Digital Sanskrit Buddhist Canon

४. परिवर्तवर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

4 parivartavargaḥ

(४) परिवर्तवर्गः



कस्य कालः परिवर्तते

कामैरेवावितृष्णस्य तृष्णया तृषितस्य च।

चञ्चलेन्द्रियचित्तस्य कालोऽयं परिवर्तते॥१॥



अनित्यध्येयता यस्य सुखसक्तस्य देहिनः।

स्त्रीदर्शनेन मत्तस्य कालोऽयं परिवर्तते॥२॥



जातिमरणवश्यस्य मोहितस्य च तृष्णया।

बालस्य तु जनस्यास्य कालोऽयं परिवर्तते॥३॥



गतिचारकबद्धस्य उद्वेगवशगस्य च।

प्रमादविषमूढस्य कालोऽयं परिवर्तते॥४॥



औद्धत्यादिप्रसक्तस्य गात्रशोभारतस्य च।

लाभैरतृप्तमनसः कालोऽयं परिवर्तते॥५॥



पञ्चबन्धनबद्धस्य षड्भिर्व्यामोहितस्य च।

त्रैलोक्यविधिमूढस्य कालोऽयं परिवर्तते॥६॥



विनिपातानभिज्ञस्य वितर्कोपहतस्य च।

जनस्य सक्तमनसः कालोऽयं परिवर्तते॥७॥



तत्कालरमणीयेषु परिणामहितेषु च।

कामेषु सक्तमनसः कालोऽयं परिवर्तते॥८॥



पूर्वदुःखानभिज्ञस्य दिव्यसौख्यरतस्य च।

विप्रयोगानभिज्ञस्य कालोऽयं परिवर्तते॥९॥



कर्मजालेन बद्धस्य मनस्येव विचेष्टिनः।

सत्पथात् परिभ्रष्टस्य कालोऽयं परिवर्तते॥१०॥



भवदोषानभिज्ञस्य तृष्णया मूढचेतसः।

मोहान्धकारमग्नस्य कालोऽयं परिवर्तते॥११॥



कामैकपाशबद्धस्य निःसहायस्य देहिनः।

देवीगणविमूढस्यं कालोऽयं परिवर्तते॥१२॥



इन्द्रियाद् व्यपकृष्टस्य सत्पथभ्रामितस्य च।

त्रैधातुकरसज्ञस्य कालोऽयं परिवर्तते॥१३॥



संवरासंवरज्ञस्य व्यापादबहुलस्य च।

नष्टसम्बुद्धमार्गस्य कालोऽयं परिवर्तते॥१४॥



हिताहितवहिर्गस्य कार्याकार्यजडस्य च।

क्रीडाबाल सदृशस्य कालोऽयं परिवर्तते॥१५॥



नदीप्रस्त्रवणोच्चेषु वनोपवनभूमिषु।

(सं)क्रीडातत्परस्यास्य कालोऽयं परिवर्तते॥१६॥



विमानगिरिपृष्ठेषु धर्माकरवनेषु च।

रमतः कामभोगेषु कालोऽयं परिवर्तते॥१७॥



कर्मधर्म विपाकेषु निरासक्तस्य देहिनः।

केवलाहारसक्तस्य कालोऽयं परिवर्तते॥१८॥



शरीरस्थितस्याऽपि शरीरानभिज्ञता

कर्मणायुः परिश्रान्तं त्रैधातुकमिदं सदा।

भ्रमन्ति चक्रवन्नित्यं न च विन्दन्ति बालिशाः॥१९॥



जगतः दोषानभिज्ञता

विनिपातोच्छ्रु यमयं यो नामारोहते जगत्।

न च दोषावधेयत्वं प्रकुर्वन्ति विमोहिताः॥२०॥



धीरस्य कामपरिवर्जनं सौख्यहेतुः

एतत् (तु) परमं सौख्यं यत् कामपरिवर्जनम्।

वीतकांक्षस्य धीरस्य गतशोकस्य तापिनः॥२१॥



मुनीनां चरमपदप्राप्तिफलम्

तदादिमध्यनिधने कल्याणं क्षेममुत्तमम्।

यद् प्राप्यमुनयः श्रान्ताश्चरन्ति विगतज्वराः॥२२॥



दुःखहेतवः कामाः

सत्कामजं भवेत् सौख्यं विनिपातगतं तु तत्।

न हि कामविशेषं च किञ्चिद् दुःखविपाकजम्॥२३॥



तस्मात् कामेषु मतिमान् न लुभ्येत् कथञ्चन।

ते हि संसारदुःखानां हेतुभूताः सुदारुणाः॥२४॥



वनोपवनशैलेषु पद्माकरवनेषु च।

विभ्रान्तास्तृष्णया बालाः पतन्ति सह दैवतैः॥२५॥



शुभकर्मासक्तेः उपदेशः



काञ्चनेषु (च) शैलेषु वैदूर्यशिखरेषु च।

क्षीयते हि शुभं कर्म यतस्व सह दैवतैः॥२६॥



कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च।

चरतस्तैः शुभं क्षीणं यतस्व सह दैवतैः॥२७॥



भूमिभागेषु रम्येषु रत्नाकरवनेषु च।

न शुभं ते सदा चीर्ण यतस्व सह दैवतैः॥२८॥



पञ्चात्मकेन वीर्येण मनःप्रहलादकारिणा।

हतस्य गतकालस्य यतस्व सह दैवतैः॥२९॥



देवानां हितानभिज्ञता

कामं संसक्त मनसैर्नित्यं विषयतत्परैः।

न ज्ञायते हितं देवैर्यदमन्त्राहितं भवेत्॥३०॥



देवनिन्दा

अल्पशिष्टमिदं पुण्यं च्यवनं समुपस्थितम्।

गन्तव्यमन्यत्र सुरैः सुकर्मफलभोजिभिः॥३१॥



ये नित्यं शुभसंसक्ताः कुर्वन्ति वा शुभं सदा।

तेषां विसदृशो हेतुर्मूर्खाणां हि विवर्तते॥३२॥



के मृत्युं प्रतीक्षन्ते

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

शुभशीलतमोऽज्ञानाः सर्वदा न परायणाः॥३३॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

ये न कर्मविपाकस्य ज्ञानं रोषवधे रताः॥३४॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

प्रज्ञापयन्ति न समा स्तृष्णाग्निपरिवारिताः॥३५॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

विप्रयोगकृतं दुःखं ये न पश्यन्ति दारुणम्॥३६॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

स्त्रीजनासक्तहृदया न विन्दन्ति पुनर्भवम्।३७॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

विपत्तिव्याधिशोकेभ्यो नोद्विजन्ति कथञ्चन॥३८॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

ये पापमित्रसंसर्ग प्रकुर्वन्ति महारूषम्॥३९॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

भावितं चेतसा यैर्न न च तत्त्वप्रवेशिता॥४०॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

येन सर्वास्ववस्थासु संसारभयभीरवः॥४१॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

कार्याकार्येषु ये नित्यं न सुभाषितचेतसः॥४२॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

ये न तत्त्वधियो नित्यं सर्वभूतहिते रताः॥४३॥



भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।

ये शरीर सुखार्थेन धर्म हिंसन्ति मोहिताः॥४४॥



पण्डितलक्षणम्

एकान्तमनसा नित्यं शुभं कार्यं प्रयत्नतः।

अशुभं च सदा वर्ज्यमेतत् पण्डितलक्षणम्॥४५॥



विनिपातसाधनानि

क्षयं यातं च यत् शीलं स्पृष्ट्वा यः समुपागतः।

प्रमादावञ्चितोऽवश्यं विनिपातो भविष्यति॥४६॥



विषयिणः परिवर्तनशीलता न तु विषयाणाम्

गता गच्छन्ति यास्यन्ति देवेशाश्चैव सर्वतः।

तिष्ठन्ति शिखरे रम्ये नानारत्नविभूषिते॥४७॥



वैदूर्यशिखरा रम्यास्तथान्ये वनमालिनः।

विषयास्तादृशा एव जनस्तु परिवर्तते॥४८॥



वनोपवनरम्याणि भूमिभागानि सर्वशः।

तिष्ठन्त्यविकलान्येव जनस्तु परिवर्तते॥४९॥



वैदूर्यमयनालानि काञ्चनानि विशेषतः।

पद्माकराणि तान्येव जनस्तु परिवर्तते॥५०॥



सरांसि सरितो रम्याः पक्षिसङ्घैर्निरन्तरम्।

तथैवाविकला ह्येते जनस्तु परिवर्तते॥५१॥



विमानानि रथाश्चैव हर्म्याणि च तथैव च।

तिष्ठन्त्यविकला ह्येते जनस्तु परिवर्तते॥५२॥



परिवर्तनं लोकस्य विषयैर्वञ्चितस्य च।

तथापि नामलोकस्य नोद्वेगो हृदि जायते॥५३॥



अभ्यासेन खरी भूतं चित्तं संसारचारिणम्।

येन मन्ये महद् दुःखं हृदये नैव वर्तते॥५४॥



शूलिकेन यथा बद्धाः पशवो गृहपञ्जरे।

एकैकशो विनश्यन्ति शेषाणां नास्ति सम्भ्रमः॥५५॥



सुखाय कामिनामेव इयं भूमिरवस्थिता।

च्युताश्चैवोपपन्नाश्च तथामी बालिशाः सुराः॥५६॥



विषयोन्मुखानां मरणानभिज्ञत्वम्

प्रमादाय हताः सत्त्वा मृत्युः क्षणिकदुःखदः।

नावबुद्धयन्ति मरणं पशुवद् वीतसम्भ्रमाः॥५७॥



ते पश्चाद् दीर्घमनसः कालस्य वशमागताः।

पश्चात्तापमयो वह्निर्धक्ष्यते निष्प्रतिक्षयः॥५८॥



दारुणं निष्प्रतीकारमवश्यं रूपदेहिनाम्।

मरणं कालवशगं तद् विदित्वाऽऽगमं चरेत्॥५९॥



विप्रयोगान्ताः सर्वे संयोगाः

समागमाः प्रियालोके वियोगाश्चाप्रियाः सदा।

संयोगो विप्रयोगान्तो धर्मतेयं सनातना॥६०॥



क्षणे लवे मुहूर्ते च दिवारात्रौ तथाऽध्वनि।

मरणं चिन्तयेद् धीरस्तस्य नास्ति प्रतिक्रिया॥६१॥



गतकल्मषा एव शान्तिमधिगच्छन्ति

स्मृतिमग्न्यां प्रशंसन्ति येषां मरणसंभवा।

श्रेयसैकपरां शान्ति प्रयान्तिं गतकल्मषाः॥६२॥



मृत्योरर्थमनुस्मृत्य दोषोऽयं कस्य सम्मतः।

निर्दोषं हि मनः सर्वं शान्तं भवति नित्यशः॥६३॥



तथागतैः अप्रमादपरं श्रेष्ठमुक्तम्

अप्रमादपरं श्रेष्ठमिदमुक्तं तथागतैः।

यन्मृत्योः स्मरणं नित्यमशुभानां च वर्जनम्॥६४॥



॥इति परिवर्तवर्गश्चतुर्थः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project