Digital Sanskrit Buddhist Canon

१२. वाग्‍वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

12 vāgvargaḥ

(१२) वाग्‍वर्गः



निर्वाणाभिलाषुकः पारुष्यं वर्जयेत्

पारुष्यं वर्जयेत् धीमान् सम्यग्वाग् भीरतो भवेत्।

माधुर्याभिरतो जर्न्तुनिर्वाणस्यान्तिके स्थितः॥१॥



वाचं पश्यन् सदाभाषेन्मलिनां च विवर्जयेत्।

वाङ्मनेनाऽभिभूता ये ते यान्ति नरकं नराः॥२॥



एकधर्मव्यतीतस्य मृषावादस्य देहिनः।

प्रतीर्णप्रतिलोकस्य नाकार्य पापमस्तिह॥३॥



मृषावाग् न प्रयोक्तव्या

मृषावाचं न भाषेत सर्वा प्रत्ययकारिकाम्।

यथा बध्यति संसारे सुगतिं नैव पश्यति॥४॥



साधुप्रत्ययतेनीहा सर्वविद्वेषकारिका।

कान्तारः सर्वाधर्माणां मृषावाच प्रवर्तते॥५॥



जातमात्रस्य मर्त्यस्य कठारी जायते मुखे।

पश्चात् छिनत्त्यात्मानं वाचा दुर्भाषितं वदन्॥६॥



सर्वा कार्यपताका सा सर्वपापप्रसूतिका।

तमसां योनिरेका सा यां वाचं भाषते मृषा॥७॥



सत्येन हीनाः पुरुषाः सर्वसाधुविवर्जिताः।

तृणवद् यान्ति लोकेऽस्मिन् प्रत्यपायेषु दुःखिताः॥८॥



न वदेदनृतं धीरः कष्टा ह्यनृतवादिता।

पूतिगन्ध्यसुखी चापि पश्चात्तापेन तप्यते॥९॥



सत्यमहिमा

सत्यं च न विवर्जेत तस्य धर्मो न विद्यते।

विनिवर्तितधर्मस्य स्थितं दुःखमनेकजम्॥१०॥



सत्यं सर्वधर्माणां प्रदीपभूतम्

प्रदीपः सर्वधर्माणां साधूनां रत्नवत् प्रियम्।

स्वर्गस्य च परं वर्त्म सत्यमुक्तं गतज्वरैः॥११॥



सत्यं न हि दिवं याति मोक्षस्याऽसत्यवादिनः।

सत्यहीना हि पुरुषाः पशुतुल्याः प्रकीर्तिताः॥१२॥



जघन्यानां जघान्यास्ते येषां न विद्यते।

सत्यं धर्मस्य सोपानं ज्योतिषामाकरो महान्॥१३॥



पन्थाश्च मोक्षधर्माणां धनानां धनमुत्तमम्।

पापकैश्च (परि)त्राणां सत्यमुक्तं मनीषिभिः॥१४॥



सत्यभूषितं वाग् भूषणस्यापि भूषणम्

ज्योतिषां परमं ज्योतिश्चक्षुश्चक्षुष्मतामपि।

द्रविणेन विना सत्यं भूषणस्यापि भूषणम्॥१५॥



निधानमतुलं सत्यमहार्य (सर्वसाधकम्)।

गच्छन्ति (सत्या यिणः) पुरुषाः परमां गतिम्॥१६॥



न तथा भासते राजा नानालङ्कारभूषितः।

सत्येन भूषितो धीमान् शोभते देववद् यथा॥१७॥



न माता न पिता चाथ मित्राणि न च बान्धवाः।

त्राणमेवं यथा श्रुत्वा तस्मात् सत्यपरो भवेत्॥१८॥



अनृतनिन्दा

वह्नीनां परमो वह्निर्विषाणां परमं विषम्।

दुर्गतीनां च सोपानमनृतं परिकीर्तितम्॥१९॥



विषाग्नितुल्यसंस्पर्श वर्तयेदनृतं पुमान्।

अनृतेन हि यो देव दग्ध‍इत्यभिधीयते॥२०॥



सत्यासत्ययोः परस्परविरोधित्वम्

तस्मात् सर्वाभिसारेण (न वदेद) नृतं पुमान्।

सर्व भयादिकं कष्टमनृतं कीर्तितं बुधैः॥२१॥



वह्नीनां परमो वह्निर्निर्दहेदपि सागरम्।

किं पुनर्यो मृषावादी काष्ठलोष्ठसमाकृतिः॥२२॥



सत्यं त्यक्त्वा मृषावादं यो नरः प्रतिपद्यते।

रत्नं त्यक्त्वा स पापात्मा पाषाणं प्रतिपद्यते॥२३॥



यस्यात्मा न भवेत् द्विष्टो यस्य वा नरकं प्रियम्।

मृषावादं स्वदेहाग्निम् अबुद्धिः स निषेवते॥२४॥



सदेदं सत्यवचनं भूषणं सर्वदेहिनाम्।

सत्यं त्यक्त्वा मृषावादे कस्माद् यान्ति कुबुद्धयः॥२५॥



सत्यं गुणानामग्र्यं वै दोषाणामनृतं स्मृतम्।

गुणांस्त्यक्त्वा कथं मूढो दोषेषु परिधावति॥२६॥



बीजं सर्वस्य दुःखस्य मृषावादः प्रकीर्तितः।

तथा सत्यं सुखस्यैव तस्मान्नानृतको भवेत्॥२७॥



सत्यवादी हि पुरुषः प्रियः सर्वस्य देहिनः।

चक्षुर्दोषैमृषावादी तस्मान्नानृतको भवेत्॥२८॥



देवकल्पाः सदा कृष्टाः पुरुषाः सत्यवादिनः।

नारकेयास्तथा मूढा जना ह्यनृतचेतसः॥२९॥



कल्याणानां परं सत्यं दोषाणामनृतं तथा।

दोषवर्जी गुणद्वेषी पुरुषः पुरुषोत्तमः॥३०॥



सुखोदयं सुखोदर्कं सुखेन परिपच्यते।

सुखेन लभते सत्यं(सत्यं) निर्वाणगामिकम्॥३१॥



दुःखोदयं कटुफलं दुःखेन सह पच्यते।

अनृतं सर्वदुःखान्तं कः पुमान् न विवर्जयेत्॥३२॥



नान्यदेशागतं सत्यं नान्यस्मात् प्रार्थ्यते हि तत्।

सर्वतीर्थोत्तमं सत्यं न तीर्थसलिलावृतम्॥३३॥



दीपानां च परो दीपः सत्यं बुद्धेन देशितम्।

औषधानां परं तच्च सदा दुःखनिषूदनम्॥३४॥



अमृतञ्च विषञ्चैव जिह्वापाशे स्थितं नृणाम्।

अमृतं सत्यमित्युक्तं विषं तूक्तं मृषावचः॥३५॥



यस्यानृतमभिप्रेतं तस्य सत्यं ध्रुवं स्थितम्।

विषन्तु यस्याभिमतं तस्येष्टं स्यान्मृषावचः॥३६॥



विषेण निश्चितं नाशो मृषावादेन निश्चितः।

मृतवत् स पुमानस्ति यो मिथ्यात्वभिभाषते॥३७॥



नात्मनो हि हितं पथ्यं ( पर)स्य न कथञ्चन।

पश्चात्तु परदुःखाय तत् कथं सेव्यते नृभिः॥३८॥



देशे देशे मया दृष्टं जन्ममृत्युसहस्रकम्।

परः सहस्त्रं जनयेन्नाशयेदनृतं वचः॥३९॥



अभिजातस निष्कर्षो द्विजातीनां च भूषणम्।

दर्शनं मोक्षमार्गस्य सत्यमित्यभिधीयते॥४०॥



तृष्णानदी हयमाराणां सतां सत्येन कर्मणाम्।

पूर्ववत् सत्यमित्युक्तं परं सुगतदेशिकम्॥४१॥



अनादिनिधने लोके तृष्णापारङ्गता (नराः)।

नास्त्यत्राणं यथा सत्यमिति धर्मविदो विदुः॥४२॥



अभिध्यापाशो न सेवनीयः

सत्यवध्या सदा क्लेशा वज्रवध्या यथा नगाः।

हता(स्ते) पुरुषा (ज्ञेया ये ऽ) भिध्या परिवञ्चिताः॥४३॥



परचित्तसमेनेदं रूपाद्यैः परिवञ्च्यते।

अभिध्यामानसं पाशं सेवितं न विचक्षणैः॥४४॥



दह्यतेऽविकृत आत्मा तैलदीप्तिरिवानलः।

अभिध्यादग्धमनसः कारणं नोपलभ्यते॥४५॥



व्यापादः सत्त्वान् मोहयत्येव

यस्मात् तत् सर्वदा वर्ज्यं कटुकाशाविषोदयम्।

व्यापादमोहिताः सत्त्वा नित्यं तद्गतमानसाः॥४६॥



न शान्तिमधिगच्छन्ति सर्पा इव बिलेशयाः।

अथ कूरस्वभावा ये व्यापादपरमा नराः॥४७॥



न तेषां विद्यते सौख्यमादित्येन यथा तमः।

न धर्मे नार्थनिकरो न धर्मा न च बान्धवाः॥४८॥



रक्षन्ति पुरुषान् सर्वान् व्यापादाहतचेतसः।

तमसामाकरो ह्येष व्यापाद इह कथ्यते॥४९॥



व्यापादयति जनकं व्यापादः परिकीर्तितः।

अव्यापादः परं श्रेयो न व्यापादः कथञ्चन॥५०॥



अव्यापादपरा ये तु ते यान्ति पदमच्युतम्।

नियतातथवादी योऽधर्मवादी न धार्मिकः॥५१॥



स चौरः सर्वलोकस्य न चौरः प्राकृतः स्मृतः।

धर्मवादी नरो यस्तु चरते धर्ममेव यः॥५२॥



स याति शाश्वतं स्थानं यत्र गत्वा न शोच्यते।

मिथ्यावचोहत (पुमान्) लौकिकः सम्प्रकीर्त्यते॥५३॥



लोकोत्तरैः कल्पशतैः कदाचित् कथ्यते न वा।

तस्मात् लोकोत्तरं वाक्यं लौकिकं न कथञ्चन॥५४॥



संसारबन्धनं दृष्टं लौकिकं विषवद् वचः।

तृष्णारतः सदा पुण्यान्मुच्यतेति सुनिश्चितम्॥५५॥



लोकोत्तरो (नरो) धन्यो विद्वद्‍भिः समुदाहृतः।

हितं तत्त्वं च यो मूढो न गृह्णाति गुरोर्वचः॥५६॥



सत्यवादी सदा देवताभिः पुरस्कृतः

स पश्चाद् व्यसने प्राप्ते तप्यते स्वेन चेतसा।

सत्यवादी सदा दान्तो देवताभिः पुरस्कृतः॥५७॥



प्रियो भवति लोकस्य पश्चाद् देवेषु मोदति।

प्रियो भवति लोकस्य पश्चाद् स्वान्तेन(वर्धते )।

दर्शनीयं मुखं चास्य देवलोकेषु जायते॥५८॥



अभूतवादी पुरुषः सर्वसत्त्वोपपातकः।

तमोनिचयसङ्काशो जीवन्नपि मृतः समः॥५९॥



कथं न जिह्वा पतिता वाक्यसंस्तुतिकत्तृका।

मृषा वदति यो वाचं सद्‍भूतगुणनाशिकाम्॥६०॥



मुखे सन्निहितो ब्यालो मुखे सन्निहितोऽफलः।

(मुखे)सञ्ज्वलितो वह्निर्यो वाचा भाषते मृषा॥६१॥



जिह्वा सङ्‍ग्रथितैः पाशैः नरकस्याग्रहेतुकैः।

छेत्ता च धर्महेतूनां मृषावादः प्रवर्तते॥६२॥



न तस्य माता न पिता बुद्धो नापि सम्वरः।

यः पापबुद्धिः पतितो मृषावादं प्रभाषतेः॥६३॥



अकस्माल्लघुतां याति षड्‍भिश्च परिवर्तते।

मुच्यते देवताभिश्च यो वाचं भाषते मृषा॥६४॥



असङ्गृहीतवाक्यस्याऽविचार्य क्रोधनस्य च।

चपलस्याऽल्पभाग्यस्य स्थितं दुःखमनन्तकम्॥६५॥



परस्य दुःखं दृष्ट्वापि सत्त्वः सत्त्वोपपातकः।

परव्यसनवत् तज्ज्ञः पुमान् नरकगामिकः॥६६॥



ये यथावादिनो मर्त्त्या न च तत्कारिणः सदा॥६७॥



सत्यमेव स्वर्गस्य निर्वाणस्य च सोपानम्

सत्यं स्वर्गस्य सोपानं निर्वाणद्वारमेव तत्।

तस्मात् सत्यपरो नित्यं नित्यं धर्मगतिः स्मृतिः॥

६८॥



अनृतं न वदेत्



अशोकमजरं स्थानं प्रयाति पुरुषोत्तमः।

वर्जयेदनृतं धीमान् निन्दितं तत्त्वदर्शिभिः॥६९॥



॥इति वाग्वर्गो द्वादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project