्मते!।

किं पुनर्यत्र वह्निस्त्वां धक्ष्यति शुष्ककाष्ठवत्॥६३॥



न दग्धा वह्निना ये च दग्धास्ते कुकृतैः स्वकैः।

वह्निस्तु शाम्यते क्वापि दुष्कृताग्निर्न शाम्यति॥६४॥



नाग्निर्निर्याति लोकान्तं नाग्निस्पृष्टो नरो (मृतः)।

कुकृताग्निमयं पापं यद् धक्ष्यति हि तत्त्वतः॥६५॥



कुकृताग्निविदग्धा ये ते दग्धा नरके नराः।

पापाग्निवर्जिता ये तु न तेषां नरकोदयः।

यद्यात्मनः प्रियो नित्यं विभेषि नरकाद् यदि॥६६॥



विवर्जय स्वपापानि ततो दुःखं न यास्यसि।

यान्ति पापमये नित्यं(नरा) मोहवशानुगाः॥६७॥



प्राप्नोषि नरकं घोरं किमश्रूणि विमुञ्चसि ?।

दुःखं दुःखविपाकं च दुःखान्तगमनं तथा॥६८॥



सुकृतं नादिमध्यान्तशोभनं परिपच्यते।

नात्र लोके त्वयाऽपापं यत्कृतं सुकृतं (मुहुः)॥६९॥



तस्य तीव्रविपाकस्य फलमद्योपभोक्ष्यसे।

हेतुप्रत्ययसादृश्यं विपरीतं न कल्प्यते॥७०॥



हेतुः कृतो यथा पूर्व तथा फलमवाप्स्यसि।

यथा तव तथाऽन्येषां प्राणरक्षा प्रयत्नतः॥७१॥



कस्मात् प्राणातिपातास्ते कृताः पापानुवर्तिना।

प्राणत्यागेन पुरुषैर्यद् धनं समुपार्जितम्॥७२॥



कर्मोदयकृतं तत्ते यत्त्वया समुपार्जितम्।

सर्वेषां दयिता दाराः प्राणेभ्योऽपि गरीयसः॥७३॥



तत्त्वया रागरक्तेन कस्मादपकृताऽवनात्।

बुद्धेर्व्यामोहजनकं धर्माणां दूषणं परम्॥७४॥



धर्मपानं त्वया कार्य कर्मानुपरिवर्जितम्।

जिह्वाविषसमुत्थं यत् सर्वाप्रत्ययकारकम्॥७५॥



मृषावादं त्वया पापं कर्माऽनुपरिवर्जितम्।

एवं पञ्च-विधेयेषु यस्मात् त्वमनुरक्तवान्॥७६॥



तस्मात् संमुक्ष्य मा रोदि किं वृथा परिदेवसे।

विषयं पापका धर्मा यस्मान्नु परिवञ्चितः॥७७॥



तस्मात् प्राप्नोषि नरकं ज्वालामालाकुलं महत्।

एतत् तृष्णाग्निना सर्व प्रदीप्तं भुवनत्रयम्॥७८॥



धर्माचरणे सावहितेन भवितव्यम्

दृष्ट्वा नाचरितो धर्मः किमद्य परितप्यसे।

(श्रुत्वा) ते मधुरं चित्तं काममन्दिरकं वचः॥७९॥



उदीरिते महापापे तस्मै तत्फलमागतम्।

स कृत्वा पापकं कर्म नियता पापवेदना॥८०॥



करुणं विकलं दीनं किमद्य परितप्यसे।

कर्मक्षयेण नरकात् मुच्यन्ते पापकारिणः॥८१॥



विक्रोशमग्ना बहुशो न मुच्यन्ते कथञ्चन।

अनिष्टं पापकं कर्म कृत्वा रोगवशे स्थिताः॥८२॥



अज्ञानिनोऽशुभमाचरन्ति

परिदेवति यो मूढो वृथा स परिदेवति।

अनागतफलज्ञो यः प्रत्युत्पन्नशुभे रतः॥८३॥



क्रोशते नरके नासौ यथा त्वमनुतप्यसे।

मया कृतानि कर्माणि फलदानि ममैव हि॥८४॥



रोगेण शत्रुणा दग्धः पश्चान्नरकमागतः।

प्रमादभूमिरशुभा रागदग्धस्य देहिनः॥८५॥



तेन पाशेन बद्धोऽहं गतोऽवस्थामिमां भृशम्।

दुराचाररतानां तु नृणामस्य फलं कटु॥८६॥



अज्ञानबाधितोऽस्मीति स्वकृतं भुज्यते मया।

निर्दयानां सुघोराणां पापानां वशमागतः॥८७॥



मुक्तिः कथं स्यात्?

मुक्तिरस्मात् कथं स्याद्वै दुःखसंसारसागरात्।

दुःखाद् दुःखतरं कर्म मयेदं परिपच्यते॥८८॥



सुखावाप्तिं न पश्यामि क्षेमं वा नरकस्य मे।

जीवलोकादहं भ्रष्टो अबुद्ध इव मार्गतः॥८९॥



जीवोऽयं विवशो भूत्वा विकृतैः परिवारितः।

ज्वालामालाकुलं सर्वमन्तरिक्षं निरन्तरम्॥९०॥



दिशश्च त्रिदिशश्चैव पृथि(वी) च निरन्तरा।

कृपणोऽज्ञानगो दुःखी निवासं नोपलक्षये॥९१॥



क्षुरधारावितप्तस्य नृपस्यास्यातिभीषणम्।

कान्तारे बाह्यमानस्य निः सहायस्य सर्वतः।

त्रातारं नावगच्छामि योऽस्माद् दुःखात् प्रमोचयेत्॥९२॥



निःशक्तिरवशो दुःखी वह्निना परितापितः।

नीयेऽहं विवशः क्वापि बाहुबन्धनयन्त्रितः॥९३॥



न वाऽर्था नापि मित्राणि न पुत्रा न च योषितः।

त्रायन्ते व्यसनादस्मात् कृतघ्ना बत ते मम॥९४॥



अधर्मचारिणो न क्वापि शरणम्

निरानन्दस्य न सुखं दुःखं (गृह्णामि सर्वशः)।

मृत्युपाशेन बद्धस्य शरणं नोपलक्ष्यते॥९५॥



संक्रुद्धा इव ते, क्रूरा भविष्यन्ति समन्ततः।

निरानन्दा दिशः सर्वा व्यालैश्च परिवारिता॥९६॥



नरकं पातकस्यैव पतेयं धृतिभावतः।

यच्च यच्चेहं पश्यामि जङ्गमं स्थावरं तथा।

तत् सर्व व्याकुलं चैव वह्निना परिदीपितम्॥९७॥



नाधिगच्छामि शरणं निःसहायोऽस्मि सर्वतः।

घोरे तमसि मज्जासि सागरे च हृतप्लवः॥९८॥



गगनं नैव पश्यामि नक्षत्रग्रहतारकम्।

विपरीतमिदं सर्व तमसा परिवारितम्॥९९॥



पञ्चेन्द्रियाणि सर्वाणि विरतानि हि सर्वतः।

क्रकचैस्तु तदा सर्व शरीरं परिपाटयते॥१००॥



नाधिगच्छामि शरणं कामं बन्धो भविष्यति।

वर्धन्ते दुःखनिकरा सर्वतः परिवारतः॥१०१॥



मुहुर्मुहुश्च वर्धन्ते वेदनाञ्चितदेहजाः।

दुःखैश्च (परिवर्धन्ते) निस्सहायं च सर्वतः॥१०२॥



समीक्ष्य कर्मजं नित्यं ध्येयो हेतुः पुनः पुनः।

कथयन्ति सुखं वृद्धाः स्वकर्मफलजैर्दृढम्॥१०३॥



यत् पूर्व करणीयं ते तत्पश्चात् परिचिन्त्यसे।

मोहेन वञ्चितः पूर्वं किमद्य परितप्यसे।

किं पुनः पापकर्त्तुर्यः कटुकं परिपच्यते॥१०४॥



अनेकदुःखहेतूत्थं तव दुःखं भविष्यति।

त्राणं नैव (च) यत्रास्ति विना कर्मपरिक्षयात्॥१०५॥



एवं सत्यस्य नाशेन यमदूतैरनेकशः।

नीयते नरकं घोरं कर्मपाशवशङ्गतः॥१०६॥



चतुष्कोणश्चतुर्द्वारो विभक्तो भागशो मितः।

पच्यते यत्र विवशा नारकेया ह्यनेकशः॥१०७॥



भेदप्रायेण बहुशो यत्त्वया कथितं बहु।

कल्मषं भूतधर्माणां तस्यैतत् फलमागतम्॥१०८॥



पैशुन्यसेविनो नरकं यान्ति

भस्मीभवन्ति ते नित्यं मित्रस्वजनबान्धवैः।

एषामभिमतं दुष्टं पैशुन्यं सद्विगर्हितम्॥१०९॥



तस्मान्न चरितो धर्मः पैशुन्यं च न वर्जितम्।

पैशुन्यं सफलं भुक्त्वा किमद्य परितप्यसे॥११०॥



जिह्वाधनविनिर्मुक्तं तीक्ष्णं विषममुच्छ्रितम्।

पारुष्यमिति सन्दृष्टमहो! तत्फलमीदृशम्॥१११॥



सत्त्वं पारुष्यपरमं घोरं नरकमागतम्।

जिह्वायातं तवाकृत्यै किमद्य परिदेवसे॥११२॥



सहस्त्रगुणपर्यन्तः स्वतो हृदयसम्भवः।

क्षुत्पिपासामयो वह्निः समादहति मारुतम्॥११३॥



परुषवाचो नरकस्य चान्तरम्

यदन्तरं हिमाग्न्योर्हि मेरुसर्षपयोश्च यत्।

तदन्तरं जिह्वयोक्त्या नरके ज्वलनस्य च॥११४॥



नरकप्रभवो वह्निर्न क्वाऽप्यन्यत्र प्राप्यते।

क्षुत्पिपासामयो वह्निर्देवेष्वप्युपलभ्यते॥११५॥



यो ह्यतः कारणात्तीक्ष्णो वह्निर्भवति नारकः।

न तथा स प्रभवति यथा वह्निस्तदुद्भवः॥११६॥



पूर्वोत्तरा बद्धपदं निरर्थकमसङ्गतम्।

विस्त्रब्ध यत्त्वया प्रोक्तं तस्यैतत्फलमागतम्॥११७॥



परेषां सम्पदं दृष्ट्वा मम स्यादिति चिन्तितम्।

तमोऽभिख्यासमुत्थस्य विषस्य फलमागतम्॥११८॥



व्यापारानलदग्धोऽसि मानुष्यं पुरुषाधम!।

दहनाद् दहनं प्राप्तो तप्यसे च विकत्थ्यसे॥११९॥



व्यापारपरमोहे तु नरकायोपपत्तये।

रज्ज्वैतयैव बद्धोऽसि पुरुषः परिक्रन्दसे॥१२०॥



व्यापादेनाकृष्टोऽसि घोरं नरकमागतः।

कर्मक्षयाद् भवेन्मोक्षो नरकाच्च विमोक्ष्यसे॥१२१॥



अधर्मकथनं दहत्येव

अधर्मो धर्मरूपेण साधुरूपेण पापकम्।

यत् त्वया कथितं पूर्व तत् त्वां दहति नानलः॥१२२॥



कथं तत्त्वविनष्टानां धर्माधर्मनिच्छताम्।

देशितं विवरं पापं नियतं पापगामिकम्॥१२३॥



(यस्)त्वया वर्जितो धर्मः साधवश्चापि निन्दिताः।

यत्त्वयोपार्जितं कृष्टं तत्त्वयाऽद्य विपच्यते॥१२४॥



तृष्णाविषययुक्तेन मोहवेगेन सर्वदा।

यतः सधर्मविनयैः किं तथा परिदेवसे॥१२५॥



स भवेत् पापकृन्नित्यं मोहपाशवशङ्गतः।

कि तप्यसे रोदिषि च कर्म कृत्वा सुदारुणम्॥१२६॥



हेतुप्रत्ययमूढस्य धर्माधर्मेषु सर्वदा।

प्राप्तोऽसि नरकं घोरं नारकाग्रं सुदारुणम्॥१२७॥



कामवशानुगा नरकं यान्ति

कामैः क्रमति संयुक्तैर्यन्न भवति चेष्टितम्।

सुकृतं कर्मविरसं फलमेतदुपस्थितम्॥१२८॥



क्षपयित्वा प्रमादेन सुखासक्तेन चेतसा।

सुकृत नरकं यान्ति देवाः कामवशानुगाः॥१२९॥



आर्यापवादका नरकं यान्ति

आर्यापवादका ये च ये च कर्मफलद्विषः।

ते मृत्वा नरकं यान्ति ये च मिथ्याविनीतकाः॥१३०॥



धर्मवञ्चका एव नरकगामिनः

जननीगृहपापीया ये चान्ये धर्मवञ्चकाः।

तेषामिष्टकरा लोके नरकस्य च गामिनः॥१३१॥



पापरता दुःखमनुभवन्ति

ये चान्ये सुखसंसक्ता नित्यं पापरता नराः।

दुःखाद् दुःखं तु ते यान्ति चित्तेन परिवञ्चिताः॥१३२॥



अवद्यकार्याणि नरके पातयन्ति

तस्मादवद्यकार्ये न मतिं (कुर्यात् कथञ्चन)।

हीनान्यवद्यकार्याणि नरके पातयन्ति च॥१३३॥



अतः कुशलकर्माणि कर्त्तव्यानि

(कर्माणि) कुर्यात् कुशलानि नित्यं

परार्थबद्धेन मनोरथेन।

(हितः सदैवं नरकस्य रोधी)।

सेव्योऽपवर्गो दशधर्म एषः॥१३४॥



॥इति नरकवर्गः षोडशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project