Digital Sanskrit Buddhist Canon

९. स्त्रीजुगुप्सावर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

9 strījugupsāvargaḥ

(९) स्त्रीजुगुप्सावर्गः

स्त्रिय एवानर्थमूलम्

स्त्रियो मूलं (हि) पापस्य धननाशस्य सर्वथा।

स्वहिते ये न निरताः कुतस्तेषां भवेत् सुखम्॥१॥



अनर्थकर्मरतयः शाठ्‍येर्ष्याबहुलास्त्रियः।

लोकद्वयविनाशाय पुरुषाणामवस्थिताः॥२॥



नित्यं सरागकुशला नित्यं तद्वचनाः पराः।

अन्यच्च हृदये तासां कथयन्त्यन्यदेव वा॥३॥



आपातमधुराः सूक्ष्माः विपाके वज्रचेतसः।

नोपकारेण सत्कारं स्मरन्ति लघुचेतसः॥४॥



स्त्रियो विद्युत्स्वभावहृदया अतिचञ्चलाः

नाशयित्वा प्रियशतं स्मरन्त्येकं हि विप्रियम्।

विद्युत्स्वभावहृदयाः स्त्रियः पापस्य भूमयः॥५॥



स्त्रीणां नाशसाधकत्वप्रदर्शनम्

स्त्रीहेतुनाशमिच्छन्ति पुरुषा वक्रचेतसः।

स्त्रीविनाशो विनाशो द्रागिह लोके परत्र च॥६॥



स्त्रीदर्शनमेवाग्निवद्दहति

एवं तु सर्वविषयाः स्त्रीदर्शनमिहैकजम्।

अभिभूय सर्वविषयान् नार्यग्निज्वलनं महत्॥७॥



स्त्रीदोषप्रदर्शनपूर्वकं नारीजुगुप्सासमीक्षणम्

संश्लेषादपि विश्लेषः स्मरणात् कथनादपि।

स्त्रीणां दाहसमुत्थोऽयं वह्निरन्तर्जहासकः॥८॥



रागेण सह जायन्ते नित्यं वै दारुणाः स्त्रियः।

दानेन सह जायन्ते यथा लोके हुताशनाः॥९॥



न भवेत् तादृशो दाहो योऽयं वह्निसमुद्भवः।

यादृशः स्त्रीमदो ह्यस्ति देहिनां हृदयोद्भवः॥१०॥



सर्वलोकविनाशाय सर्वधर्मक्षयाय च।

हेतवो नरकस्यैताः स्त्रियः प्रोक्ता महर्षिभिः॥११॥



मुखतो मधुरामर्षा हृदयेन विषोपमाः।

अनवस्थितसौहार्दा नासां कश्चित् प्रियो नरः॥१२॥



मुहूर्तेन प्रियस्तासां मुहूर्तेन तथाऽप्रियः।

अनवस्थितसौहार्दाश्चञ्चला क्षणिकोपमाः॥१३॥



वञ्चनाहेतुकुशला नित्यं कार्यपरायणाः।

नित्यं संयोगमनसो नित्यं मानपरायणाः॥१४॥



देवानां च मनुष्याणां पिशाचोरगराक्षसाः।

न बन्धभूता यादृश्यः स्त्रियः कालविषोपमाः॥१५॥



नोपकारं स्मरन्त्येता न कुशलं नापि विक्रमम्।

अनवस्थितचित्ताश्च वायुवेगसमाः स्त्रियः॥१६॥



भवन्ति सम्पदो यत्र रक्ष्यन्ते यत्र योषितः।

व्यसनेषु विरक्तास्तु त्यजन्ति पुरुषं ध्रुवम्॥१७॥



यं यं गच्छन्ति पुरुषं रक्ष्यन्ते तत्र योषितः।

शीघ्रं शीघ्रं नरं ह्येतास्त्यजन्ति पुरुषं स्थितम्॥१८॥



यथा हि भ्रमरी पुष्पं शुष्कं त्यजति सर्वदा।

तथा वित्तेन रहितं पुरुषं त्यजति प्रिया॥१९॥



निस्त्रिंशहृदयाः क्रूराश्चञ्चलास्तमसावृताः।

स्त्रियः पुरुषनाशाय जाताः केनापि हेतुना॥२०॥



देवानां बन्धनं नाम यथा स्त्रीबन्धनं मतम्।

स्त्रीबन्धननिबद्धास्तु पतन्ति नरकं पुनः॥२१॥



एतदग्रं हि रागाणां यो रागः स्त्रीसमुद्भवः।

स्त्रीरागदग्धमनसं पश्चाद् दहति पावकः॥२२॥



प्रत्यक्षाण्यपि कर्माणि रागैश्चापहतः पुमान्।

न वेत्ति मूढहृदयः स्त्रीरागेण विमोहितः॥२३॥



विश्वास्य विषये पुरुषं बद् ध्वा प्रियमनेकशः।

त्यजन्ति वित्तनाशेन त्वचं यद्वद्भुजङ्‍गमाः॥२४॥



सर्वोपायभृता नार्यः सर्वशः परिपालिताः।

न शक्याः स्ववशीकर्त्तुं स्त्रियः परमदारुणाः॥२५॥



आसां सर्वस्वभावानां नारीणां चलचेतसाम्।

न यायाज्जातु विश्वासं पुमान् धीरेण चेतसा॥२६॥



स्त्रीविधेयास्तु ये मर्त्या नित्यं कामगवेषिणः।

पश्चिमदर्शनं तेषां सुरलोके भविष्यति॥२७॥



पञ्चाङ्गिकेन तूर्येण विप्रलुब्धाः समन्ततः।

विन्दन्ति व्यसने दुःखं यदवश्यं भविष्यति॥२८॥



इमास्ताश्चञ्चला नार्यो यासां रागः कृतस्त्वया।

ता भवन्तं परित्यज्य पुनरन्यं ततो गताः॥२९॥



द्विधा हि प्रकृतिर्यासां (योषितां) सहचारिणी।

भूयोऽभियन्ति पुरुषं व्यसनेषु त्यजन्ति च॥३०॥



मृगवन्मोहयन्त्येताः पुरुषं रागमोहितम्।

पश्चात् (तु) व्यसने प्राप्ते त्यजन्ति लघुचेतसः॥३१॥



नोपकारं न सत्कारं न प्रियाणि न सन्ततिम्।

स्मरन्ति योषितस्तीव्रा व्यसने समुपस्थिते॥३२॥



म्लानं पुष्पं यथा त्यक्त्वा भ्रमरोऽन्यत्र धावति।

तथा हि व्यसने प्राप्ते त्यजन्ति खलु योषितः॥३३॥



अनपेक्षितसौहार्दाश्चञ्चलाश्च रणप्रियाः।

भवन्ति योषितः सर्वा विषमिश्रं यथा मधु॥३४॥



मोहयन्ति नरान् कामैर्वाक्यैश्चापि विशेषतः।

न तेषां विश्वसेद्धीमान् पुरुषो धीरमानसः॥३५॥



आभिर्विमोहिताः किं वा रंजिताः पुरुषाः स्वतः।

न कुर्वन्ति हितं वाक्यं यथा मुष्णिकगामिकम्॥३६॥



देवासुरनरान् यक्षान् पिशाचोरगराक्षसान्।

इन्द्रजालमया नार्यो वञ्चयन्ति विशेषतः॥३७॥



एतदग्रञ्च पाशानां यदिदं स्त्रीमयं दृढम्।

अनेन बद्धाः पुरुषा भ्रमन्ति भवचारके॥३८॥



न कश्चित् पाशपाशोऽयं हृत्पाशो योषितः परम्।

हृत्पाशबन्धनैर्बद्धाः पुरुषा दुःखमोहिताः॥३९॥



दहयते छिद्यते पाशस्स्त्रीमयस्तु न दहयते।

नरक -प्रेत-तिर्यक्षु गच्छन्तमनुगच्छति॥४०॥



मूर्तिमान् बध्यते कायः पाशेन महता तथा।

अमूर्तिगं चित्तमिदं स्त्रीपाशेन तु बध्यते॥४१॥



(न) दृश्यते पाशमन्यं येन बध्नन्ति योषितः।

अभिज्ञेयमप्रमाणं स्त्रीमयं बन्धनं महत्॥४२॥



अनेनापातरम्येण (दुःख) मोक्षेण सर्वदा।

पाशेन बद्धाः पुरुषा न मुच्यन्ते भवार्णवात्॥४३॥



षडिन्द्रियाणि बध्नाति पाशो यः स्त्रीमयो महान्।

पाशस्तु कायमेवैकं कश्चित् बध्नाति वा न वा॥४४॥



बन्धनं न दृढं हीदं मोक्षवार्य षडायसम्।

संरक्तचित्तभोगे हि मन्दबुद्धेर्नरस्य च॥४५॥



स्नायुयन्त्रेण बद्धासु विस्तृतकर्मभूमिषु।

तीक्ष्णरक्तासिना युक्तो मरणार्थमिहागतः॥४६॥



स्त्रीणां दौर्गुण्यम्

वञ्चनाच्छलकूटासु रभसा नु विशेषतः।

चञ्चलो भ्रान्तचित्तासु भ्रान्तस्त्वङ्गक्षणारिषु॥४७॥



विभ्रान्तो भ्रान्तकथितैर्भूषणानां तथा स्वनैः।

हरन्ति पुरुषं क्षिप्रं वञ्चनाकुशलाः स्त्रियः॥४८॥



नानाविधेषु पुष्पेषु यथा चरति षट् पदः।

नानाविधेषु मर्त्येषु तथेमाश्चञ्चलाः स्त्रियः॥४९॥



यथा मधुरिका पीत्वा पुष्पमन्यत्र गच्छति।

तथा पुरुषमापीयः प्रयान्ति रभसं स्त्रियः॥५०॥



अर्थादानेषु कुशलाः क्रुद्धा नित्यं दुरासदाः।

वञ्चयित्वा नरं शीघ्रमन्यत्र संप्रयान्ति ताः॥५१॥



साध्यमायाप्रहरणाः कालकूटविषोपमाः।

स्त्रियः पुरुषघातिन्यश्चातुर्येषु व्यवस्थिताः॥५२॥



वाय्वाकाशानला यद्वन् न शक्ता ग्रथितुं नरैः।

तथोपायशतैर्नार्यो (न) शक्ता रक्षितुं नरैः॥५३॥



अनर्थव्याधिमृत्यूनां दुष्कृतानाञ्च कर्मणाम्।

हेतुभूताः परं नार्यो मोक्षचर्याबधस्य च॥५४॥



यदनेकप्रकारेषु शठेषु पापकर्मसु।

(पतन्ति ) मनुजा लोके तत्र हेतुः परस्त्रियः॥५५॥



न बालयौवनेनैव वार्धक्येनैव शाम्यति।

चापल्यं सहजं स्त्रीणां भास्करस्य यथा प्रभा॥५६॥



अनित्यं सौहृदं तासां दीप्तानामर्चिषां कणैः।

वैरञ्च शाश्वतं तासामश्मनां च यथा व्रणैः॥५७॥



धनहीने विरज्यन्ते धनयुक्ता भवन्ति च।

यावदर्थ स्त्रियस्तावदर्थहीने कुतः स्त्रियः?॥५८॥



न सेवाभिश्चदानेन नोपकारैः पृथग्विधैः।

स्वीकर्त्तुं न स्त्रियः शक्याः ज्वलनोपमचेतसः॥५९॥



यथा नरोऽनुकूलश्च छन्दकर्त्ता यथा यथा।

तथा तथा स्त्रियस्तस्य वञ्चनाकुशलाः परम्॥६०॥



पुष्पच्छत्रो यथा सर्पो भस्मच्छत्रो यथा नलः।

रूपच्छन्नं तथा चित्तमासां भवति योषिताम्॥६१॥



विषवृक्षे यथा पुष्पं दृष्टिरम्यं न शान्तये।

विषवृक्ष (समा) नार्यः परिवर्ज्याः समन्ततः॥६२॥



नारीणां दर्शनाकांक्षी विषयेसु च तत्परः।

नरो न सुखभोगाय (हय) स्मिल्लोके न चापरे॥६३॥



नाग्निना न च शस्त्रेण न बलेन न जन्तुभिः।

स्त्रीमयं बन्धनं हेतुः शक्यते न दुरासदम्॥६४॥



दोषजालमिदं (सूत्रं)स्त्रीमयं चरते भुवि।

यस्त्रीविवर्जितो धीमान् अस्मिल्लोके महीयते॥६५॥



यथा भूतैर्मनुष्याणां स्वकर्मोत्थापने न च।

तथा स्त्रियो हि रक्षन्ति विषमार्थ त्यजन्ति च॥६६॥



गतार्थविभवं भूयो वर्जितं स्वेन कर्मणा।

देवं समीक्ष्य चपलाः स्त्रियो नैव प्रभाविकाः॥६७॥



स्त्रीसुखं क्षणभङ्गुरम्

क्षणभङ्गमिदं सौख्यमधिगतमवस्थितम्।

चत्वार्येतानि दुःखानि सेवितानि नृभिः सदा॥६८॥



स्त्री विषाग्निसदृशा

तस्मात् तानि विवर्ज्यानि विषाग्निसदृशानि हि।

यः कश्चिच्चपलो जन्तुर्यश्च दोषोद्भवः सदा॥६९॥



तस्मात् परिसमाविष्टाः स्त्रियः कारणवत्सलाः।

न सूर्यस्तमसो हेतुर्नाग्निः शीतस्य कारणम्॥७०॥



न स्त्रीणां सौहृदं चित्ते स्वल्पमप्यवतिष्ठते।

यथा स्थिरा भूमिरियं यथा वायुः सदा चलः॥७१॥



स्त्रियः दोषमेव स्मरन्ति

तथा स्त्रीणां कृतं नास्ति दोषमय्यः सदा स्मृताः।

चिरप्रयत्नाः पुरुषैः लोभिता बहुशः स्त्रियः॥७२॥



त्यजन्ति व्यसने प्राप्ते शुष्कं सर इवाशुगाः।

नोर्ध्वगाः सरितो दृष्टा नाश्मनो गतिरिष्यते॥७३॥



गिरीणां गमनं नास्ति स्त्रीणां नैवास्ति सौहृदम्।

वपुकर्ति सदा नृणां धर्मार्थयशसां तथा॥७४॥



योनिश्चानर्थजालस्य दोषाणामुद्भवस्य च।

भवेद् वज्रमयी मृद्वी त्यजेद् (रात्रौ यथा) रविम्॥७५॥



न स्त्री त्यजेदसाध्यानि जन्मापेक्षा विशेषतः।

नोपचारक्रिया दानप्रियवाक्यापलापनैः॥७६॥



स्वीकर्तुं न स्त्रियः शक्या ज्वलनोपमचेतसः।

सुखेषु समतां यान्ति व्यसनेषु त्यजन्ति च॥७७॥



उपकारांश्च विस्मृत्य दोषमेकं स्मरन्ति ताः।

वनोपवनशैलेषु भुक्त्वा सुखमनेकशः॥७८॥



स्त्री लोकस्य बन्धनम्

संप्राप्ते व्यसने तीव्रे स्त्रिय परिभवन्ति हि।

लोकस्य बन्धनं नार्यो वञ्चनाकृतिवर्धिकाः॥७९॥



अधमाः विनिपातानां दोषाणां चास्पदं (बहु)।

सर्वलोकविनाशाय वशीकुर्वन्ति तृष्णया॥८०॥



यथा स्त्रीबन्धनमिदं दुर्विषह्यं कृतं महत्॥

यदिदं बन्धनं लोके कामरागमयं महत्॥८१॥



स्त्रीवर्जनमेव श्रेयष्करम्

तथा चान्यप्रयत्नेन विचार्य उपलभ्यते।

वशीकुर्वन्ति ता (नार्यः) कामवाणैरनेकशः॥८२॥



स्वल्पैः पराजितं कृत्वा कामस्य वशगाः स्त्रियः।

रागेर्ष्याशाठ्यभूमीनां विद्युच्चञ्चलचेतसाम्॥८३॥



लोभाहङ्कारयोनीनां न विश्वास्याः कथञ्चन।

शस्त्राग्निसदृशास्तीक्ष्णाः कामपाशपरात्मनः॥८४॥



स्वभ्रप्रपातविषमं गंभीरसमचेतसाम्।

पराभिद्रोहमायेन्द्रजालतद्गतमानसान्॥८५॥



अकालमृत्यु-वज्राग्नि- कालकूटसमात्मनाम्।

अनेकदोषसम्भारनन्दितानामनेकशः॥८६॥



यदि शीललवः कश्चित् स्त्रीणां मनसि वर्तते।

चिरेण दहते वह्निः स स्पृष्टाः पवनेरितः॥८७॥



स्त्रीदर्शनसमुच्छ्रेयमात्रं दहति पावकः।

तस्मात् स्त्रियो विवर्ज्याः स्युः यदिच्छेत् सुखमुत्तमम्॥८८॥



एतत् सर्व परं लोके नारीणां वर्जनं सदा।

यदृच्छाजालिनीहेतुं यः इच्छेद् भूतिमात्मनः॥८९॥



य इच्छति निवृत्तिं तु स नरः स्त्रीं विवर्जयेत्।

सुखासक्तस्तथार्थो ( च) कुसीदश्चञ्चलः शठः॥९०॥



पापसेवी सुमृष्टाशी नरो भद्रं न पश्यति।

उद्युक्तो वीर्यवान् धीरो धार्मिकः स्त्रीं विवर्जयेत्।

दक्षो हेतुफलश्रद्धो नरः कल्याणवान् भवेत्॥९१॥



॥इति स्त्रीजुगुप्सावर्गो नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project