Digital Sanskrit Buddhist Canon

१४. संयोजनवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

14 saṁyojanavargaḥ

(१४) संयोजनवर्गः

ज्ञानेन निर्वाणाधिगमः

ज्ञानशस्त्रे(ण)तां छित्वा निर्मुक्ता विगतज्वरा।

प्रयान्ति निर्वृत्तिं धन्या यत्र ज्ञान्येव विद्यते॥१॥



सदृशं हि फलं हेतोः कथयन्ति मनीषिणः।

हेतोरसदृशं नैव फलं पचति देहिनाम्॥२॥



हेतुप्रत्ययसम्बद्धजन्मप्रत्ययसङ्गताः।

यथा बद्धा हि संसारे प्रमुच्यन्ते (न)देहिनः॥३॥



परमशान्तेरूपायः

तां विश्लिष्य सुसम्बद्धां गाढां दुर्विषेहां पराम्।

गच्छन्ति परमां शान्ति यत्र दुःखं न विद्यते॥४॥



कर्मणा नियतं जन्तुः कर्मणा परिपच्यते।

सूपगं (ननु) संसारे सुखं नैवोपलभ्यते॥५॥



दुःखे दुःखाभिषक्तानां जन्तूनां मूढचेतसाम्।

सन्मार्गदेशिको नास्ति योऽस्माद् दुःखात् प्रमोचयेत्॥६॥



ये न धर्मपरा नित्यं ये न सत्यपराः सदा।

ये च योनिरता नित्यं तेषां दुःखं न हीयते॥७॥



धर्म इह परत्र च सुखावहः

मातृवत् पितृवच्चैव (मित्रवद्) बन्धुवत् सदा।

धर्मो वै देशितो बुद्धैरिह लोके परत्र च॥८॥



त्रिगत्यवस्थिताः सत्त्वास्त्रिदोषवशमागताः।

त्रिधातुगतिका नित्यं त्रिलोक्यां पतिताः (जनाः)॥९॥



त्रिकर्मोपान्तवशगाः स्त्रीपानादिपराश्च ये।

न भवान्मुक्तिगतिकाः स्युर्भूमौ विचरन्ति ते॥१०॥



केषां दुःखं न विद्यते?

त्रिरत्ने (न) प्रमाद्यन्ति त्रिबोधिवशगाश्च ये।

त्रिदृष्टिवर्जका ये तु तेषां दुःखं न विद्यते॥११॥



त्रिकालस्थितिसंलग्ना विज्वरास्तत्त्वदर्शिनः।

त्रिभागकृतिसन्तुष्टा वीतशोका निवृत्तिगाः॥१२॥



त्रिराशिसमवेता ये त्रिकर्मप्रविचारिणः।

न ते वत्स्यन्ति संसारे वीतदोषा गतज्वराः॥१३॥



मार्गामार्गविधिज्ञा ये भावाभावविचिन्तकाः।

मैत्रीभावविविक्ता ये ते यान्ति परमां गतिम्॥१४॥



नरः कान् भजेत्?

अनाविलेन(मनसा) विप्रसन्नेन (चेतसा)।

सर्वदा धर्मवशगान् धीरान् विप्रान् भजेन्नरः॥१५॥



सत्यमेव प्रपन्ना ये स्मृत्या (हित्वा) मनोमलम्।

भावाभिलाषाद् विरता मुक्ता निःसंशयं हि ते॥१६॥



नित्यं दुःखसुखैर्बद्धा विप्रलब्धा ह्यनेकशः।

नरा निधनतां यान्ति प्राणिनो मोहवञ्चिताः॥१७॥



कैर्दुर्गुणैः स्वर्गो न लभ्यते?

नाह्रीक्यमनपत्राप्यं कौसीद्यं पापमित्रता।

नैतानि नाकबीजानि तेभ्यो रज्येन्न पण्डितः॥१८॥



आह्रीक्यमनपत्राप्यं नित्यं पापानुचारिणः।

नरः प्रपातात् पतति स पश्चात् प्रतिबुध्यते॥१९॥



क्रोधेर्ष्यादिभयग्रस्ताः स्वर्ग न गच्छन्ति

क्रोधेर्ष्यास्त्यानमिद्धं हि त्वश्रद्धं यन्मनस्तथा।

मोहशोकभयग्रस्ता न स्वर्ग प्रभवन्ति ते॥२०॥



अमृतं मद्यपानं च मिथ्यादृष्टिश्च लुब्धता।

कारणानि करणस्य व्यापादक्रूरकर्मता॥२१॥



कुदृष्टेः कुफलम्

अदर्शनं परं श्रेयो न कुदृष्टिः कथञ्चन।

कुदर्शनेन संमूढाः प्रयान्ति नरकं नराः॥२२॥



अहेतुं हेतुमापश्यन्त्य (नित्यं) नित्यवन्नराः।

प्रयान्ति नरकं तीव्रं मिथ्यावादेन वञ्चिताः॥२३॥



कष्टेन तेजसा तेषां मिथ्यादर्शनतत्पराः।

प्रज्ञाभिमानिनो भूता मोहयन्त्यपरान् जनान्॥२४॥



मोहान्धकारगहने पतन्त्येव महार्णवे।

लोके प्रकृतिदुःखेऽस्मिन् हेतुभूता हि ते जनाः॥२५॥



शराणां तापनं क्षेपं कथयन्ति मनीषिणः।

चित्तता या तुदत्यन्ते सर्वतः क्लेशपर्वतः॥२६॥



क्लेशनागाद् विमोक्षो यो यस्य ज्ञानपुरः सरः।

प्राप्यते वीतकै रूपैः पुरुषैस्तत्त्वदर्शिभिः॥२७॥



अन्योऽन्यमतिभिः सर्वा लोकोऽयं विप्रलोभितः।

न याति परमां शान्तिं यत्र मिथ्या न कथ्यते॥२८॥



नरकहेतवः

औद्धत्यपापसंसर्गः कौसीद्यं लुब्धता तथा।

हेतवो नरकस्यैते शीलस्य हि विवर्जनम्॥२९॥



मद्यपानं सदा हिंसा परदाराभिदर्शनम्।

लोभः कूरा मतिश्चैव हेतवो नरकस्य ते॥३०॥



नाशहेतवः

पैशुन्यं पापसंसर्गो मिथ्यादृष्टिरसंयमः।

चापल्यं मनसश्चैव नाशयन्ति नरं सदा॥३१॥



अविद्यया सह पारुष्यैः मिथ्यावागभिमानिता।

न सुखाय भवन्त्येते अस्मिंल्लोके न चापरे॥३२॥



के परिवर्जनीयाः?



यद्यसौ भ्रमति प्रायो लोकेस्मिन् किन्न चापरे।

यद्यसम्भ्रामिते लोके ये च दुःखे निमज्जति॥३३॥



तच्चेष्टितमविद्यायाः कथयन्ति तथागताः।

मिथ्यामानोऽतिमानी च सर्वथा (परिवर्ज्यताम्)।

परिवर्ज्याः सदा ह्येते दुःखवृक्षस्य हेतवः॥३४॥



ज्ञानिनः परमोदारा नित्यं क्लेशवधे रताः।

छित्वा (तद्) बन्धनं सर्व गच्छन्ति पदमच्युतम्।

आदिमध्यान्तकल्याणमस्मिंल्लोके न चापरे॥३५॥



दोषसेवनैः नाशो भवति

दोषाणां सेवनं दृष्टमविद्यासम्प्रवर्तकम्।

वर्जनीयाः सदा क्लेशाः सेव्यं ज्ञानमनुत्तमम्॥३६॥



ज्ञानेन मुक्तिर्भवति

ज्ञानेन मुक्तिर्भवति न च क्लेशैरिहोच्यते।

ज्ञानाग्निना हि दहयन्ते क्लेशकाष्ठा न शेषतः॥३७॥



काममयज्ञानं क्लेशजनकम्

क्लेशैः किमर्थ संरुद्धा जालिनी विष(यै) रता।

पुनः काममयं ज्ञानं चक्षुःपटलबाधकम्॥३८॥



रागनिन्दा

निर्वाणयति सम्बुद्धवाक्यभैषज्यभोजनैः।

सद्धर्मसेनापतिना रागसेना विगर्हिताः॥३९॥



शुभा वाणी प्रयोक्तव्या

उदीरिता शुभा वाणी निश्चेतव्या प्रयत्नतः।

चत्वारो हि विपर्यासा बुद्बुदवच्चकासते।

लोकधर्मास्तथा चाष्टौ नाशयन्त्यखिलं जगत्॥४०॥



ज्ञानप्लवः सन्तरणसमर्थः

जालिनीप्रभवा नद्यो वितर्कशतदुस्तराः।

ज्ञानप्लवं समारुह्य तरन्ति मुनयः शिवाः॥४१॥



केषां मुक्तिर्न विद्यते?

मूढा ये भूतमनसो नराः कामस्य सेविनः।

सदा च पञ्चभिः स्थानैर्मुक्तिस्तेषां न विद्यते॥४२॥



अयोनिशोमनस्कारैर्यो वह्निः समुदीर्यते।

स योनिशोमनस्कारवर्षणैः प्रतिकल्पते॥४३॥



अविद्यासंभवम् अन्धत्वं कथं दूरीभवेत्?

अन्धत्वं चिरकालोत्थमविद्यासम्भवं नृणाम्।

तदल्पकाले जातेन प्रदीपेन न पश्यति॥४४॥



ज्ञानलोकेन त्रयो दोषाः विनश्यन्ति

रागमूढा विपच्यन्ते नरके मन्दमेधसः।

ज्ञानिनस्तु न नश्यन्ति निर्वाणगमना यथा।

त्रयो दो(षा) विनश्यन्ति ज्ञानलोकेन देहिनाम्॥४५॥



तस्मादशेषविज्ञानशीलक्षान्तिरतो भवेत्।

अमूढानां प्रणश्यन्ति त्रयो दोषाः शरीरिणाम्॥४६॥



ज्ञानानलेन मन्दश्च क्लेशेन्धन महात्त्विषः।

व्याधिनिर्मग्नतनवः शय्यावेष्टनगोचराः॥४७॥



यत्र याति परं वेदं मनोमोहमयं फलम्।

यानि दुःखान्यनेकान्यनेका भुज्यते गतिः॥४८॥



पञ्चकैः प्राणिभिनित्यमेतन्मोहस्य चेष्टितम्।

त्रयो वा निर्जिता दोषा यैरिदं दह्यते जगत्॥४९॥



ज्ञानयोगेन सुखं भवति

तमग्निं ज्ञानयोगेन निर्वाप्य सुखितो भवेत्।

तस्माज्ज्ञानाग्निना नित्यं निर्दहेत् क्लेशपर्वतम्।

क्लेशपर्वतदग्धस्य सुखं पदमवस्थितम्॥५०॥



॥इति संयोजनवर्गश्चतुर्दशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project