Digital Sanskrit Buddhist Canon

५. अनित्यतावर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 anityatāvargaḥ

(५) अनित्यतावर्गः



सुखं क्षयान्तम्



क्षयान्तं हि सुखं सर्व न सुखं विद्यते ध्रुवम्।

संसृजेन्न सुखं तस्मात् यदीच्छेत् सुखमात्मनः॥१॥



मृत्युः सर्वानपि आकर्षति



गच्छतां तिष्ठतां चैव हसतां क्रीडतामपि।

अविसह्यो महावेगो मृत्युर्नश्यति दारुणः॥२॥

न तत्स्थ मिहामुत्र यत्रासौ प्रतिपद्यते।

तथापि नाम संमूढा जनयित्वा वशंगतः॥३॥

(न बालं न युवानं वा) न स्थविरमेव वा।

गृहस्थमगृहस्थं वा यदाऽसौ नापकर्षति॥४॥

सुखितं दुःखितं वापि गुणवन्तं तथैव च।

व्रतस्थमव्रतस्थं वा यदाऽसौ नापकर्षति॥५॥

दुःशीलं शीलवन्तं च (दानिनं च तथोत्तमम् )।

राजानं चोत्तमं चापि यदाऽसौ नापकर्षति॥६॥

दैवं वा नारकं वापि तिर्यञ्च प्रतजं तथा।

प्रमत्तमप्रमत्तं वा यदाऽसौ नापकर्षति॥७॥

कामधातूपपन्नं वा रूपधातौ स्थितञ्च यः।

आरुप्यधातूपपन्नं वा यदाऽसौ नापकर्षति॥८॥

कर्मपाशो जरादण्डो व्याधिदण्डो महावनम्।

रक्तोपमो मृत्युरयं सत्त्वानादाय गच्छति॥९॥

एवंविधे प्रतिभये मृत्यौ परमदारुणे।

(उपस्थिते प्रवर्तन्ते) सुराः कामविमोहिताः॥१०॥



पतनान्तं सर्वसुखं सन्त्यजेत्

यद् दुःखं च्यवमानस्य देवलोकात् सुरस्य च।

नरके यद्भवं दुःखं विप्रयोगपुरःसरम्॥११॥



विषमाक्षिकसंयुक्तं यथान्नं चापि (शोभनम्)।

(ततो) देवगतं सौख्यं पतनान्तं विसर्जयेत्॥१२॥



क्षीणपुण्यस्य दीनस्य स्वदारैर्वर्जितस्य च।

यद् दुःखं च्यवमानस्य तस्यौपम्यं न विद्यते॥१३॥



सुकृतक्षीणमन्दस्य द्विपस्येव गतत्त्विषः।

शाम्यति देवस्य यद्‍दुःखं महद्‍दुःखं प्रजायते॥१४॥



देवस्यापि च्यवनम्

तृष्णाविषयवृद्धस्य शोकोपहतचेतसः।

मन्दवाग्देहचेष्टस्य देवस्य च्यवनाद् भयम्॥१५॥



दुःखस्य विषयतरत्वम्

यथा यथा सुखास्वादाः कामा परमवञ्चकाः।

(तथा) तथा भवत्येव तेषां दुःखं महत्तरम्॥१६॥



यतमानस्य यद् दुःखं देवलोकान् प्रजायते।

तस्यान्तरेण नरकं कलां नार्हति षोडशीम्॥१७॥



च्यवनान्तं देवलोकं मरणान्तं तदा भुवि।

दृष्ट्वा दुःखं ( भवत्येव श्रेयसे क्रियतां मनः)॥१८॥



सौख्यं पतनान्तम्

पतनान्तं सदा सौख्यं नास्ति लोकस्य नित्यजाः।

तद् बुद्ध्वा कारणं सर्व श्रेयसे क्रियतां मनः॥१९॥



सर्व दुःखान्तम्

सर्वे क्षयान्ता निचया पतनान्ता समुच्छ्रयाः।

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥२०॥



जातस्य मरणं नित्यं न तस्यास्तीति नित्यता।

न भूतारावितानेन त्रिषु धातुषु दृश्यते॥२१॥



गर्भमेके विनश्यन्ति तथैके सूतिकागृहे।

परिसर्पणकाश्चैके तथैव ( च विनश्वराः)॥२२॥



मरणं ध्रुवम्

उदयास्तं च गमनं भास्करस्य प्रदृश्यते।

तथा जातस्य सर्वस्य स्थितं मरणमग्रतः॥२३॥



सर्व सुखं क्षयान्तम्

क्षयान्तं हि सुखं सर्व यो न विन्दति मोहधीः।

स पश्चान्मरणे प्राप्ते (दुःखाय जनिभाग्भवेत् )॥२४॥



कुशलं कार्य- (करणं कुशली च) प्रियः सदा।

सुखं हि धर्माचरणं कथयन्ति मनीषिणः॥२५॥



अनित्यमध्रुवं सर्व परिणामे कटुः सदा।

संसारः कथितो बुद्धेर्हेतुस्तत्त्वविचारणे॥२६॥



देवाः सुखप्रमत्ता ये तेषां सुखमशाश्वतम्।

च्यवमानस्य च यद्‍दुःखं देवलोकात् सुरस्य हि॥२७॥



तस्योपमानं नैवास्ति नरकान्नरकं हि तत्।

किमेते नावबुध्यन्ते पतनान्तं सदा सुखम्॥२८॥



अजरामरवल्लोकं पश्यन्ति सुखमोहिताः।

च्युत्युपपत्तिमल्लोकः संख्या तस्य न विद्यते।

न चोद्विजन्ति पुरुषास्तृष्णया परिवञ्चिताः॥२९॥



अभियाति सदा जन्म त्वरितं याति यौवनम्।

संयोगो विप्रयोगश्च सहजः परिदृश्यते।

विमूढा नानुपश्यन्ति विषयैः परिवञ्चिताः॥३०॥



तृष्णाविवशा देवाः च्यवन्ति



च्यवन्ति देवाः विवशास्तृष्णया परिमोहिताः।

सा भूमिस्तानि पद्मानि वनानि विविधानि च॥३१॥



सर्वपदार्थानामापातरमणीयत्वम्

शिखराग्राणि रम्याणि रत्नवन्ति महान्ति च।

सरांसि नद्यो विविधा रत्नपाषाणभूषिताः॥३२॥



वृक्षा विचित्रकुसुमाः पङ्‍क्तिभिर्विविधैः स्थिताः।

हर्म्याग्राणि च रम्याणि रत्नवन्ति महान्ति च॥३३॥



कल्पवृक्षा हेममया केचिद्वैदूर्य निर्मलाः।

राजतास्तपनीयाश्च विमिश्रा वररोहिणः॥३४॥



भ्रमरैरूपगीताश्च विभान्ति कमलाकराः।

विभूषणानि रम्याणि देवार्हाणि च सर्वतः॥३५॥



सर्व क्षणिकम्

सर्वमेतत् तथैवास्ति जनस्तु परिवर्तते।

मायाबुद्‍बुदफेनाभं गन्धर्वनगरोपमम्॥३६॥



सुखं सर्वस्य देवस्य तृष्णया वञ्चितस्य हि।

स विनाश्य जनं सर्व भ्रामयित्वा भवार्णवे॥३७॥



तृष्णैव दुःखमूलम्

तृष्णा विषाग्निसदृशा लोकानामत्र तिष्ठति।

अवितृप्ता कामभोगैरपि तप्ता सुखोद्भवा॥३८॥



कालानलेन निर्दग्धा क्व ते देवगणाः गताः।

सर्वथाधिगता येयं तृष्णा लोकवितन्विनी॥३९॥



यया विमोहिता देवाः कालस्य वशमागताः।

देवासुरा नरा यक्षा नरके यान्ति जङ्गमाः॥४०॥



कालपाशयोजितं त्रैधातुकमिदम्

गच्छन्ति विवशाः सर्वे कालपाशं दुरासदम्।

त्रैधातुकमिदं सर्व कालपाशेन योजितम्॥४१॥



तृष्णाविमोहिताः मरणं न पश्यन्ति

न च पश्यन्ति विवशास्तृष्णामोहेन मोहिताः।

अनेन हि यथा देवाः शतशोऽथ सहस्त्रशः ॥४२॥



गताः कालाग्निनिर्दग्धा विषयैर्धनसंभवैः।

परस्य दृश्यते मरणमात्मनो नैव दृश्यते॥४३॥



पश्चात्ते व्यसने प्राप्ते विन्दन्ते दुःखमात्मनः।

प्रमादकलुषं चेतो विषयाभिरतं सदा॥४४॥



न विन्दन्ति ध्रुवं मृत्युं देहिनां सहजस्थितम्।

सुखोत्तरमनाशस्य प्रमादाभिरतस्य च॥४५॥



मृत्युसैन्यमुपैतीदं प्रमाथि विषसन्निभम्।

न मन्त्रौषधकर्माणि न देवा नासुरास्तथा॥४६॥



कालपाशबद्धस्य न कोऽपि त्राता

कालपाशेन बद्धस्य त्रातारो न भवन्ति ते।

रजसा गुण्ठितं वक्त्रं आत्मनो नैव विन्दति॥४७॥



तृष्णाया हेयत्वे हेतुः

प्राप्तेश्च्यवनभूतोऽयं मृत्युः पश्चाद् भविष्यति।

लोलुपस्य सदा यत्नैरवितृप्तस्य तृष्णया॥४८॥



सहसाऽभ्येति मरणं यन्नदृष्टं सुखार्थिनाम्।

अयं तवाग्रहो दुःखं मृत्युना प्रेषितो महान्॥४९॥



अस्मादनन्तरं मृत्युर्भविष्यति सुदारुणः।

महागिरिवरादस्मात् वनोपवनभूषितात्॥५०॥



बद्धानरा विषयगा स्वकर्मफलभोगिनः।

क्रीडाविहारिणस्तावत् क्वचित् तृष्णासुखं न हि।

तर्ष्यया तृष्णया मूढाः पतन्ति विवशा भुवि॥५१॥



धूमस्यानन्तरं वह्निर्यथा भवति नित्यशः।

तथा च्यवनलिङ्गस्य पृष्ठतश्च्यवनं स्थितम्॥५२॥



जात्या जात्या ध्रुवं मृत्युश्चारोग्ये सति रुक् स्थिता।

सम्पत्तौ व्यसनप्राप्तियौवने सहजा जरा।

सर्वैः प्रियैर्वियोगश्च न संयोगो ध्रुवं स्थितः॥५३॥



धर्मतायाः महत्त्वम्

धर्मतेयं सदालोके सम्यग्बुद्धेन देशिता।

उभयस्य क्षयो नाशो जनस्यो परिवर्तते॥५४॥



जातौ सत्यां यथा मृत्युरवश्यं स्थित एव हि।

क्षीयते सुकृतं कर्म आयूंषि क्षणिकानि हि॥५५॥



संवरादिकं भजध्वम्

संवर धर्मविनये भजध्वं पुरुषोत्तमाः।

अभ्येति यौवनं सर्वं जीवितं चानुगच्छति॥५६॥



सर्वस्य नाशशालित्वम्

नश्यन्ति सर्वदा सर्वा मा प्रमादे मनःकृथा।

न नित्यं लभ्यते स्वर्गो न नित्यं क्षणसम्पदा॥५७॥



यस्य यावन्नाभिपतनं तावत् क्षिप्रं (प्र)युज्यताम्।

(तस्य जाते हि पतने तत् प्रयोगो वृथा भवेत् )॥५८॥



अयं स हि द्रुमवनो नानारत्नविभूषितः।

लतागह्वरसंच्छन्नः पद्माकरविभूषितः॥५९॥



जाम्बूनदमयैश्शुद्धैः प्रासादैः रत्नचित्रितैः।

नानाविधैः प्रस्त्रवणैर्लताभिरुपशोभितः॥६०॥



कर्मसाक्षीजनस्यास्य भित्वा गगनमुच्छ्रितः।

कल्पाग्निविरतो मेरुः सर्वथा न भविष्यति॥६१॥



किं पुनर्ये सुरास्तत्र फेनबुद्‍बुदसन्निभाः।

उत्पद्‍यन्ते विनश्यन्ति प्रमादमदमोहिताः॥६२॥



सुखदुःखमनन्तं च स्वेच्छाकामफलोद्‍भवम्।

देवलोकाद् यथा देवाः पतन्ति नरके पुनः॥६३॥



तद् दुःखं परमं कटु

शरीरमानसैदुःखैर्विद्‍यमानेषु सर्वतः।

न तच्छक्यं प्रमत्ते स्यात् तद्‍दुःखं परमं कटु॥६४॥



वियोगदुःखं दुःखनामग्रतः परिपठ्यते।

तच्चदेवगतौ नित्यमग्रतः सम्प्रवर्तते॥६५॥



सर्वप्रियैर्मनापैश्च विप्रयोगो भविष्यति।

न च देवाः प्रपश्यध्वं मरणान्तं हि जीवितम्॥६६॥



च्युतिकाले तु सम्प्राप्ते विह्वलेन्द्रियचेतसा।

जानीध्वं तत्परं दुःखं यदवश्यं भविष्यति॥६७॥



सर्वं क्षणिकम्

अकालचक्रप्रतिमं गन्धर्वनगरोपमम्।

त्रिभवे संभवं सर्व फेनबुद्‍बुदसन्निभम्॥६८॥



यः फेनराशौ संमूढः कुर्याच्छादनसंस्तरम्।

स मूढः संस्कृते कुर्यादभिस्वादं भ्रमात्मकम्॥६९॥



मृत्युमहिमा

न देवा न नरा यक्षा नासुरा गरुडास्तथा।

त्रायन्ते मृत्युसमये कर्मणा परितप्यताम्॥७०॥



यावन्नायाति समये मृत्युराजः सुदारुणः।

तावत्तु सुकृतं कार्य मा पश्चात् परितप्यथ॥७१॥



यद्‍भूतकामजं सौख्यं प्राकृतं विषयोद्भवम्।

मृत्युकाले समुत्पन्ने तिष्ठन्ति न बुधर्षमा॥७२॥



किं करिष्यन्ति सौख्यानि किं स्त्रियः किञ्चबान्धवाः।

मृत्युना ह्रियमाणस्य देवलोकात् समन्ततः॥७३॥



स्थिरास्ता भूमयः सर्वा वनोपवनभूषिताः।

मृत्युरज्ज्वा विबद्धश्च त्वन्तु कालेन नीयसे॥७४॥



आकाशे जलदा यद्‍वद वायुना समुदीरिताः।

संश्लिष्टाश्च वियुज्यन्ते संसारे प्राणिनस्तथा॥७५॥



ऋतौ ऋतौ यथा पुष्पमागतैर्दृश्यते नरैः।

व्यतीते तु ऋतौ सर्वे प्रतियान्ति यथागताः॥७६॥



यथा काले समुत्पन्ने मोदन्ते सुकृतैः सुराः।

व्यतीते तु शुभे काले प्रतियान्ति यथागताः॥७७॥



ऋतौ ऋतौ यथा वृक्षे पर्णजायतेऽनेकशः।

व्यतीते तु शुभे काले शीर्यते तत् समन्ततः॥७८॥



यथा पर्णोपमादेतन्न सौख्यमभयं भवे।

शीर्यते सततं सौख्यं नासौख्यं विद्यते ध्रुवम्॥७९॥



प्राबृट्काले यथा वर्षमाकाशे न निवर्तते।

तथा सौख्यमिदं सर्व गच्छति न निवर्तते॥८०॥



बर्हिणां च यथा नादो वायुना समुदीरितः।

श्रूयते तत्प्रणाशाय तथा सौख्यमिदं स्मृतम्॥८१॥



यथा हि ज्वलने क्षिप्तं ध्रुवं कालं प्रदहयते।

तथा वहन्युपमः कालः काष्ठवच्चरतां स्मृतः॥८२॥



आगताश्च गताश्चैके शतशोऽथ सहस्त्रशः।

संवेगो न भवत्येषा तृष्णया मोहितास्तथा॥८३॥



यथा यथा महासौख्यं स्वयं भोगो यथा यथा।

तथा तथा महद् दुःखं पतनान्तोद्भवं ध्रुवम्॥८४॥



जात्यादि दुःखपरम्परा

जातिर्दुःखा जरा दुःखा मरणं दुःखमेव च।

प्रियैश्च सह विश्लेषो दुःखस्यैषा परम्परा॥८५॥



मृत्युना न बिभेत्

एकस्य पतनं दृष्ट्वा कथं नोद्विजते जनः।

ममापि पतनं ह्येतत् सर्वपापैर्भविष्यति॥८६॥



यः पश्यति भयं दूरात् प्रतिपत्तौ च वर्तते।

(स)म्प्राप्ते मृत्युसमये न विभेति गतव्यथः॥८७॥



विभुज्यमानो दौनैश्च मृत्युः स्वजनबान्धवैः।

यद्‍दुःखं मृत्युसमये तन्न शक्यं प्रभाषितुम्॥८८॥



पतनान्तं हि मरणं पतमानो यथा गिरिः।

निष्प्रत्यनीकं बलवत् पुरुषानपकर्षति।

संश्लिष्यते महावेगः सम्प्रहारी च सर्वदा॥८९॥



तं ज्ञात्वा मा प्रमादेषु स्तुबध्वं देवसत्तमाः।

संश्लेषयति विश्लेषं यौवने च सदा जरा॥९०॥



जीविते च सदा मृत्युः पदमेतत् सदा स्थितम्।

अनित्येनाऽग्निनाऽवश्यं दग्धब्यो यत्र गोचरः॥९१॥



कल्पान्ते किं पुनर्देवा ये फेनकदलीसमाः।

न तदस्ति भवेत् किञ्चिद् यद् ज्ञानं संस्कृतं चलम्॥९२॥



यन्नित्यं (च) सुखं वा स्यादेतत्स्थानं न विद्यते।

उपस्थितमिव ज्ञेयं मरणं सर्वजन्तुभिः॥९३॥



यस्मात् तस्य प्रतीकारः सर्वोपायैर्न शक्यते।

रूपं क्षणिकमेतेषां वयोऽपि क्षणिकं तथा॥९४॥



क्षीयते च तथा सौख्यं न च बुद्धयन्त्यमेधसः।

यदा तत् सर्वमेतेषामनेकं शुभलक्षणम्॥९५॥



जन्मतः कालचक्रेण परिपाटया विनाशितम्।

तथैवैतत् पुरा नष्टमनेकशतलक्षणम्॥९६॥



तथैतदपि जन्मैषां मृत्युराजो हरिष्यति।

प्रमादमनसां ह्येषां नित्यं सुखविहारिणाम्॥९७॥



निधनाय कालपाशोऽयमभ्येति सुखनाशकः।

सुखारोग्यबलप्राणप्रियविश्लेषकारकः॥९८॥



बलवन्मृत्युराजोऽसौ समीपमुपसर्पति।

यः समीपगतो ह्येषां प्रमत्तानामनेकशः॥९९॥



सुखनाशः सुनिश्चितः

जीवितं सह सौख्येन त्वरितं नाशयिष्यति।

दीर्घकालमिदं ध्वस्तं प्रमादापहताः सुराः॥१००॥



नावबुद्धयन्ति मोहान्धाः सौख्येन प्रतिबोधिताः।

यदा हीनप्रभाह्येते विह्वलेन्द्रियचेतसः॥१०१॥



यमलोकं पतिष्यन्ति तदा ज्ञानस्य तत्फलम्।

जीयते बत कालोऽयं क्षणिकं च यथा सुखम्॥१०२॥



तथापि रक्तमनसो नावबुद्धयन्त्यचक्षुषः।

रम्याद् रम्यतरं यान्ति नित्यं सुखविहारिणः॥१०३॥



प्रयास्यन्ति यथा हयेते मृत्युराजो हरिष्यति।

जरा जातिविपत्तीनां यो न मूढो विषीदति॥१०४॥



स पश्चात् मृत्युसमये तप्यते (हीनचेतसा)।

सुखं देवेषु सम्प्राप्य (तदेतद्) गुणसम्मतम्॥१०५॥



कृतहुतं विनाशान्तं क्षणिकं जीवितं चलम्।

यथा हि यद् विनाशान्तं तथैषामपि जीवितम्॥१०६॥



अचिरेणापि कालेन भविष्यति न संशयः।

यावन्नायाति मरणं यावद् बुद्धिरनाविला॥१०७॥



मनसा धर्मरतिः कार्या

तावद्धर्मरतं धार्य मनोबलेन धीमता।

सर्वजीवितनाशाय सर्वसौख्यक्षयाय च॥१०८॥



प्रियवियोगः निश्चितः

सर्वप्रियवियोगाय मृत्युराश्रयमेति च।

तस्मिन्नाप्ते महाध्याने मृत्युः परमदारुणः॥१०९॥



नान्यत् त्राणमृते धर्मात् तस्माद् धर्मरतो भवेत्।

उपपन्नस्य देवस्य या प्रीतिरुपपद्यते॥११०॥



नासौ च्यवनदुःखस्य कलामर्हति षोडशीम्।

मृत्युकाले समुत्पन्ने न कश्चित् कस्यचित् तथा॥१११॥



सर्वस्य नाशत्वम्

न च गच्छन्तिमप्येकं पदमेकं हि गच्छति।

यदा जातं तदारम्य नरो मृत्युपरायणः॥११२॥



नानामोहपरीतस्तु भयमेतन्न विद्यते।

यदा ते च्यवनं प्राप्ते भवभोगकरं परम्॥११३॥



तदा विन्दति मूढात्मा यद् भयं मृत्युजं महत्।

विषयोरगसन्दष्टा तृष्णा विषविमोहिता॥११४॥



न विन्दन्ति सदा देवाश्च्यवनान्ते महद् भयम्।

च्यवन्ति च तथा दुःखमुत्पादयन्ति देहिनाम्॥११५॥



यथोपपत्तिश्च्यवनं देवानां सम्प्रजायते।

कर्मवायुसमुद्‍भ्रान्तं प्रयोगेण च दुःखितम्॥११६॥



पुरुषं नयते मृत्युरवशं (सुखवञ्चितम् )।

न मातरो न पितरो न मित्राणि न बान्धवाः॥११७॥



सहायतां व्रजन्तीयं पुरुषं कालचोदितम्।

असहायो जनश्चायं जनः प्रकृतिवञ्चितः॥११८॥



मन एव पाशबन्धनम्

केवलं तु मनःपाशैर्बन्धनैर्बध्यते जनः।

न जनः स्वजनश्चेह त्राता भवति कस्यचित॥११९॥



गृहीत इव केशेषु मृत्युना धर्ममाचरेत्

मृत्युकाले समुत्पन्ने स्वजनोऽपि यथा जनः।

यस्त्वं पश्यसि देवानां सुखमेतन्महोदयम्॥१२०॥



तत् प्रसह्यमहादेवो मृत्युराजो हरिष्यति।

त्वरितं याति जन्मेदं न च विन्दति बालिशः॥१२१॥



पश्चात्तु व्यसने प्राप्ते प्रतिविन्दन्ति दुःखिनः।

यदि दुःखाद्भयं त्वरितं यदि मृत्युभयश्च यः॥१२२॥



धर्मे हि क्रियतां बुद्धिरेवं सुखमवाप्स्यथ।

विनाशान्तं सदा सौख्यमनित्यं सर्वतश्चलम्॥१२३॥



देवत्वं पतनान्तम्

सर्वदेवकृतं सौख्यं न च विन्दन्ति मोहिताः।

अभूत्वा च च्यवन्त्येते भूत्वाऽवश्यं हि चञ्चलाः॥१२४॥



देवाः पतनभावाय धर्मतेयं व्यवस्थिता।

प्रमत्ताः कामभोगेषु ये देवाश्चलमानसाः॥१२५॥



न पश्यन्ति सुरास्तीव्रं व्यसनान्तं हि जीवितम्।

यदैव जायते देवस्तदैव मरणाय सः॥१२६॥



श्रेयसे मतिः कर्त्तव्या

दिवसान्ते यथा रात्रिरवश्यं प्रतिपद्यते।

दिवसं जीवितं प्रोक्तं रात्रिः स्थान्मरणोपमा॥१२७॥



तस्मात् तदुभयं ज्ञात्वा श्रेयसे क्रियतां मनः।

तदेतदर्थ नृणां हि स्त्रीरागवशवर्तिनाम्॥१२८॥



तदिष्टं मृत्युसैन्येन प्रसहयमवमर्दितम्।

भावाभावादिभिर्मूढान् वञ्चयित्वा स्त्रियो नरान्॥१२९॥



प्रयान्ति मृत्युसमये स्वकर्मफलभोगिनः।

पद्मोपवनशैलेषु नदीनां निर्झरेषु च॥१३०॥



बहुशः क्रीडनं कृत्वा कूपायाऽभिगताः प्रियाः।

अवश्यम्भावि मरणमवश्यं च वियोगिता॥१३१॥



तथापि नाम पुरुषा नित्यं रागवशानुगाः।

सुखितं दुःखितं वा(पि) जीर्णमन्यत्र यौवनम्॥१३२॥



मृत्युराजोऽवमर्दति

दुष्कुलीनं कुलीनं वा मृत्युराजोऽवमर्दति।

सुरूपं वा विरूपं वा बलवन्तं तथाऽबलम्॥१३३॥



सनाथं नष्टनाथं वा मृत्युराजोऽवमर्दति।

राजानं वा तथा मृत्युः गृहिणं वा तथा यतिम्॥१३४॥



क्रूरं वा मृदुकं वापि मृत्युराजोऽवमर्दति।

निर्धनं वा दरिद्रं वा सगुणं निर्गुणं तथा॥१३५॥



स्त्रियं वा पुरुषं वापि मृत्युराजोऽवमर्दति।

प्रवासिनं गृहस्थं वा जले वापि स्थलेस्थितम्॥१३६॥



स्थितं वा गिरिशृङ्गेषु मृत्युराजोऽवमर्दति।

जागरन्तं तथा सुप्तं भुञ्जानं वा तथा स्थितम्॥१३७॥



प्रमाथी सर्वलोकस्य मृत्युराजोऽवमर्दति।

भूमिस्थं (वा) विमानस्थं विदेशस्थं तथा गृहे॥१३८॥



क्रकचः कालचक्रोऽयं मृत्युराजोऽवमर्दति।

भाग्यवन्तं तथा धन्य निस्त्रिशं (चैव) धर्मिकम्॥१३९॥



रोगिणं स्वस्थदेहं वा मृत्युराजोऽवमर्दति।

चण्डं सुशीलिनं चापि कदर्य धनिनं तथा॥१४०॥



प्रमत्तमप्रमत्तं वा मृत्युराजोऽवमर्दति।

नारकेयं तथा प्रेतं तिर्यञ्चो मनुजं तथा॥१४१॥



अनिवृत्तबलोत्साहो मृत्युराजोऽवमर्दति।

कामधातौ च ये देवा रूपधातौ च ये स्थिताः॥१४२॥



तान् सर्वान् हि प्रतिबलान् मृत्युराजोऽवमर्दति।

आरूप्येषु च ये देवाः समापत्तिनिवेशकाः।

तान् सर्वानपि वै देवान् मृत्युराजोऽवमर्दति॥१४३॥



सर्व विनाशान्तम्

यद् जातं संस्कृतं किञ्चिद् तद् विनाशान्तमेव हि।

तन्नास्ति संस्कृतं किञ्चिद् यस्य नाशो च विद्यते।

मृत्योर्बलमिदं ज्ञात्वा कामदोषं च सर्वतः॥१४४॥



तृष्णया वञ्चनं चापि विरमध्वं भवार्णवात्।

तदैतद् व्यसनं मत्वा मृत्योरपि चलाचलम्॥१४५॥



सुदान्तं क्रियतां चित्तम्

सुदान्तं क्रियतां चित्तं येनेदं भ्राम्यते जगत्।

वनोपवनशैलेभ्यो विमानेभ्यश्च सर्वतः॥१४६॥



सर्वदेवाः पचिष्यन्ति कालाग्निविनिपातिताः।

प्रमादमनसो मूढा भूयो विषयजिहिमताः॥१४७॥



तृष्णापाशेन सम्बद्धा देवाः यास्यन्ति दुर्गतिम्।

रभसं जीवितं सौख्यं प्रयाति खलु देहिनाम्॥१४८॥



न च विन्दन्ति विबुधा जात्यन्धा इव सत्पथम्।

जलबुद्‍बुदसंकाशं जीवितं सर्वदेहिनाम्॥१४९॥



नदीतरङ्गचपलं यौवनं व्यतिवर्तते।

अनित्या (हि)कटाक्षेक्षाप्रदुःखास्तुषिताः सुराः॥१५०॥



रागस्य हेयत्वम्

निर्वायत्यवशो दीनो दीपः स्नेहक्षयादिव।

कर्मक्षयपरिक्षिप्तो द्वादशारो महाबलः॥१५१॥



धर्मचक्रो भवत्येष निपाती स्यान्न चञ्चलः।

विचित्रविषयारम्या अनेकसुखमण्डिताः॥१५२॥



कालग्रासाः सर्वे भवन्ति

तुषिताः पतन्ति विवशाः कालस्य वशमागताः।

कालस्य वशमापन्ना यथा रोहन्ति पादपाः॥१५३॥



ते पुनः कालमासाद्य भवन्ति विगतत्विषः।

यथा कालं समापद्य भवन्ति सुखिताः सुराः॥१५४॥



पुनस्तमैव संसृत्य पतन्ति विवशा हि ते।

कर्मकालं समासाद्य लोकोऽयं परिवर्तते॥१५५॥



सुखं व्रजति दुःखं हि कालस्य वशमागतः।

यद्‍वृत्तं प्राक्‍शुभं कर्म तच्च दुष्टमहोदयम्॥१५६॥



तदिदं भुञ्जते स्वर्गं क्षीयते च ततः पुनः।

सहेतुकस्य सर्वस्य क्षणिकस्य विशेषतः॥१५७॥



अनित्यतापरामर्शो नासौ भवति सर्वतः।

ये भावाः संस्कृता नित्याः सर्वे ते विप्रलोभिनः॥१५८॥



विप्रलोभ्य जनं याति धर्मतेयं व्यवस्थिता।

शीघ्रस्रोता यथा नद्यस्तथा सौख्यं शरीरिणाम्॥१५९॥



क्षणिकं जीवितं सर्व न च विन्दन्ति बालिशाः।

जरा व्याधिश्च मृत्युश्च विपत्तिः कर्मसंक्षये॥१६०॥



भवन्त्येतानि देवानां नित्यानां कामचारिणाम्।

नायुर्ध्रुवं भवत्येव न सौख्यं त्रिषु धातुषु॥१६१॥



न (च) विन्दन्ति विवशा देवाः कामेन मोहिताः।

वर्षधारा यथाऽऽकाशे दुःस्था भवति सर्वतः॥१६२॥



तथा सौख्यमिदं सर्व वर्षधारोपमं सदा।

वायुना पांसवो यान्ति अन्योन्य परिघट्टिताः॥१६३॥



भ्राम्यते गगने ऽवश्यस्तथा श्लेषः शरीरिणाम्।

सुचिरमपि संरम्यं नित्यता नास्ति देहिनाम्॥१६४॥



अचिन्त्यार्थे सौख्यमिदं न च विन्दन्ति बालिशाः।

वातेरितं तु यत् सौख्यं विनाशान्तं भविष्यति॥१६५॥



सुखस्य दुःखमिश्रितत्वम्

विनाशं नैव बुध्यन्ति कामिनश्चित्तवञ्चिताः।

दुःखमिश्रं सुखमिदं प्रच्छन्नमिव विद्यते॥१६६॥



पद्ममालापरिच्छिन्नो विषपूर्णो यथा घटः।

ओदनं विषसम्मिश्रं मरणान्तं (हि) तत् तथा॥१६७॥



तथा सौख्यमिदं सर्व तस्मात् तत् परिवर्जयेत्।

आदौ मध्ये तथा चान्ते नरकाय भविष्यति॥१६८॥



उत्पादस्थितिभङ्गानि सर्वाणि वस्तूनि

उत्पादस्थितभ्ङ्गान्तं सर्व संस्कृतमुच्यते।

सर्व च संस्कृतं सौख्यं ननु भट्टारमेव तत्॥१६९॥



भट्टारञ्च विलासश्च (सु)व्ययक्षणिकं तथा।

सुखं च जीवितं सर्व तस्मात् तत् परिवर्जयेत्॥१७०॥



आदौ मध्ये तथा चान्ते श्रेयस्येव मनः सदा।

सुदान्तः शुद्धचितस्य मृत्युकाले न सीदति॥१७१॥



मरणस्यावश्यम्भावित्वम्

अवश्यम्भावि मरणं प्रियस्य च वियोगता।

न च चिन्तयतः काले विषये विप्रलोभिनः॥१७२॥



जरामरणचक्रं तमविषह्यं सुदारुणम्।

पादपान् देवगान् सत्त्वान् न च बुद्धयन्त्यचक्षुषः॥१७३॥



सर्वस्य जातस्य च्यवनं भवति

च्यवमानस्य देवस्य विकलेन्द्रियचेतसः।

यद् दुःखं सुकरं तस्य नौपम्यमिह विद्यते॥१७४॥



यथा यथा महत् सौख्यं तृष्णोपहतचेतसः।

तथा तथा महद् दुःखं च्यवमानस्य दुःसहम्॥१७५॥



कृत्वा हि संस्कृतं कर्म न ज्ञात्वा कर्मणः स्थितिः।

मृत्युकाले समुत्पन्ने पश्चात्तापेन दहयते॥१७६॥



मृत्योः पूर्वमेव स्वहितमाधेयम्

यावन्नाप्येति मरणं यावच्च क्षणसम्पदः।

तावत् स्वहितमाधेयमेष मार्गः सुखावहः॥१७७॥



च्यवनं देवलोकेषु मरणं नरभूमिषु।

विदित्वा कः पुमान् आस्थां कुर्यात्सोपद्रवे भवे॥१७८॥



सर्व विनाशि

तैलवर्तिप्रणाशेन दीपनाशो यथा ध्रुवम्।

कर्मक्रिया तथा कस्य विनिपातः सुरालयात्।

भित्तिनाशो यथाऽवश्यं चित्तनाशो ध्रुवंस्थितः॥१७९॥



कर्मनाशात्तथा सौख्यमवश्यं विनिपद्यते।

क्षीणपुण्याः निपत्यन्ते देवाः सर्वे सुरालयात्॥१८०॥



अनित्यतैषां सर्वेषां सत्त्वानां विनिपातिका।

मृत्युः पिवति भूतानि जरा पिवति यौवनम्॥१८१॥



व्याधिः पिवति चारोग्यं न च लोकोऽवबुध्यते।

उपपन्नाः सुबहुशः प्रतीताश्चाप्यनेकशः॥१८२॥



जायते जीर्यते चायं च्यवने चोपपद्यते।

न क्षणोऽस्ति मुहूर्तो वा परिवर्तस्तथापि वा॥१८३॥



यत्र मृत्युर्विलम्बेन न च लोकोऽवबुध्यते।

उपपन्नास्तु बहुशः प्रतीताश्चाप्यनेकशः॥१८४॥



यन्न मृत्युविलम्बः स्यान्न च लोकोऽवबुध्यते।

अनित्यं जीवितं सर्व न विलम्बि च यौवनम्॥१८५॥



सर्वभूतान्यनित्यानि न च लोकोऽवबुध्यते।

अन्ते क्रमेण नश्यन्ति भावाः क्षणविलम्विनः॥१८६॥



सम्बद्धाः कर्मसूत्रेण न च लोकोऽवबुध्यते।

देवकोटिसहस्त्राणि वनोपवनसेविनाम्॥१८७॥



निमीलितानि कालेन न च लोकोऽवबुध्यते।

पङ्काभावचरा देवाः प्रमत्ता भोगतृष्णया॥१८८॥



यास्यन्ति विलयं सर्वे न च लोकोऽवबुध्यते।

फेनबुद्‍बुदसङ्काशं स्वप्नद्रव्योपमं सुखम्॥१८९॥



क्षयं प्रयाति शीघ्रं च न च लोकोऽवबुध्यते।

सर्वस्य सर्वथा सर्वो विनाशो नियतो भवे॥१९०॥



न च बालस्य संसारान्निर्वेदमुपपद्यते।

न सर्वः सर्वथा सर्व सर्वोपायैः प्रयत्नशः।

संत्राता भवने प्राप्ते मृत्युकाले सुदारुणे॥१९१॥



मृत्युरित्यभिधीयते

व्युच्छेत्ता सर्वसौख्यानां दुःखनामाकरो महान्।

विश्लेषः सर्वबन्धानां मृत्युरित्यभिधीयते॥१९२॥



भयोपनेता भूतानां दुःखानामुदधिः समः।

व्यामोहकर्त्ता बुद्धीनां मृत्युरित्यभिधीयते॥१९३॥



सञ्छेत्ता जीवितानामिन्द्रियाणां च नाशकः।

अमृश्यः सर्वभूतानां मृत्युरित्यभिधीयते॥१९४॥



अधृष्यः सर्वभूतानामजेयः सर्वकर्मणाम्।

विनाशः सर्वसत्त्वानां मृत्युरित्यभिधीयते॥१९५॥



अवश्यम्भावि तत्त्वानामन्तकं सर्वदेहिनाम्।

निकायभागनाशोऽयं मृत्युरित्यभिधीयते॥१९६॥



सदेव यक्षगन्धर्व-पिशाचोरग-रक्षसाम्।

कालचक्रविनाशी (च) मृत्युरित्यभिधीयते॥१९७॥



असंयमी प्रमाथी च बह्निवत् सर्वदेहिनाम्।

क्रूरश्चाविनिवर्त्त्यश्च मृत्युरित्यभिधीयते॥१९८॥



स्कन्धायतननाशश्च आरुप्यस्याथ चेतसः।

कालधर्मो महावेशो मृत्युरित्यभिधीयते॥१९९॥



श्रेयसे मतिः करणीया न तु प्रमादे

स एव धा(त)वे शीघ्रं विनिपाताय देहिनाम्।

श्रेयसे क्रियतां यत्नो मा प्रमादेः मनः कृथाः॥२००॥



गतं जीवनं नायाति

यथा (हि शीघ्र) गमनं पक्षिणां पवनस्य वा।

तथा शीघ्रतरं याति जीवितं सर्वदेहिनाम्॥२०१॥



गतो निवर्तते वायुर्निवर्तन्ते च पक्षिणः।

जीवितं यन्निरुद्धं तु तस्य नागमनं पुनः॥२०२॥



द्रुतं क्षीयन्ति कर्माणि द्रुतमभ्येति चान्तकः।

अवश्यम्भावि विश्लेषं न च विन्दन्ति देवताः॥२०३॥



अनिर्वायो महावेगश्चतुःसत्यनिवर्हणः।

अवश्यम्भावि बलवानेष मृत्युरुपैति च॥२०४॥



श्रुति प्रमादिनो देवाः सुखेन परिवञ्चिताः।

न विन्दन्ति महद् दुःखं यदवश्यं भविष्यति॥२०५॥



संस्कृतस्य हि सर्वस्य समयस्य विशेषतः।

विनाशो भवति (चा)सौ धर्मतेयं भवे भवे॥२०६॥



जरायौवननाशाय प्राणनाशाय चान्तकः।

विपत्तिभूतनाशाय स्थिता (वै) नाशहेतवः॥२०७॥



एवंविधे महाघोरे व्यसने (वै) महद् भये।

प्रमादिनो हि यद् देवाः नूनमेते च चेतनाः॥२०८॥



अनागतभयं यो हि पश्यति ज्ञानचक्षुषा।

स पण्डित इति ज्ञेयो विपरीतस्तु बालिशः॥२०९॥



कर्मक्षये सुखस्य नाशः

विमूढमनसः सर्वे वञ्चिताः स्वेन चेतसा।

कर्मक्षये तु नश्यन्ति दीपा स्नेहवशादिव॥२१०॥



अनेकविषयाणां च इदं सौख्यमनुत्तमम्।

भुक्त्वा कर्मक्षयो भूत विनिपातो भविष्यति॥२११॥



अनित्यत्वानवगमादधर्मरतिः

जलतरङ्गचपलं जीवितं याति देहिनाम्।

न च बुद्‍बुदनिःसारमवगच्छन्ति बालिशाः॥२१२॥



फेनराशिश्चिरं तिष्ठेद् उपायैः कतिभिर्ननु।

न तु देवाश्चिरं तिष्ठन्त्यनित्यो भावनमिति॥२१३॥



लोभवशादेव मृत्योरुपेक्षा

कृष्यते भूरियं सर्वा मनुजैः फलकांक्षिभिः।

न च संदृश्यते मृत्युर्लाभसक्तैरपण्डितैः॥२१४॥



क्षणे क्षणे विवर्धन्ते लोभाशा मोहिते जने।

न च विन्दन्ति संसाराः क्षीयमाणाः क्षणे क्षणे॥२१५॥



दण्डत्रयमुपसंहरति

जरादण्डोऽयमभ्येति यौवनान्तकरो नृणाम्।

आरोग्यशक्तिनाशाय व्याधिदण्डोऽयमागतः।

दण्डत्रयमिदं घोरं ससुराऽसुरनाशकम्॥२१६॥



अभ्येति न च मूढोऽयं लोकं पश्यति बालिशः।

परस्परं प्रलोभाच्च स्वजनं स्नेहचञ्चलम्॥२१७॥



मोहबद्धाः मृत्युं वियोगं च नावगच्छन्ति

गच्छत्यन्योन्यसंश्लिष्टो मोहबद्धे जने जनः।

पुत्रपौत्रप्रपौत्राणां वशगाश्चापि ये नराः॥२१८॥



कर्मस्कन्धस्य दुःखावहत्वम्

सर्वे तेन भविष्यन्ति त्वं तु सङ्गेन बाध्यसे।

जीवितान्तकरः शत्रुर्न विशङ्को महाबलः॥२१९॥



सोऽविलम्बी महावेगो मृत्युरेषोऽभ्युपैति च।

चलाचलविधिर्ज्ञेयः कर्मस्कन्धैर्निदर्शितः॥२२०॥



देवादीनां क्षयो भवति

देवनागाः (स)गन्धर्वा पिशाचोरगराक्षसाः।

न शक्ताश्च्यवने क्षान्तं बलं तस्य तथागतम्॥२२१॥



तत्त्वदर्शको दुर्गतिं नाधिगच्छति

चलाचलविधिर्ज्ञेयः कर्मणा तत्त्वदर्शकः।

अलिप्तः पापकैर्धर्मैर्न स गच्छति दुर्गतिम्॥२२२॥



इति अनित्यतावर्गः पञ्चमः
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project