Digital Sanskrit Buddhist Canon

७. कामजुगुप्सावर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 kāmajugupsāvargaḥ

७) कामजुगुप्सावर्गः



कामस्य नरकहेतुत्वम्

न कामेषु रतिं कुर्यात् कामाः परमवञ्चकाः।

संसारबन्धना घोराः सर्वे नरकहेतवः॥१॥



यः संरक्षति कामेषु तस्य दुःखमनन्तकम्।

न कामोरगदष्टस्य सुखमस्ति कथञ्चन॥२॥



रागादिवशगानां चेष्टितम्

वरं निशितधारेण क्षुरेण स्वयमात्मनः।

संक्षोदिता भवेज्जिह्वा न चोक्तं कामगंव(चः)॥३॥



रागेण वञ्चिताः सत्त्वा द्वेषेण परिपीडिताः।

मोहस्य वशमापन्ना भाषन्तेऽमधुरं वचः॥४॥



रागवशगः सदा दुःखतममनुभवति

अल्परागान्निरुद्धो यः कुरुते दुष्कृतं बहु।

स रागवशगो मूढो दुःखाद् दुःखमवाप्नुयात्॥५॥



कामपरिणतिमाह

अतृप्तिरस्मात् कामास्ते न सुखा नापि शाश्वताः।

परिणामे महातीव्रास्तस्मात् तान् परिवर्जयेत्॥६॥



रागाभिभूताः पुरुषा नरकालयवर्तिनः।

न रागवशगा ये तु न तेषां नरकाद् भयम्॥७॥



कामविषं परित्याज्यम्

चण्डाचण्डिसमुत्थाश्च चण्डाश्च परिणामतः।

कामा विषाग्निप्रतिमाः परिवर्ज्याः प्रयत्नतः॥८॥



परिवर्जितकामस्य नित्यं मोक्षरतस्य च।

नश्यन्त्यकुशला धर्मास्तमः सूर्योदये तथा॥९॥



कामानलः नरके पातयति

इन्द्रियाणीन्द्रियार्थज्ञो मोहयित्वा पृथग्विधाः।

नरके पातयन्त्येते कामाः बालमनोहराः॥१०॥



रागाग्नेः महिमा

पञ्चेन्द्रियप्रसक्तस्य विषयैः पञ्चभिस्तथा।

मुहूर्तमपि रागाग्निर्विषयैर्नैव तृप्यति॥११॥



संश्लेषाज्जायते वह्निर्विश्लेषान्नैव जायते।

संश्लेषादपि विश्लेषो (रागा) ग्निर्जीर्यते नृणाम्॥१२॥



दूरान्न दाहको वह्निर्विषयस्तस्य नास्ति सः।

दूरान्तिकसमो घोरो रागाग्निरतिदाहकः॥१३॥



सङ्कल्पकाष्ठप्रभवः स्पृहाकुटिलवेगवान्।

तृष्णा घृतप्रसक्तोऽयं रागाग्निरपि दाहकः॥१४॥



दग्ध्वा शरीरमेतद्धि ज्वलनः सम्प्रशाम्यते।

नामरूपविनिर्मुक्तो रागाग्निर्नैव शाम्यते॥१५॥



उद्वेजयति भूतानि वह्निः परमदाहकः।

रागाग्निरतितीक्ष्णोऽपि नोद्वेगं कुरुते नृणाम्॥१६॥



पञ्चेन्द्रियसमुत्थोऽयं विषयैः पञ्चभिर्वृतः।

तृष्णासमीरणबलाद् रागाग्नि(र्दहति) प्रजाः॥१७॥



वितर्कारणिसम्भूतो विषयैः परिवर्धितः।

काष्ठवद् दह्यते तेन न च दृश्यो जनस्य सः॥१८॥



यथा यथा हि प्रबलो रागाग्निस्तप्यते महान्।

तथा तथा (च) रागान्धैः स्वसुखं परिसेव्यते॥१९॥



अग्निः प्रकाशको भवति रागाग्निस्तमसावृतः।

तस्माच्छिशिरवद् धीमान् रागाग्निं परिवर्जयेत्॥२०॥



विषयपरिणाममाह

विषयाभिरतो जन्तुर्न सुखी स्यात् कथञ्चन।

विषयाः विषयैर्दष्टाः परिणामे च दारुणाः॥२१॥



नाद्ये नान्ते न मध्ये च नास्मिंल्लोके न चापरे।

सुखदा विषया कामं भवन्तीह कथञ्चन॥२२॥



बालिशस्य हि सर्वस्य तृष्णाक्रीडनसंभवैः।

न तृप्तो विषयैरग्निर्ज्वलनस्य यथेन्धनैः॥२३॥



अतृप्तोः विषयैः सर्वो जनोऽयं परिवञ्चितः।

मृत्युनाऽभ्यासनिरत एतैर्दोषैर्विदह्यते॥२४॥



काममोहान्धानां स्थितिमाह

सुखानां कामचाराणां मोहस्य खलु चेष्टितम्।

तदेव यदि देवानां खगैः स्युस्ते समाः सुराः॥२५॥



कल्पान्तेष्वभिसन्तप्तः शस्यते सरितां पतिः।

न दृष्टिस्तृप्यते रूपैः कल्पकोटिशतैरपि॥२६॥



स्यात् समुद्रस्य चर्याप्तिः सलिलैर्वशगादिभिः।

न तु दृष्टिः समुद्रस्य रूपार्थैस्तृप्तिरस्ति हि॥२७॥



अवितृप्तस्य कामेभ्यः किं सुखं परिकल्प्यते।

तृप्तिर्यास्ति वितृष्णस्य गतशोकस्य देहिनः॥२८॥



माद्यन्ते बहुमोहान्धा न च बुद्धयन्ति बालिशाः।

मन्देन क्षणिका यद्‍वत् मलयेन्धनपादपाः॥२९॥



कामा असाराः वञ्चकाश्च भवन्ति



स्वप्नप्रमोषधर्माणो गन्धर्वनगरोपमाः।

रिक्तास्तुच्छा असाराश्च कामाः परमवञ्चकाः॥३०॥



(का) मा मोहेन ( च) समाः किं पाकसदृशोपमाः।

कामा लोकहितकरा वह्निवत् परिकीर्तिताः॥३१॥



कामस्यादीनवं ज्ञात्वा येन तत्फलमोहिताः।

तेन तद्‍दर्शकाः प्रीता गतकांक्षस्य (देहिनः)॥३२॥



(अ)न्यथा चिन्त्यमानानां यथा प्राप्ता पुनस्तथा।

सर्वतः पापकर्तारः कामा लोके विषोपमाः॥३३॥



कामैरतृप्तमनसस्ते ते देवाश्च्युताः पुनः।

पतन्ति नरके मूढाः कामेन परिवञ्चिताः॥३४॥



नारीं निन्दयति

नदीतरङ्गचपला विद्‍युल्लेखसमाश्च ते।

मीनावर्तबला नार्यः कामलोकविषास्पदाः॥३५॥



विचिन्तिता विवर्धन्ते वर्द्धिता वह्निसन्निभाः।

आदौ चान्ते तथा कामास्तस्मात् कामान् विवर्जयेत्॥३६॥



कामसेवनफलम्

यथा यथा हि सेव्यन्ते विवर्धन्ते तथा तथा।

वह्निज्वालासमासृष्टाः कामाः कटुविपाकिनः॥३७॥



कामवर्जनफलम् आह

एवं दोषं सदा ज्ञात्वा धीरः कामान् विवर्जयेत्।

परिवर्तितकामस्य सुखं भवति नैष्ठिकम्॥३८॥



कामाग्निः देवान्नपि पातयति

असङ्ख्यानि सहस्राणि देवानां नियुतानि च।

पतन्ति कामदहनं नरकं वह्निभैरवम्॥३९॥



यथाग्निविषशस्त्राणि वर्जयन्ति सुखार्थिनः।

तथा कामाः सदा वर्ज्या हेतवो नरकस्य ते॥४०॥



न दृष्टो न श्रुतः कश्चिद् यः कामवशगः पुमान्।

न कामैर्विप्रलब्धः स्यान्न च दुःखेन पीडितः॥४१॥



तस्मादलमलं कामैर्मा चैतेषु मनः कृथाः।

सर्वे सर्वास्ववस्थासु कामा वह्निविषोपमाः॥४२॥



अनादिर्मति संसारे शत्रवश्चित्तसम्भवाः।

अहन्त्वात्तु भवेत् प्रीतिर्न सा कामैः कथञ्चन॥४३॥



सकल्मषा कटुफला दुःखात् कामोद्भवा रतिः।

या तु कामविनिर्मुक्ता सा रतिः परि(भाषिता)॥४४॥



योगिनः परमा गतिः

तां समाश्रित्य गच्छन्ति योगिनः परमां गतिम्।

न तु कामकृता प्रीतिर्नयते पदमच्युतम्॥४५॥



कामजरतिं निन्दति

आपातमधुरा रम्या विपाके ज्वलनोपमा।

रतिर्भवति कामाग्निजन्या नरकगामिनी॥४६॥



आपातरम्या मधुरा मध्ये रम्या च सर्वदा।

शान्तमन्ते च विमलं नयते पदमच्युतम्॥४७॥



आद्यन्तमध्यकल्याणी नित्यं मातेव शोभना।

तां व्युदस्य कथं बाला रक्षन्ते (कामजां रतिम् )॥४८॥



कामकृता रतिः निरतं तपति

मध्यादिनिधने दुःखा नित्यं दोषादिभिर्वृता।

कथं सा सेव्यते बालैर्या न दृष्टा सुखावहा॥४९॥



विषमञ्जरिवद् रम्या स्पर्शे ज्वलनसम्भवा।

तथा कामकृता प्रीतिः परिणामे विषोपमा॥५०॥



हूयमानो यथा वह्निर्ज्वलनेन प्रशाम्यति।

दाहेन च प्ररोहः स्यात् तद्वत् कामकृता रतिः॥५१॥



पतङ्गः पश्यति ह्यग्नि दाहदोषं न पश्यति।

तथा कामकृतां प्रीतिं पश्यन्त्यकृतबुद्धयः॥५२॥



यस्तु रागकृतो दाहः पच्यते कामिनां सदा।

पतङ्गसदृशं दाहं सर्वथा नै(व) पश्यति॥५३॥



कामप्रमादात् पतनं ध्रुवमेव

तस्मात् काम(विषं) त्यक्त्वा नित्यं जीवथ हे सुराः।

भवन्तु मा वृथा जन्मप्रमादेन प्रपातनम्॥५४॥



संक्षीणशुभकर्माणो नित्यं कामैर्विमोहिताः।

तं हित्वा नरकं यान्ति काममोहेन वञ्चिताः॥५५॥



काममोहितः विषवृक्षमयं पुष्पं पिबति

विषवृक्षमयं पुष्पं पीयते भ्रमरैर्यथा।

तथा विषात्मकमिदं सुखं भुङ्क्ते हि मोहितः॥५६॥



जीवेयुः पामराः केचित् विषं पीत्वाऽपि दुर्भगाः।

न कामविषपीतस्य जीवितं दुर्लभं भवेत्॥५७॥



यथा हि नरके वह्निर्ज्वलयत्य विचारिणम्।

तथा काममयो वह्निर्दहतीह दिवौकसः॥५८॥



कामाग्निः हिंसक एव

श्रुतिपाशमयो वह्निः प्रेतानेष दहत्यति।

दहने हिंसको वह्निर्नृणां पर्येषणात्मकः॥५९॥



एवमग्निसमं तावत् परिहार्य समन्ततः।

सर्वलोकमशेषेण दह्यते काममोहितः॥६०॥



विषयासक्तं मनः व्यसने पातयति

विषयेषु सदाचित्तं धावन्तं चञ्चलं महत्।

न त्याज्यं व्यसने मूढ यद् पश्यसि भविष्यति॥६१॥



कामेषु रक्ष ते चित्तं व्यसनेनावबुध्यते।

व्यसनौघे समुत्पन्ने तत् पश्चात् परितप्यते॥६२॥



काममोहिताः महद्भयमपि न पश्यन्ति

वृथा काममदैर्मत्ता देवाः प्रकृतिदुर्बलाः।

भ्रमन्ति भ्रमिताः कामैर्न पश्यन्ति महद् भयम्॥६३॥



विश्वसन्ति हि ये देवाः कामेष्वहितकारिषु।

व्यतिरेकेषु ते पश्चात् प्रतिबुध्यन्त्यमेधसः॥६४॥



कामाः परमवञ्चका भवन्ति



न च पश्यन्ति (वि)बुधाश्चित्तेन परिवञ्चिताः।

क्षणिका मधुरा जाताः कामाः परमवञ्चकाः॥६५॥



काम प्रति न विश्वसेत्

शतशश्च सहस्त्रैश्च कोटिशः पद्मशस्तथा।

लब्धा नष्टा पुनः कामा न तेषां विश्चसेत् पुमान्॥६६॥



कामैर्मोहितः पतङ्गसमो नरकाग्निना दह्यते

विषयाद् बन्धनं तीव्रं सर्वे नरकहेतवः।

तस्मादत्यन्ततस्त्यक्त्वा श्रेयसे क्रियतां मनः॥६७॥



रागेण रञ्जिताः पूर्वं द्वेषेण च तिरस्कृताः।

मोहेन मोहिताश्चैव तेऽश्रुताऽकृतकारिणः॥६८॥



कामार्थैरेष्यते बालः पुनः कामैर्विमोहितः।

स पतङ्गसमो मूढः दह्यते नरकाग्निना॥६९॥



कामवशगाः सुरलोकादपि पतन्ति

अवश्यम्भावि पतनं सुरलोकात् समन्ततः।

न ज्ञात्वा कामवशगो स्यादिह कथञ्चन॥७०॥



कामेन वञ्चिताः सत्त्वाः कामेन च विमोहिताः।

कामपाशापकृष्टास्ते पतन्ति नरके सदा॥७१॥



कामं त्यक्त्व स्वहिते मनः कर्त्तव्यम्

तदेतद् व्यसनं सत्त्वाः स्वहिते क्रियतां मनः।

मनसापि स्वदान्तेन नानुतप्यन्ति देहिनः॥७२॥



मनोविषेण ये दष्टाः कामवेगेन सर्वदा।

ते मूढा मृत्युवशगाः कामानलहता नराः॥७३॥



न तृप्तिरस्ति कामानां तृष्णया हितकारिणाम्।

तृष्णापि तृप्तिजनिका मनो नैव हि तृप्यति॥७४॥



ज्ञानदीपेनैजेन्द्रियाणां विषयेभ्यस्तृप्तिर्जायते

न जातु विषयैस्तृप्तिरिन्द्रियाणां भविष्यति।

यदि न ज्ञानदीपेन क्षपयिष्यन्ति (ते नराः)॥७५॥



नारीसेवनेन नाशः सुनिश्चितः

योषितः सेव्यमाना हि वितर्कशतमालिकाः।

प्रवर्धति यथा वह्निर्वायुना समुदीरितः॥७६॥



कामाग्निदीप्ताः कदापि शान्तिं नाप्नुवन्ति

तं मत्वा वेगरभसा नित्यं कामोऽग्निदीपितः।

कामान् हापयति ज्ञानी बुद्धतत्त्वविचिन्तकः॥७७॥



ये नित्यं भ्रान्तमनसो नित्यं विषयतत्पराः।

रमन्ते विबुधाः सर्वे तत् सर्वं मोहचेष्टितम्॥७८॥



सेव्यमानो हि विबुधैर्विषयाग्निर्विवर्धते।

पाशेनानेन संयुक्तो वह्निर्वायुसमीरितः॥७९॥



रागविवशा अमरा अपि पतन्ति

अमराः रागविवशा नित्यं विषयतत्पराः।

देवलोकात् पतन्त्येते मोहरागेण वञ्चिताः॥८०॥



रमन्ते विषयैरेते तत्र तल्लीनमानसाः।

न च विन्दन्ति यद् दुःखं विप्रयोगो भविष्यति॥८१॥



वियोगजं दुःखं कष्टप्रदमेव

यदेतत् सुखमेवादौ दिव्यं पञ्चगुणान्वितम्।

वियोगजस्य दुःखस्य कलां नार्हतिषोडशीम्॥८२॥



कामानां तद्विघातो हि जनेनैवोपयुज्यते।

सतृष्णस्य तथा तृप्तिः कामेभ्यो नैव जायते॥८३॥



कामानुसेविनः दुःखं कदापि शान्तिं नाधिगच्छति

अनपेक्षितचित्तस्य नित्यं कामानुसेविनः।

दीर्घरात्रानुशयिकं दुःखं नैव प्रशाम्यते॥८४॥



त्वरितं रक्ष्यते मूढो व्यसनेनैव बुध्यते।

पश्चात्तु व्यसने प्राप्ते जानीते यस्य तत् फलम्॥८५॥



आस्वादभद्रका ह्येते कामाः परमदारुणाः।

दूतकान् नरकस्यैतान् चरन्त्यहितकारिणः॥८६॥



विषयाग्निदग्धाः नरकं यान्ति

यस्तेषां विश्वसेत् मर्त्यो ज्ञानचक्षुर्विगर्हितः।

विषयाग्निरभ्रतुल्यः स याति नरकं नरः॥८७॥



अल्पास्वादाल्पहृदया नित्यं पुरुषवञ्चकाः।

गन्धर्वनगरप्रख्याः कामा आस्वादभद्रकाः॥८८॥



विषयमोहिताः देवा अपि दुर्गति यान्ति

(यथा) दीपप्रभा(भस्म) सञ्छन्नेव पुनः पुनः।

न च बिन्दत्यमनसो देवा विषयमोहिताः॥८९॥



विषयेणातिरभसा नित्यं कामवशानुगाः।

न विदन्ति महद् दुःखं यदवश्यं भविष्यति॥९०॥



रमणीयानि कामानि यस्यैवं जायते मतिः।

स पश्चाद् व्यसने प्राप्ते मूढोऽसौ विप्रलप्यते॥९१॥



न कामेन मदान्धस्य विषयैर्मोहितस्य च।

नैत्यिकं भवति शर्म्म यत्सुखानामनुत्तमम्॥९२॥



आध्यात्मिकसुखापेक्षया कामसुखं हीनतमम्

यच्च कामसुखं लोके यच्च तृष्णोद्भवं सुखम्।

एकस्याध्यात्मिकस्येदं कलां नार्हतिषोडशीम्॥९३॥



कामी कदापि सुखं नाश्नुते

न सुखी वर्तते तावद्‍य यस्य कामो हृदि स्थितः।

स सर्वदुःखभागार्हो नरकानुपधावति॥९४॥



न तृप्तिर्विद्यते कामैरपि (भोगः) शतं नृणाम्।

यत्र सौख्यं न तत्रास्ति तृप्तिर्विषयसेविनाम्॥९५॥



सेव्यमानाः सदा कामा वर्धन्ते च मुहुर्मुहुः।

ते वर्धिता विषसमा भवन्ति विनिपातिनः॥९६॥



विपत्तिकुशला घोरा नित्यं पतनहेतवः।

न च तेषां परित्यागं कुर्वन्ति विषयोत्सवाः॥९७॥



यस्य दृष्टिसमुद्रस्य रूपैस्तृप्तिर्न विद्यते।

तथा शर्ममनोज्ञैश्च रसतृप्तिर्न विद्यते॥९८॥



गन्धैरपि सदा घ्राणं न तृप्तिमधिगच्छति।

स्पर्शाः सम्मुखसंस्पर्शाः सेव्यन्ते नैव तृप्यते॥९९॥



शब्दैः कान्तैः सुमधुरैः श्रोत्रमेति न तर्पणम्।

मनोऽपि तृप्तिविश्वस्तं वर्धमानं न तृप्यति॥१००॥



इन्द्रियाणि कामभूमिषु पातयन्ति

षडेन्द्रियाणि चपलान्याधृतानि रतौ पुनः।

भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः॥१०१॥



न तृप्तिरस्ति देवानां गजानां वै तृणैर्यथा।

अनलस्य स्वभावोऽयं तस्य तृप्तिर्न विद्यते॥१०२॥



षडेते वह्नयस्तीव्रा वितर्कानिलमूर्छिताः।

भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः॥१०३॥



इन्द्रियदग्धा नरकं यान्ति

तैरयं दह्यते लोको न च विन्दत्यबुद्धिमान्।

आस्वादभद्रका हयेते नरकस्य च हेतवः॥१०४॥



काममोहितः सुखवञ्चितो भवति

कामा विषयलोभास्ते लेलिहाना यथोरगाः।

विलोचनवरो हयेष न च कामैर्विमोहितः॥१०५॥



कामवशीनरः नेत्रहीना मूढतरः

सुखानुसारिणः कामो नरकानुपधावति।

न नेत्रहीनो नरके पात्यते सत्क्रियान्वितः॥१०६॥



तस्माद् वरं विचक्षुः स्यान्न तु कामवशो नरः।

अशक्यवञ्चिता मूढाः कामैरहितकारिभिः॥१०७॥



कामचारिणां ज्ञानादिकं दुर्लभम्

अनिर्विद्यन्ति कामेभ्यो मोहिताः स्वेन चेतसा।

न ज्ञानं नापि विज्ञानं विद्यते कामचारिणाम्॥१०८॥



कामः मृत्युभवनं नयति

यद् दुःखकामजं हत्वा पुनः कामवशानुगाः।

मित्ररूपा च ये कामाः किम्पाकफलसन्निभाः।

नयन्ति मृत्युभवनं दुर्गतीश्च पुनः पुनः॥१०९॥



अनिवर्त्त्य यथा तोयमापगानामनेकशः।

तथा सौख्यगतं नृणां सर्वथा न विवर्तते॥११०॥



वनोपवनभोगेषु सुखप्राप्तेष्वनेकशः।

यो न तृप्यति कामेषु स नरोऽधमगामिकः॥१११॥



प्रमादो पहतो जन्तुः कामास्वादेषु तत्परः।

रूपेषु रक्ष्यते नित्यं परिणामे च विद्यते॥११२॥



घनच्छायास्वरूपाणि कर्ममिश्राणि यानि वै।

तानि चैव कथं देवाः शक्ष्यन्ते कामगोचरे॥११३॥



कामाः कदापि न सेव्याः

यदि नित्या भवेयुर्न कामास्ते स्युर्विषोपमाः॥११४॥



कामतृष्णादुःखकरी

तथापि कामतृष्णा या न सा जाति विलक्षणा।

प्रागेव नित्यं दुःखाय शून्यमात्मानमेव च॥११५॥



तेषु दुःखविपाकेषु कथं रक्षन्त्यबुद्धयः।

कामास्वादेषु रक्ष्यन्ते बालिशाः मन्दबुद्धयः।

आदीनवं न बुद्धयन्ते किम्पाकफलसन्निभम्॥११६॥



रूपशब्दादिबद्धोऽयं तृष्णाविप्रकृतो जनः।

दीप्यते विवशो नित्यं, कुकर्मफलमोहितम्॥११७॥



आस्वादयित्वा पुरुषाः कामान् विषफलोपमान्।

तृष्णया तृप्तमनसः पतन्ति नरके पुनः॥११८॥



यथाभिवर्षते तोयं वर्धन्ते सरितो यथा।

तथा कामाभिवर्षेण देवानां वर्धतेऽनलः॥११९॥



कामसुखस्य नान्तो विद्यते

जलसम्भवमीनोऽपि दृश्यते तृष्णयाऽऽतुरः।

एवं सुखाभिवृद्धा च न वितृप्यति देवता॥१२०॥



आकाशस्य यथा नान्तो विद्यते नापि संशयः।

एवं कामेषु नास्त्यन्तः कामिनां नास्ति संक्षयः॥१२१॥



सलिलादिभिरतृप्तस्य सागरस्योर्मिमालिनः।

न तु कामैरतृप्तस्य तृप्तिरस्ति कथञ्चन॥१२२॥



अप्राप्तैर्विषयैर्देवा न वितृप्यन्ति बालिशाः।

विषयैर्नैव तृप्यन्ति सुखलालसतत्पराः॥१२३॥



कामस्तापाय, न तु शान्त्यै

संप्राप्ते व्यसने तीव्रे च्यवमानेप्यनेकशः।

तप्यते विषये तस्मात् परं कामो न शक्यते॥१२४॥



विलोक्य पुरुषानेते कामविश्वासघातिनः।

त्यजन्ति व्यसने प्राप्ता विपद्यन्ते हि ते नराः॥१२५॥



अतृप्तस्य सुखं नास्ति विषयैश्चापि तृप्यते।

ये वा तृप्तिकरा दृष्टास्तान् बुद्ध्वा (तु) विवर्जयेत्॥१२६॥



विषयान्परित्यज्य शान्तिः सेव्या

सुखमूला सदा शान्तिरसुखा विषया मताः।

तस्माच्छान्तिसुखा देवा वर्जयित्वा विषयोरगान्॥१२७॥



बधबन्धनरोगादि विषयेभ्यो महद्भयम्।

सम्भ्रान्तिरिह संसारे विषयैरेव जायते॥१२८॥



संयोगा विप्रयोगान्ताः शतशोऽथ सहस्त्रशः।

जातौ जातौ सदा दृष्टाः सौगतैस्तत्त्वदर्शिभिः॥१२९॥



अनेक सुखसंसारः विषयात्मक एव

अनेकसुखसंसारो विषयेषु हि विद्यते।

विषयैश्च भवेत् सर्व जातौ जातौ प्रजायते॥१३०॥



कष्टैर्यैरनकामैर्न शक्यतेऽमूढचेतसा।

पुनस्तानेव मोहान्धाः सेवन्तेऽकृतबुद्धयः॥१३१॥



विषयशत्रुसेविनः बालिशाः भवन्ति

वर्जते हि सदा शत्रुवञ्चनाशङ्कया नरः।

विषयाः शत्रुभूता हि न वश्यन्ते कथञ्चन॥१३२॥



कामबद्धाः सदा मोहबालिशा वा भवन्ति ते।

न त्यजन्ति कथं मूढा मोहिताः स्वेन कर्मणा॥१३३॥



यथा बह्निभयात् कश्चिद् वह्निमेवोपसेवते।

तथा विषयसंमूढो विषयानुपसेवते॥१३४॥



स्नायुसङ्ग्रथितः पाशो दृष्टिरम्यो यथा भवेत्।

तथा विषयरम्योऽयं पाशः परमदारुणः॥१३५॥



कामसुखं नाशाय भवति

किंपाकस्य यथाऽऽस्वादो मधुराग्रो महोदयः।

पश्चाद् भवति नाशाय सुखं तद्वदिदं नृणाम्॥१३६॥



प्रदीपस्य शिखां यावत् पतङ्गो मोहमूर्छितः।

पतते दह्यते चैव तथेदं सुखमिष्यते॥१३७॥



अज्ञात्वा हि तथा बाला रम्यदेहसुखेच्छया।

स्पृशन्ति ज्वलनं तद्वत् सुखमेतद् भविष्यति॥१३८॥



तृष्णाविघात एव सुखाय जायते

यथा रम्यो वनमृगस्तृष्णार्त उपधावति।

न च तृष्णाविघातोऽस्य तदिदं सुखमिष्यते॥१३९॥



न तृप्ता न च तृप्यन्ति न च तृप्तिर्भविष्यति।

विषयैः सर्वदेवानां तस्मात् कामो न शान्तये॥१४०॥



विषयैः प्रमत्ताः दुःखमनुभवन्ति

प्रत्युत्पन्नसुखाः कामा नान्तकल्याणकारकाः।

रञ्जिता विषयैर्देवा विक्षिप्तमनसः सदा॥१४१॥



नानासौख्यप्रमत्तस्य विषयैर्वञ्चितस्य च।

सम्प्राप्ते मृत्युकाले च न शमायास्य विद्यते॥१४२॥



अनुक्रमेण मरणमभ्येति तच्च विद्यते।

विषयापहतैर्देवैः कामव्यासक्तबुद्धिभिः॥१४३॥



कामा अहितकारिणो भवन्ति

जानीयादद्य मे देवा यद् दुःखं विप्रयोगजम्।

मुहूर्तमपि कामेषु न कुर्यात् तत्र संस्थितिम्॥१४४॥



रागाग्निना दग्धो विमोहितो जायते

अनित्यात्मभयाः कामा नित्यं चाहितकारिणः।

तथा विमोहितान् कालः पुनस्ताननुसेवते॥१४५॥



रागाग्निना प्रदहयन्ते नित्यं देवाः प्रमोहिताः।

दह्यमानाः पुनस्तत्त्वं प्रशंसन्ति पुनः पुनः॥१४६॥



रथचक्रवत्सदा भ्रान्ता विषयविमोहिताः भवन्ति

विषयेषु न रक्ष्यन्ते तेषां दुःखमिव स्थितम्।

त्रैधातुकमिदं सर्व भ्राम्यते रथचक्रवत्॥१४७॥



गन्धर्वनगरसदृशाः कामाः भवन्ति

सत्त्वा अविद्यया मुग्धा नित्यं दुःखस्य भोगिनः।

विद्युदालातचक्रेण समाः कामाः प्रकीर्तिताः।

स्वप्ने गन्धर्वनगरसदृशा विप्रलम्भिनः॥१४८॥



पञ्चस्कन्धमतिर्दुःखितस्तिष्ठति

अनित्यदुःखशून्येषु न कुर्यान्मतिमात्मवान्।

पञ्चस्कन्धासुरैः प्रोक्तः शुभै रिक्तः स्वभावतः॥१४९॥



अन्यथा विषवद् विज्ञः कामेषु च प्रसह्यते।

स बुधः पारगः शान्तः सत्त्वानामनुकम्पकः॥१५०॥



निर्वाणोन्मुख एव दोषाच्छान्तिमधिगच्छति

हित्वा क्लेशमयं पाशं निर्वाणस्यान्तिके स्थितः॥१५१॥



कामविभ्रान्तस्य शान्तिकथा वृथा

प्रभवेन्न च दोषेषु कामचर्यारतस्य च।

विभ्रान्तमनसस्तस्य कुतः शान्तिर्भविष्यति ?॥१५२॥



विभ्रान्तं पश्यतु मनो विषयेषु प्रधावति।

सद्धर्मपथविभ्रान्तो नरकेषूपपद्यते॥१५३॥



अशक्तप्राप्तविभ्रष्टे किं कामैर्विद्युतोपमैः।

किंपाकविषशस्त्राग्निसन्निभैर्दुःखहेतुभिः?॥१५४॥



कामाग्निः विषयसेवनेन वर्धते

यथा यथा हि सेव्यन्ते वर्धन्ते ते तथा तथा।

अवितृप्तिकरा ह्येते वह्निदाहस्य हेतवः॥१५५॥



कामान् वर्जयित्वैव सुखमश्नुवते जनाः

दाहदोषेण सम्भ्रान्ताः ये सुराः सुखकाङ्क्षिणः।

वर्जयित्वाऽशिवान् कामास्ततः सौख्यं भविष्यति॥१५६॥



कामाः विद्युद् गुणोपमाः चञ्चलाः

वञ्चयित्वा जनं मूढं शाटी कृत्येव बन्धनम्।

प्रत्ययो नेत्रचपलः कामा विद्युद् गुणोपमाः॥ १५७॥



उपर्युपरि कामा यैः सेव्यन्ते कामतृष्णया।

ते रागवह्निना दग्धा दाहाद् दाहमवाप्नुयात्॥१५८॥



अतिमूढतमा ह्येते ये सुराः काममोहिताः।

अथवा ये न गच्छन्ति यत्सुखात् सुखमुत्तमम्॥१५९॥



निर्वाणगामिनो नास्ति विना मुक्त्या कुतः सुखम्?।

तस्मात् कामान्न सेवेत कष्टः कामसमागमः॥१६०॥



इन्द्रियाणि न तृप्यन्ते विषयै रागसेविनः।

अतृप्तौ च कुतः शर्म सर्वथा सम्प्रवेशते॥१६१॥



तस्याग्रमुभयाद् वेत्ति संसाराद् दुःखसागरात्।

कामान् तृष्णाविषयगान् परित्यजति पापकान्॥१६२॥



कामोदयव्ययौ सम्यगवधेयौ

एतानि गिरिकूटानि रम्याणि विविधैर्द्रुमैः।

ध्यायन्ते तानि संश्रित्य कामानामुदयव्ययौ॥१६३॥



शीलेन श्रद्धया च इष्टसाधनं कर्त्तव्यम्

न कामबन्धनेस्तृप्ताः कामजं निधनं हि तत्।

न शीलश्रद्धे येनेष्टे लभ्यतेऽशिवकारणम्।

कामजं निधनं ह्येतत् संसाराटविदेशकम्॥१६४॥



पापानि परित्यज्य सुखावहः शान्तिमार्गः सेवनीयः

यत्र कामविसंयुक्तं बन्धनं वनमुच्यते।

यत्र भासयते पापाद् यत्र शान्तिः सुखावहा।

तत् केवलं महाज्ञानं कथ्यते निधनं धनम्॥१६५॥



कामतृष्णाभ्यां विमुक्तः शिवमाप्नोति

ये प्रसक्ता न कामेषु तृष्णया न प्रलोभिताः।

ते शिवं स्थानमापन्ना न कामाग्निप्रवेशकाः॥१६६॥



अवितृप्ताः नराः नश्यन्त्येव

तृप्तिर्नास्ति सदा कामैर्न कामाः शान्तये स्मृताः।

तृष्णासहायसंयुक्ता ज्वलन्ति ज्वलनोपमाः॥१६७॥



अवितृप्ता विनश्यन्ति नरा देवास्तथोरगाः।

ते केवलं प्रणष्टा हि नरकाग्नि प्रदर्शकाः॥१६८॥



तृष्णामोहितस्य मृत्युरधिपतिः

वितर्कापहतस्यास्य विषयैर्वञ्चितस्य च।

तृष्णया मोहितस्यैष मृत्यू राजा भविष्यति॥१६९॥



कामासक्ताः पथ्यापथ्यं न विजानन्ति

संसक्तकामभोगेषु पथ्यापथ्यं न विद्यते।

जना विमोहिताः सर्वैविषयैः कामसंज्ञकैः॥१७०॥



कामवशानुगाः विषयैरेव बध्यन्ते

विषयैरेव कृष्यन्ते ये सुरा मूढचेतसः।

ये (तु) बुद्धगुणैर्युक्ता न ते कामवशानुगाः॥१७१॥



'धीर' परिभाषा

प्रत्युत्पन्नेषु कामेषु सदोषेषु विशेषतः।

यो न मुह्यति सौख्येषु स 'धीर' इति कथ्यते॥१७२॥



कामपतितानां सुराणां स्थितिमाह

स्वप्नकायविचित्रेषु ज्वालामालोपमेषु च।

गन्धर्वपुरतुल्येषु कामेषु पतिताः सुराः॥१७३॥



तृष्णाजनकभूतेषु विनाशान्तकरेषु च।

कान्तारेषु विशालेषु कामेषु पतिताः सुराः॥१७४॥



इत्त्वरेषु त्रिछिद्रेषु नदीवेगोपमेषु च।

चञ्चलेष्वतिदुर्गेषु (कामेषु) पतिताः सुराः॥१७५॥



पवनोद्धृतवेगोर्मिजलचन्द्रे चलेषु च।

अतातचक्रलोकेषु कामेषु पतिताः सुराः॥१७६॥



समं विद्युल्लता-चक्र-मृगतृष्णोपमेषु च।

फेनवच्चाप्यसारेषु कामेषु पतिताः सुराः॥१७७॥



कदलीगर्भतुल्येषु गजकर्णोपमेषु च।

नदीतरङ्गवेगेषु कामेषु पतिताः सुराः॥१७८॥



किंपाकफलतुल्येषु वह्निसन्निभजातिषु।

मायारश्मिनिभेष्वेषु कामेषु पतिताः सुराः॥१७९॥



ज्ञानाङ्‍कुशेन कामो वर्जनीयः

ज्ञानाङ्‍कुशेन वार्यन्ते विषयास्तत्त्वदर्शिभिः।

येऽमुक्ताश्चपलास्तीव्राः सर्वानर्थकरा मताः॥१८०॥



विषया एव नरकपातहेतवः

विषयाशा च मूढानां सङ्कल्पहृतचेतसाम्।

मृत्युपाशोऽयमभ्येति जीविताशा(वि)बन्धकः॥१८१॥



पचन्ति निरये कामाः प्राणिनं लघुचेतसम्।

न च विन्दन्ति मूढा ये मोहेन परिवञ्चिताः॥१८२॥



विषयाश्चपलाः सर्वे गन्धर्वनगरोपमाः।

दुःखसंवर्तका ह्येते नरकाः पञ्चहेतवः॥१८३॥



सङ्कल्पजो रागः नरकं पातयति

सङ्कल्पाज्जायते रागः रागात् क्रोधः प्रवर्तते।

क्रोधाभिभूतः पुरुषो नरकानुपसेवते॥१८४॥



कामपरित्यागपूर्वकं निर्वाणप्राप्तये यतेत

तस्मात् कामं परित्यज्य क्रोधं निर्वास्य पण्डितः।

मोहं चापि परित्यज्य निर्वाणाभिमुखो भवेत्॥१८५॥



निर्वाणपथिकानां कृते शत्रुवदेव कामः परिवर्जनीयः

शत्रुवद् विषया ज्ञेया निर्वाणं चैव मित्रवत्।

पुमान् विश्रान्तविषयो निर्वाणमधिगच्छति॥१८६॥



काममलैरलिप्त एव विमलप्रकाशमाप्नोति

अलोलुपः काममलैरलिप्तः प्रहीणदोषो हतवाणतृष्णः।

संक्षीणदोषो विमलप्रकाशः प्रयाति शान्तिं स्वफलोपभोगी॥१८७॥



सुखार्थी कामं परित्यज्यैव शान्तिमधिगच्छति

यः कामपङ्कोद्धृतवानदोषः

सर्वेषु सत्त्वेषु सदा सुखार्थी।

स निर्मलोऽशान्तमनोविमुक्तः

प्राप्नोति निर्वाणसुखं प्रसह्य॥१८८॥



इति कामजुगुप्सावर्गः सप्तमः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project