Digital Sanskrit Buddhist Canon

१०. मद्यजुगुप्सावर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 10 madyajugupsāvargaḥ
१०) मद्यजुगुप्सावर्गः



मद्यपानवर्णनसाधनप्रदर्शनम्



मद्यपानं न सेवेत मद्यं हि विषमुत्तमम्।

नश्यन्ति कुशला धर्मा मद्यपाननिषेवणात्॥१॥



यः सेवते सदा मद्यं तस्य बुद्धिरसंस्थिता।

बलबुद्धी न धर्मोऽस्ति तस्मान्मद्यं विवर्जयेत्॥२॥



नाशानामुत्तमं नाशं मद्यमुक्तं मनीषिभिः।

तस्मान्मद्यं न सेवेत (मद्यं) नाशयते नरम्॥३॥



अनिष्टाः पापका धर्मा मद्यपाननिषेवणात्।

भवन्ति तस्माद् विषवन्मद्यपानं विवर्जयेत्॥४॥



धनक्षयं पापकरं कौसीद्यकरमुत्तमम्।

मद्यपानस्थिता दोषाः तस्मात् तत् परिवर्जयेत्॥५॥



रागस्योद्दीपनं मद्यं क्रोधस्यापि तथैव च।

मोहस्योद्दीपकं भूयस्तस्मान्मद्यं विवर्जयेत्॥६॥



मद्यमूलमनर्थस्य हासस्य नरकस्य च।

सर्वेन्द्रियविनाशानां हेतुभूतं ह्यनर्थकम्॥७॥



अतिहर्षाभिधानस्य शोकस्य च भयस्य च।

वाग्दोषस्याऽतिदम्यस्य पारुष्यस्याऽऽस्पदं हि तत्॥८॥



मद्येनाऽऽक्षिप्तमनसः पुरुषाः पशुभिः समाः।

कार्याकार्य न विन्दन्ति तस्मान्मद्यं विवर्जयेत्॥९॥



मद्यक्षिप्तो हि पुरुषो जीवन्नपि मृतो मतः।

य इच्छेज्जीवितं सौख्यं स मद्यं वर्जयेत् सदा॥१०॥



मद्यं सर्वदोषास्पदम्

सर्वदोषास्पदं मद्यं सर्वानर्थकरं सदा।

सर्वपापेषु सोपानं तमसामालयो महान्॥११॥



मद्येन प्रेतलोके नरके वा पतनम्

मद्येन नरकं यान्ति प्रेतलोकं तथैव च।

तिर्यक्षु यान्ति पुरुषा मद्यदोषेण वञ्चिताः॥१२॥



विषादपि विषं मद्यं नरकान्नरकं तथा।

व्याधीनां च परं व्याधिर्मद्यमुक्तं मनीषिभिः॥१३॥



मद्येन हानिप्रदर्शनम्

बुद्धीन्द्रियविनाशाय धर्मरत्नं क्षयाय च।

योऽतिरेकपरं मद्यं ब्रह्मचर्यबधाय च॥१४॥



मद्येन लघुतां यान्ति पार्थिवा शास्त्रचक्षुषः।

किं पुनः प्राकृता मर्त्या मद्यपानविलम्बिताः॥१५॥



मद्यस्य विनाशकरत्वम्

कुठारः सर्वधर्माणां ह्रीविनाशकरं परम्।

मद्यं निषेवितं मर्त्यैर्विनाशायोपकल्प्यते॥१६॥



मद्येन ज्ञानाज्ञानविवेकशून्यप्रदर्शनम्

न ज्ञानं नापि विज्ञानं न कार्याणि न च क्रियाम्।

जानीते पुरुषः सर्व मद्येन हृतचेतसा॥१७॥



मद्यसेवनस्य परितापसाधनम्

अकस्मात् तप्यते जन्तुरकस्मात् परितप्यते।

भवत्यकस्मात् पापी (च) यो मद्यमनुसेवते॥१८॥



मद्यस्य बुद्धिसम्मोहजनकत्वम्

बुद्धिसम्मोहजनकं लोकद्वयविनाशकम्।

वह्निश्च मोक्षधर्माणां मद्यमेकं व्यवस्थितम्॥१९॥



मद्यस्य किम्पाकत्वम्

अभ्यासे मधुरं मद्यं विपाके परमं कटु।

किम्पाकादपि किम्पाकं मद्यमुक्तं परीक्षकैः॥२०॥



नरकस्य साधनं मद्यम्

न मद्ये विश्वसेद्धीमान् नरं वक्ष्यति मामिति।

शीतस्पर्श विपाकोष्णं मद्यं नरकगामिकम्॥२१॥



सम्पत्तौ व्यसनं मद्यं देवानां तु विशेषतः।

यथा यथा सुखा प्रीतिस्तन्नाशे व्यसनं तथा॥२२॥



मद्यपानमदोन्मत्ताः सत्त्वा मोहवशानुगाः।

साक्ष्यमोहमयं पानं पिबन्ति रसतृष्णया॥२३॥



मद्यं मोहमयं पान पीत्वा कालेन चोदिताः।

नाकात् प्रत्यक्षनरकं तस्मात् मद्यं न संस्पृशेत्॥२४॥



दर्शनात्पानाच्च मद्यपानं मोहजनकम्

दर्शनात् स्पर्शनात् पानात मद्यं मोहयते नरम्।

तस्मात् स मद्यपानं च दूरतः परिवर्जयेत्॥२५॥



दर्शनाज्जायते लोभः स्पर्शनाद् गन्धसम्भवः।

गन्धाद् रसाभिलाषश्च रसनादधमा मतिः॥२६॥



मनीषिणः मद्यसेवनात्पतन्ति

नैकसर्वाधमं न्यासं कथयन्ति मनीषिणः।

नामरूपनिषेधाय यथा मद्यं निषेवितम्॥२७॥



मद्यपानफलसूचनम्

वाग्भ्रामयति मस्तिष्कं चक्षुषीध्वनिरेव च।

सम्भ्रान्तिविमतिर्मूढो न किञ्चित् प्रतिपद्यते॥२८॥



स्त्रियोऽपि मद्यपायिनमुपहसन्ति

स्त्रियोऽप्युपहसन्तीमं पुरुषं पतितं भुवि।

निश्चेष्टं काष्ठसदृशं निश्चलं पतितं भुवि॥२९॥



मद्यपानं मरणादपि निकृष्टतरम्

सम्भावितस्य मरणं मद्यपानं प्रकीर्त्यते।

हालाहलादभ्यधिकं कारावासाधिकं च तत्॥३०॥



मद्यपानवर्जनं श्रेयस्करम्

आदीनवाश्च षट् त्रिंशन्मद्यपानादवस्थिताः।

तस्मादादीनवो ज्ञेयः स हि तद् वर्जयेत् सदा॥३१॥



मद्यपानं विदुषोऽपि जन्तोः मलिनीकरणाय भवति

अतिजातस्य विदुषो मलिनीकरणं महत्।

काशपुष्पसमं जन्तुं कुरुते लघुसत्त्वरम्॥३२॥



विषयानलदग्धः कार्याकार्यशून्यो भवति

प्रमादौह्यति मग्नानां विषयैरपहृष्यते।

मद्यपानेन भूयश्च मनोव्यामोहकारिणा॥३३॥



विषयानलदग्धस्य कार्याकार्यमजानतः।

वनोपवनलब्धस्य मद्यपानस्य किं पुनः॥३४॥



मद्यपानं मोहाय पापाय जायते

रसेन शोभनं मद्यं परिणामेन दारुणम्।

परिणामफलं पापं नरकेषूपपद्यते॥३५॥



पीतं जनयते मोहं मोहात् पापेषु रक्ष्यते।

संरक्तहृदयो बालो नरकानुपधावति॥३६॥



मद्यपानमधमत्वसाधनम्

प्रकर्ष जनयत्यादौ विपाके दैन्यमुत्तमम्।

तृट् छेदं कुरुते चासौ पश्चाद्दाहं सुदारुणम्॥३७॥



तद् बुद्धिं नाशयत्यादौ पश्चान्नाशयते सुखम्।

तस्मात् स पुरुषो धीरो यो मद्यं नानुसेवते॥३८॥



मद्यनिषेविणो विहगसदृशा भवन्ति

विहगैः सदृशं यान्ति पुरुषा मद्यसेविनः।

तुल्यं व्यामोहजनकं मद्यं मोहमहाविषम्॥३९॥



विमोहिता दुर्गतिमधिगच्छन्ति

यैर्मद्यं विषवद् दृष्टं तैर्दृष्टं पदमुत्तमम्।

यैस्तु तद् विरसं पीतं पीतं ताम्र (क) लोहितम्॥४०॥



निष्प्रतीकारकर्माणि यः करोति विमोहितः।

मद्यपानसमाविष्टः सोऽन्ते गच्छति दुर्गतिम्॥४१॥



मद्यपानसेविनां नाशो भवति

एकत्र सर्वपापानि मद्यपान (निषेवणम्)।

यस्मान्नाशयते (मद्यं) चित्तमूलश्च संवरः॥४२॥



मद्यपायी नष्टधर्मो भवति

नैकाङ्गिता हि चित्तस्य न धर्माणां विचारणा।

यः पा(प)निरतो भिक्षुर्भवेन्मद्यनिषेवणात्॥४३॥



मद्येनाक्षिप्तमनसो कुशलस्य च घातकः।

नष्टधर्मस्य सत्त्वस्य नायं लोको न चापरः॥४४॥



ईर्य्यापथं न जानाति न कालं नापि देशनाम्।

सद्धर्मतो विरुद्धश्च तुच्छं किमपि भाषते॥४५॥



स्वयं तावन्न जानाति किमिदं कथ्यते मया।

वाक्पारुष्यं कथं चान्यं परिज्ञास्यत्यशोभनम्॥४६॥



लाघवं याति लोकस्य धर्माच्च परिहीयते।

निधन पुरुषैर्दृष्टं मद्यज्वलनसेवनात्॥४७॥



मद्यपानं कुत्सां सम्पादयति

नाशो भवत्यतीते हि वर्तमाने सुहृज्जने।

अनागते कुत्सितानां मद्यं त्रैकाल्यनाशकम्॥४८॥



मद्यं धर्मप्रदूषकमेव

नामरूपविनाशाय चित्तनाशाय देहिनाम्।

उत्पन्नदोषजनकं मद्यं धर्मप्रदूषकम्॥४९॥



मद्यवर्जनं धर्माय पानञ्च मृत्युर्न भवति

समाहिता धर्मशीलाः पुरुषा मद्यवर्जकाः।

ते यान्ति परमं स्थानं यत्र मृत्युर्न विद्यते॥५०॥



॥इति मद्यजुगुप्सावर्गो दशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project