Digital Sanskrit Buddhist Canon

धर्मसंग्रहः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dharmasaṁgrahaḥ

धर्मसंग्रहः।


॥ नमो रत्नत्रयाय॥


रत्नत्रयं नमस्कृत्य सर्वसत्त्वहितोदयम्।

कथ्यते मोहनाशाय धर्मसारसमुच्चयः॥


१. तत्र प्रथमं तावत् त्रीणि रत्नानि। तथद्या- बुद्धो धर्मः संघश्चेति॥



२. त्रीणि यानानि। [तद्यथा-] श्रावकयानम्, प्रत्येकबुद्धयानम्, महायानं चेति॥



३. पञ्च बुद्धाः। तद्यथा-वैरोचनः, अक्षोभ्यः, रत्नसंभवः, अमिताभः, अमोघसिद्धिश्चेति॥



४. चतस्रो देव्यः। तद्यथा- रोचनी, मामकी, पाण्डुरा, तारा चेति॥



५. पञ्च रक्षा। तद्यथा- प्रतिसरा, साहस्रप्रमर्दनी, मारीची, मन्त्रानुसारिणी, शीलवती चेति॥



६. सप्त तथागताः। तद्यथा-विपश्यी, शिखी, विश्वभूः, क्रकुच्छन्दः, कनकमुनिः, काश्यपः, शाक्यमुनिश्चेति॥



७. चत्वारो लोकपालाः। तद्यथा-धृतराष्ट्रः, विरूपाक्षः, विरूढकः, कुबेरश्चेति॥



८. अष्टौ लोकपालाः। तद्यथा-इन्द्रः, यमः, वरणः, कुबेरः, ईशानः, अग्निः, नैरृतः, वायुरिति॥



९. दश लोकपालाः। अष्टलोकपालाधिकमूर्ध्वं ब्रह्मा अधः कृष्णः॥



१०. चतुर्दश लोकपालाः। तद्यथा-दशलोकपालसकलम्, चन्द्रः, सूर्यः, पृथ्वी, असुरः॥



११. दश क्रोधाः। तद्यथा-यमान्तकः, प्रज्ञान्तकः, पद्मान्तकः, विघ्नान्तकः, अचरटर्किराजः, नीलदण्डः, महाबलः, उष्णीषः, चक्रवर्ती, सम्भराजश्चेति॥



१२. अष्टौ बोधिसत्त्वाः। तद्यथा-मैत्रेयः, गगनगञ्जः, समन्तभद्रः, वज्रपाणिः, मञ्जुश्रीः, सर्वनिवरणविष्कम्भी, क्षितिगर्भः, खगर्भश्चेति॥



१३. षड्योगिन्यः। तद्यथा-वज्रवाराही, यामिनी, संचारणी, संत्रासनी, चाण्डिका चेति॥



१४. सप्तविधा अनुत्तरपूजा। तद्यथा-वन्दना, पूजना, पापदेशना, अनुमोदना, अध्येषणा, बोधिचित्तोत्पादः, परिणामना चेति॥



१५. त्रीणि कुशलमूलानि। बोधिचित्तोत्पादः, आशयविशुद्धिः, अहंकारममकारपरित्यागश्चेति॥



१६. चत्वारो ब्रह्मविहाराः। मैत्री, करुणा, मुदिता, उपेक्षा चेति॥



१७. षट् पारमिताः। दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता चेति॥



१८. दश पारमिताः। षट्‍पारमितासकलम्, उपायम्, प्रणिधिः, बलम्, ज्ञानं चेति॥



१९. चत्वारि संग्रहवस्तूनी। दानम्, प्रियवचनम्, अर्थचर्या, समानार्थता चेति॥



२०. पञ्चाभिज्ञाः। दिव्यचक्षुः, दिव्यश्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, ऋद्धिश्चेति॥



२१. चत्वार्यार्यसत्यानि। तद्यथा-दुःखम्, समुदयः, निरोधः मार्गश्चेति॥



२२. पञ्च स्कन्धाः। रूपम्, वेदना, संज्ञा, संस्कारा, विज्ञानं चेति॥



२३. लोकोत्तरपञ्चस्कन्धाः। शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धा इति॥



२४. द्वादशायतनानि। चक्षुःश्रोत्रघ्राणजिह्वाकायमनआयतनानि रूपगन्धशब्दरसस्पर्शधर्मायतनानि चेति॥



२५. अष्टादश धातवः॥ चक्षुःश्रोत्रघ्राणजिह्वाकायमनोरूपगन्धशब्दरसस्पर्शधर्मधातवः चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानमनोविज्ञानघातवश्चेति॥



२६. तत्रैकादश रूपस्कन्धाः॥ चक्षुः, श्रोत्रम्, घ्राणम्, जिह्वा, कायः, रूपम्, शब्दः, गन्धः, रसः, स्पर्शः विज्ञप्तिश्चेति॥



२७. वेदना त्रिविधा। सुखाः, दुःखा, अदुःखासुखा चेति॥



२८. संज्ञास्कन्धः। निमित्तोद्गहणात्मिका॥



२९. संस्कारा द्विविधाः। तत्र चित्तसंप्रयुक्तसंस्काराः, चित्तविप्रयुक्तसंस्काराश्चेति॥



३०. चित्तसंप्रयुक्तसंस्काराश्चत्वारिंशत्। तद्यथा-वेदना, संज्ञा, चेतना, छन्दः, स्पर्शः, मतिः, स्मृतिः, मनस्कारः, अधिमोक्षः, समाधिः, श्रद्धा, अप्रमादः, प्रस्रब्धिः, उपेक्षा, ह्रीः, अपत्रपा, अलोभः, अद्वेषः, अहिंसा, वीर्यम्, मोहः, प्रमादः, कौसीद्यम्, अश्राद्ध्यम्, स्त्यानम्, औद्धत्यम्, अह्रीकता, अनपत्रपा, क्रोधः, उपनाहः, शाठ्यम्, ईर्ष्या, प्रदानः, म्रक्षः, मात्सर्यम्, माया, मदः, विहिंसा, वितर्कः, विचारश्चेति॥



३१. तत्र चित्तविप्रयुक्तसंस्कारास्रयोदश। प्राप्तिः, अप्राप्तिः, सभागता, असंज्ञिकम्, समाप्तिः, जीवितम्, जातिः, जरा, स्थितिः, अनित्यता, नामकायः, पदकायः, व्यञ्जनकायश्चेति॥



३२. त्रीण्यसंस्कृतानि। तद्यथा-आकाशः, प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधश्चेति॥



३३. षड् विषयाः। तद्यथा-रूपम्, शब्दः, गन्धः, रसः, स्पर्शः, धर्मश्चेति॥



३४. तत्र रूपं विषयस्वभावम्। नीलम्, पीतम्, लोहितम्, अवदातम्, हरितम्, दीर्घम्, ह्रस्वम्, परिमण्डलम्, उन्नतम्, अवनतम्, सातम्, विसातम्, अच्छम्, धूमः, रजः, महिका, छाया, आतपः, आलोकः, अन्धकारश्चेति॥



३५. अष्टाविंशतिविधः शब्दः। सप्त पुरुषवाक्‍शब्दाः, सप्त पुरुषहस्तादिशब्दाः। एत एव (मनोज्ञा)मनोज्ञभेदेनाष्टाविंशतिः॥



३६. रसः षड्‍विधः। तद्यथा-मधुरः, अम्लः, लवणः, कटुः, तिक्तः, कषायश्चेति॥



३७. चत्वारो गन्धाः। तद्यथा-सुगन्धः, दुर्गन्धः, समगन्धः, विषमगन्धश्चेति॥



३८. एकादश स्प्रष्टव्यानि। पृथ्वी, आपः, तेजः, वायुः, श्लक्ष्णत्वम्, कर्कशत्वम्, लघुत्वम्, गुरुत्वम्, शीतम्, जिघत्सा पिपासा चेति॥



३९. पञ्च महाभूतानि। पृथ्वी, आपः, तेजः, वायुः, आकाश्चेति॥



४०. पञ्च भौतिकानि। रूपम्, शब्दः, गन्धः, रसः, स्पर्शश्चेति॥



४१. विंशतिः शून्यताः। तद्यथा-अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, लक्षणशून्यता, अलक्षणशून्यता, भावशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, परभावशून्यता चेति॥



४२. द्वादशाङ्गप्रतीत्यसमुत्पादः। अविद्या, संस्काराः, विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शः, वेदना, तृष्णा, उपादानम्, भवः, जातिः, जरामरणम्, शोकपरिदेवदुःखदौर्मनस्योपायासाश्चेति॥



४३. सप्तत्रिंशद्बोधिपाक्षिका धर्माः। चत्वारि स्मृत्युपस्थानानि॥४॥ चत्वारि सम्यक्प्रहाणानि॥८॥ चत्वार ऋद्धिपादाः॥१२॥ पञ्चेन्द्रियाणि॥१७॥ पञ्च बलानि॥२२॥ सप्त बोध्यङ्गानि॥२९॥ आर्याष्टाङ्गिकमार्गश्चेति॥३७॥



४४. तत्र कतमानि स्मृत्युपस्थानानि ? तद्यथा-काये कायानुदर्शस्मृत्युपस्थानम्, वेदनायां वेदनानुदर्शस्मृत्युपस्थानम्, चित्ते चित्तानुदर्शस्मृत्युपस्थानम्, धर्मे धर्मानुदर्शस्मृत्युपस्थानम्॥



४५. कतमानि चत्वारि सम्यक्प्रहाणानि ? तद्यथा-उत्पन्नानां कुशलमूलानां संरक्षणम्। अनुत्पन्नानां समुत्पादः। उत्पन्नानामकुशलानां धर्माणां प्रहाणम्। अनुत्पन्नानां पुनरनुत्पादश्चेति॥



४६. चत्वारः ऋद्धिपादाः। तद्यथा-छन्दसमाधिप्रहाणाय संस्कारसमन्वागत ऋद्धिपादः। एवं चित्तऋद्धिपादः। वीर्यऋद्धिपादः। मीमांसासमाधिप्रहाणाय संस्कारसमन्वागतऋद्धिपादश्चेति॥



४७. पञ्चेन्द्रियाणि। तद्यथा- श्रद्धासमाधिवीर्यस्मृतिप्रज्ञेन्द्रियं चेति॥



४८. पञ्च बलानि। श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलं चेति॥



४९. सप्त बोध्यङ्गानि। तद्यथा-स्मृतिसंबोध्यङ्गम्, धर्मविचयसंबोध्यङ्गम्, वीर्यसंबोध्यङ्गम्, प्रीतिसंबोध्यङ्गम्, प्रस्रब्धिसंबोध्यङ्गम्, समाधिसंबोध्यङ्गम्, उपेक्षासंबोध्यङ्गमिति॥



५०. आर्याष्टाङ्गिकमार्गः॥ सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिश्चेति। एते सप्तत्रिंशब्दोधिपाक्षिका धर्माः॥



५१. चतस्रः प्रतिसंविदः। तद्यथा-धर्मप्रतिसंवित्, अर्थप्रतिसंवित्, निरुक्तिप्रतिसंवित्, प्रतिभानप्रतिसंविच्चेति॥



५२. चतस्रो धारण्यः। तद्यथा-आत्मधारणी, ग्रन्थधारणी, धर्मधारणी, मन्त्रधारणी चेति॥



५३. चत्वारि प्रतिशरणानि। तद्यथा-अर्थप्रतिशरणता न व्यञ्जनप्रतिशरणता। ज्ञानप्रतिशरणता न विज्ञानप्रतिशरणता। नीतार्थप्रतिशरणता न नेयार्थप्रतिशरणता। धर्मप्रतिशरणता न पुद्गलप्रतिशरणता चेति॥



५४. षडनुस्मृतयः। बुद्धानुस्मृतिः, धर्मानुस्मृतिः, संघानुस्मृतिः, त्यागानुस्मृतिः, शीलानुस्मृतिः, देवानुस्मृतिश्चेति॥



५५. चत्वारि धर्मपदानि। तद्यथा-अनित्याः सर्वसंस्काराः। दुःखाः सर्वसंस्काराः। निरात्मानः सर्वसंस्काराः। शान्तं निर्वाणं चेति॥



५६. दशाकुशलानि। तद्यथा-प्राणातिपातः, अदत्तादानम्, काममिथ्याचारः, मृषावादः, पैशुन्यम्, पारुष्यम्, संभिन्नप्रलापः, अभिध्या, व्यापादः, मिथ्यादृष्टिश्चेति॥



५७. गतयः षट्। तद्यथा-नरकः, तिर्यक्, प्रेतः, असुरः, मनुष्यः, देवश्चेति॥



५८. षड् धातवः। पृथ्वी, आपः, तेजः, वायुः, आकाशः, विज्ञानं चेति॥



५९. अष्टौ विमोक्षाः। तद्यथा-रूपी रूपाणी पश्यति शून्यम्। आध्यात्मारूपसंज्ञी बहिर्धारूपाणि पश्यति शून्यम्। आकाशानन्त्यायतनं पश्यति शून्यम्। विज्ञानानन्त्यायतनं पश्यति शून्यम्। आकिंचन्यायतनं पश्यति शून्यम्। नैवसंज्ञानासंज्ञायतनं पश्यति शून्यम्। संज्ञावेदयितनिरोधं पश्यति शून्यं चेति॥



६०. पञ्चानन्तर्याणि। तद्यथा-मातृवधः, पितृवधः अर्हद्वधः, तथागतदुष्टचित्तरुधिरोत्पादः, संघभेदश्चेति॥



६१. अष्टौ लोकधर्माः॥ लाभः, अलाभः, सुखम्, दुःखम्, यशः, अयशः, निन्दा, प्रशंसा चेति॥



६२. नवाङ्गप्रवचनानि। तद्यथा-सूत्रम्, गेयम्, व्याकरणम्, गाथा, उदानम्, जातकम्, वैपुल्यम्, अद्भुतधर्मः, उपदेशश्चेति॥



६३. द्वादश धूतगुणाः। पैण्डपातिकः, त्रैचीवरिकः, खलुपश्चाद्भक्तिकः, नैषद्यिकः, यथासंस्तरिकः, वृक्षमूलिकः, एकासनिकः, आभ्यवकाशिकः, आरण्यकः, श्माशानिकः, पांशूकूलिकः, नामन्तिकश्चेति॥



६४. दश भूमयः। प्रमुदिता, विमला, प्रभाकरी, अर्चिष्मती, सुदुर्जया, अभिमुखी, दूरंगमा, अचला, साधुमती, धर्ममेघा चेति॥



६५. समन्तप्रभा, निरुपमा, ज्ञानवती। एताः सहितास्रयोदश भूमयः॥



६६. पञ्च चक्षूंषी। मांसचक्षुः, धर्मचक्षुः, प्रज्ञाचक्षुः, दिव्यचक्षुः, बुद्धचक्षुश्चेति॥



६७. षट् क्लेशाः। रागः, प्रतिघः, मानः, अविद्या, कुदृष्टिः, विचिकित्सा चेति॥



६८. पञ्च दृष्टयः। सत्कायदृष्टिः, अन्तग्राहदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलपरामर्शः॥



६९. चतुविंशतिरुपक्लेशाः। तद्यथा-क्रोधः, उपनाहः, म्रक्षः, प्रदाशः, ईर्ष्याः, मात्सर्यम्, शाठ्यम्, माया, मदः, विहिंसा, ह्रीः, अनपत्रपा, स्त्यानम्, अश्राद्ध्यम्, कौसीद्यम्, प्रमादः, मुषितस्मृतिः, विक्षेपः, असंप्रजन्यम्, कौकृत्यम्, मिद्धम्, वितर्कः, विचारश्चेति॥



७०. पञ्चाहाराः। ध्यानाहाराः, कवलीकाराहाराः, प्रत्याहाराः, स्पर्शाहाराः, संचेतनिकाहाराश्चेति॥



७१. पञ्च भयानि। आजीविकाभयम्, शोकभयम्, मरणभयम्, दुर्गतिभयम्, पर्षदसाद्यभयं चेति॥



७२. चत्वारि ध्यानानि। तद्यथा-सवितर्कं सविचारं विवेकजं प्रीतिसुखमिति प्रथमध्यानम्। अध्यात्मप्रमोदनात्प्रीतिसुखमिति द्वितीयम्। उपेक्षास्मृतिसंप्रजन्यं सुखमिति तृतीयम्। उपेक्षास्मृतिपरिशुद्धिरदुःखासुखा वेदनेति चतुर्थं ध्यानमिति॥



७३. त्रयो विमोक्षाः। शून्यता, अनिमित्तः, अप्रणिहितश्चेति॥



७४. बोधिसत्त्वानां दश वशिताः। आयुर्वशिता, चित्तवशिता, परिष्कारवशिता, धर्मवशिता, ऋद्धिवशिता, जन्मवशिता, अधिमुक्तिवशिता, प्रणिधानवशिता, कर्मवशिता, ज्ञानवशिता चेति॥



७५. बोधिसत्त्वानां दश बलानि। तद्यथा-अधिमुक्तिबलम्, प्रतिसंख्यानबलम्, भावबलम्, क्षान्तिबलम्, ज्ञानबलम्, प्रहाणबलम्, समाधिबलम्, प्रतिभानबलम्, पुण्यबलम्, प्रतिपत्तिबलं चेति॥



७६. तथागतस्य दश बलानि। तद्यथा-स्थानास्थानज्ञानबलम्, कर्मविपाकज्ञानबलम्, नानाधातुज्ञानबलम्, नानधिमुक्तिज्ञानबलम्, सत्त्वेन्द्रियपरापरज्ञानबलम्, सर्वत्रगामिनीप्रतिपत्तिज्ञानबलम्, ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलम्, पूर्वनिवासानुस्मृतिज्ञानबलम्, च्युत्युत्पत्तिज्ञानबलम्, आस्रवक्षयज्ञानबलं चेति॥



७७. चत्वारि वैशारद्यानि। तद्यथा-अभिसंबोधिवैशारद्यम्, आस्रवक्षयज्ञानवैशारद्यम्, नैर्वाणिकमार्गावतरणवैशारद्यम् [अन्तरायिकधर्मानन्यथात्वनिश्चितव्याकरणवैशारद्यं] चेति॥



७८. पञ्च मात्सर्याणि। धर्ममात्सर्यम्, लाभमात्सर्यम्, आवासमात्सर्यम्, कुशलमात्सर्यम्, वर्णमात्सर्यं चेति॥



७९. अष्टादशावेणिका बुद्धधर्माः। तद्यथा-नास्ति तथागतस्य स्खलितम्। नास्ति रवितम्। नास्ति मुषितस्मृतिता। नास्त्यसमाहितचित्तम्। नास्ति नानात्वसंज्ञा। नास्त्यप्रतिसंख्यायोपेक्षा। नास्ति छन्दपरिहाणिः। नास्ति वीर्यपरिहाणिः। नास्ति स्मृतिपरिहाणिः। नास्ति समाधिपरिहाणिः। नास्ति प्रज्ञापरिहाणिः। नास्ति विमुक्तिपरिहाणिः। नास्ति विमुक्तिज्ञानदर्शनपरिहाणिः। सर्वकायकर्मज्ञानपूर्वगमज्ञानानुपरिवृत्तिः। सर्ववाक्कर्मज्ञानपूर्वंगमज्ञानानुपरिवृत्तिः। सर्वमनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवृत्तिः। अतीतेऽध्वन्यसङ्गमप्रतिहतज्ञानम्। प्रत्युत्पन्नेऽध्वन्यसङ्गमप्रतिहतज्ञानदर्शनं चेति॥



८०. चत्वारो माराः। तद्यथा-स्कन्धमारः, क्लेशमारः, देवपुत्रमारः, मृत्युमारश्चेति॥



८१. चत्वारि श्रद्धाङ्गानि। तद्यथा- आर्यसत्यम्, त्रिरत्नम्, कर्म, कर्मफलं चेति॥



८२. नवानुपूर्वसमाधिसमापत्तयः। तद्यथा-चत्वारि ध्यानानि, चतस्र आरूप्यसमापत्तयः, निरोधसमापत्तिश्चेति॥



८३. द्वात्रिंशल्लक्षणानि। तद्यथा-चक्राङ्कितपाणिपादतलता। सुप्रतिष्ठितपाणिपादतलता। जालाबलबद्धा(वनद्धा ?)ङ्गुलिपाणिपादतलता। मृदुतरुणहस्तपादतलता। सप्तोत्सदता। दीर्घाङ्गुलिता। आयतपार्ष्णिता। ऋजुगात्रता। उत्सङ्गपादता। उर्ध्वाग्ररोमता। ऐणेजयङ्घता। प्रलम्बबाहुता। कोषगतबस्तिगुह्यता। सुवर्णवर्णता। शुक्लच्छविता। प्रदक्षिणावर्तैकरोमता। ऊर्णालंकृतमुखता। सिंहपूर्वान्तकायता। सुसंवृत्तस्कन्धता। चितान्तरांसता। रसरसाग्रता। न्यग्रोधपरिमण्डलता। उष्णीषशिरस्कता। प्रभूतजिव्हता। सिंहहनुता। शुक्लहनुता। समदन्तता। हंसविक्रान्तगामिता। अविरलदन्तता। समचत्वारिंशद्दन्तता। अभिनीलनेत्रता। गोपक्षनेत्रता चेति॥



८४. अशीत्यनुव्यञ्जनानि। तद्यथा-ताम्रनखता। स्रिग्धनखता। तुङ्गनखता। छत्राङ्गुलिता। चित्राङ्गुलिता। अनुपूर्वाङ्गुलिता। गूढशिरता। निग्रन्थिशिरता। गूढगुल्फता। अविषमपादता। सिंहविक्रान्तगामिता। नागविक्रान्तगामिता। हंसविक्रान्तगामिता। वृषभविक्रान्तगामिता। प्रदक्षिणगामिता। चारुगामिता। अवक्रगामिता। वृत्तगात्रता। मृष्टगात्रता। अनुपूर्वगात्रता। शुचिगात्रता। मृदुगात्रता। विशुद्धगात्रता। परिपूर्णव्यञ्जनता। पृथुचारुमण्डलगात्रता। समक्रमता। विशुद्धनेत्रता। सुकुमारगात्रता। अदीनगात्रता। उत्साहगात्रता। गम्भीरकुक्षिता। प्रसन्नगात्रता। सुविभक्ताङ्गप्रत्यङ्गता। वितिमिरशुद्धालोकता। वृत्तकुक्षिता। मृष्टकुक्षिता। अभुग्नकुक्षिता क्षामकुक्षिता। प्रदक्षिणावर्तनाभिता। समन्तप्रासादिकता। शुचिसमुदारता। व्यपगततिलकगात्रता। तूलसदृशसुकुमारपाणिता। स्निग्धपाणिलेखता। गम्भीरपाणिलेखता। आयतपाणिलेखता। नात्यायतवचनता। बिम्बप्रतिबिम्बोष्ठता। मृदुजिव्हता। तनुजिव्हता। रक्तजिह्वता। मेघगर्जितघोषता। मधुरचारुमञ्जुस्वरता। वृत्तदंष्ट्रता। तीक्ष्णंदंष्ट्रता। शूक्लदंष्ट्रता। समदंष्ट्रता। अनुपूर्वदंष्ट्रता। तुङ्गनासता। शुचिनासता। विशालनयनता। चित्रपक्ष्मता। सितासितकमलदलनयनता। आयतभ्रूकता। शुक्लभ्रूकता। सुस्निग्धभ्रूकता। पीनायतभुजलता। समकर्णता। अनुपहतकर्णेन्द्रियता। अविम्लानललाटता। पृथुललाटता। सुपरिपूर्णोत्तमाङ्गता। भ्रमरसदृशकेशता। चित्रकेशता। गुडाकेशता। असंमुणितकेशता। अपरुषकेशता। सुरभिकेशता। श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलता चेति॥



८५. चक्रवर्तिनां सप्त रत्नानि। तद्यथा-चक्ररत्नम्, अश्वरत्नम्, हस्तिरत्नम्, मणिरत्नम्, स्त्रीरत्नम्, खङ्गरत्नम्, परिणायकरत्नं चेति॥



८६. तत्र त्रयोऽध्वानः। तद्यथा-अतीतोऽध्वा, अनागतोऽध्वा, प्रत्युत्पन्नोऽध्वा चेति॥



८७. चत्वारः कल्पाः। तद्यथा-अन्तरकल्पाः, महाकल्पाः, शून्यकल्पाः, सारकल्पाश्चेति॥



८८. चत्वारि युगानि। तद्यथा-कृतयुगम्, त्रेतायुगम्, द्वापरम्, कलियुगं चेति॥



८९. लोकद्वयम्। तद्यथा-सत्त्वलोकः, भाजनलोकश्चेति॥



९०. चत्वारो योनयः। तद्यथा-अण्डजः, संस्वेदजः, जरायुजः, उपपादुकश्चेति॥



९१. पञ्च कषायाः। तद्यथा-क्लेशकषायः, दृष्टिकषायः, सत्त्वकषायः, आयुःकषायः, कल्पकषायश्चेति॥



९२. त्रयः सत्त्वाध्याः। तद्यथा-पूर्वान्तकोटिपरिज्ञायाः, अपरान्तकोटिपरिज्ञायाः, चतुर्मारकोटिपरिज्ञायाश्चेति॥



९३. दश ज्ञानानि। तद्यथा-दुःखज्ञानम्, समुदयज्ञानम्, निरोधज्ञानम्, मार्गज्ञानम्, धर्मज्ञानम्, अन्वयज्ञानम्, संवृतिज्ञानम्, परचित्तज्ञानम्, क्षयज्ञानम्, अनुत्पादज्ञानं चेति॥



९४. पञ्च ज्ञानानि। तद्यथा-आदर्शनज्ञानम्, समताज्ञानम्, प्रत्यवेक्षणाज्ञानम्, कृत्यानुष्ठानज्ञानम्, सुविशुद्धधर्मधातुज्ञानं चेति॥



९५. द्वे सत्ये। तद्यथा-संवृतिसत्यम्, परमार्थसत्यं चेति॥



९६. चतुरार्यसत्येषु षोडश क्षान्तिज्ञानलक्षणाः। तद्यथा-दुःखे धर्मज्ञानक्षान्तिः, दुःखे धर्मज्ञानम्, दुःखेऽन्वयज्ञानक्षान्तिः, दुःखेऽन्वयज्ञानम्। समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम्, समुदयेऽन्वयज्ञानक्षान्तिः, समुदयेऽन्वयज्ञानम्। निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम्, निरोधेऽन्वयज्ञानक्षान्तिः, निरोधेऽन्वयज्ञानम्। मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञानम्, मार्गेऽन्वयज्ञानक्षान्तिः, मार्गेऽन्वयज्ञानं चेति॥



९७. तत्र दुःखसत्ये चत्वार आकाराः। तद्यथा-अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्चेति॥



९८. समुदयसत्ये चत्वार आकाराः। तद्यथा-हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्चेति॥



९९. निरोधसत्ये चत्वार आकाराः। तद्यथा-निरोधतः, शान्ततः, प्रणीततः, निःसरणतश्चेति॥



१००. मार्गसत्ये चत्वार आकाराः। तद्यथा-मार्गतः, न्यायतः, प्रतिपत्तितः, नैर्याणिक(त)श्चेति॥



१०१. चत्वारः समाधयः। तद्यथा-आलोकसमाधिः, वृतासमाधिः, एकादशप्रतिष्ठसमाधिः, आनन्तर्यसमाधिश्चेति॥



१०२. तत्राष्टौ [पुरुष]-पुग्दलाः। तद्यथा-स्रोतआपन्नफलप्रतिपन्नकः, स्रोतआपन्नः, सकृदागामिफलप्रतिपन्नकः, सकृदागामी, अनागामिफलप्रतिपन्नकः, अनागामी, अर्हत्फलप्रतिपन्नकः, अर्हंश्चेति॥



१०३. तथाष्टौ प्रतिपुग्दलाः। तद्यथा-श्रद्धानुसारी, धर्मानुसारी, स्रोतआपन्नः, देवकुलंकुलः, मनुष्यकुलंकुलः, सकृदागामिफलः, श्रद्धविमुक्तिर्दृष्टिप्राप्त एकवीचीकोऽनागाम्यन्तरापरिनिर्वायी उपहत्यपरिनिर्वायी अभिसंस्कारपरिनिर्वायी प्लुतोऽर्द्धप्लुतः सर्वास्तानप्लुतो दृष्टधर्मसमः कायसाक्षी खङ्गश्चेति॥



१०४. [तदनु द्वादशाकरधर्मचक्रप्रवर्तकं(नं) कतमत् ? तद्यथा-इदं दुःखमार्यसत्यमिति भिक्षवः पूर्वमनुश्रुत्य तेषु धर्मेषु योनिशो मनसिंगवतः (?) चक्षुरुदपादि। ज्ञानमुत्पादि चिन्तोत्पादि। चुत्रिरुदपादि। इत्येकपरिचतकः १ इदं दुःखमार्य स तत्र खल्वभिज्ञातं इति भिक्षवः। इत्यादि पूर्ववदितियः॥ इदं दुःखसमुदयमार्यसत्वं तव खल्वभिज्ञाय प्रहीणमिति हित्यादि तृतीयः। तथा इदं दुःखनिरोध आर्यसत्यमिति हिप्रत्येकः॥ इदं दुःखनिरोध‍आर्य्यसत्यं तत्र खल्वभिज्ञाय शाक्षात् कर्तव्यमिति हित्य द्वितीयः। इदं दुःखनिरोध‍आर्यसत्य तत्र खलु भिज्ञाय शाक्षात् द्वितीय। तद्यथा इदं दुःखमार्गगामिनी प्रतिपदार्यसत्येमिति त्येक॥ इदं दुःखमोक्षगामिनि प्रतिप इत्यार्य्यसत्यं तत्र खलु भिज्ञाय भावयितव्यमिति हि भिक्षव इत्यादि तृतीयः। परिवर्त इत्येव द्वादशाकारधर्मचक्रप्रवर्त्तनमिति॥]



Ms. C.

तदनु द्वादशाकारधर्मचक्रप्रवर्तकः। कतमत्। इदं दुःखमार्यसत्यमिति भिक्षवः। पूर्वमनुश्रुत्य तेषु धर्मेषु योनिशो मनसिगवतः चक्षुरुदपादि। ज्ञानमुत्पादि चित्तोत्पादि। चुत्रिरुत्पादि॥ इत्येकपरिवर्तक इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति हि भिक्षवः। पूर्वमनुश्रुय तेषु योनिसो मनसिङ्गर्वुतः॥ इति द्वितीयः॥ इदमार्यसत्यं तत्र खल्वभिज्ञातं इति भिक्षवः। इत्यादि पूर्ववदिति यः॥



इदं दुःखसमुदयमार्यसत्यं तव खल्वभिज्ञाय प्रहीणमिति हीत्यादि तृतीयम्॥



तथा इदं दुःखनिरोध आर्यसत्यमिति हि प्रत्येकः॥ इदं दुःखनिरोध आर्यसत्यं तत्र खल्वभिज्ञाय साक्षात् कर्तव्यमिति हित्यादि। द्वितीयः। इदं दुःखनिरोध आर्यसत्यं तत्र खल्वभिज्ञाय साक्षात् कृतमिति द्वितीयः।



तथा इदं दुःखमार्गगामिनि प्रतिपदार्यसत्यमिति प्रत्येक। इदं दुःखमोक्षगामिनी प्रतिपत्॥ इत्यार्यसत्यं तत्र खल्वभिज्ञाय भातव्यमिति हि भिक्षवः इत्यादि तृतीयः। परिवर्त्त इत्येवं द्वादशाकारधर्मचक्रप्रवर्तनमिति॥ ॥



Restored Text.

तदत्र द्वादशाकारधर्मचक्रप्रवर्तकं (नं ?) कतमत् ? इदं दुःखमार्यसत्यमिति (मे) भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसिकुर्वतः चक्षुरुदपादि ज्ञानमुदपादि विद्योदपादि भूरिरुदपादीत्येकं परिवर्तकम्। इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति हि (मे) भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसिकुर्वत इति द्वितीयम्। इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति भिक्षवः इत्यादि पूर्ववदिति तृतीयम्॥



[तथेदं दुःखसमुदयमार्यसत्यमिति प्रत्येकम्। इदं दुःखसमुदयमार्यसत्यं तत्र खल्वभिज्ञाय प्रहातव्यमिति द्वितीयम्।] इदं दुःखसमुदयमार्यसत्यं तत्र खल्वभिज्ञाय प्रहीणमिति हीत्यादि तृतीयम्।



तथेदं दुःखनिरोधमार्यसत्यमिति हि प्रत्येकम्। इदं दुःखनिरोधमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कर्तव्यमिति हीत्यादि द्वितीयम्। इदं दुःखनिरोधमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कृतमिति तृतीयम्॥



तथेयं दुःखमार्गगामिनी प्रतिपदित्यार्यसत्यमिति प्रत्येकम्। इयं दुःखमोक्षगामिनी प्रतिपदित्यार्यसत्यं तत्र खल्वभिविज्ञाय भावयितव्यमिति हि भिक्षव इत्यादि द्वितीयम्।



[इदं दुःखमोक्षगामिनी प्रतिपदित्यार्यसत्यं तत्र खल्वभिज्ञाय भावितमिति तृतीयम्॥]



१०५. तत्र दानं त्रिविधम्। तद्यथा-धर्मदानम्, आमिषदानम्, मैत्रीदानं चेति॥



१०६. शीलं त्रिविधम्। तद्यथा- संभारशीलम्, कुशलसंग्राहशीलम्, सत्त्वार्थक्रियाशीलं चेति॥



१०७. क्षान्तिस्त्रिविधा। तद्यथा-धर्मनिध्यानक्षान्तिः, दुःखाधिवासनाक्षान्तिः, परोपकारधर्मक्षान्तिश्चेति॥



१०८. वीर्यं त्रिविधम्। तद्यथा-संनाहवीर्यम्, प्रयोगवीर्यम्, पर(रि)निष्ठावीर्यं चेति॥



१०९. ध्यानं त्रिविधम्। तद्यथा-सदोषापकर्षध्यानम्, सुखवैहारिकध्यानम्, अशेषवैभूषितध्यानं चेति॥



११०. प्रज्ञा त्रिविधा। तद्यथा-श्रुतमयी, चिन्तामयी, भावनामयी चेति॥



१११. उपायस्त्रिविधः। तद्यथा-सर्वसत्त्वावबोधकः, सत्त्वार्थाभावकः, क्षिप्रसुखाभिसंबोधिश्चेति॥



११२. प्रणिधानं त्रिविधम्। तद्यथा-सुस्थानप्राबन्धिकम्, सत्त्वार्थप्रबन्धिकम्, बुद्धक्षेत्रपरिशोधकं चेति॥



११३. बलं त्रिविधम्। तद्यथा-कर्मव्यावर्तकम्, क्लेशापकर्षकम्, मानप्रमादादिव्यावर्तकं चेति॥



११४. ज्ञानं त्रिविधम्। तद्यथा-अविकल्पकम्, विकल्पसमभावबोधकम्, सत्यार्थोपायपरोक्षं चेति॥



११५. तत्रावरणे द्वे। तद्यथा-क्लेशवरणम्, ज्ञेयावरणं चेति॥



११६. नैरात्म्यं द्विविधम्। तद्यथा-धर्मनैरात्म्यम्, पुग्दलनैरात्म्यं चेति॥



११७. संभारो द्विविधः। तद्यथा-पुण्यसंभारः, ज्ञानसंभारश्चेति॥



११८. तत्र षट् समाध्यावरणानि। तद्यथा-कौसीद्यम्, मानम्, शाठ्यम्, औद्धत्यम्, अनाभोगः, सत्याभोगश्चेति॥



११९. तत्र प्रतिपत्त्याष्टौ प्रहाणसंस्काराः। तद्यथा-श्रद्धा, बुद्धः(द्धिः), व्यायामः, प्रस्रब्धिः, स्मृतिः, संप्रजन्यम्, चेतना, उपेक्षा चेति॥



१२०. तत्र चत्वारो द्वीपाः। तद्यथा-पूर्वविदेहः, जम्बुद्वीपः, अपरगोदानिः(नीयः), उत्तरकुरुद्वीपश्चेति॥



१२१. अष्टावुष्णनरकाः। तद्यथा-संजीवः, कालसूत्रः, संघातः, रौरवः, महारौरवः, तपनः, प्रतापनः, अवीचिश्चेति॥



१२२. अष्टौ शीतनरकाः। तद्यथा-अर्बुदः, निरर्बुदः, अटटः, अपपः, हाहाधरः, उत्पलः, पद्मः, महापद्मश्चेति॥



१२३. सप्त पातालानि। तद्यथा-धरणीतलः, अचलः, महाचलः, आपः, काञ्चनः, संजीवः, नरकश्चेति।



१२४. द्वौ चक्रवालौ। तद्यथा-चक्रवालमहाचक्रवालौ चेति॥



१२५. अष्टाङ्गपर्वताः। तद्यथा-युगंधरः, ईशाधरः, खदिरकः, सुदर्शनः, विनतकः, अश्वकर्णः, नेमिंधरगिरिः, सुमेरुश्चेति॥



१२६. सप्त सागराः। तद्यथा-क्षारः, क्षीरः, दधि, उदधिः, घृतम्, मधुः, सुरा चेति॥



१२७. तत्र षट् कामावचरा देवाः। तद्यथा-चातुर्महाराजकायिकाः, त्रायस्त्रिंशाः, तुषिताः, यामाः, निर्माणरतयः, परनिर्मितवशवर्तिनश्चेति॥



१२८. अष्टादश रूपावचरा देवाः। तद्यथा-ब्रह्मकायिकाः, ब्रह्मपुरोहिताः, ब्रह्मपार्षद्याः, महाब्रह्माणः, परीत्ताभाः, अप्रमाणाभाः, आभास्वराः, परीत्तशुभाः, शुभकृत्स्नाः, अनभ्रकाः, पुण्यप्रसवाः, बृहत्फलाः, असंज्ञिसत्त्वाः, अवृहाः, अतपाः, सुदृशाः, सुदर्शनाः, अकनिष्ठाश्चेति॥



१२९. चत्वारोऽरूपावचरा देवाः। आकाशानन्त्यायतनोपगाः, विज्ञानानन्त्यायतनोपगाः, आकिंचन्यायतनोपगाः, नैवसंज्ञानासंज्ञायतनोपगाश्चेति॥



१३०. त्रिविधा आलङ्घनाः। तद्यथा-सत्यालङ्घना, धर्मालङ्घना, अनालङ्घना चेति॥



१३१. त्रिविधा महामैत्री। तद्यथा-सत्यालङ्घ(म्ब)ना, धर्मलङ्घ(र्मालम्ब)ना, अनालङ्घ(म्ब)ना चेति॥



१३२. त्रिविधं कर्म। तद्यथा-दृष्टधर्मवेदनीयम्, उत्पद्यवेदनीयम्, अपरवेदनीयं चेति॥



१३३. त्रिविधं प्रातिहार्यम्। तद्यथा-ऋद्धिप्रातिहार्यम्, आदेशनाप्रातिहार्यम्, अनुशासनीप्रातिहार्यं चेति॥



१३४. अष्टावक्षणाः। तद्यथा-नरकोपपत्तिः, तिर्यगुपपत्तिः, यमलोकोपपत्तिः, प्रत्यन्तजनपदोपपत्तिः, दीर्घायुषदेवोपपत्तिः, इन्द्रियविकलता, मिथ्यादृष्टिः, चित्तोत्पादविरागितता चेति॥



१३५. त्रिविधा विकल्पाः। तद्यथा-अनुस्मरणविकल्पः, संतिरन(तीरण)विकल्पः, सहजविकल्पश्चेति॥



१३६. चत्वारः समाधयः। तद्यथा-शूरंगमः, गगनगञ्जः विमलप्रभः, सिंहविक्रीडितश्चेति।



१३७. चतुर्दशाव्याकृतवस्तूनि। तद्यथा-शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्चाशाश्वतश्च, नैव शाश्वतो नाशाश्वतश्च। अन्तवाँल्लोकः, अनन्तवाँल्लोकः, अन्तवांश्चानन्तवाँल्लोकश्च, नैवान्तवान्नानन्तवांश्च। भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्, भवति न च भवति च तथागतः परं मरणात्, नैव भवति न भवति तथागतः परं मरणात्। स जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरं चेति॥



१३८. त्रीणि कुशलमूलानि। तद्यथा-अद्वेषः, अलोभः, अमोहश्चेति॥



१३९. एतद्विपर्ययान्त्रीण्यकुशलमूलानि। तद्यथा-लोभः, मोहः, द्वेषश्चेति॥



१४०. तिस्रः शिक्षाः। तद्यथा-अधिचित्तशिक्षा, अधिशीलशिक्षा, अधिप्रज्ञाशिक्षा चेति॥



इति नागार्जुनपादविरचितोऽयं धर्मसंग्रहः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project