Digital Sanskrit Buddhist Canon

१५. पापवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

15 pāpavargaḥ

(१५) पापवर्गः



पापफलस्य अज्ञाता परितापं लभते

क्रियमाणस्य पापस्य विज्ञेयं कटुकं फलम्।

यो न जानाति मूढात्मा पश्चात् स परितप्यते॥१॥



(फलं च) लभते पुरुषः सर्वपापस्य कर्मणः।

तस्मात् पापं न सेवेत यदीच्छेत् सुखमात्मनः॥२॥



अल्पादपि महाघोरात् नरकात् पापचेतसः।

मुक्त्यर्थ (तानि) पापानि भूयो मोहवशं गताः॥३॥



न विश्वसेद्धि पापस्या(ल्पतां) नरकगामिकाम्।

अल्पेन वह्निना शैले दहयन्ते सर्वतो द्रुमाः॥४॥



नास्ति पापसमो शत्रुः

पापेन नरकं याति पापेन परिदह्यते।

पापेन नैति निर्वाणं नास्ति पापसमो रिपुः॥५॥



पापाचारो हि पुरुषो न क्वचित् सुखमेधते।

(पापं) तस्मान्न सेवेत यदीच्छेत् सुखमात्मनः॥६॥



साधुकारं च साधूनां पापमार्गस्य दुष्करम्।

कुर्वन्तः पापकान् सत्त्वा मोदन्ते (लघुचेतसः)॥७॥



विपाककटुकः पश्चात् परितापोऽल्पचेतसः।

कुतोऽपचितगात्रस्य कर्मणो दृश्यते फलम्॥८॥



तस्मात् पापं न कुर्वीत कष्टा पापस्य वेदना।

पापं पापविपाकं च पापिनां पच्यते ध्रुवम्॥९॥



न हि पापं न पापस्य तस्मात् पापं विवर्जयेत्।

परिवर्जितपापस्य न पापाद् भयमस्ति हि॥१०॥



स्वकृतं बाधते पापं परीक्ष्यं नैव भुज्यते।

कल्याणस्य फलं साधु कष्टं पापस्य पच्यते॥११॥



कृत्वा तु पुरुषः पापं कल्याणं नानुसेवते।

न शस्त्राग्निप्रपातेभ्यो दुःखं स्यात् तादृशं नृणाम्॥१२॥



यथा निषेवितं मिथ्यापापं पापेषु कल्प्यते।

विनिवर्जितपापस्य नित्यं च शुभचेतसः॥१३॥



शान्तस्य भिक्षोर्निर्वाणं नातिदूरम्

(देहिनो) शान्तवक्त्रस्य निर्वाणं नातिदूरतः।

तीव्रात् तीव्रतरं यान्ति नराः कुकृतकारिणः॥१४॥



सुखात् सुखतरं यान्ति नराः सुकृतकारिणः।

न हि तीव्रस्य पापस्य सुखं फलमवाप्यते॥१५॥



सुखस्य वा फल तीव्रं विपरीतं न पच्यते।

अनादिमति संसारे सुकृतानां फलं सुखम्॥१६॥



कर्मणां सुकृतानां च तथा दुःखफलं स्मृतम्।

पापं पापानुगं दृष्टं शुभस्य च शुभं तथा॥१७॥



पापी नरकेषुपपद्यते

पापाचारः शुभद्वेषी नरकेषूपपद्यते।

परिवर्जितपापस्य नित्यं च शुभचेतसः॥१८॥



हस्तावलम्बि निर्वाणमदृष्टं तदनाविलम्।

आदिमध्यान्तकल्याणा धर्मा नित्यं सुखोदयाः॥१९॥



तस्मात् पापं विवर्जयेत्

आदिमध्यान्तकटुकं फलं पापस्य कर्मणः।

तस्मात् पापं सदा वर्ज्यमालम्ब्यञ्च शुभं सदा॥२०॥



परिवर्जितपापस्य नित्यं सुखमवस्थितम्।

अनादिमति संसारे दग्धाः पापैः पुनर्नराः।

खेदं कस्मान्न गच्छन्ति बाला मोहवशानुगाः॥२१॥



आपातमधुरं पापं परिणामेऽग्निसन्निभम्।

पापकारी तु पुरुषः सर्वलोके विगर्हितः।

शुभकारी सदा शान्तस्तस्मात् पापं विवर्जयेत्॥२२॥



धीरैस्तत्त्वनिदर्शकैः पापविवर्जनम्

अनिष्टमहितं दृष्टं विपाके कटुवेदनम्।

पापं पापविपाकं च तस्माद् धीमान् विवर्जयेत्॥२३॥



अस्ति पापं ध्रुवं पापे पापमस्ति न पातकम्।

पापाचेष्टा क्षयापेक्षा कृपा चित्तसुगामिता॥२४॥



पापं पापाश्रितं नित्यं धर्मो धर्माश्रितस्तथा।

उन्नयत्युक्तमेतद्धि धीरैस्तत्त्वनिदर्शकैः॥२५॥



पापविरहिताः परमं सुखं प्राप्नुवन्ति

अचेतना ध्रुवं बाला येषां दुश्चरितं प्रियम्।

विनिवर्जितपापास्तु गच्छन्ति परमां गतिम्॥२६॥



अतीव वञ्चनाघोरा नियता पापगामिनी।

मानुष्यं दुर्लभं प्राप्य यस्य पापं प्रियं बहु॥२७॥



शुभाशुभफलयोः परिणामभेदः

पापाद् विरज्यते यस्तु शुभे वाऽतीव रज्यते।

स सुखात् सुखमाप्नोति निवृत्तिं वा प्रयाति हि॥२८॥



नरो भवति धन्योऽयं यः शुभान्युपसेवते।

स त्वधन्यतमो लोके यः पापमुपसेवते॥२९॥



आदिमध्यान्तनिधनं सद्भिरेव विगर्हितम्।

पापं पापानुगं दृष्टं नरकायोपकल्प्यते॥३०॥



शुभकर्मा सुखमाप्नोति देवलोकं च गच्छति

अतीव शोभते लोके शुभकर्मा जितेन्द्रियः।

कायस्य भेदात् सततं देवलोके स जायते॥३१॥



पापस्य परिणामः सुदारुणः

दुष्कृतस्यानुबद्धं हि दुष्कृतं फलमुच्यते

सुकृतस्य तथा दृष्टं फलं सुखविपाकजम्।

बीजस्याशुविभीतस्य परिणामः सुदारुणः॥३२॥



निमित्तं सदृशं दृष्टं फलं पापस्य कर्मणः।

पापेनाकृष्यते जन्तुः दुर्गतौ बडिशैरिव॥३३॥



बडिशैर्मुच्यते मीनः पापं पापान्न मुच्यते।

दिन पीडापि पापस्य सर्वथा दुःखकारिका॥३४॥



अमेध्यस्य यथा गन्धः प्रतिकूलो हि देहिनाम्।

शुभस्य वासना रम्या विप्रणष्टस्य दुर्गतौ॥३५॥



विलेषु वासनं यद्वत् पुष्पे नष्टे प्रदृश्यते।

चलत्ययं पापकारी नित्यं कामवशानुगः॥३६॥



के शुभचारिणः?

आलस्यानृतिको नित्यं नासौ कल्याणमर्हति।

अनन्ता रजनी तेषां (येषां) पापे स्थितं मनः॥३७॥



प्रभातं रजनी तेषां येषां पापे स्थिरा मतिः।

अनीर्ष्यकाः सकल्याणाः पुरुषाः शुभचारिणः॥३८॥



अल्पपापी सुखमाप्नुते

ये न पापात्मनो भूतास्ते नित्यं कोटचारिणः।

अल्पभारा यथा नावा प्लवते न निमज्जति॥३९॥



पापीमित्रेण दुःखं भवति

तथाल्पपापपुरुषः प्लवते न निमज्जति।

न पापमित्रसंसर्गात् पुरुषः सुखवान् भवेत्॥४०॥



पापमित्रं समासाद्य सर्वानलपरो भवेत्।

कर्मारम्भ विधिज्ञो यो नित्यं सूक्ष्मार्थ (दर्शकः)॥४१॥



नासौ लिम्पति पापेन पङ्केन गगनं यथा।

अश्रुतं पुरुषः शृण्वन् श्रुतञ्चापि भवेद् दृढम्॥४२॥



पण्डितलक्षणम्

पापं च वर्जयेद् धीमान् प्रेत्य देवेषु जायते।

गुणदोषपरिज्ञानम्मेतत् पण्डितलक्षणम्॥४३॥



मूढलक्षणम्

गुणदोषापरिज्ञानमेतन्मूढस्य लक्षणम्।

गुणेषु गुणसञ्चारो दोषेषु च तथैव च॥४४॥



मूढामूढयोर्लक्षणम्

सदोषगुणतत्त्वज्ञो नित्यं भवति शोकभाक्।

पापकर्त्ता (तु) पुरुषः शत्रुवच्चात्मनः स्थितः॥४५॥



शुभकर्त्ता तथा पुंसो मित्रवत् प्रतिपद्यते।

तमोनिरयभूमिष्वमृतोऽयं प्रतिपद्यते॥४६॥



यस्य पापरता बुद्धिर्नित्यं विषयतत्परा।

विषयारामचपला नित्यं रागानुचारिणी॥४७॥



यस्य बुद्धिर्न धर्मेषु नरस्य दुःखभागिनः।

हेतुतश्च महादुःखान्तहेतोर्वह्निसंयुतात्॥४८॥



क्षीणपापा वयं सर्वे भूयो लोकमिहागताः।

सुकृतस्य फलं साधु ह्यनेकगुणमण्डितम्॥४९॥



दुष्कृतस्य फलं दुःखं विसंवादकमिष्यते।

ते वयं सुखदुःखाभ्यां भूयाम भवसङ्कटे॥५०॥



कर्मवायुसमुद्भ्रान्ताः समुद्रस्य यथोर्मयः।

कृतं पापेष्वमनसः पापैः रक्षन्ति ये जनाः॥५१॥



ते तस्य हेतोर्नरकं प्रयान्त्यशुभचारिणः।

तस्मात्तु नरकान्मुक्ताः ते गच्छन्ति त्रिविष्टपम्॥५२॥



ते हि दुःखं (न)संस्मृत्य पुनः कामवशानुगाः।

खरीभूतमिदं चित्तं दोलादोलैः सुखासुखैः॥५३॥



वियोगोऽयं परीघातो न च दुःखैर्न विद्यते।

अपारदारसंयुक्त इन्द्रियैः परिवञ्चितः॥५४॥



तृष्णापाशवशगः संसारे भ्रमति

जनो भ्रमति संसारे तृष्णापाशवशानुगः।

नरकात् प्रेतभुवनं तिर्यग्योनिषु प्रेततः॥५५॥



तिर्यग्भ्यो नाकभुवनं नाकाद् भूयो नृजातिषु।

एककर्मपरिभ्रान्तो जगद् भ्रमति चक्रवत्॥५६॥



सर्व दुःखम्

न च खेदवशं यान्ति(ह्यभ्यास) वशमागताः।

रक्षन्ति नाकभुवनं विरज्यन्ते तथा सुखैः॥५७॥



सुखात् सुखपरिभ्रान्ता भ्रमन्ति भ्रमचारिणः।

दुःखं पद्मसहस्राणि पद्मकोटिशतानि च॥५८॥



(तानि) दुःखानि भुङ्क्तानि न च क्लिश्यन्ति बालिशाः।

न सुखं विद्यते लोके सर्वदुःखैः परिप्लुतम्॥५९॥



दुःखस्य हेतुः भवति

उद्वेगं नैव गच्छन्ति प्राणिनो मोहपीडिताः।

दुःखेन खिद्यते बालो दुःखहेतौ च वर्तते॥६०॥



हेतौ शतफलं दृष्टं बीजं प्रति यथा फलैः।

सुखदुःखकशाबद्धाः प्राणिनस्त्रिभवानुगाः॥६१॥



न यान्ति परमं क्षेमं सर्वदुःखविवर्जितम्।

स्मर्यते (हि) यदा दुःखं तदा विध्यति देहिनम्॥६२॥



विस्मृते च पुनर्दुःखे चरन्ति विगतज्वराः।

नारकं तु सदा दुःखं स्मृतं भवति देहिभिः॥६३॥



तदा कृष्णमिदं सौख्यमनुमानेन तिष्ठति।

तदेव विदितं मत्वा जगत् सर्व समन्वितम्॥६४॥



श्रेयसि क्रियतां बुद्धिर्दोषेभ्यो विनिवार्यते।

क्षणाधिकारचपलं जीवितं वेति वर्तते॥६५॥



क्षीयन्ते चापि कर्माणि तस्माच्छ्रेयःपरो भवेत्।

चित्तवेगं मनः सर्व जीवितं वेति वर्तते॥६६॥



अनागताद् दुःखात् ज्ञानी न बिभेति

तस्मान्न जीविकाहेतौ पापं कुर्याद्विचक्षणः।

अनागतस्य दुःखस्य न विभेति महाजनः॥६७॥



येना(स्य) पच्यते पापं मोहपापवशङ्गतम्।

मोहितः पापकैर्धमैरशुभैः शुक्लवर्जितैः॥६८॥



मूढः पापवशाद् नरकं गच्छति

नीयते नरकं मूढो यत्र पापं विपच्यते।

यस्य पापाद् भयं नास्ति स पापं कुरुते बहु॥६९॥



स पापानन्तसन्दग्धः पश्चान्नरकमाप्नुते।

(अपि) सूक्ष्माग्निकणिका यथा दाहाय कल्पते॥७०॥



पापविरहिताः सुखमिच्छन्ति

अन्यैरपि तथा पापैर्नरकं यान्त्यबुद्धयः।

अपापभीरुता तस्मात् कर्तव्या सुखमिच्छता॥७१॥



हिंसा मिथ्यावचोऽब्रह्मचर्य भूयः सुखोदयम्।

आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता॥७२॥



विषाग्निसदृशं पापम्

विषाग्निसदृशा हयेते तेभ्यो रक्षेत् प्रयत्नतः।

दुःखं हि मारधर्मोऽयं सुखं धर्मसमन्ततः॥७३॥



सुखदुःखयोर्लक्षणम्

लक्षणं(सुख) दुःखानां विदुस्तत्त्वविदो जनाः।

सत्यं दानं तथा क्षान्तिः सदा चापापमित्रता।

मैत्री सदाभिभूतेषु प्रस्थानं त्रिदिवस्य (हि)॥७४॥



॥इति पापवर्गः पञ्चदशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project