Digital Sanskrit Buddhist Canon

१३. कर्मवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

13 karmavargaḥ

(१३) कर्मवर्गः



शुभाशुभकर्मणां फलभोगः



शुभानामशुभानां च कर्मणां फलनिश्चयः।

भुज्यते सुकृतं सर्व कर्मबद्धा हि देहिनः॥१॥



(यदङ्‍गी)क्रियते कर्म तत्कृद्भिरनुभूयते।

चित्तमानेन मूढेन तृष्णानगरवासिना॥२॥



स्वयमेव फलं भुङ्‍क्ते

सहायैर्बहुभिः सार्ध कुरुते कर्म दुष्कृतम्।

एकाकी कर्मणस्तस्य फलं भुङ्‍क्ते भवे भवे॥३॥



कर्मणामविसंयोगः सर्वैः स्वजनबान्धवैः।

शुभाशुभं परं लोके गच्छन्तमनुगच्छति॥४॥



यत्र प्रयान्ति पुण्यानि गन्धस्तत्रानुधावति।

तथा शुभाशुभं कर्म गच्छन्तमनुगच्छति।

स्वकर्मफलदायादा प्राणेन कर्मयोजिनः॥५॥



सुकृतैः सुरलोकं गच्छन्ति

सुकृतैः सुरलोकेषु दुष्कृतैश्च तथाप्यधः।

यद्‍दुःखं कर्मफलजं जायते कटुकोदयम्॥६॥



तस्योपमानमसुरं त्रिषु धातुषु जायते।

त्रिदोषजं त्रिचित्तोत्थं त्रिषु धातुषु पच्यते॥७॥



तस्य कर्मविपाकस्य त्रिषु धातुषु लक्ष्यते।

हेतुप्रत्ययसामग्रीसमुत्थं च प्रमेव तत्॥८॥



अन्यकृतकर्मणः फलं नान्यो भुङ्‍क्ते

न ह्यन्येन कृतं पापमन्येन परिपच्यते।

सुकर्मफलदायादः प्राणिनां सर्व एव हि॥९॥



पूर्वोक्तानां त्रिविधानां स्वस्य कृत एव विपाको भवति

कर्मणस्त्रिविधस्यास्य न चाप्यन्यस्य पच्यते।

चत्वारिंशद्विपाकस्य घोरं भवति चेष्टितम्॥१०॥



कर्मफलवर्णनम्

एकः करोति कर्माणि एकश्च फलमश्नुते।

एकस्तरति दुर्गाणि सहायो जायतेऽपरः॥११॥



जलापेक्षी जनो यस्तु कुरुते कर्म दुष्कृतम्।

न जनो जनशतानां भुङ्‍क्ते हि व्यञ्जनं (क्वचित्)॥१२॥



न ह्यन्येन कृतं कर्म सङ्‍क्रामत्यपरस्य तत्।

न मन्येऽनादिनिधनमस्मिंल्लोके न चापरैः॥१३॥



दुःखास्वादं सुखोद्भूतं येन दुश्चरितं कृतम्।

तेन चरति संसारे प्रेरिते कर्मवायुना॥१४॥



कस्य धर्मो वर्धते?

अनपेक्षिततत्त्वस्य व्याकुलीकृतचेतसः।

वर्धते सकलो (धर्मः) धर्मावृतमनोहरः॥१५॥



के नरकं गच्छन्ति?

मनसा वञ्चिताः सत्त्वा मनसा विप्रमोहिताः।

गच्छन्ति नरकं पापास्तमस्तमपरायणाः॥१६॥



तमोवृते हि संसारे दुर्लभं बुद्धशासनम्।

दुःखाद् दुःखतरं यान्ति येभ्यः धर्मो न रोचते॥१७॥



अनादिमति संसारे कर्मजालावृता प्रजा।

जायते भ्रियते चै(व) स्वकर्मफलहेतुना॥१८॥



जायन्ते नरके देवा नारकेयास्तथाविधाः।

मनुष्याः प्रेतविषये नरकं वा प्रयान्ति हि॥१९॥



सुकर्मणैव सुखम्

अन्योन्यप्रभवं दृष्टं दुःखं वा यदि वा सुखम्।

क्लेशधर्मोद्भवे जन्मन्यपरादिकृतं च तत्॥२०॥



असङ्‍ख्येयकृतं कर्म संसारे प्राणिभिः सदा।

तत्र शक्यं बुधैर्गन्तुं वर्जयित्वा तथागतैः॥२१॥



नाधर्मस्य फलं साधु विपरीतं न पच्यते।

हेतोः सदृशता दृष्टा जलस्य विविधस्य वै॥२२॥



सादृश्यस्य हेतुफलं विपरीतं न जातु हि।

संस्कृतानामरूपाणां हेतुः प्रत्ययसम्भवः॥२३॥



सहेतुकं सर्व कर्मफलम्

नाहेतुकं फलं दृष्टं नरके तु विशेषतः।

हेतुसङ्घातसंसक्तं नरकेषु विपच्यते॥२४॥



कृतोपरतगाढानां नियतं पापगामिनाम्।

कर्मणा फलसम्बन्धो नरकेषु विपच्यते॥२५॥



देशानां प्रति कालं तु यत् कर्म (वि)निवर्तते।

तस्य नेष्टं फलं दृष्टं तत्त्वमार्गविदर्शकैः॥२६॥



उदाहरणप्रदर्शनपूर्वकं फलस्य कर्माधीनत्वमेवेति

दीपाधीना प्रभा यद्वत् कर्माधीनं फलं तथा।

अन्योऽन्यफलसम्भूतः संस्कृतः सर्व एव हि॥२७॥



प्रतीत्यसमुत्पादसमर्थनम्

अन्योन्यहेतुका दृष्टा ह्यन्योन्यवशवर्तिनः।

सादृश्यस्यानुबन्धेन दृश्यन्ते तत्त्वदर्शकैः॥२८॥



नाहेतुफलसन्धानमीश्वरादिभिरास्थितम्।

भवन्ति संस्कृता धर्मा देशितास्तत्त्वदर्शिभिः॥२९॥



अनादिमतिसंसारे हेतुप्रत्ययसम्भवे।

सादृश्यं कर्मणा दृष्टं विपरीतं न कल्प्यते॥३०॥



बुद्धस्य स्वरूपम्

तत्स्थेषु कर्मवशगाः प्राणिनः कर्महेतुजाः।

स कर्मफलतत्त्वज्ञो (बुद्ध) इत्यभिधीयते॥३१॥



केषां शान्तिः न विद्यते?

मार्गामार्गविरुद्धा ये मूढा बुद्धस्य शासने।

(न) तेषां विद्यते शान्तिरादित्यस्य तमो यथा॥३२॥



कर्मायत्तं सुखम्



कर्मायत्तं सुखं दृष्टं सुखायत्तं मनस्तथा।

मनोऽवबोद्धया(स्ते)धर्मा ये व्युत्पत्तिविचारिणः॥३३॥



सुचरितस्य कर्मणः फलम्

अनित्याः सर्वसंस्कारा जलबुद् बुदसन्निभाः।

तस्मात् सुचरितं कर्म लोके मर्त्य परत्र च॥३४॥



दृष्टं कर्मफलं लोके दृष्टा एव विचित्रता।

यः प्रमादपरः पुंसास्तस्यात्मा ध्रुवमप्रियः॥३५॥



कर्मरज्ज्वातिदृढया दुष्प्रमोक्षसुगाढया।

बद्धा बाला न गच्छन्ति निर्वाणपुरमुत्तमम्॥३६॥



॥इति कर्मवर्गस्त्रयोदशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project