Digital Sanskrit Buddhist Canon

११. चित्तवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

11 cittavargaḥ

अथ द्वितीयम् उदानम्



(चित्तञ्च वाक् तथा कर्म संयोजनन्तु पापकम्।

नरक-प्रेत-तिर्यक्-क्षुत्कौसीद्यानि विदुर्दश॥ )



(११) चित्तवर्गः

चित्तं राजवत् प्रवर्तते

अगाधं विषमं तीव्रं सर्वसत्त्वगतं महत्।

चित्तं सर्वस्य जगतो राजवत् सम्प्रवर्तते॥१॥



चित्तधारिणस्तज्ज्ञाः परमां गतिं प्राप्नुवन्ति

अदृश्यं सम्प्रति भयं कर्म नारकचञ्चलाः।

ये चित्तधारिणस्तज्ज्ञास्ते गताः परमां गतिम्॥२॥



एतन्नयति व्युत्थानमेतन्नयति दुर्गतिम्।

तदेवाद्‍यन्तममलं निर्वाणमधिगच्छति॥३॥



मनः पूर्वमङ्गमा धर्मा मनः श्रेष्ठा मनोमयाः।

मनसा सुप्रसन्नेन भाषते वा करोति वा॥४॥



चित्तवशगस्य चित्तमनुधावति

यो न चित्तस्य वशगश्चित्तं तस्यान्तगं सदा।

स निर्णाशयति क्लेशान् तमः सूर्योदयो यथा॥५॥



चित्तदग्धाः नाशं यान्ति

चित्तं शत्रुः परं शत्रुर्न शत्रुरपरः स्मृतः।

चित्तदग्धाः सदा सत्त्वाः कालदग्धा यथा जडाः॥६॥



यश्चित्तवशमापन्नो बालो मूढोऽजितेन्द्रियः।

तेन दुःखे समो नास्ति निर्वाणं तस्य दूरतः॥७॥



चित्तवशगः नरः नरकमधिगच्छति

आवर्ज्यः शत्रुरपरो न चित्तानि (निगूहते)।

एष बध्नाति पुरुषो नृपतेर्यमशासने॥८॥



विषयेषु रता नित्यं न स धर्मः कथञ्चन।

सद्धर्मपथसम्मूढो नरकं नयते महत्॥९॥



दुर्दमानां परं चित्तमनीनामग्निरुत्तमः।

दुर्दान्तं शीघ्रगन्तृ च नरकं नयते ध्रुवम्॥१०॥



ये चित्तस्य वशं याता यातास्ते नरकं पुरा।

यैस्तु तद् वार्यते शीघ्रं न ते दुःखानुगामिनः॥११॥



चित्तानुरूपं सुखं दुःखञ्च भवति

यथा यथा (नृणां) चित्तं परिणामस्तथा तथा।

कल्पानां शुभकर्त्तुश्च पापकर्त्तुश्च पापकम्॥१२॥



चित्तायत्तं भवेत् कर्म कर्मायत्तं मनो भवेत्।

चित्तकर्म समुत्थाय संसारः परिकीर्तितः॥१३॥



दुष्टेन चेतसा कर्म यः करोति पुमानिह।

पच्यते-नरके तेन जालिन्या स विडम्बितः॥१४॥



चित्तकर्म एवं संसारः

चित्ताधीनं भवेत् पापं संसारः परिकीर्तितः।

चित्तप्रत्ययजं ह्येतत् हेतुप्रत्ययसम्भवम्॥१५॥



चित्तेन वञ्चिताः सत्त्वा पापस्य वशमागताः।

गच्छन्ति नरकं पापात् कारणाग्रमहाभया(त्)॥१६॥



न भवेत् चित्तवशगोऽपि तु धर्मवशो भवेत्

न गच्छेत् चित्तवशतां गच्छेद् धर्मवशे सदा।

धर्मचारी सुखी नित्यं पापचारी न शर्मभाक्॥१७॥



चित्तायत्तं सर्व फलम्

चित्तायत्ता क्रिया सर्वा चित्तायत्तं फलं स्मृतम्।

विचित्तं हि फलं चित्तं तथा फलमधिस्मृतम्॥१८॥



चित्तेन चिन्तितं सर्व लोकश्चित्तभवानुगः ।

न हि तद् विद्यते स्थानं यन्न चित्तवशानुगम्॥१९॥



शुभस्य निर्वाणसाधनत्वम्

मोक्ष बन्धनयोर्मूलं हेतुभूतं परं मतम्।

शुभेन मुच्यते जन्तुरशुभेनाशु बध्यते॥२०॥



चित्तवशगाः कदापि निर्वाणं नाधिगच्छन्ति

जालिन्या मोहिताः सत्त्वाश्चित्तस्य वशमागताः।

निर्वाणं नापि गच्छन्ति जात्यन्धा इव सत्पथम्॥२१॥



पञ्चेन्द्रियाणि जितवान् पापं भुङ्क्ते न कर्हिचित्।

एकचित्तं तथा कर्म कुरुते विविधे भवे॥२२॥



पञ्चरङ्गोज्ज्वलं चित्तं यथा दृश्यं प्रशस्यते।

पञ्चेन्द्रियविचित्रं हि तथा कर्म भवे भवेत्॥२३॥



चित्तकर्त्ताऽनेकधा भवति

चित्तकर्ता हि पुरुषो दृश्यैर्भवति नैकधा।

चित्तं चित्तकरं शून्यं सर्वथा नैव दृश्यते॥२४॥



चित्तं शोभनमशोभनं च कर्म करोति

शोभनाऽशोभनं चित्रं यथा भित्तिः कृतिस्तथा।

शोभनाऽशोभनं कर्म तथा चित्तं करोति हि॥२५॥



चित्तानुगं कर्म

दिवारात्रौ यथा चित्तं स्थितं भवति चित्रगम्।

दिवारात्रौ तथा कर्म भवे समनुवर्तते॥२६॥



अकृत्वा सुकृतं कर्म चित्तवृत्त्यनुगा नराः।

पतन्ति विवशाः पापे चित्तारिपरिवञ्चिताः॥२७॥



कर्मचित्तकरो ह्येष यत्र यत्र नियुज्यते।

चरचित्तेन महता तच्चित्तं च करोत्ययम्॥२८॥



परिणामविशेषेण यत्र यत्र नियोक्ष्यते।

प्रेष्यन्ते तत्र चित्तेन त्रिधा तु गतिचारिणः॥२९॥



चित्तस्य दमनं सुखावहम्

चित्ताधिनानि वर्तन्ते सर्वकर्माणि देहिनाम्।

तस्माच्चित्तं सदा दान्तं नयते पदमच्युतम्॥३०॥



दुर्विषह्यस्य लघुना यत्र यत्र निपातिनः।

चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्॥३१॥



येन चित्तं सदा दान्तं तेन दोषाः सदा जिताः।

जितदोषस्य धीरस्य दुःखं नैव प्रपद्यते॥३२॥



चित्तस्य लघुचेष्टितमेव दुःखम्

यच्च स्वकं भवेद् दुःखं यच्च दुःखं परत्र च।

तत् सर्वमविषह्यस्य चित्तस्य लघुचेष्टितम्॥३३॥



चित्तमेव सर्वेषां प्रभुः

ससुरासुरनागानां पिशाचोरगरक्षसाम्।

प्रभुरेकः परं चित्तं राजा(हि)त्रिभवस्य तत्॥३४॥



चित्तभ्रान्तदुःखमश्‍नुते

चित्तं नयति देवेषु चित्तञ्च नरभूमिषु।

चित्तं नयत्यपाये(षु) चित्तं भ्रामयति प्रजाः॥३५॥



चित्ताद् भ्रान्तस्य नष्टस्य विषयैर्मोहितस्य च।

तृष्णया दह्यमानस्य स्थितं दुःखमनुत्तमम्॥३६॥



चित्तस्य दमनात् सुखानुभूतिर्भवति

एकचारि सदामूढं दुर्विषह्यं महाबलम्।

सम्प्रदारि सदादृश्यं चपलं शीघ्रगामिनम्॥३७॥



एवं विधं हि ये चित्तं दमयन्ति मनीषिणः।

ते मारबन्धनातीताः पारं प्राप्ताः सुखोदयम्॥३८॥



चपलं चित्तं नरकायोपकल्प्यते

सङ्कल्पकुटिलं तीव्रमगाधं चपलं हि तत्।

चित्तं तमःश्रितं शुभ्रं नरकायोपकल्प्यते॥३९॥



दोषनिर्मुक्तोऽच्युतं पदं प्राप्नोति

तदेवं दोषनिर्मुक्तं नेन्द्रियार्थवशानुगम्।

अलिप्तं पापकैर्धर्मैर्नयते पदमच्युतम्॥४०॥



शुद्धं चित्तं शुद्धे कर्मणि प्रवर्तते

हेतुप्रत्ययजं चित्तं योगवाहि परं च तत्।

परिणामवशाच्छीघ्रं तथा तत् सम्प्रवर्तते॥४१॥



चित्तानधीनत्वे कर्म चञ्चलं भवति

एकं करोति कर्माणि विविधानि चलं च तत्।

एकानेकं चरं सूक्ष्मं क्षणादूर्ध्व न तिष्ठति॥४२॥



संसारस्य मायोपमत्वप्रतिपादनम्

दुर्विज्ञेयः सदा तस्य निःशरीरस्य सर्वदा।

कोऽसौ नयति लोकान्तमथ केन च गच्छति॥४३॥



गतश्च तिष्ठति कुत्र शरीरकर्मकारकम्।

दृश्यानि तस्य कर्माणि सञ्चयो न च दृश्यते॥४४॥



दमनं दुष्करं तस्य यस्य भूतिर्न विद्यते।

सर्वसत्त्वगतं घोरं लघुकारि च चाक्षुषम्॥४५॥



पापात् पापतरं दृष्टं मायोपममिदं भवेत्।

पुण्यात् पुण्यतरं दृष्टं सम्यग्मार्गसमाश्रितम्॥४६॥



मायोपमत्वसमर्थनम्

न गतिर्ज्ञायते तस्य गमनं नैव दृश्यते।

नीयते च क्षतं सर्व जात्युत्तरसमानि च॥।४७॥



शस्त्रेण छिद्यते नेदं ज्वलनेन च दहयते।

छिद्यते दह्यते चैव जनः सर्वमचक्षुषा॥४८॥



दृढं यत् कर्मरज्ज्वादि नरं बध्नाति दुःखितम्।

जात्यन्तरसहस्त्राणि नयते न च दृश्यते॥४९॥



दान्तमेव चित्तं सुखावहम्

मुहूर्तेन शुभं भूतं मुहूर्तेनाशुभं च तत्।

शुभाशुभाभ्यां रचितं(चित्तं) दान्तं सुखावहम्॥५०॥



षड् भिर्द्वारैः प्रसूतेषु विषयेष्वतिलोलुपम्।

चित्तं नयति लोकान्तं व्यसनं न च बुध्यते॥५१॥



विप्रसन्नचित्तस्य श्रेयस्करत्वेऽनुत्तमं सुखं भवति

विप्रसन्नं यथा तोयं विप्रसन्नं यथा नभः।

विप्रसन्नं तथा चित्तं नीयते सुखमुत्तमम्॥५२॥



जनाः सातिशया (दृष्टा) वितर्कविषयोद्भवात्।

पौरवाश्चित्तराज्ञस्ते भवन्ति सहचारिणः॥५३॥



चञ्चलं मनः संसारे गतिं कारयति

धावति यत्र च मनस्तत्र धावन्त्यज्ञानिनः।

परस्परबलान्नी (ता) भ्रमन्ति त्रिभवार्ण(व)म्॥५४॥



विशेषचित्तेनोत्तमा गतिर्भवति

चित्तवैशद्य भावानां विशेषः कर्मणास्तथा।

न कर्मगुणहीनस्य विशेष उपलभ्यते॥५५॥



सुसमाहितचित्तस्य प्रशंसा

सुसमाहितचित्तः स नित्यं धर्मानुदर्शकः।

न दोषवशमायाति यथा दिव्यस्तमोनुदः॥५६॥



गृहस्थस्य सम्यग्दृष्टित्वे निर्वाणप्राप्तिर्भवति

सम्यग्दृष्टेश्चाधिमात्रा यस्य चेतसि वर्तते।

गृहस्थोऽपि स मे ज्ञेयो मुक्तः संसारबन्धनात्॥५७॥



विज्ञा देवलोकं गच्छन्ति

कल्याणनिर्मलं यच्च ततो दोषेण बाध्यते।

विज्ञो (न) मलमाप्नोति देवलोके स जायते॥५८॥



विनीतचित्ताः सुखगामिनो भवन्ति

विषयद्वारचपलं नदीकुटिलगामिनम्।

यैर्विनीतमिदं चित्तं ते सुराः शुभभागिनः॥५९॥



अधर्ममार्गः कल्याणाय न भवति

अधर्मपथमाश्रित्य जनाः पापवशानुगाः।

चिरं भ्रमन्ति संसारे चित्तेन परिखेदिताः॥६०॥



चित्तं क्षणे क्षणे परिवर्तते

क्षणे क्षणे चित्तमिदं नैकशः परिवर्तते।

लघुस्वभावचपलं मायागन्धर्वसन्निभम्॥६१॥



चञ्चलचित्तो बद्धो भवति

तस्य बन्धनमेवेष्टं ज्ञानविज्ञानसम्मतम्।

दूरवृत्तिर्महावेगः परिधावत्यनेकधा॥६२॥



धृत्या चित्तधारिणः सुखमश्नुते

ह्रियमाणं सदा चित्तमिन्द्रियार्थे दुरासदम्।

सन्धारयति यो धृत्या स धीरः पारगामिकः॥६३॥



धृतिमज्ञानमोहं च विषयोत्तानमानसम्।

सन्धारयति यो धीमान् स लोके पण्डितो नरः॥६४॥



शुभचित्तं कामावरोधकं भवति

यो यथा कुरुते चित्तं तथा कामान् स पश्यति।

शुभेन कामशमनं नाशुभेन प्रवर्धनम्॥६५॥



अप्रशान्तमतिर्दुःखमाप्नोति

शान्तचित्तंमनाः कामानस्यतीह विषास्त्रवत्।

अप्रशान्तमतिः सर्पमणिवत् तान् स पश्यति॥६६॥



चित्तवशगो न शुभां गतिमाप्नोति

इन्द्रियाणीन्द्रियार्थाश्च चित्ताधीना भवन्त्यमी।

चित्त संश्लेषयोगेन परिणामः प्रवर्तते॥६७॥



धीर-प्रशंसा

तस्यैव व्यवधानेन धीरश्च प्रतिबुध्यते।

रूपसामान्यतो दृष्टं परिणामः कथं पृथक्॥६८॥



चित्तस्वरूप-निरूपणम्

यथा रूपं तथा सर्व विषयाश्चित्तहेतवः ।

चित्तं दान्तं सदा शान्तं दोषमिश्रविगर्हितम्॥६९॥



एकमेकं यथा शालि गन्धरूपे पृथग्विधे।

संश्लेषो याति नानात्वं तथाचित्तं प्रवर्तते॥७०॥



क्रियां हि तत्र कुरुते यत्र (चित्तं) प्रधावति।

चित्तसंवाहनं तद्‍वाक्यं लोकोऽयं सम्प्रवर्तते॥७१॥



विषयाद् भ्रान्तमनसश्(चा)तिवेगो महाबलः।

चित्तं(शान्त)करं दान्तं शिवं भवति देहिनाम्॥७२॥



दान्तेन चेतसा तत्त्वदर्शनं भवति

तेनादान्तेन शीघ्रेण सर्वपापविहारिणा।

भ्राम्यते त्रिभवः सर्वः न च तत्त्वं स पश्यति॥७३॥



समीरणरणोद्‍भ्रान्तो लोकः संसारे भ्रमति

समीरणरणोद्‍भ्रान्तो यथा भ्रमति सागरः।

चित्तेश्वरसमायुक्तो लोकोऽयं भ्राम्यते सदा॥७४॥



चित्तं शुभं सुखमेधीत

शुभोपनीतं चित्तं(हि) शुभेष्वेवापनीयते।

तथा शुभानुचरितमश्नुते तेषु धावति॥७५॥



योगवाहिचित्तं प्रत्ययं लभते

योगवाहि नृणां चित्तं वाय्वम्बुसममेव च।

प्रत्ययश्च यथा लभ्यस्तथा तत् परिधावति॥७६॥



चित्तं प्रधावति परिवर्तते च

शीघ्रं प्रधावते चित्तं शीघ्रञ्च परिवर्तते।

शीघ्रं नयति देवेश (भुवने) दायभूमिषु॥७७॥



चित्तस्य कर्त्तृत्वम्

कर्त्तृत्वं सर्वधर्माणां भर्त्तृत्वं सर्वकर्मणाम्।

नेतृत्वं सर्वकर्माणां चित्तत्वमिति लक्ष्यते॥७८॥



चित्तं न विश्वसेत्

न विश्वसेद्धि चित्तस्य नित्यं छिद्रप्रहारिणः।

दुर्लभस्यापि वश्यस्य चपलस्य विशेषतः॥७९॥



चित्तगतिवर्णनम्

मुहूर्तेन शुभं याति मुहूर्तेन तथाऽशुभम्।

भवत्यव्याकृतं शीघ्रं गतिरस्य न विद्यते॥८०॥



नायतिर्ज्ञायते तस्य गमनं नैव विद्यते।

अभूतः सम्भवस्तस्य भूत्वा च प्रतिगच्छति॥८१॥



रूपरहितं चित्तम्

नाकारो विद्यते तस्य सञ्चयोऽपि न विद्यते।

ग्रहणं तस्य नैवास्ति निःशरीरस्य सर्वतः॥८२॥



प्रत्ययसाधनवर्णनम्

हेतुप्रत्ययसामग्रया प्राप्तः सञ्जायते पुनः।

मणि-सोमप्रत्ययो (हि) प्रत्ययो ज्ञायतेऽनलः॥८३॥



चित्तमिन्द्रियरूपादीन् प्रति धावति

तथैवेन्द्रियरूपादीन् प्रतिविज्ञानसम्भवः।

नैकस्य ज्ञायते चित्तं समवाय्यनुलक्ष्यते॥८४॥



चित्तं दुर्निवार्यम्

तदेवं विषयं मत्वा दुर्निवार्य च सर्वतः।

सद्धर्ममतिरास्थेया न कामेषु कथञ्चन॥८५॥



चित्तमति चपलम्

चण्डातिचपलं तीव्रमविषह्यं महावलम्।

चित्तं करोति कर्माणि यन्न पश्यन्ति बालिशाः॥८६॥



दुःखप्रवर्तकं चित्तम्

सर्वस्य कर्मणश्चित्तं हेतुभूतं भवे भवे।

भवेत् प्रवर्तकं दुःखं येन धावति बालिशः॥८७॥



चित्तदोषो महादोष एव

वातादयो न दोषाः स्युर्दोषा रागादयो मताः।

वातादिभिरपायेषु मानवो नोपपद्यते॥८८॥



चित्तदोषो महादोषो नित्यं(पाप) विदर्शकः।

तस्मात्तेषां समाश्रेयो न वातादिगमादिह॥८९॥



रागानुगं चित्तं दुष्टं भवति

वातादयः प्रणश्यन्ति देहनाशाच्छरीरिणाम्।

(रागादयो) न तस्य स्युर्जन्मान्तरशतैरपि॥९०॥



तस्माद् रागस्य वशगं न विधेयं कदाचन।

आभ्यन्तिकं परं श्रेयः प्राप्यते रागसङ्क्रमात्॥९१॥



मन एव चिकित्सको भवति

यश्चित्तवैद्यः स भिषग् न शरीरभिषग् भृशम्।

मनश्चिकित्सको ज्ञेयो न तथा लौकिको मतः॥९२॥



स्वचित्तकर्मणा दग्धो नरके पतति

कर्मचिन्त्यं समं चिन्त्यं न चित्तेन प्रपद्यते।

स्वचित्तकर्मणा दग्धो नरकानुपधावति॥९३॥



ध्यानादेव चित्तं शुद्धं भवति

यच्छ्रेयः समचित्तस्य न तत् (क्वाप्युप)पद्यते।

संरक्ष्यं हृदयं मूढः प्रयातमनुधावति॥९४॥



चित्तवशगो दुःखमाप्नोति

ध्यानाद् ध्येयेन कूटेन यः पुमान् वनमाश्रितः।

तं मुक्त्वा चित्तकः सोऽयं संप्रहृष्यति बालिशः॥९५॥



ये बालाश्चित्तपाशेन चित्तकर्मविचारिणः।

नीयन्ते ह्यवशा घोरं नरकं कर्ममोहिता॥९६॥



चित्तवैविध्यनिरूपणम्

सुचित्तमपि यच्चितं न तच्चित्तं सतां मतम्।

कर्मचित्तं महाचित्तं त्रिधातुगतचित्रितम्॥९७॥



सत्त्वा चित्रैरुपायैर्हि भ्रमन्ति गतिपञ्चके।

तत् सर्व कर्मसाचिव्यं चित्रकर्तृ विचित्रितम्॥९८॥



चित्तवशगो बद्धो भवति

चित्तचित्रकरेणेदं कर्मजातं विचित्रितम्।

येन सर्वमिदं बद्धं जगद् भ्रमति मोहितम्॥९९॥



वर्षातपरजोधूमैश्चित्तं नश्यति भूभुजैः।

कल्पकोटिसहस्त्रेण चित्रं चित्तं विनश्यति॥१००॥



नाशं प्रयाति बसुधा सागरश्चापि शुष्यति।

चित्तेनापि कृतं चित्रं तस्यानुभवने स्थिते॥१०१॥



प्रमत्ते चित्ते नानागतिर्भवति

नानागतिसमावृत्ता नानाकर्मसमानुगाः।

नानाचित्तवशाः सत्त्वा भ्रमन्ति गतिपञ्चके॥१०२॥



बालिशा (नां)नृणां चित्तं विषयं (प्रति)धावति।

न चिनोत्यशुभं कर्म येन धावति दुर्गतिम्॥१०३॥



चञ्चलं चित्तं सदा विषमं भवति

तस्माच्चित्तं सदा रक्ष्यं चञ्चलं विषमं खरम्।

नित्यं विषयसंसक्तं तृष्णाविषसमावृत्तम्॥१०४॥



विषयानुरक्तं चित्तं व्यसने पातयति

धावते विषयं चैतद् व्यसनं नावबुध्यते।

पश्चात्तु व्यसने प्राप्ते फलं विन्दति कर्मणः॥१०५॥



समाहितचित्तः सुखमश्नुते

अपायभीरुता तस्य तस्य चित्तं समाहितम्।

समाहितेन चित्तेन सुखात् सुखमवाप्नुते॥१०६॥



निर्जितचित्तः सुखमाप्नोति

विषमं चपलं तीव्रमविषह्यं महाबलम्।

यैश्चित्तं निर्जितं धीरैस्ते लोके सुखिनो मताः॥१०७॥



॥इति चित्तवर्ग एकादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project