Digital Sanskrit Buddhist Canon

६. अप्रमादवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

6 apramādavargaḥ

६) अप्रमादवर्गः



प्रमादरतस्य न मोक्षः

यः प्रमादरतो जन्तुर्नासौ मोक्षाय कल्पते।

प्रमादविषमूढस्य निर्वाणं दूरमेव तत्॥१॥



न प्रमादे मनः कार्यम्

न प्रमादेषु बध्येत् प्रमादः शत्रुरुत्तमः।

प्रमादपरमा देवाः पतन्ति नरके पुनः॥२॥



स्वभावतामिमां ज्ञात्वा धर्माणामुदयव्ययम्।

न प्रमादे मनः कार्य प्रमादविषमुत्तमम्॥३॥



प्रमादाप्रमादयोः परस्परविरोधित्वम्

अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम्।

अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः॥४॥



यथा विषं तथा वह्निः प्रमादः प्राणिनां तथा।

प्रमादोन्मादिताः सत्वाः दुःखाद् दुःखं प्रयान्ति ते॥५॥



अप्रमत्ताः सदामर्त्याः सर्व प्रक्रमसंस्कृताः।

प्रयान्ति परमां शान्ति प्रमादो यत्र नास्ति हि॥६॥



यः प्रमादे रतो जन्तुर्न शुभान्यनुचेष्टते।

तस्य धर्मविमूढस्य कुतः स्वर्गो भविष्यति?॥७॥



प्रमादं वर्जयेद् यस्मात् प्रमादं विषमुत्तमम्।

अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः॥८॥



सौभाग्यं प्राप्य यो मर्त्यः प्रमादेषु च वर्तते।

न पण्डित इतिख्यातो विपरीतस्तु नान्यथा॥९॥



न प्रमादस्य कालो हि हर्षस्य न कथञ्चन।

व्यामोहजननाच्चेतो मृत्युकाले महाबले॥१०॥



प्रमादमुखेन प्रमादवर्णनम्

हर्षो धूमः प्रमादोऽग्निर्देवान् दहति नैकशः।

विषयैर्मोहिता मूढा न च विन्दन्त्यचक्षुषः॥११॥



अव्युच्छिन्नानि पश्यन्ति संस्काराणि च देहिनाम्।

यथा हि विषयैर्मूढा नावगच्छन्ति यद्‍द्विषः॥१२॥



तस्मात् प्रमादं विषवत् कथयन्ति मनीषिणः।

सुखं न दृश्यते पूर्व प्रमादोमन्दबुद्धिभिः॥१३॥



(यथा) प्रमादोपकृताः प्रयान्ति नरकं पुनः।

फले प्राप्ते प्रमादोऽयं पश्चात् सन्तप्यते व्यथा॥१४॥



प्रमादोऽनर्थकरः

सर्वानर्थकरो दृष्टः प्रमादः पण्डितैः नरैः।

तथा च कुशलं प्रायो यः प्रमादं न सेवते॥१५॥



दुःखं यस्य भवेदिष्टं स प्रमादं निषेवताम्।

न प्रमादपरः कश्चित् कदाचित् सुखमाप्नुयात्॥१६॥



प्रमादशून्यानामच्युतपदप्राप्तिः

प्रमादविरताः सन्तो गच्छन्ति पदमच्युतम्।

ना प्रमादपरः कश्चिन्नरके दुःखितान्नयेत्॥१७॥



यदि देवाः सहन्तीमं रमन्ते मन्दमेधसः।

तिरश्चां हि सुराणां च विशेषो नैव विद्यते॥१८॥



प्रमादवशात् देवलोकाद् पतन्ति

प्रत्येकं कर्मवैचित्र्यं प्रमादपरमाः सुराः।

नावगच्छन्ति पतनं देवलोकाद् भविष्यति॥१९॥



सन्निकृष्टं सदा दुःखं पतनं वा भविष्यति।

देवलोकोत्तरा देवा यथा स्यात् सुखमात्मनः॥२०॥



देवलोकं समासाद्य यः प्रमादेषु रक्षते।

स क्षीणशुभकर्मान्तं च्यवनान्ते विबुध्यते॥२१॥



मा प्रमादपरोभूयाः प्रमादो नोचितः सुरैः।

प्रमादैर्दोषविहताश्च्यवन्ति त्रिदशालयात्॥२२॥



प्रमादवशगः पुरुषः नाशमेति

दह्यते पुरुषः सर्वः प्रमादेन विमोहितः।

स पश्चाद् विगते तस्मिन् प्रत्यादेशेन रक्ष्यते॥२३॥



दोषोद्भवामिमां भूमिं प्रमादावृत्तशाद्वलम्।

विचरन्ति सदा मूढाः सुराः सत्कृतमोहिताः॥२४॥



चञ्चला विषमास्तीव्रा प्रमादाः कामहेतवः।

न तेषां विश्वसेद् वीरो यस्मात् स्वप्नोपमा हि ते॥२५॥



कामः नारकस्य हेतुरिति

न स्वप्नो नरके हेतुः कामाः स्वप्नस्य हेतुकाः।

तस्मात् काममिमं मुक्त्वा नित्यं सुचरितं चरेत्॥२६॥



अप्रमादात्सर्व प्राप्तुं शक्नोति

यत्रावाप्तं पदं कृत्स्नं सुरैः कामविमोहितैः।

तत् प्राप्यते पदं वीरैरप्रमादपरैर्नरैः॥२७॥



प्रमादमूलसंसारः

प्रमादमूलसंसारो देवानामालयस्तथा।

ये प्रमादविषैर्मत्तास्ते मग्ना भवसङ्कटे॥२८॥



तमः प्रमादमूलञ्च अविद्या हयपकारिका।

अन्धकारेण ये मूढास्तेषां चक्षुर्न विद्यते॥२९॥



प्रमादः मोहात्मकः

तेजसा हि तथा मूलैरग्निना न च कथ्यते।

मोहानां प्रवरस्तद्वत् प्रमादः परिकीर्त्यते॥३०॥



प्रमादानलतप्तेन मनसा तद् विचेष्टते।

मुहयन्ते येन ते बालाः प्रयान्ति नरकं पुनः॥३१॥



प्रमादोन्मादितः सुखमेवानुभवति

प्रमादोन्मादिता देवास्त्रिविधा ये चलात्मकाः।

वियोगदुःखं विस्मृत्य संयोगे सुखकांक्षिणः॥३२॥



पतनान्तमेव जीवनम्

उपस्थिते महादुःखे पतनान्ते हि जीविते।

पश्चाद् वहन्ति विरसं पतनान्तं सुखं चलम्॥३३॥



संयोगो विप्रयोगान्तः पतनान्तः सुखं सदा।

जरान्तं यौवनं सर्व कर्मान्तः सर्वदेहिनाम्॥३४॥



संसारः कर्मनाटकसम्बद्धः

शुभाशुभेन बद्धा हि कर्मणा सर्वदेहिनः।

नटवन्नटयन्त्येते गत्यां गत्यां पृथक् पृथक्॥३५॥



कर्मनाटकसम्बद्धः संसारो भ्रमते सदा।

न तत्र विश्वसेद्धीमाननित्या कर्मणां गतिः॥३६॥



प्रमादः परमोदोषः

सर्वपापानि विषवत् प्रमादः परिबर्ज्यताम्।

प्रमादेन तु ये मुक्ता (स्ते) तीर्णास्ति भवार्णवात्॥३७॥



प्रपातपतितो दोषी कदाचिदपि जीवति।

न प्रमादप्रपतितः कदापि सुखवान् भवेत्॥३८॥



प्रमादः परमो दोषः कदाचित् सर्वकर्मसु।

न रात्रौ न दिवा तस्य शुभं भवति कर्हिचित्॥३९॥



यत् सुखं लौकिकं किञ्चिद् यच्च लोकोत्तरं मतम्।

नश्यते तत् प्रमादेन तस्मात् तत् परिवर्जयेत्॥४०॥



अप्रमादोऽमृतपदम्

अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम्।

अप्रमादेन ते देवाः देवानां श्रेष्ठतां गताः॥४१॥



प्रमादमूलः संसारः अप्रमादश्च (सद्) गतिः।

तस्माद् प्रमादविरतः सुखी भवति सर्वदा॥४२॥



दुःखाद् विभेति चेत् प्रमादं परित्यजेत्

इच्छते यत्सुखं नित्यं यश्च दुःखाद् विभेति (वै)।

स (हि) प्रमादाद् विरमेत् प्रमादो विषवन्नृणाम्॥४३॥



प्रमादनिद्राविहता प्रमादविषमोहिताः।

प्रपातं हि प्रपद्यन्ते जनाः शुक्ल कृतात्मकाः॥४४॥



अप्रमादः परं श्रेयः

अप्रमादः परं श्रेयो न प्रमादः कथञ्चनः।

अप्रमादेन सुखिनः प्रमादेन (सु)दुःखिताः॥४५॥



प्रमादमूढाः नरकं व्रजन्ति

प्रमादमूढा हि नरा भूयो मद्येन मोहिता।

धिक् प्रमादविमूढास्ते चरन्ति नरकं पुनः॥४६॥



प्रमादवागुराबद्धा विषयार्णवसंस्थिताः।

तृष्णाविषयसम्बद्धो देवः क्रीडत्यनेकशः॥४७॥



जातमात्रस्य देवस्य तत् क्षणं क्षीयते सुखम्।

न विन्दन्ति विवशाः प्रमादावृत्तचेतसः॥४८॥



प्रमादवशः कामवशगोऽतृप्त एव तिष्ठति

प्रमादोद् भ्रान्तमनसो नित्यं विषयतत्पराः।

अतृप्ताः कामभोगेषु सुखेन सुखिता हि च॥४९॥



कामानलेन सन्दग्धाः विप्रमादेन मोहिताः।

न विन्दन्ति बलं सर्व विनाशान्तं हि जीवितम्॥५०॥



अनेकानि सहस्त्राणि सुराणां नियुतानि च।

कामानलेन सन्दग्धाः प्रमादेन विमोहिताः॥५१॥



प्रमादयुताः पतन्ति

ह्रियते पुरुषः सर्वः प्रमादेन विमोहितः।

स पश्चाद् व्यसने प्राप्ते बुध्यते तस्य तत्फलम्॥५२॥



विषवत् प्राणहृद् दृष्टः प्रमादस्तत्त्वदर्शिभिः।

अग्निवद् दह्यते नित्यं शस्त्रवच्च निकृन्ततिः॥५३॥



मित्रवद् दृश्यते पूर्व पश्चाद् भवति शत्रुवत्।

वहिशः सर्वदेवानां प्रमादः सम्प्रवर्तते॥५४॥



देवासुरमनुष्याणां नागानां च विशेषतः।

प्रमादः कारणं दृष्टं सर्वान्नर्थान् करोति सः॥५५॥



यः प्रमादहतो नित्यं नासौ कल्याणमर्हति।

कल्याणवर्जितः पुरुषो नरकानुपकर्षति॥५६॥



विविधा कृतयस्तिर्यग् प्रमादपरिवञ्चिताः।

मैथुने भोजने चैव येषां बुद्धिः सदारताः॥५७॥



यदा सुचरितं कर्म चान्तीभूतं दिवौकसाम्।

भविष्यति तदाभूयः क्व यास्यन्ति प्रमादिनः॥५८॥



प्रमादवारिणां दुःष्टाः कर्मवायुभिराहताः।

पतन्ति वृक्षवद् देवा गत्यां गत्यां पृथक् पृथक्॥५९॥



सुराणामपि संवेगजनितः शोको जायते

शतशो न हुतश्चैव दिवि जाता दिवौकसः।

न च संवेगजनितो हृदि शोकः प्रजायते॥६०॥



प्रमादकलुषं पीत्वा मोहात्पानं दिवौकसः।

पतन्ति नरकं तीव्रं वह्निना परिवारितम्॥६१॥



सुदुर्लभस्य मानुषस्य जन्मनः साफल्य-वैफल्ये

सुलब्धं मानुषं जन्म ये लब्ध्वा अप्रमादिनः।

कुर्वन्ति सुकृतं कर्म देवलोकोपगामिनः॥६२॥



दुर्लभं मानुषं कर्म लब्ध्वापि ये प्रमादिनः।

ते प्रमादात् परिभ्रान्ताः पतन्ति नरके नराः॥६३॥



मृत्युसमये प्रमादी तपत्येव

प्रमादरतसत्त्वो यः कृपया परिवर्तते।

स पश्चान्मृत्युसमये तप्यते स्वेनचेतसा॥६४॥



प्रमादस्य दाहकत्वम्

न तथा दह्यते वह्निर्न च शस्त्रं विकृन्तति।

पञ्चेन्द्रियसमुद्भूतं प्रमादो दह्यते तथा॥६५॥



सुखरूपं तथा दुःखं मित्ररूपं तथा रिपुः।

प्रमादिनां हि तन्नित्यं तस्मात्तं परिवर्जयेत्॥६६॥



प्रमादतृष्णया मिश्रो रागस्तदनुवर्धकः।

त्रयस्ते रिपवः क्रुष्टाः नाशयन्ति सुखं नृणाम्॥६७॥



ये प्रमादरता नित्यं न च धर्मरता बुधाः।

ते मृत्युसमये प्राप्ते यमदूतैः पराकृताः॥६८॥



विषवत्प्रमादं मत्वा तत्परित्यागिनःधन्या

प्रमादं विषवद् ये तु परिरक्षन्ति पण्डिताः।

ते मृत्युसमये प्राप्ते भवन्ति सुखभागिनः॥६९॥



प्रमादः परमो मृत्युरप्रमादः परं सुखम्।

तस्मात् सुखार्थिनाः नित्यं मा प्रमादे मतिं कृथाः॥७०॥



धात्वायतन सम्मोहः श्रेयसां विध्न

धात्वायतनसम्मोहः श्रेयसां विघ्नकारकः।

सन्यासः सर्वकर्माणां प्रमादः सम्प्रवर्तते॥७१॥



दोषयन्त्रविलग्नाय मायाद्वारस्य दूतकः।

सम्मोहस्याग्रणी पापः प्रमादः सम्प्रवर्तते॥७२॥



प्रमादरताः मृत्युमुखं प्रति गच्छन्ति

ये प्रमादरता बालास्ते मृत्योर्हस्तमास्थिताः।

प्रमादसेवका ये तु ते सर्वे निधनंगता॥७३॥



प्रमादिनो देवा अपि क्षीणपुण्याः भवन्ति

पुण्यक्षयाय देवानां प्रमादेन विहिंसिताः।

पतन्ति सुखसंमूढास्त्राणं तेषां तदा कुतः॥७४॥



सद्धर्माचरणं भूतदयैव

एको धर्मस्तथाश्रेयः कृपया संयतः पृथुः।

क्षान्तिश्चापि सदा युक्ता दया भूतेषु सर्वदा॥७५॥



बलभूता भवन्त्येते मृत्युकाले महाभये।

तस्मात् प्रमादरहितैः सेवनीयाः प्रयत्नतः॥७६॥



विद्याविधिज्ञस्यैव प्राणिनः शान्तिर्जायते

अविद्यावर्तनं श्रेयो विद्याया रक्षणं सदा।

विद्याविधिज्ञो यः (सत्वः) प्रमादस्तस्य शाम्यति।

पुरुषार्थो नियतो (ह्यत्र) यत् प्रमादस्य वर्जनम्॥७७॥



अप्रमादरतस्यैव पुरुषार्थसिद्धिर्भवति

अप्रमादरतस्यैव पुरुषार्थः सतां मतः।

प्रमादो बन्धनं प्रायो मुक्तिस्तस्याप्रमादतः॥७८॥



प्रमादसेवनाद् बन्धनम्

मोक्षबन्धनयोरेतल्लक्षणं स्यात् सतां मतम्

एवं मत्वा सदा देवो यः प्रमादेन रक्षति।

स पश्चान्मृत्युसमये ज्ञास्यते तस्य तत्फलम्॥७९॥



सन्तोष एव निर्वाणसाधनम्

यथा यथा हि सन्तोषः सेव्यते यतिभिः सदा।

तथा तथा हि निर्वाणमनिके तस्य वर्तते॥८०॥



विरागः सर्वकामेषु निर्वाणे च प्रवर्तताम्।

नासौ मारस्य विषयः कदाचित् सम्प्रवर्तते॥८१॥



ज्ञानेनैव दुःखप्रहाणम्

नराणां पश्य मनसो नित्यं व्यापारमेव च।

उद्योगश्च सदाज्ञानं स कथं दुःखमेष्यति॥८२॥



कः बन्धनमुक्तो भवति?

अतीतभयसम्पन्नः प्रत्युत्पन्ने च बुद्धिमान्।

अनागतविधिज्ञो यः स मुक्तः क्लेशबन्धनात्॥८३॥



अप्रमादरतो नित्यमविश्वासे च कातरः।

संज्ञानसेवी विमलो निर्वाणस्यान्तिके स्थितः॥८४॥



महत्सुखं प्रमादेन नश्यति

प्रमादेनापि नश्यन्ति देवाः प्राप्यमहत्सुखम्।

किं पुनर्येन वा मूढाः प्रमादवशसेविनः॥८५॥



मृतः स नरो भवति यः प्रमादविहारवान्।

जीविते च प्रमत्तोऽयं सततं ज्ञानधारणे॥८६॥



प्रमादाप्रमादयोरन्तरम्

अप्रमादप्रमादाभ्यामिदमन्तरमिष्यते।

मृत्युं च वर्जयेद् दोषं प्रमादं दुःखमूलकम्॥८७॥



नित्यं प्रमुदिता देवाः नित्यं प्रमुदिता वयम्।

पक्षिणां च सुराणां च विशेषो नोपलभ्यते॥८८॥



न धर्माचरणं दृष्टं मोक्षचर्या न यात्यसौ।

तथैव यदि देवानां ते गताः पक्षिभिः समा॥८९॥



ये प्रमादविनिर्मुक्ता ये च धर्मरताः सदा।

ते देवाः सत्पथा लोके न प्रमादविहारिणः॥९०॥



यदि क्रीडारता देवाः प्रमादचरिताः सदा।

देवानां च खगानां च विशेषो नोपलभ्यते॥९१॥



धर्मपतितः जात्या न शोभते

कर्मणां तु विशेषेण जातिर्धर्मैर्विशिष्यते।

न धर्मपतितः कश्चिद् जात्या भवति शोभनः॥९२॥



येन निन्दन्ति संसारमिमं सर्वक्षयात्मकम्।

ते सुरापिसमा नित्यं पक्षिभिर्मूढबुद्धिभिः॥९३॥



येषामेवस्थिता बुद्धिरमता धर्मगोचरे।

ते देवाः सम्मत्ता लोके न प्रमादविचारिणः॥९४॥



ये जन्महेतुप्रभवं दुःखं बुध्यन्ति शोभनम्।

ते देवा न तु ये सक्ताः कामेषु हितकारिषु॥९५॥



वियुज्यमाना बहुशो भृत्यस्वजनबान्धवैः।

ये नोद्विजन्ति संसारे ते देवाः पक्षिभिः समाः॥९६॥



मद्यपानाधिकः प्रमादः

मद्यपानाधिको दृष्टः प्रमादस्तत्त्वदर्शिभिः।

जीर्यते मद्यपानं हि प्रमादो नैव जीर्यते॥९७॥



प्रमादमत्तो गतिपञ्चके भ्रमते

प्रमादोपहतोलोको भ्रमते गतिपञ्चके।

तस्मात् प्रमादमत्तो हि सर्वोपायैर्विशिष्यते॥९८॥



प्रमादः मद्यादपि हीनतरः

एकाहं परमं मद्यं प्रमादयति देहिनः।

प्रमादः कल्पकोटिभिर्भ्रमतोऽपि न जीर्यते॥९९॥



ये प्रमादैर्विरहितास्ते गताः पदमव्ययम्।

ये तु प्रमादवशगास्ते भवन्ति खगा नराः॥१००॥



हितार्थिना मनुष्येण प्रमादोवर्ज्य एव हि।

यस्मात् प्रमादवशगाः क्लेशा बुद्धेन देशिताः॥१०१॥



देवानां कृतेऽपि प्रमादो हेय एव

खगा यदि प्रमादेन कुर्वन्ति लघुचेतसः।

कस्माद्देवाः प्रमादं(तं ) न जहंति विशेषतः॥१०२॥



यस्तु दूरात् प्रमादेन भयं नावैति दुर्मतिः।

सोऽवश्यं व्यसने प्राप्ते पश्चात्तापेन दह्यते॥१०३॥



पतनं देवलोकात् ते दानै रक्षन्ति दारुणम्।

तद् विचिन्त्य प्रमादस्ते न संसेव्यः कथञ्चन॥१०४॥



ये प्रमादरता नित्यं न ते सौख्यस्य भागिनः।

प्रमादो दुःखमूलश्च मूलमेकं सुदारुणम्॥१०५॥



पद्मकोटिसहस्त्राणि नियुतान्यर्बुदानि च।

असंख्यानि च देवानां प्रमादेन वितन्विताः॥१०६॥



अप्रमादः परं मित्रं प्रमादश्च शत्रुः

अप्रमादः परं(मित्रं) नित्यं हितकरं नृणाम्।

प्रमादस्तु परं शत्रुस्तस्यन्मित्रपरो भवेत्॥१०७॥



शुभस्यान्तकरो हयेष विषवद् दारुणं परम्।

दुर्गतीनां परं मार्गः प्रमाद इति कथ्यते॥१०८॥



प्रमादेन प्रमत्ता ये विषयैश्चापि रञ्जिताः।

नरास्ते मूढमनसो नित्यं दुःखस्य भोगिनः॥१०९॥



ज्ञानशून्याः भयदुःखमविगण्य पशुभिः समाः भवन्ति

येषां भयं न दुःखं ( च) न च ज्ञानावलोकनम्।

पशुभिस्ते समाविष्टा न पुरा सुखकांक्षिणः॥११०॥



आहारमैथुनरतिः पशूनां हृदि वर्तते।

सा रतिर्यदि देवानां ते गताः पशुभिः समाः॥१११॥



प्रमादः मृत्योः पर्याय एव

क्रीडन्त्यतिशयं ह्येते मृत्योर्गम्ये पुरःस्थिता।

सम्प्राप्ते मृत्युसमये फलं दास्यन्ति (दारुणम् )॥११२॥



विषवत् परिहेयो(ऽयं) सर्वैरपि (सुदुःसहः)।

मृत्योः पर्यायनामैष प्रमादो हृदि देहिनाम्॥११३॥



प्रमादेन हतान् पूर्वं पश्चान्मृत्युः प्रमर्दति।

धर्मजीवितसौख्यानां तमेकांशं प्रकथ्यते॥११४॥



अप्रमाद एव स्वर्गमार्गः

अप्रमाद इति ख्यातः स्वर्गमार्ग प्रदेशकः।

अर्थानथौ समावेतौ पश्चान्मोक्षस्तथैव (च)॥११५॥



अप्रमादः गुणः प्रमाद एव दोषः

अप्रमादः प्रमादश्च गुणदोषसमाविभौ।

तत्रैव मूढमनसो विजानन्ति च देहिनः।११६॥



शत्रुणा सह रक्षन्ति ज्ञाने परिहरन्ति च।

प्रमादविषवृक्षस्य शाखास्तिस्त्रः प्रतिष्ठिताः॥११७॥



जरा व्याधिश्च मृत्युञ्च नित्यं तस्योपरिस्थिताः।

जरादयो न बाध्यन्ते पुरुषं सत्क्रियान्वितम्॥११८॥



अप्रमादी सदा भयनिर्मुक्तः सन् सुखीतिष्ठति

संसारे तिष्ठते धीमानप्रमादरतः सदा।

निकृन्तन्ति सदा दोषा न प्रमादं परिष्वजेत्॥११९॥



सदा भयविनिर्मुक्तः सुखं प्राप्नोत्यनुत्तमम्।

(अ) प्रमादाच्च यत् सौख्यं शाश्वतं स भयं हि तत्॥१२०॥



यत्तु तस्माद् विनिर्मुक्तं तत् सौख्यं ध्रुवमच्युतम्।

शतशो मनुजा (हयत्र) प्रमादेन विमोहिताः॥१२१॥



तथापि नाम वशगास्ते प्रमादे प्रतिष्ठिताः।

चत्वारो हि विपर्यासाः प्रमादस्योपरिस्थिताः॥१२२॥



प्रमादविरहात्तेपि नश्यन्ति लोकशत्रवः।

यदनेकविकल्पोऽयमनेकभयसङ्कटः॥१२३॥



प्रमादरहिताः देवाः सन्तोऽच्युतं सुखमश्नुते

संसारो भ्रमते दुःखे तत् प्रमादस्य चेष्टितम्।

एकः प्रमादविरहात् प्राप्यते सुखमच्युतम्॥१२४॥



प्रमादेन विनश्यन्ति सर्वधर्मा हतास्त्रवाः।

देवानां च प्रमादोऽयमुपर्युपरि वर्तते॥१२५॥



कथं प्रमादसम्मूढाः देवा यास्यन्ति निर्वृतिम्।

तदे(त)त् सौम्यमनसा चिन्तयित्वा विकल्पयेत्॥१२६॥



तथा मे हित मास्थेयं यथा यत् स्यात् (सुखावहम् )।

ये देवा यच्च तत्सौख्यं पश्यन् यदपिकिञ्चन॥१२७॥



संस्कृतस्यैव ध्रुवपदप्राप्तिर्भवति

तत् सर्व (हि) ध्रुवं गत्वा संस्कृतस्यैष सम्भवः।

अवश्यं ते विनश्यन्ति ये भावाः संस्कृताश्चलाः॥१२८॥



प्रमादवशाद् देवा अपि दुःखभागिनः भवन्ति

प्रमादनिरता (देवा)नित्यं दुःखस्य भागिनः।

प्रमादापहतजनो यस्तेषां कुरुते मतिः॥१२९॥



संवियोगे समुत्पन्ने दुःखेन परितप्यते।

विषयेषु सकामेषु तृष्णावनगतेषु च॥१३०॥



तेन ते वञ्चिता देवाः प्रमादवशवर्तिनः।

मूलमेतदनर्थानां यत्प्रमादानुसेवनम्॥१३१॥



प्रमादवर्जनं क्षेमकरम्

तस्यैतद् वर्जनं धन्यं सर्वक्षेमकरं महत्।

सत्वा नैवापन्नसुखा दुःखैश्चापि समन्विताः॥१३२॥



तथा बुद्धिरनुष्ठेया यथा मत्स्या जलानुगाः।

स्वर्गे प्रमादवशगा स्त्रीविधेयाश्च ते सुराः॥१३३॥



प्रमादिनो दुःखभागिनो भवन्ति

ते स्त्रीवह्निविनिर्दग्धा नित्यं दुःखस्य भागिनः।

तस्मात् प्रयत्नशो देवैरङ्गना परिवर्जनम्॥१३४॥



कर्त्तव्यं कामलोलस्य मनसा धृतिवर्धनम्।

कार्याकार्येविमूढस्य धर्माधर्मे तथैव च॥१३५॥



पुरुषस्यात्मभङ्गस्य निर्वाणं दूरमेव तत्।

गुरुताभावतत्त्वज्ञो निपुणो धर्मगोचरः॥१३६॥



धर्मिण एव सुखमाप्नुवन्ति

धर्माकांक्षी फलाकांक्षी तादृशं लभते सुखम्।

निधौतमघकल्माषाः नित्यं धर्मानुवर्तिनः॥१३७॥



प्रमादविमोहिता एव दुःखमाप्नुवन्ति

सुखिनस्ते सदा दृष्टा न प्रमादविहारिणः।

प्रमादापहतः पूर्व प्रमादेन विमोहितः॥१३८॥



मद्येन देवोऽपि प्रमादमेति

देवो वा पुरुषश्चापि न सुखस्यान्तिके हि सः।

मृतः स पुरुषो नित्यं यो मद्येन प्रमाद्यति॥१३९॥



मद्यदोषाधृताः सर्वे भवन्ति नरके नराः।

असंसर्गचरो दोषो मद्यमित्यभिधीयते॥१४०॥



मद्येन मोहिता नित्यं देवाः नरकगामिनः।

असम्भूतेषु रक्षन्ते न सम्भूते कथञ्चनः॥१४१॥



मदात्स्वाकारमलिना देवाः कामैर्विमोहिताः।

कामेन मोहिता देवा मद्येनापि तथैव च॥१४२॥



प्रमादी तत्त्वं न पश्यति

न तत्त्वमत्र पश्यन्ति जात्यन्धा इव सत्पथम्।

प्रमादाकुलितं चित्तं न तत्त्वमनुपश्यति॥१४३॥



प्रमादश्चाग्निवत्तस्मात् परिवर्ज्यः समन्ततः।

प्रमादेन विनश्यन्ति कुशला धर्मयोनयः॥१४४॥



प्रमादविषसेवनं नाशायैव जायते

मार्ग च विषसंस्पृष्टं सर्वथा नैव पश्यति।

दशधर्मा विनश्यन्ति प्रमादविषसेविनाम्॥१४५॥



ध्यानानि चैव चत्वारि प्रणश्यन्ति प्रमादिनः।

अप्रमादं प्रशंसन्ति बुद्धाः कामविवर्जिताः॥१४६॥



अप्रमत्ता जरामुक्ता भवन्ति

प्रमादञ्च जुगुप्सन्ति जरामरणपञ्जरम्।

अप्रमत्ता जरामुक्ता प्रमत्ता दुःखभोगिनः॥१४७॥



प्रमाद एव बन्धनम्।

प्रमादो बन्धनं हयेतद् दुःखितं मन्दबुद्धिनाम्।

अप्रमादेन कुशला देवानां समितिङ्गताः॥१४८॥



तस्मात् ते पतिता भूयो ये प्रमादानुसेविनः।

प्रमत्तपुरुषः सर्व संसारान्नैव मुच्यते॥१४९॥



प्रमादपाशपाशेन येन बद्धा हि देहिनः।

अकार्य कार्यसदृशं कार्य कुर्वन्ति सर्वदा॥१५०॥



अप्रमादिनः कल्याणपरम्परामाप्नुवन्ति

अप्रमादान्नरः सर्व विपरीतं (हि) पश्यति।

न लौकिकेषु कार्येषु कुतो न श्रैयसेषु च॥१५१॥



प्रमादं न प्रशंसन्ति पण्डिता बुद्धिपारगाः।

यथा शुभं परिक्षीणं भविष्यति दिवौकसाम्॥१५२॥



प्रमादफलं हानिकरम्

तदा प्रमादस्य फलं ज्ञास्यन्ति कटुकं हि तत्।

कामसंसक्तमनसां तस्यान्ते सुखसेविनाम्॥१५३॥



भविष्यति सुखं तस्माद् विनिपातोदयो महान्।

विषयाभिमुखेप्सूनां नित्यमाशागतात्मनाम्॥१५४॥



स्त्रीदर्शनसुमत्तानां विनिपातो भविष्यति।

(नित्यं कामान्) निषेवन्ते प्रमादरागसेविनः॥१५५॥



ताः सर्वा मृत्युसमये परित्यक्ष्यन्ति योषितः।

च्यवमानं सुरं सर्वे न कश्चिदनुगच्छति॥१५६॥



मोक्षाभिलाषिणः दुष्कृतं त्यजन्ति

कर्मणा पृष्ठतः सर्व गच्छन्तमनुयाति च।

युक्तं च (हि) सदा सेव्यं वर्जनीयं च दुष्कृतम्॥१५७॥



प्रमादं च मदं जहयात् प्रमाद (वि)रतो भवेत्।

प्रमादो भवमूलोऽयं प्रमादस्तु न शान्तये॥१५८॥



प्रमादाप्रमादौ विचिन्त्य धीरः सुखमेधते

अप्रमादप्रमादाभ्यामिदमुक्तं स्वलक्षणम्।

तद् विचिन्त्य सदा धीरः सुखं सुचरितं चरेत्॥१५९॥



धर्मचारी कदापि दुःखं नाप्नोति

न धर्मचारी पुरुषः कदाचिद् दुःखमृच्छैति।

संसरन्त्यथ संसारे प्राणिनः स्वेन कर्मणा॥१६०॥



प्रमादो विनिपाताय

किमर्थमिहलोकोऽयं प्रमादेन विहन्यते।

प्रमादः श्रेयसां नाशः प्रमादो बन्धनं परम्॥१६१॥



प्रमादो विनिपाताय प्रमादो नरकाय च।

दुःखस्य हेतुरेवैकः प्रमादः परिकीर्तितः॥१६२॥



अप्रमादरतो निर्वाणमधिगच्छति

तस्मात् सुखार्थी पुरुषः प्रमादं परिवर्जयेत्।

यैः प्रमादः परित्यक्तः प्राप्तं तैः पदमच्युतम्॥१६३॥



अप्रमादरतो यो हि निर्वाणस्यैव सोऽन्तिके।

अप्रमादपदं हयेतन्निर्वाणस्याग्रतः पदम्॥१६४॥



प्रमत्तः सदैव दुःखितो भवति

प्रमादो विनिपाताय हेतुरेषः प्रकीर्तितः।

प्रमत्तः पुरुषः सर्वः सोन्माद इव लक्ष्यते॥१६५॥



लघुत्वं याति लोकेऽस्मिन् प्रत्यवायेषु पच्यते।

प्रमत्तः पुरुषः शक्तो विपरीतेषु वर्तते॥१६६॥



हेतौ कर्मविपाके च मृत्यूत्पत्तौ तथैव च।

प्रमादाग्निश्च यं तीक्ष्णो नरकानुपकर्षति।

तस्मान्नरकमोक्षार्थ प्रमादं विनिवर्जयेत्॥१६७॥



ये प्रमादं विनिर्जित्य नित्यं ज्ञानरता नराः।

ते क्लेशबन्धनं छित्वा पदं याताः सुखोदयम्॥१६८॥



कर्मसूत्रैर्निबद्धाश्च चित्तदोलां समाश्रिताः।

भ्रमन्ति विभवे सत्त्वा मा प्रमादेषु रक्षथः॥१६९॥



सुखी भवति दुःखी वै दुःखितश्चापि सुखितः।

भर्तापि तृप्तो भवति मा प्रमादेषु रक्षथः॥१७०॥



माता पिता वा भवति भार्या मातृत्वमेव च।

परिवर्तो महानेषु मा प्रमादेषु रक्षथः॥१७१॥



प्रमादाज्जायते रागो रागाद् द्वेषः प्रपद्यते।

स दोषपथमापन्नो नरकानुपधावति॥१७२॥



प्रज्ञारुढः प्रमादशून्यः सन् शिवं पन्थानमाप्नोति

प्रज्ञा-प्रासादमारोह योगक्षेममनुत्तमम्।

एष पन्थाः शिवः श्रेष्ठो यः प्रमादविवर्जितः।

तेन मार्गेण सततं निर्वाणं यान्ति पण्डिताः॥१७३॥



विरोधो मार्गसम्पत्तौ चित्तसन्तानदूषकः।

आछेत्ता धर्मसेतूनां प्रमादः परिकीर्तितः॥१७४॥



प्रमादोपहताः नाशं यान्ति

स्मृति सन्दूषकं दृष्टं मोक्षाय वृत्तिनाशकः।

दुर्गतीनां परं नेता प्रमादः सम्प्रवर्तते॥१७५॥



अनेक पुरुषः क्षिप्तो नात्मनो विन्दते हितम्।

नावाच्यं न च कार्याणां विन्दतेऽमृतकोपमः॥१७६॥



त एते पशुभिस्तुल्या देवविग्रहधारिणः।

प्रमादोपहता मूढा नृत्यन्ति च हसन्ति च॥१७७॥



उत्पन्नाविच्युताः मार्गात् क्षान्तिं ये नाशयन्ति च।

नृभवार्णवभूता ये ते प्रमादानुधाविनः॥१७८॥



जनकः सर्वदोषाणां बन्धनं पापकर्मणाम्।

प्रमोषः सर्वधर्माणां प्रमादारिः प्रवर्तते॥१७९॥



सर्वेषां शुभकर्माणां प्रमादः शत्रुरेव

नाध्यात्मिकानि कर्माणि न बाहयानि कथञ्चन।

प्रमादोपहतो जन्तुर्जानीते नष्टमासनः॥१८०॥



क्रीडायां व्यग्रमनसो नृत्यगान्धर्वलालसाः।

अतृष्णार्विषयैर्दिव्यैर्नक्ष्यन्ति विबुधालयाः॥१८१॥



भयस्थाने हसन्त्येते प्रमादेन विमोहिताः।

मार्गामार्ग न विन्दन्ति जात्यन्धेन सुराः समाः॥१८२॥



कामधातावेव प्रमत्ताः भ्रमन्ति

कामधातौ भ्रमन्येते चक्रवद्गति पञ्चके।

ध्यानेभ्यो यद्धि पतनं तत् प्रमादस्य चेष्टितम्॥१८३॥



प्रमादचेष्टितं कर्मपतनाय जायते

आरूप्येभ्यश्च यत्स्थानं चतुर्थं प्राप्यलौकिकात्।

भ्रमन्ति भ्रमदोलायां तत् प्रमादस्य चेष्टितम्॥ १८४॥



प्रमादबन्धनैर्बद्धं तृष्णापाशैश्च यन्त्रितम्।

त्रैधातुकमिदं कृत्स्नं न च बुद्धयन्त्य चेतसः॥१८५॥



यत् प्रयान्ति धर्मस्थानं तृष्णाभयदर्शिताः।

न भूयः खेदमायाति तत् प्रमादस्य चेष्टितम्॥१८६॥



प्रमादवशात् दुःखमेवाप्नोति जनः

प्रियविश्लेषजं नृणां यद्‍दुःखं हृदि जायते।

सेवनाद् यत् प्रमादस्य कथयन्ति तथागता॥१८७॥



अनर्था हि त्रयो लोके यैरिदं नश्यते जगत्।

व्याधिर्जरा च मृत्युश्च प्रमादालस्य सम्भवाः॥१८८॥



प्ररोहन्ति यथा भूमौ सवौषधितृणादयः।

तथा प्रमादिनां क्लेषाः प्रवर्तन्ते पृथग्विधाः॥१८९॥



प्रमादस्य विषाङ्कुरः

स्त्रीश्लेषो मद्यपानं च क्रीडा च विषयैः सह।

चापल्यमयकौसीद्यं प्रमादस्य विषाङ्कुरः॥१९०॥



प्रमादाप्रमादयोर्लक्षणम्

प्रमादः परमं दुःखप्रमादः परं सुखम्।

समासाल्लक्षणं प्रोक्तमप्रमादप्रमादयोः॥१९१॥



अतः प्रमादो न सेव्यः

तस्मात् प्रमादो न नरेण सेव्यः,

स दुर्गतीनां प्रथमाग्रमेव।

विहाय तं दुःखसहस्त्रयोनिं,

प्रयान्ति बुद्धा भवपारग्रयम्॥१९२॥



॥इति अप्रमादवर्गः षष्ठः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project